०२४

विश्वास-प्रस्तुतिः

चतुर्विंशोऽध्यायः - 24
श्रीः1
परं ब्रह्म परं दाम परं ज्योतिरनूपमम्।
लक्ष्मीनारायणं ब्रह्म दोषसून्यं निरञ्जनम् ॥ 1 ॥

मूलम्

चतुर्विंशोऽध्यायः - 24
श्रीः1
परं ब्रह्म परं दाम परं ज्योतिरनूपमम्।
लक्ष्मीनारायणं ब्रह्म दोषसून्यं निरञ्जनम् ॥ 1 ॥

विश्वास-प्रस्तुतिः

एकं सर्वमिदं व्याप्य स्थितं सर्वोत्तरं महः2
अहंताहं परा तस्य ब्रह्मणः परमात्मनः ॥ 2 ॥

मूलम्

एकं सर्वमिदं व्याप्य स्थितं सर्वोत्तरं महः2
अहंताहं परा तस्य ब्रह्मणः परमात्मनः ॥ 2 ॥

विश्वास-प्रस्तुतिः

हिताय 3सर्वजीवानामुन्मिषन्ती स्ववाञ्छया।
शब्दब्रह्ममयी भूत्वा मातृकामन्त्रविग्रहा ॥ 3 ॥

मूलम्

हिताय 3सर्वजीवानामुन्मिषन्ती स्ववाञ्छया।
शब्दब्रह्ममयी भूत्वा मातृकामन्त्रविग्रहा ॥ 3 ॥

विश्वास-प्रस्तुतिः

भवामि मन्त्ररूपाहं4 तत्तद्वाच्यानुकारिणी।
प्रथमं ताररूपेण 5यथास्म्येवं समुद्धरेत् ॥ 4 ॥

मूलम्

भवामि मन्त्ररूपाहं4 तत्तद्वाच्यानुकारिणी।
प्रथमं ताररूपेण 5यथास्म्येवं समुद्धरेत् ॥ 4 ॥

विश्वास-प्रस्तुतिः

प्रथमं ध्रुवमादाय ततः कर्णं समुद्धरेत्।
नाभिं समुद्धरेत्पश्चात् त्रयमेकत्र योजयेत् ॥ 5 ॥

मूलम्

प्रथमं ध्रुवमादाय ततः कर्णं समुद्धरेत्।
नाभिं समुद्धरेत्पश्चात् त्रयमेकत्र योजयेत् ॥ 5 ॥

विश्वास-प्रस्तुतिः

ओमित्येतत् समुत्पन्नं प्रथमं ब्रह्मतारकम्।
बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् ॥ 6 ॥

मूलम्

ओमित्येतत् समुत्पन्नं प्रथमं ब्रह्मतारकम्।
बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् ॥ 6 ॥

विश्वास-प्रस्तुतिः

ध्यायेत् संततनादेन तैलधारामिवातताम्।
एतत्तद्वैष्णवं रूपं त्र्यक्षरं ब्रह्म शाश्वतम् ॥ 7 ॥

मूलम्

ध्यायेत् संततनादेन तैलधारामिवातताम्।
एतत्तद्वैष्णवं रूपं त्र्यक्षरं ब्रह्म शाश्वतम् ॥ 7 ॥

विश्वास-प्रस्तुतिः

अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः।
संकर्षणो मकारस्तु वासुदेवस्तु बिन्दुकः ॥ 8 ॥

मूलम्

अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः।
संकर्षणो मकारस्तु वासुदेवस्तु बिन्दुकः ॥ 8 ॥

विश्वास-प्रस्तुतिः

चतुर्णामविभागस्तु नादस्तत्र सुरेश्वर।
नादस्य या परा काष्ठा साहंता परमेश्वरी ॥ 9 ॥

मूलम्

चतुर्णामविभागस्तु नादस्तत्र सुरेश्वर।
नादस्य या परा काष्ठा साहंता परमेश्वरी ॥ 9 ॥

विश्वास-प्रस्तुतिः

शक्तिः सा परमा सूक्ष्मा 6नादान्तगगनाह्वया।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ॥ 10 ॥

मूलम्

शक्तिः सा परमा सूक्ष्मा 6नादान्तगगनाह्वया।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ॥ 10 ॥

टिप्पनी 10

नादान्तेत्यादि। पूर्वोक्तस्य नादस्यान्ते यत् गगनं दहराकाशः, तद्रूपेत्यर्थः। देव्या दहराकाशरूपत्वात् परब्रह्मणस्तन्नियतवसतित्वं श्रूयते—“तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्” इति। श्रीसात्त्वते च—“नादावसानगगने देवोऽनन्तः समन्वितः” (2-69) इति।

विश्वास-प्रस्तुतिः

विरामे सति नादस्य 7यः स्फुटीभवति [^8]स्वयम्।
ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणाह्वयम् ॥ 11 ॥

