विश्वास-प्रस्तुतिः
द्वाविंशोऽध्यायः - 22
शक्रः—
अनादिनिधने देवि सर्वज्ञे हरिवल्लभे।
कथं वै ज्ञापयेन्मन्त्रांस्तेषां रूपं च कीदृशम् ॥ 1 ॥
मूलम्
द्वाविंशोऽध्यायः - 22
शक्रः—
अनादिनिधने देवि सर्वज्ञे हरिवल्लभे।
कथं वै ज्ञापयेन्मन्त्रांस्तेषां रूपं च कीदृशम् ॥ 1 ॥
विश्वास-प्रस्तुतिः
समप्रधानता वैषामुत ज्येष्ठकनिष्ठता।
एतत् पृष्ठा मया ब्रूहि नमस्ते सरसीरुहे ॥ 2 ॥
मूलम्
समप्रधानता वैषामुत ज्येष्ठकनिष्ठता।
एतत् पृष्ठा मया ब्रूहि नमस्ते सरसीरुहे ॥ 2 ॥
विश्वास-प्रस्तुतिः
श्रीः—
शृणु सर्वमशेषेण मत्तस्त्वं पाकशासन।
यथास्मि मन्त्ररूपाहं यथा च ज्ञापयामि तान् ॥ 3 ॥
मूलम्
श्रीः—
शृणु सर्वमशेषेण मत्तस्त्वं पाकशासन।
यथास्मि मन्त्ररूपाहं यथा च ज्ञापयामि तान् ॥ 3 ॥
टिप्पनी 3
ज्ञापयामीति। आचार्यरूपेण बोधयामीत्यर्थः।
विश्वास-प्रस्तुतिः
परं ब्रह्म परं धाम षाड्गुण्यममलोज्ज्वलम्।
देशकालानवच्छिन्नमनाकारमनूपमम् ॥ 4 ॥
मूलम्
परं ब्रह्म परं धाम षाड्गुण्यममलोज्ज्वलम्।
देशकालानवच्छिन्नमनाकारमनूपमम् ॥ 4 ॥
टिप्पनी 4
अनूपममिति। अनुपममित्यर्थः।
विश्वास-प्रस्तुतिः
अहमित्येव तद्ब्रह्म स्वात्मसंबोधि निर्गुणम्।
अनादिनिधनं दिव्यं लक्ष्मीनारायणं महत् ॥ 5 ॥
मूलम्
अहमित्येव तद्ब्रह्म स्वात्मसंबोधि निर्गुणम्।
अनादिनिधनं दिव्यं लक्ष्मीनारायणं महत् ॥ 5 ॥
टिप्पनी 5
निर्गुणम्; सत्त्वादिप्राकृतगुणहीनम्।
विश्वास-प्रस्तुतिः
चिदानन्दरसं दिव्यमखण्डमजरामरम्।
अनुन्मिषद्भवद्भावं ग्राह्यग्राहकवर्जितम्1 ॥ 6 ॥
मूलम्
चिदानन्दरसं दिव्यमखण्डमजरामरम्।
अनुन्मिषद्भवद्भावं ग्राह्यग्राहकवर्जितम्1 ॥ 6 ॥
टिप्पनी 6
अनुन्मिषदित्यादि। शान्तपरावस्थायां भवद्भावरूपोन्मेषरहितमित्यर्थः। तथा ग्राह्येत्यादिकमपि भाव्यम्।
विश्वास-प्रस्तुतिः
स्तिमितं तत् परं ब्रह्म तस्य स्तिमिततास्म्यहम्।
तत् कदाचित्परं ब्रह्म भवद्भावव्यवस्थया ॥ 7 ॥
मूलम्
स्तिमितं तत् परं ब्रह्म तस्य स्तिमिततास्म्यहम्।
तत् कदाचित्परं ब्रह्म भवद्भावव्यवस्थया ॥ 7 ॥
विश्वास-प्रस्तुतिः
उन्मिषत्यजहद्रूपं स्वेच्छयैव कदाचन।
2साहं भावात्मिकाहंता 3संपूज्या परमात्मनः ॥ 8 ॥
टिप्पनी 8
उन्मिषति; प्रकाशत इत्यर्थः। अजहदित्यादि। स्वाभाविकं निर्विकारत्वमजहदित्यर्थः।
विश्वास-प्रस्तुतिः
उदेमि भवतो देवादिच्छयैव विवस्वतः4।
संभृत्याखिलसंभारमिच्छयैव स्वनिर्मितम् ॥ 9 ॥
मूलम्
उदेमि भवतो देवादिच्छयैव विवस्वतः4।
संभृत्याखिलसंभारमिच्छयैव स्वनिर्मितम् ॥ 9 ॥
टिप्पनी 9
विवस्वतः; तेजोमयाद्भगवत इत्यर्थः।
विश्वास-प्रस्तुतिः
