त्रयोविंशोऽध्यायः - 23
श्रीः—
विश्वास-प्रस्तुतिः
व्यापकं यत् परं ब्रह्म लक्ष्मीनारायणं महत्।
1अहंता परमा तस्य शक्तिर्नारायणी ह्यहम् ॥ 1 ॥
मूलम्

अनुग्रहाय लोकानामहमाचार्यतां गता।
संकर्षणस्वरूपेण शास्त्रं प्रद्योतयाम्यहम् ॥ 2 ॥

पुनश्च गुरुमूर्तिस्था सम्यग्विज्ञानशालिनी।
शक्तिमय्या स्वया दृष्ट्या करुणामन्त्रपूर्णया2 ॥ 3 ॥

3पालयामि गुरुर्भूत्वा शिष्यानात्मोपसर्पिणः।
तस्माज्ज्ञेयः सदा शिष्यैराचार्योऽसौ4 मदात्मकः ॥ 4 ॥

शिष्यं संज्ञापयेन्मन्त्रान् 5यथा तदवधारय।
आदौ शुद्धे समे स्निग्धे देशे भूदोषवर्जिते ॥ 5 ॥

टिप्पनी 5
भूदोषाः केशनखास्थिसंसर्गजाः, ऊषरत्वादयश्च।
विश्वास-प्रस्तुतिः
वर्णानुरूपवर्णाढ्ये गोमयेनोपलेपिते।
धूपिते शल्यनिर्मुक्ते गन्धपुष्पाद्यलंकृते ॥ 6 ॥

टिप्पनी 6
वर्णानुरूपेत्यादि। ब्राह्नणादिवर्णानुगुणसितादिवर्णयुक्ते इत्यर्थः। तथा चोक्तं परमसंहितायाम्—“ब्राह्नणस्य सिता भूमिः क्षत्रियस्यारुणा भवेत्। पीतवर्णा च वैश्यस्य कृष्णआ शूद्रस्य कीर्तिता॥” (7-5) इति। शल्यानि कण्टकादीनि।
विश्वास-प्रस्तुतिः
पञ्चगव्येन संसिक्ते चन्दनाद्यनुलेपिते6।
सुमृन्मयीं च घटिकां केवलैः कुसुमैः शुभैः ॥ 7 ॥

टिप्पनी 7
केवलैः; विस्रस्तैः, अग्रथितैरित्यर्थः।
विश्वास-प्रस्तुतिः
प्रणवादिनमोऽन्तेन स्वेन मन्त्रेण पूजयेत्।
व्याहृत्या परिजप्याथ 7पूर्वया प्रणवाद्यया ॥ 8 ॥

टिप्पनी 8
पूर्वयेति। व्याहृत्येत्यर्थः।
विश्वास-प्रस्तुतिः
मृदं भूमौ प्रसार्याथ गन्धधूपाधिवासितम्8।
चतुरश्रं सुवृत्तं वा द्विहस्तं हस्तमेव वा ॥ 9 ॥

सुसमं मातृकापीठं कृत्वा प्रस्तारयेत्तु ताम्।
एकैव भिन्नवर्गा या9 देवी पञ्चदशाक्षरा ॥ 10 ॥

टिप्पनी 10
भिन्नवर्गा; कवर्गाद्यात्मना भिन्नेत्यर्थः।
विश्वास-प्रस्तुतिः
मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः।
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत् ॥ 11 ।

पौरुषे चक्ररूपं तु पाद्मीं लक्ष्मीमनुक्रमेत्।
अग्नीषोममयी 10शक्तिर्विसृष्टाख्या द्विरष्टधा ॥ 12 ॥

11स्वराख्यां तां लिखेत्पत्रमरं वा पूर्वदिग्गतम्।
पृथिव्यादिपुमन्ता ये पञ्च वर्गास्तु कादयः ॥ 13 ॥
टिप्पनी 13
पृथिवी ककारः। पुमान् मकारः।
विश्वास-प्रस्तुतिः
अग्न्यादिवायुपर्यन्ते तां लिखेदरपत्रवत्।
अन्तःस्थधारणारूपं यादिवान्तचतुष्टयम् ॥ 14 ॥

उदग्गतं लिखेत् पत्रमरं वा पूर्ववद्बुधः।
शाद्यं क्षान्तं तुरीयान्तं यदुक्तं ब्रह्मपञ्चकम् ॥ 15 ॥

तल्लिखेदैशदिक्संस्थमरं पत्रमथापि वा।
शब्दाख्यं यत्परं ब्रह्म ज्योतिर्मयमनामयम् ॥ 16 ॥

ध्यायेदालोकरूपेण पर्यन्ते चक्रपद्मयोः।
प्रणवाद्यैर्नमोऽन्तैस्तैरक्षरैस्तत्त्वसंज्ञकैः ॥ 17 ॥

12प्रकृतिं त्वर्चयेत्तत्र तत्त्वरूपां तु मां बुधः।
ततस्तत्कर्णिकामध्ये चिन्तयेन्मन्त्रमातृकाम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
अनादिनिधनां देवीमहंतां पुरुषोत्तमीम्13।
पाशाङ्कुशधरां देवीं पद्मिनीं पद्ममालिनीम् ॥ 19 ॥