मूलम्

विरामे सति नादस्य 7यः स्फुटीभवति [^8]स्वयम्।
ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणाह्वयम् ॥ 11 ॥

विश्वास-प्रस्तुतिः

एतत्ते वैष्णवं धाम कथितं पौरुषं परम्।
शान्तमस्यैव यद्रूपं तस्य तत्त्वं निशामय ॥ 12 ॥

मूलम्

एतत्ते वैष्णवं धाम कथितं पौरुषं परम्।
शान्तमस्यैव यद्रूपं तस्य तत्त्वं निशामय ॥ 12 ॥

8विसृष्टिं पूर्वमादाय सूर्यमन्ते नियोजयेत्।
संनिकर्षे परे जाते तदोमित्युदितं महः ॥ 13 ॥

टिप्पनी 13

विसृष्टिः विसर्गः। सूर्यः अंकारः। अः+अं इति स्थिते “अतो रोः” इत्युत्त्वे गुणे पूर्वरूपे च ओमिति भवति।

विश्वास-प्रस्तुतिः

एतत् तत् परमं धाम शाक्तिसंहारलक्षणम्।
स्मर्यमाणं परं तत्त्वं प्रकाशयति यद् ध्रुवम् ॥ 14 ॥

मूलम्

एतत् तत् परमं धाम शाक्तिसंहारलक्षणम्।
स्मर्यमाणं परं तत्त्वं प्रकाशयति यद् ध्रुवम् ॥ 14 ॥

टिप्पनी 14

विसर्गबिन्दुसंयोगरूपत्वात् सृष्टिसंहारलक्षणमित्यर्थः।

विश्वास-प्रस्तुतिः

संहृत्य सर्वसंभारं शुद्धाशुद्धाध्वसंभवम्।
सृष्टौ समुद्यता शक्तिः सूर्ये पुंसि सनातने ॥ 15 ॥

मूलम्

संहृत्य सर्वसंभारं शुद्धाशुद्धाध्वसंभवम्।
सृष्टौ समुद्यता शक्तिः सूर्ये पुंसि सनातने ॥ 15 ॥

टिप्पनी 15

सूर्ये पुंसि; बिन्दुरूपे।

विश्वास-प्रस्तुतिः

परमे भोक्तृरूपे सा विधाय प्रतिसंचरम्।
अग्नीषोममयाद्भावात् स्थूलात्सा प्रतिनिर्गता ॥ 16 ॥

मूलम्

परमे भोक्तृरूपे सा विधाय प्रतिसंचरम्।
अग्नीषोममयाद्भावात् स्थूलात्सा प्रतिनिर्गता ॥ 16 ॥

विश्वास-प्रस्तुतिः

दांपत्यं मध्यमं शश्वद्बिन्दुनादमयं श्रिता।
शक्तिः शान्तात्मकं दिव्यं 9सूक्ष्मदांपत्यमाश्रिता ॥ 17 ॥

मूलम्

दांपत्यं मध्यमं शश्वद्बिन्दुनादमयं श्रिता।
शक्तिः शान्तात्मकं दिव्यं 9सूक्ष्मदांपत्यमाश्रिता ॥ 17 ॥

विश्वास-प्रस्तुतिः

प्रतितिष्ठति सा दिव्ये व्यापके परमात्मनि।
अस्य मात्रा विधानज्ञैः सार्धास्तिस्र उदाहृताः ॥ 18 ॥

मूलम्

प्रतितिष्ठति सा दिव्ये व्यापके परमात्मनि।
अस्य मात्रा विधानज्ञैः सार्धास्तिस्र उदाहृताः ॥ 18 ॥

विश्वास-प्रस्तुतिः

त्रयोऽग्नयस्रयो 10लोकास्त्रयो वेदास्त्रयो गुणाः।
त्रयो देवास्त्रयो व्यूहास्त्रयो वर्णास्त्रयः स्वराः ॥ 19 ॥

मूलम्

त्रयोऽग्नयस्रयो 10लोकास्त्रयो वेदास्त्रयो गुणाः।
त्रयो देवास्त्रयो व्यूहास्त्रयो वर्णास्त्रयः स्वराः ॥ 19 ॥

विश्वास-प्रस्तुतिः

त्रितयं त्रितयं शक्र यत् किंचिज्जगतीगतम्।
तदादि त्रितयं ज्ञेयमर्धमात्रा निरञ्जना ॥ 20 ॥

मूलम्

त्रितयं त्रितयं शक्र यत् किंचिज्जगतीगतम्।
तदादि त्रितयं ज्ञेयमर्धमात्रा निरञ्जना ॥ 20 ॥

टिप्पनी 20

आदि त्रितयमिति। अकारादि त्रयमित्यर्थः। अर्धमात्रा बिन्दुः।

विश्वास-प्रस्तुतिः

सर्वे शब्दा अकारोत्था उकारात्तेजसां त्रयम्।
पृथिव्यादि प्रकृत्यन्तं मकारोत्थं पुरंदर ॥ 21 ॥