स्वभित्तौ लिखितं नीत्वा5 प्रभवामि षडध्वना।
वार्णः कलामयश्चैव तात्त्विको मान्त्रिकस्तथा ॥ 10 ॥
मूलम्
स्वभित्तौ लिखितं नीत्वा5 प्रभवामि षडध्वना।
वार्णः कलामयश्चैव तात्त्विको मान्त्रिकस्तथा ॥ 10 ॥
विश्वास-प्रस्तुतिः
पादिको भौवनश्चैव षडध्वानः प्रकीर्तिताः।
परमं यदहंताख्यं 6संविद्रूपमनामयम् ॥ 11 ॥
मूलम्
पादिको भौवनश्चैव षडध्वानः प्रकीर्तिताः।
परमं यदहंताख्यं 6संविद्रूपमनामयम् ॥ 11 ॥
विश्वास-प्रस्तुतिः
उन्मेषः प्रथमस्तस्य वर्णाध्वा परिकीर्तितः।
व्याकृतिर्दशिता तस्य पूर्वं ते पाकशासन ॥ 12 ॥
मूलम्
उन्मेषः प्रथमस्तस्य वर्णाध्वा परिकीर्तितः।
व्याकृतिर्दशिता तस्य पूर्वं ते पाकशासन ॥ 12 ॥
विश्वास-प्रस्तुतिः
तदेव परमं रूपं मम संविन्मयं महत्।
विवर्ततेऽध्वभावेन ज्ञानाद्येन कलात्मना ॥ 13 ॥
मूलम्
तदेव परमं रूपं मम संविन्मयं महत्।
विवर्ततेऽध्वभावेन ज्ञानाद्येन कलात्मना ॥ 13 ॥
विश्वास-प्रस्तुतिः
ज्ञानादीनां कलानां तु गुणानां परमात्मनः।
पुर्वं ते कथिता सूक्तिर्यावन्तो यादृशाश्च ते ॥ 14 ॥
मूलम्
ज्ञानादीनां कलानां तु गुणानां परमात्मनः।
पुर्वं ते कथिता सूक्तिर्यावन्तो यादृशाश्च ते ॥ 14 ॥
विश्वास-प्रस्तुतिः
अध्वद्वयमुपादाय तद्रूपं मम चिन्मयम्।
वासुदेवादिरूपेण वर्तते तत्त्ववर्त्मना ॥ 15 ॥
मूलम्
अध्वद्वयमुपादाय तद्रूपं मम चिन्मयम्।
वासुदेवादिरूपेण वर्तते तत्त्ववर्त्मना ॥ 15 ॥
टिप्पनी 15
अध्वद्वयम्; वर्णाध्वानं कलाध्वानं चेत्यर्थः।
व्यूहाश्च विभवाश्चैव यच्चान्यद्भगवन्मयम्।
तत्त्वाध्वनो विवृत्तिः सा कीर्तिता परमात्मनः ॥ 16 ॥
टिप्पनी 16
अन्यत्; व्यूहान्तराणि विभवान्तराणि चेत्यर्थः।
विश्वास-प्रस्तुतिः
पूर्वाध्वद्वयमादाय तदेव मम चिन्मयम्।
रूपं विवर्तते शश्वन्मान्त्रेण परमाध्वना ॥ 17 ॥
मूलम्
पूर्वाध्वद्वयमादाय तदेव मम चिन्मयम्।
रूपं विवर्तते शश्वन्मान्त्रेण परमाध्वना ॥ 17 ॥
विश्वास-प्रस्तुतिः
उत्तारणाय जीवानां मग्नानां भवसागरे।
भोगाय भवसंस्थानां वैराग्यजननाय च ॥ 18 ॥
मूलम्
उत्तारणाय जीवानां मग्नानां भवसागरे।
भोगाय भवसंस्थानां वैराग्यजननाय च ॥ 18 ॥
टिप्पनी 18
मन्त्राध्वप्रयोजनमाह—उत्तारणायेत्यादिना।
विश्वास-प्रस्तुतिः
[^7]आराधनस्य सिद्ध्यर्थं मानसालम्बनाय च।
मन्त्राद्वा परमोदारो मम चिद्रूपलक्षणः ॥ 19 ॥
मूलम्
[^7]आराधनस्य सिद्ध्यर्थं मानसालम्बनाय च।
मन्त्राद्वा परमोदारो मम चिद्रूपलक्षणः ॥ 19 ॥
टिप्पनी 19
मानसालम्बनायेति। शुभाश्रयरूपप्रदर्शनेन योगिनां मानसस्य ध्यानालम्बनप्रदानायेत्यर्थः। एतच्च श्रीविष्णुपुराणे प्रपञ्चितम्।
विश्वास-प्रस्तुतिः