टिप्पनी 19
पुरुषोत्तमस्य स्री पुरुषोत्तमी।
विश्वास-प्रस्तुतिः
प्रसन्नां पद्मगर्भाभां सर्वलोकमहेश्वरीम्।
वर्णप्रक्लृप्तावयवां वर्णालंकारभूषिताम् ॥ 20 ॥

शब्दब्रह्म तनुं विद्यात् प्रणवं तु शिरः स्मरेत्।
अ आ इति भ्रुवौविद्यादि ई विद्यात्तु चक्षुषी ॥ 21 ॥

उ ऊ कर्णौ ऋ ॠ नासापुटावन्यौ कपोलकौ।
ए ऐ ओष्ठौ 14च विज्ञेयौ ओ औ दशनपङ्क्तिके ॥ 22 ॥

टिप्पनी 22
अन्यौ; लृलॄवर्णावित्यर्थः। अनयोर्नपुंसकत्वान्न नाम्ना निर्देशः।
विश्वास-प्रस्तुतिः
अं जिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।
टतवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेद्बुधः ॥ 23 ॥

बभौ पश्चात्पुरोभागौ मं नाभिं परिचिन्तयेत्।
प्राणोष्माणौ यरौ विद्याल्लं हारं परिचिन्तयेत् ॥ 24 ॥

वकारं कटिसूत्रं तु कुण्डले तु शषौ स्मरेत्।
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत् ॥ 25 ॥

प्रसरन्तीं प्रभां विद्यात् क्षकारं विद्युदुज्ज्वलाम्।
15रङ्गं नासाग्रगं विद्याद्यमाख्यं हृदये स्मरेत् ॥ 26 ॥

टिप्पनी 26
रङ्गम्; अनुनासिकम्।
विश्वास-प्रस्तुतिः
जिह्वामूलीयकं जिह्वामूले विद्यादनन्तरम्।
उपध्मानीयकं विद्यादोष्ठयोः क्रमशस्तथा ॥ 27 ॥

शुभैर्वर्णमयैः पद्मैरग्नीषोममयैः कृताम्।
बिभ्रतीं वनमालां च कण्ठात्पादावलम्बिनीम् ॥ 28 ॥

अग्नीषोमार्ककोट्याभं स्फुरद्रत्नविभूषितम्।
मकुटं चिन्तयेद्विद्वान् 16हकारं पारमेश्वरम् ॥ 29 ॥

एवं संस्मृत्य तां देवीं मातृकां मन्त्रमातरम्।
पूजयेदर्घ्यपुष्पाद्यैरौं नमो मन्त्रमातृके ॥ 30 ॥

इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात्।
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद्भुवि ॥ 31 ॥

पद्मस्थे पद्मनिलये पद्मे पद्माक्षवल्लभे।
सर्वतत्त्वकृताधारे मन्त्राणां जननीश्वरि17 ॥ 32 ॥

व्याकुरु त्वं परं दिव्यं रूपं लक्ष्मीमयं मम।
प्रार्थ्यैवं प्रयतो मन्त्री स्वयं लक्ष्मीमयो भवेत् ॥ 33 ॥

मातृकाकृतविन्यासः स्वयं सन्मातृकामयः।
उद्धरेदीप्सितं मन्त्रं शिष्यस्योपदिशेत्ततः ॥ 34 ॥

टिप्पनी 34
मातृकेत्यादि। अकारादिक्षकारान्तैर्वर्णैः कृतः विन्यासः पद्मचक्रयो निक्षेपः येन सः।
विश्वास-प्रस्तुतिः
बीजपिण्डात्मका मन्त्रा मन्त्रेषु श्रेष्ठतां गताः।
तत्र श्रेष्ठानि बीजानि पिण्डेभ्योऽपि सुरेश्वर ॥ 35 ॥

बीजेषु रत्नभूतानि 18सप्त बीजानि वासव।
तारकः प्रथमं बीजं द्वितीयं तारिका स्मृता ॥ 36 ॥

टिप्पनी 36
तारादिमन्त्रोद्धारक्रमोऽनन्तराध्याये वक्ष्यते।
विश्वास-प्रस्तुतिः
तयोस्तु तेजसा तुल्यं तृतीयमनुतारिका।
चतुर्थं तु जगद्योनिः परमं बीजमुच्यते ॥ 37 ॥

19प्राद्युम्नं पञ्चमं बीजं षष्ठं सारस्वतं मतम्।
महालक्ष्मीमयं बीजं सप्तमं परिकीर्तितम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
स्थूलसूक्ष्मपरत्वं तु प्रतिस्वं परिकीर्तितमे।
त्वं शक्रावहितो भूत्वा श्रृणु बीजान्यनुक्रमात् ॥ 39 ॥

इति 20श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 21मातृकाप्रकाशो नाम त्रयोविंशोऽध्यायः
इति त्रयोविंशोऽध्यायः