मूलम्

सर्वे शब्दा अकारोत्था उकारात्तेजसां त्रयम्।
पृथिव्यादि प्रकृत्यन्तं मकारोत्थं पुरंदर ॥ 21 ॥

टिप्पनी 21

तेजसां त्रयम्; सूर्यसोमाग्निरूपम्।

विश्वास-प्रस्तुतिः

ज्योतिर्मय्यर्धमात्रा सा चिन्मयी परमा कला।
युग्भिः स्वरैः सबिन्द्वन्तैराद्यन्तस्वरषट्‌कयोः ॥ 22 ॥

मूलम्

ज्योतिर्मय्यर्धमात्रा सा चिन्मयी परमा कला।
युग्भिः स्वरैः सबिन्द्वन्तैराद्यन्तस्वरषट्‌कयोः ॥ 22 ॥

टिप्पनी 22

परमा कला; नादः। आदिस्वरषट्‌कम् अकाराद्यूकारान्तम्। अन्तस्वरषट्‌कम् लृकाराद्यौकारान्तम्। तेषु युक्‌स्वराः आ, ई, ऊ, लॄ, ऐ, औ इति। तैः सबिन्दुभि रङ्गन्यासः। उपाङ्गन्यासस्तु सतारैः ज्ञानादिपदैः।

विश्वास-प्रस्तुतिः

ज्ञानादिगुणषट्‌कान्तैरङ्गक्लृप्तिरमुष्य तु।
नाभौ पृष्ठे तथा बाह्वोरूरुजानुपदेषु च ॥ 23 ॥

मूलम्

ज्ञानादिगुणषट्‌कान्तैरङ्गक्लृप्तिरमुष्य तु।
नाभौ पृष्ठे तथा बाह्वोरूरुजानुपदेषु च ॥ 23 ॥

विश्वास-प्रस्तुतिः

तारपूर्वान् गुणान् भूयो विन्यसेत् पाकशासन।
एवं विन्यस्य तन्मन्त्रमङ्गोपाङ्गसमन्वितम् ॥ 24 ॥

मूलम्

तारपूर्वान् गुणान् भूयो विन्यसेत् पाकशासन।
एवं विन्यस्य तन्मन्त्रमङ्गोपाङ्गसमन्वितम् ॥ 24 ॥

विश्वास-प्रस्तुतिः

स्वदेहे गुरुरात्मस्थं चिन्तयेत् पुरुषोत्तमम्।
विश्वादिलयपूर्वं तु यथावत् तन्निबोध मे ॥ 25 ॥

मूलम्

स्वदेहे गुरुरात्मस्थं चिन्तयेत् पुरुषोत्तमम्।
विश्वादिलयपूर्वं तु यथावत् तन्निबोध मे ॥ 25 ॥

विश्वास-प्रस्तुतिः

विश्वं जाग्रत्पदेशानं सर्वेन्द्रियसमीरकम्।
भोक्तारं शब्दपूर्वाणां पञ्चानां विषयात्मनाम् ॥ 26 ॥

मूलम्

विश्वं जाग्रत्पदेशानं सर्वेन्द्रियसमीरकम्।
भोक्तारं शब्दपूर्वाणां पञ्चानां विषयात्मनाम् ॥ 26 ॥

टिप्पनी 26

विश्वेति जाग्रत्पदस्थात्मनाम।

11अनिरुद्धात्मकं 12तं च चिन्तयेत् प्रथमाक्षरम्13
तं सोपकरणं देवमकारे प्रविलाप्य तु ॥ 27 ॥

टिप्पनी 27

अनिरुद्धप्रद्युम्नसंकर्षणवासुदेवलक्ष्मीनारायणाः विश्वतैजसप्राज्ञतुर्यतुर्यातीतसंज्ञकजाग्रदाद्यधिष्ठातारो देवाः।

विश्वास-प्रस्तुतिः

अकारं तैजसे देवे प्रद्युम्ने स्वप्नवर्त्मगे14
अन्तःकरणवृत्तीनां प्रेरके प्रविलापयेत् ॥ 28 ॥

मूलम्

अकारं तैजसे देवे प्रद्युम्ने स्वप्नवर्त्मगे14
अन्तःकरणवृत्तीनां प्रेरके प्रविलापयेत् ॥ 28 ॥

विश्वास-प्रस्तुतिः

तं सोपकरणं देवमुकारे प्रविलापयेत्।
उकारं चेस्वरे प्राज्ञे संकर्षणतनुस्थिते ॥ 29 ॥

मूलम्

तं सोपकरणं देवमुकारे प्रविलापयेत्।
उकारं चेस्वरे प्राज्ञे संकर्षणतनुस्थिते ॥ 29 ॥

विश्वास-प्रस्तुतिः

सुषुप्तिपदगे शश्वत् प्राणादिप्रेरके विभौ।
विलाप्य तं च देवेशं तुर्यसंस्थेऽर्थमात्रके ॥ 30 ॥