वासुदेवादिदेवानां मूर्तिभावं व्रजत्यसौ।
मन्त्राः सर्वे चिदात्मानः सर्वगाः सर्वसाधकाः ॥ 20 ॥
मूलम्
वासुदेवादिदेवानां मूर्तिभावं व्रजत्यसौ।
मन्त्राः सर्वे चिदात्मानः सर्वगाः सर्वसाधकाः ॥ 20 ॥
टिप्पनी 20
अथ प्रकृतं मन्त्रमहिमानमाह—मन्त्रा इत्यादिना।
विश्वास-प्रस्तुतिः
त्रायमाणाश्च मन्तारं गुप्तरूपाश्च शास्त्रतः।
भोगापवर्गदा ह्येते देवदेवस्य शार्ङ्गिणः ॥ 21 ॥
मूलम्
त्रायमाणाश्च मन्तारं गुप्तरूपाश्च शास्त्रतः।
भोगापवर्गदा ह्येते देवदेवस्य शार्ङ्गिणः ॥ 21 ॥
टिप्पनी 21
महिमवर्णनमुखेन मन्त्रशब्दयौगिकार्थमाह—त्रायमाणाश्चेति। मन्धातोः त्रैधातोश्च व्युत्पन्न इति भावः। व्युत्पत्त्यन्तरमाह—गुप्तेति। “मत्रि गुप्तभाषणे” इति धातुः।
विश्वास-प्रस्तुतिः
रूपं मे 7भगवन्मन्त्रा विज्ञेया मूर्तयोऽमलाः।
जाग्रत्स्वप्नौ8 सुषुप्तिश्च तुर्यं चेति चतुष्टयम् ॥ 22 ॥
मूलम्
रूपं मे 7भगवन्मन्त्रा विज्ञेया मूर्तयोऽमलाः।
जाग्रत्स्वप्नौ8 सुषुप्तिश्च तुर्यं चेति चतुष्टयम् ॥ 22 ॥
विश्वास-प्रस्तुतिः
ज्ञेयं पदाध्वनो रूपं जाग्रद्बाह्येन्द्रियक्रमः9।
बाह्येन्द्रियाणां तमसाभिभूते विभवे सति ॥ 23 ॥
मूलम्
ज्ञेयं पदाध्वनो रूपं जाग्रद्बाह्येन्द्रियक्रमः9।
बाह्येन्द्रियाणां तमसाभिभूते विभवे सति ॥ 23 ॥
टिप्पनी 23
स्वप्नावस्थां निरूपयति—बाह्येत्यादिना।
विश्वास-प्रस्तुतिः
अन्तःकरणवृत्तिर्या संस्कारपरिशेषिणी।
सा स्वप्न इति विज्ञेया तदभावे सुषुप्तिका ॥ 24 ॥
मूलम्
अन्तःकरणवृत्तिर्या संस्कारपरिशेषिणी।
सा स्वप्न इति विज्ञेया तदभावे सुषुप्तिका ॥ 24 ॥
टिप्पनी 24
तदभावे; संस्काराभावे।
विश्वास-प्रस्तुतिः
तमसानभिभूतस्य सत्त्वस्थस्य विपश्चितः।
बाह्यान्तःकरणस्थाया वृत्तेरुपरमे सति ॥ 25 ॥
मूलम्
तमसानभिभूतस्य सत्त्वस्थस्य विपश्चितः।
बाह्यान्तःकरणस्थाया वृत्तेरुपरमे सति ॥ 25 ॥
विश्वास-प्रस्तुतिः
शुद्धसत्त्वप्रसादस्य संततिस्तुर्यसंज्ञिता।
एवं चतुर्विधे मार्गे निर्दिष्टेऽस्मिन् पदाभिधे ॥ 26 ॥
मूलम्
शुद्धसत्त्वप्रसादस्य संततिस्तुर्यसंज्ञिता।
एवं चतुर्विधे मार्गे निर्दिष्टेऽस्मिन् पदाभिधे ॥ 26 ॥
विश्वास-प्रस्तुतिः
तुर्यवर्जं सुषुप्त्यादिरशुद्धां भजते गतिम्।
मायादिक्षितिपर्यन्ता योक्ता भुवनपद्धतिः ॥ 27 ॥
मूलम्
तुर्यवर्जं सुषुप्त्यादिरशुद्धां भजते गतिम्।
मायादिक्षितिपर्यन्ता योक्ता भुवनपद्धतिः ॥ 27 ॥
टिप्पनी 27
भुवनाद्वानं निरूपयति—मायादीति।
विश्वास-प्रस्तुतिः
भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः।
प्रक्रीडयन्ति मन्त्रास्ते शश्वद्रागपरं नरम् ॥ 28 ॥