मूलम्

सुषुप्तिपदगे शश्वत् प्राणादिप्रेरके विभौ।
विलाप्य तं च देवेशं तुर्यसंस्थेऽर्थमात्रके ॥ 30 ॥

विश्वास-प्रस्तुतिः

ज्ञानानन्दमये देवे वासुदेवे विलापयेत्।
तुर्यातीते च तत्तुर्यं लक्ष्मीनारायणात्मनि ॥ 31 ॥

मूलम्

ज्ञानानन्दमये देवे वासुदेवे विलापयेत्।
तुर्यातीते च तत्तुर्यं लक्ष्मीनारायणात्मनि ॥ 31 ॥

विश्वास-प्रस्तुतिः

प्रविलाप्य स्वयं दिव्यामहंतां वैष्णवीं श्रयेत्।
तन्मयस्तादृशं प्राप्य लयस्थानं ततः क्रमात् ॥ 32 ॥

मूलम्

प्रविलाप्य स्वयं दिव्यामहंतां वैष्णवीं श्रयेत्।
तन्मयस्तादृशं प्राप्य लयस्थानं ततः क्रमात् ॥ 32 ॥

टिप्पनी 32

तन्मयः; अहंतामयः।

विश्वास-प्रस्तुतिः

जागरामवतीर्याथ 15दीक्षितं शिष्यमग्रतः।
सद्गुरुर्मन्मयो भूत्वा तारमध्यापयेत्स्वयम् ॥ 33 ॥

मूलम्

जागरामवतीर्याथ 15दीक्षितं शिष्यमग्रतः।
सद्गुरुर्मन्मयो भूत्वा तारमध्यापयेत्स्वयम् ॥ 33 ॥

टिप्पनी 33

लयस्थानात् सृष्टिस्थानावतरणचिन्तामाह—जागरामिति।

विश्वास-प्रस्तुतिः

साङ्गोपाङ्गक्रमं शश्वत् ससमाधिं सविस्तरम्।
स च दद्यात् स्वमात्मानं दक्षिणां गुरवे धनैः ॥ 34 ॥

मूलम्

साङ्गोपाङ्गक्रमं शश्वत् ससमाधिं सविस्तरम्।
स च दद्यात् स्वमात्मानं दक्षिणां गुरवे धनैः ॥ 34 ॥

16लब्धानुज्ञस्ततः कुर्वन् पौरश्चरणिकं विधिम्।
महानदीतटं गत्वा सिद्धाद्यायतनं तु वा ॥ 35 ॥

टिप्पनी 35

पुरश्चरणं नाम गुरोर्लब्धस्य मन्त्रस्य वीर्यवत्तरत्वसंपादनायानुष्ठेयो जपहोमादिः। तच्च पञ्चाङ्गम्। तथा चोक्तम्—“जपहौमौ तर्पणं चाभिषेको विप्रभोजनम्। पञ्चाङ्गोपासनं लोके पुरश्चरणमुच्यते॥” इति।

विश्वास-प्रस्तुतिः

पालाशं 17वा वनं सम्यक्पर्यन्तादृष्टभूतलम्।
स्नानं त्रिषवणं कुर्वन् ब्रह्मचारी जितेन्द्रियः ॥ 36 ॥

मूलम्

पालाशं 17वा वनं सम्यक्पर्यन्तादृष्टभूतलम्।
स्नानं त्रिषवणं कुर्वन् ब्रह्मचारी जितेन्द्रियः ॥ 36 ॥

विश्वास-प्रस्तुतिः

पयोयावकभैक्षाणामशन्नन्यतमं सकृत्।
कुशोच्चये निषण्णः सन् काशचीरकुशेशयः ॥ 37 ॥

मूलम्

पयोयावकभैक्षाणामशन्नन्यतमं सकृत्।
कुशोच्चये निषण्णः सन् काशचीरकुशेशयः ॥ 37 ॥

विश्वास-प्रस्तुतिः

पालाशं 18धारयेद्दण्डं संवीतः कृष्णचर्मणा।
मच्चित्तो मन्मयो भूत्वा गुर्वादिष्टेन वर्त्मना ॥ 38 ॥

मूलम्

पालाशं 18धारयेद्दण्डं संवीतः कृष्णचर्मणा।
मच्चित्तो मन्मयो भूत्वा गुर्वादिष्टेन वर्त्मना ॥ 38 ॥

19नित्यं योगपरो भूत्वा सम्यग्ज्ञानसमाधिमान्।
दशलक्षं जपेन्मौनी तारं संसारतारकम् ॥ 39 ॥

विश्वास-प्रस्तुतिः

दशांशं जुहुयात् पर्णैः समिद्भिः सर्पिषापि वा।
प्रीता तस्य प्रकाशेऽहमहंता वैष्णवी परा ॥ 40 ॥

मूलम्

दशांशं जुहुयात् पर्णैः समिद्भिः सर्पिषापि वा।
प्रीता तस्य प्रकाशेऽहमहंता वैष्णवी परा ॥ 40 ॥

टिप्पनी 40

दशांशमिति। लक्षकृत्व इत्यर्थः।

विश्वास-प्रस्तुतिः

साधकस्य ततः सम्यक् सद्विवेकिनि चेतसि।
लक्ष्मीनारायणाख्यं तत् सामरस्यं प्रकाशते ॥ 41 ॥

मूलम्

साधकस्य ततः सम्यक् सद्विवेकिनि चेतसि।
लक्ष्मीनारायणाख्यं तत् सामरस्यं प्रकाशते ॥ 41 ॥

विश्वास-प्रस्तुतिः

जीवन्नेव भवेन्मुक्तः पुनीते चक्षुषा जगत्।
सिद्धाः स्युस्तस्य मन्त्रास्ते लौकिका वैदिकाश्च ये ॥ 42 ॥

मूलम्

जीवन्नेव भवेन्मुक्तः पुनीते चक्षुषा जगत्।
सिद्धाः स्युस्तस्य मन्त्रास्ते लौकिका वैदिकाश्च ये ॥ 42 ॥

विश्वास-प्रस्तुतिः

स्नातः सर्वेषु वेदेषु विद्यासु सकलासु च।
सिद्धान्तेषु च सर्वेषु तीर्थेषु च भवेदसौ ॥ 43 ॥

मूलम्

स्नातः सर्वेषु वेदेषु विद्यासु सकलासु च।
सिद्धान्तेषु च सर्वेषु तीर्थेषु च भवेदसौ ॥ 43 ॥

विश्वास-प्रस्तुतिः

प्रयोगाः सर्वमन्त्राणां यावन्तो यादृशाश्च ये।
तावन्तस्तादृशास्तेऽस्य प्रयोगा इति निर्णयः ॥ 44 ॥

मूलम्

प्रयोगाः सर्वमन्त्राणां यावन्तो यादृशाश्च ये।
तावन्तस्तादृशास्तेऽस्य प्रयोगा इति निर्णयः ॥ 44 ॥

विश्वास-प्रस्तुतिः

अस्य व्याहृतयस्तिस्रो वर्णत्रयसमुद्गताः।
पभ्द्यः समुद्गता ह्यस्याः सावित्री सर्वपावनी ॥ 45 ॥

मूलम्

अस्य व्याहृतयस्तिस्रो वर्णत्रयसमुद्गताः।
पभ्द्यः समुद्गता ह्यस्याः सावित्री सर्वपावनी ॥ 45 ॥

विश्वास-प्रस्तुतिः

अस्याः पद्भ्यस्रयो वेदा ऋग्यजुःसामलक्षणाः।
इत्येतन्मयमेवेदं लौकिकं वैदिकं वचः ॥ 46 ॥

मूलम्

अस्याः पद्भ्यस्रयो वेदा ऋग्यजुःसामलक्षणाः।
इत्येतन्मयमेवेदं लौकिकं वैदिकं वचः ॥ 46 ॥

विश्वास-प्रस्तुतिः

यथा न्यग्रोधधानायामन्तर्भूतो महाद्रूमः।
तथेदं वाङ्‌मयं विश्वमस्मिन्नन्तः स्थितं सदा ॥ 47 ॥

मूलम्

यथा न्यग्रोधधानायामन्तर्भूतो महाद्रूमः।
तथेदं वाङ्‌मयं विश्वमस्मिन्नन्तः स्थितं सदा ॥ 47 ॥

टिप्पनी 47

तारस्य समस्तवाङ्‌मयरूपत्वे दृष्टान् उच्यते—यथेति। धाना सूक्ष्मं बीजम्। महाद्रुमस्य बीजे सूक्ष्मतयावस्थानकथनं चात्र सांख्यकत्कार्यवादमनुरुध्य। औपनिषदमते तु धानाया महाद्रुमस्य चोपादानैक्यात् सत्कार्यवाद इति अवस्थाभेदात् कार्यकारणभावव्यवहार इति च भिदा।

विश्वास-प्रस्तुतिः

एतदाद्यं महाबीजं शब्दानां प्रकृतिः परा।
शब्दब्रह्म परं धाम पवित्रं परमं महत् ॥ 48 ॥

मूलम्

एतदाद्यं महाबीजं शब्दानां प्रकृतिः परा।
शब्दब्रह्म परं धाम पवित्रं परमं महत् ॥ 48 ॥

विश्वास-प्रस्तुतिः

ओंकारः प्रणवस्तारो हंसो नारायणो ध्रुवः।
वेदात्मा सर्ववेदादिरादित्यः सर्वपावनः20 ॥ 49 ॥

मूलम्

ओंकारः प्रणवस्तारो हंसो नारायणो ध्रुवः।
वेदात्मा सर्ववेदादिरादित्यः सर्वपावनः20 ॥ 49 ॥

विश्वास-प्रस्तुतिः

मोक्षदो मुक्तिमार्गश्च सर्वसंधारणक्षमः21
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 50 ॥

मूलम्

मोक्षदो मुक्तिमार्गश्च सर्वसंधारणक्षमः21
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 50 ॥

22अधीतानि महापुण्यान्योंकारस्य महात्मनः।
इदं शरणमज्ञानामिदमेव विजानताम् ॥ 51 ॥

विश्वास-प्रस्तुतिः

अयमन्विच्छतां स्वर्गः पोतः पारं तितीर्षताम्।
हकारौकारसंयोगादयं प्रासादसंज्ञकः ॥ 52 ॥

मूलम्

अयमन्विच्छतां स्वर्गः पोतः पारं तितीर्षताम्।
हकारौकारसंयोगादयं प्रासादसंज्ञकः ॥ 52 ॥

विश्वास-प्रस्तुतिः

पिण्डोऽयं सर्वतत्त्वानां पिण्डभूतः सनातनः।
साधनं प्रतिपत्तिश्च विनियोघोऽथ धारणा ॥ 53 ॥

मूलम्

पिण्डोऽयं सर्वतत्त्वानां पिण्डभूतः सनातनः।
साधनं प्रतिपत्तिश्च विनियोघोऽथ धारणा ॥ 53 ॥

विश्वास-प्रस्तुतिः

बीजस्येव सुरेशान प्रासादस्यास्य विद्धि तत्।
अस्यैव संज्ञामन्त्रोऽयं हंसो नाम महामनुः ॥ 54 ॥

मूलम्

बीजस्येव सुरेशान प्रासादस्यास्य विद्धि तत्।
अस्यैव संज्ञामन्त्रोऽयं हंसो नाम महामनुः ॥ 54 ॥

विश्वास-प्रस्तुतिः

भोक्तारं प्रथमं वर्णं विद्धि भोग्यं द्वितीयकम्।
नारायणमयं पूर्वमक्षरं श्रीमयं परम् ॥ 55 ॥

मूलम्

भोक्तारं प्रथमं वर्णं विद्धि भोग्यं द्वितीयकम्।
नारायणमयं पूर्वमक्षरं श्रीमयं परम् ॥ 55 ॥

टिप्पनी 55

प्रथमं वर्णमिति। हकारमित्यर्थः। द्वितीयकमिति। सकारमित्यर्थः।

विश्वास-प्रस्तुतिः

अग्नीषोमात्मकावेतौ वर्णौ विद्धि सनातनौ।
अनयोरन्तरा शक्र बिन्दुधर्मौ व्यवस्थितौ ॥ 56 ॥

मूलम्

अग्नीषोमात्मकावेतौ वर्णौ विद्धि सनातनौ।
अनयोरन्तरा शक्र बिन्दुधर्मौ व्यवस्थितौ ॥ 56 ॥

टिप्पनी 56

बिन्दुधर्मौ सृष्टिसंहारौ।

विश्वास-प्रस्तुतिः

आधारान्मूर्धपर्यन्तं भोक्तारं वर्णमुन्नयेत्।
विसृजेन्मुखतो वर्णं द्वितीयं भोग्यसंज्ञकम् ॥ 57 ॥

मूलम्

आधारान्मूर्धपर्यन्तं भोक्तारं वर्णमुन्नयेत्।
विसृजेन्मुखतो वर्णं द्वितीयं भोग्यसंज्ञकम् ॥ 57 ॥

टिप्पनी 57

आधारस्थानमारभ्य मूर्धपर्यन्तगामिना पवनेन हकारमुच्चरेत्। सकारं मुखतो विसृजेत्।

विश्वास-प्रस्तुतिः

सर्वा सृष्टिः कृता तेन हंसोच्चारप्रयोगतः।
अजपेयं समाख्याता विद्या सर्वाङ्गशोभना ॥ 58 ॥

मूलम्

सर्वा सृष्टिः कृता तेन हंसोच्चारप्रयोगतः।
अजपेयं समाख्याता विद्या सर्वाङ्गशोभना ॥ 58 ॥

टिप्पनी 58

हंसमन्त्रस्याजपामन्त्र इति नाम।

विश्वास-प्रस्तुतिः

चतुःषष्ट्यधिकाशीतिकोटिसंख्यासु योनिषु।
तद्भेदेषु च मन्त्रोऽयं स्वयमुच्चरते सदा ॥ 59 ॥

मूलम्

चतुःषष्ट्यधिकाशीतिकोटिसंख्यासु योनिषु।
तद्भेदेषु च मन्त्रोऽयं स्वयमुच्चरते सदा ॥ 59 ॥

विश्वास-प्रस्तुतिः

निश्वासेन समं विद्या समुदेत्यन्तरुज्ज्वला।
उदयास्तमयावस्याः श्वासनिश्वासतुल्यकौ ॥ 60 ॥

मूलम्

निश्वासेन समं विद्या समुदेत्यन्तरुज्ज्वला।
उदयास्तमयावस्याः श्वासनिश्वासतुल्यकौ ॥ 60 ॥

विश्वास-प्रस्तुतिः

षष्टिः श्वासा भवेत्प्राणाः षट्‌ प्राणा नाडिका मता।
नाड्यः षष्टिरहोरात्रमेवं कालक्रियागतिः ॥ 61 ॥

मूलम्

षष्टिः श्वासा भवेत्प्राणाः षट्‌ प्राणा नाडिका मता।
नाड्यः षष्टिरहोरात्रमेवं कालक्रियागतिः ॥ 61 ॥

विश्वास-प्रस्तुतिः

एवं हंसोदयाद्विद्धि सहस्राण्येकविंशतिम्।
शतानि षट्‌ च देवेश तावन्तः स्युर्जपाः कृताः ॥ 62 ॥

मूलम्

एवं हंसोदयाद्विद्धि सहस्राण्येकविंशतिम्।
शतानि षट्‌ च देवेश तावन्तः स्युर्जपाः कृताः ॥ 62 ॥

टिप्पनी 62

हंसमन्त्रे सकृज्जप्ते सति 21600 संख्याका जपाः कृता भवन्तीति भावः।

विश्वास-प्रस्तुतिः

किंतु संकल्पनं कुर्यादहरादौ मनीषया।
एवंसंख्यान्23 जपानस्य करिष्यामीति बुद्धिमान् ॥ 63 ॥

मूलम्

किंतु संकल्पनं कुर्यादहरादौ मनीषया।
एवंसंख्यान्23 जपानस्य करिष्यामीति बुद्धिमान् ॥ 63 ॥

टिप्पनी 63

एवंसंख्यानिति। इयत्संख्याकानित्यर्थः।

विश्वास-प्रस्तुतिः

विन्यसेत् पञ्च चाङ्गानि तेषां रूपं निबोध मे।
सूर्यसोमौ चतुर्थ्यन्तौ नमः स्वाहासमन्वितौ ॥ 64 ॥

मूलम्

विन्यसेत् पञ्च चाङ्गानि तेषां रूपं निबोध मे।
सूर्यसोमौ चतुर्थ्यन्तौ नमः स्वाहासमन्वितौ ॥ 64 ॥

टिप्पनी 64

सूर्यसोमौ हकारसकारौ।

विश्वास-प्रस्तुतिः

निरञ्जनौ निराभासौ वौषड्‌हुंफडन्तकौ।
फडन्तं मूलमेवास्त्रमित्यङ्गान्यस्य पञ्च तु ॥ 65 ॥

मूलम्

निरञ्जनौ निराभासौ वौषड्‌हुंफडन्तकौ।
फडन्तं मूलमेवास्त्रमित्यङ्गान्यस्य पञ्च तु ॥ 65 ॥

अयमेव विपर्यस्तः परमात्ममनुः स्मृतः।
24स्मृत्वा शक्तिं 25ससंभारां सूर्ये भोक्तरि संनयेत् ॥ 66 ॥

टिप्पनी 66

विपर्यस्त इति। सोऽहमिति मन्त्र इत्यर्थः। सकारेण शक्तिमादाय हकारे परमात्मनि योजयेदित्यर्थः।

विश्वास-प्रस्तुतिः

शिष्टं प्रणववच्चिन्त्यमिति संज्ञामनोर्विधिः।
पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ 67 ॥

मूलम्

शिष्टं प्रणववच्चिन्त्यमिति संज्ञामनोर्विधिः।
पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ 67 ॥

टिप्पनी 67

त्रय इति। यद्यपि चत्वारो मन्त्रा वक्ष्यन्ते। तथापि तेषु कंचिद्भेदमादाय त्रयाणां पृथक् निर्देशः क्रियते।

विश्वास-प्रस्तुतिः

विष्णवे नम इत्येवं नमो नारायणाय च।
नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ 68 ॥

मूलम्

विष्णवे नम इत्येवं नमो नारायणाय च।
नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ 68 ॥

टिप्पनी 68

मन्त्रस्वरूपाण्याह–विष्णवे इत्यादि। आदौ नमो भगवते इति। अन्तेवासुदेवायेति। नमो भगवते वासुदेवायेति मन्त्र इत्यर्थः।

विश्वास-प्रस्तुतिः

जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ 69 ॥

मूलम्

जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ 69 ॥

विश्वास-प्रस्तुतिः

पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरंदर26
ओंकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥ 70 ॥

मूलम्

पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरंदर26
ओंकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥ 70 ॥

विश्वास-प्रस्तुतिः

ज्ञानादिगुणसंयुक्तैरक्षरैः प्रणवादिभिः27
नमोऽन्तैरङ्गक्लृप्तिः स्यात्तथैवोपाङ्गकल्पना ॥ 71 ॥

मूलम्

ज्ञानादिगुणसंयुक्तैरक्षरैः प्रणवादिभिः27
नमोऽन्तैरङ्गक्लृप्तिः स्यात्तथैवोपाङ्गकल्पना ॥ 71 ॥

विश्वास-प्रस्तुतिः

न्यूनाक्षरस्य मन्त्रस्य वर्णेन चरमेण तु।
उपाङ्गकल्पना कार्या 28तत्तद्गुणपदैर्युता ॥ 72 ॥

मूलम्

न्यूनाक्षरस्य मन्त्रस्य वर्णेन चरमेण तु।
उपाङ्गकल्पना कार्या 28तत्तद्गुणपदैर्युता ॥ 72 ॥

टिप्पनी 72

न्यूनाक्षरस्येति। षडक्षराष्टाक्षरमन्त्रयोः न्यूनाक्षरत्वम्। तत्र चरमाक्षरेण पूरणं कर्तव्यमित्यर्थः।

29तथैव स्फीतवर्णस्य शिष्टैस्तु द्वादशाधिकैः।
समस्तैश्चरमोपाङ्गं कल्पयेत्तेजसा सह ॥ 73 ॥

टिप्पनी 73

स्फीतवर्णस्येति। अधिकवर्णस्येत्यर्थः; यथा जितं ते इति मन्त्रे।

विश्वास-प्रस्तुतिः

केवलस्तारकश्चैव चत्वारश्च तदादिकाः।
पञ्चैते व्यापका मन्त्राः पाञ्चरात्रे प्रकीर्तिताः ॥ 74 ॥

मूलम्

केवलस्तारकश्चैव चत्वारश्च तदादिकाः।
पञ्चैते व्यापका मन्त्राः पाञ्चरात्रे प्रकीर्तिताः ॥ 74 ॥

30नासाध्यं किंचिदस्तीह मन्त्रैरेभिर्महात्मभिः।
निश्रेणी पञ्चपर्वैषा परब्रह्माधिरोहणे ॥ 75 ॥

विश्वास-प्रस्तुतिः

एषा दिव्या महासत्ता पञ्चमन्त्री तु मन्मयी।
अर्चनाज्जपतो ध्यानादिमां31 सम्यक् समाश्रितः।
स्वां सत्तां वैष्णवीं प्राप्य परं ब्रह्माधिगच्छति ॥ 76 ॥

मूलम्

एषा दिव्या महासत्ता पञ्चमन्त्री तु मन्मयी।
अर्चनाज्जपतो ध्यानादिमां31 सम्यक् समाश्रितः।
स्वां सत्तां वैष्णवीं प्राप्य परं ब्रह्माधिगच्छति ॥ 76 ॥

इति 32श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 33तारप्रकाशो नाम चतुर्विंशोऽध्यायः

इति चतुर्विंशोऽध्यायः


  1. श्रीरुवाच I. ↩︎ ↩︎

  2. महत् A. B. C. D. G. ↩︎ ↩︎

  3. सर्वभूतानां D. ↩︎ ↩︎

  4. भूताहं D. ↩︎ ↩︎

  5. यथास्थोऽयं B. C. ↩︎ ↩︎

  6. नादान्ता A. I. ↩︎ ↩︎

  7. या D. ↩︎ ↩︎

  8. विसृष्टं B. D. ↩︎

  9. सूक्ष्मा D. ↩︎ ↩︎

  10. वेदाःस्रयोलोकाः B. F. ↩︎ ↩︎

  11. अनिरुद्धाभिधानं च I. ↩︎

  12. तत्त्वं A. B. G. ↩︎

  13. प्रथमाक्षरे I. ↩︎

  14. सद्मनि I. ↩︎ ↩︎

  15. उदितं A. C. ↩︎ ↩︎

  16. लब्ध्वानुज्ञां F. ↩︎

  17. पावनं A. I. ↩︎ ↩︎

  18. धारयन् B. F. ↩︎ ↩︎

  19. नित्ययोग B.; नित्ययाग I. ↩︎

  20. पालनः B. C. ↩︎ ↩︎

  21. संधारणः परः I. ↩︎ ↩︎

  22. कथितानि A. G. ↩︎

  23. संख्यां B. C. F. ↩︎ ↩︎

  24. हुत्वा A. B. ↩︎

  25. सुसंभारां A. B. C. ↩︎

  26. प्रकीर्तितः I. ↩︎ ↩︎

  27. प्रणवादिकैः I. ↩︎ ↩︎

  28. तत्तत्पदगुणैः B. F. ↩︎ ↩︎

  29. तथैवाधिक I. ↩︎

  30. नानासाद्यं किंचिदस्ति I. ↩︎

  31. अमुं D. F. ↩︎ ↩︎

  32. श्रीपञ्चरात्र A; श्रीपाञ्चरात्रे B. ↩︎

  33. तारक I. ↩︎