मूलम्
भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः।
प्रक्रीडयन्ति मन्त्रास्ते शश्वद्रागपरं नरम् ॥ 28 ॥
विश्वास-प्रस्तुतिः
तत्तद्भोगेन्द्रजालानि दर्शयन्तो विमोहितम्।
गुरुणा सदयं सम्यग्वीक्षितं करुणादृशा ॥ 29 ॥
मूलम्
तत्तद्भोगेन्द्रजालानि दर्शयन्तो विमोहितम्।
गुरुणा सदयं सम्यग्वीक्षितं करुणादृशा ॥ 29 ॥
विश्वास-प्रस्तुतिः
उत्तारयन्ति वैराग्यं जनयन्तः पदे पदे।
ततः शुद्धमयान् मार्गान् प्रापयन्तः शनैः शनैः ॥ 30 ॥
मूलम्
उत्तारयन्ति वैराग्यं जनयन्तः पदे पदे।
ततः शुद्धमयान् मार्गान् प्रापयन्तः शनैः शनैः ॥ 30 ॥
टिप्पनी 30
पदे पदे; जाग्रदादिक इत्यर्थः।
विश्वास-प्रस्तुतिः
शब्दब्रह्मणि निष्णातं प्रापयेयुः परां श्रियम्।
एवंविधा महात्मानो मन्त्राः परमपावनाः ॥ 31 ॥
मूलम्
शब्दब्रह्मणि निष्णातं प्रापयेयुः परां श्रियम्।
एवंविधा महात्मानो मन्त्राः परमपावनाः ॥ 31 ॥
टिप्पनी 31
शब्दब्रह्मणि; मन्त्रेष्वित्यर्थः।
विश्वास-प्रस्तुतिः
त्रिविधास्ते तु विज्ञेया अधमा मध्यमाः परे।
भवोपकरणानां ये देवानां मूर्तितां गताः ॥ 32 ॥
मूलम्
त्रिविधास्ते तु विज्ञेया अधमा मध्यमाः परे।
भवोपकरणानां ये देवानां मूर्तितां गताः ॥ 32 ॥
टिप्पनी 32
परे इति। उत्तमा इत्यर्थः। भवोपकरणानि; सर्गोपकरणभूतानि।
विश्वास-प्रस्तुतिः
अन्तवत्फलदा मन्त्रास्ते ज्ञेया अधमा बुधैः।
मन्त्राविभवदेवानां सशक्तीनां तु मूर्तयः ॥ 33 ॥
मूलम्
अन्तवत्फलदा मन्त्रास्ते ज्ञेया अधमा बुधैः।
मन्त्राविभवदेवानां सशक्तीनां तु मूर्तयः ॥ 33 ॥
विश्वास-प्रस्तुतिः
ते ज्ञेया मध्यमा मन्त्रा उत्तमा व्यूहमूर्तयः।
ये तु ब्रह्मावगाहन्ते लक्ष्मीनारायणात्मकम् ॥ 34 ॥
मूलम्
ते ज्ञेया मध्यमा मन्त्रा उत्तमा व्यूहमूर्तयः।
ये तु ब्रह्मावगाहन्ते लक्ष्मीनारायणात्मकम् ॥ 34 ॥
विश्वास-प्रस्तुतिः
भवद्भावव्यवस्थानास्ते मन्त्रा उत्तमोत्तमाः।
एवं च ज्यैष्ठ्यकानिष्ठ्यं विज्ञेयं मन्त्रकोविदैः ॥ 35 ॥
मूलम्
भवद्भावव्यवस्थानास्ते मन्त्रा उत्तमोत्तमाः।
एवं च ज्यैष्ठ्यकानिष्ठ्यं विज्ञेयं मन्त्रकोविदैः ॥ 35 ॥
विश्वास-प्रस्तुतिः
उत्तमाः पञ्चरात्रस्था मध्यमास्तु त्रयीमयाः।
तन्त्रान्तरस्था विज्ञेया अधमाः शास्त्रचक्षुषा ॥ 36 ॥
मूलम्
उत्तमाः पञ्चरात्रस्था मध्यमास्तु त्रयीमयाः।
तन्त्रान्तरस्था विज्ञेया अधमाः शास्त्रचक्षुषा ॥ 36 ॥
टिप्पनी 36
पञ्चरात्रस्था इति। अनन्यपरसात्त्विकतमभागवतोद्देशप्रवृत्तत्वात् तेषामुत्तमत्वम्। त्रयीमया इति। त्रैगुण्यविषयत्वात्तेषां मध्यमत्वम्।
विश्वास-प्रस्तुतिः
कलाङ्गा उत्तमा ज्ञेया अन्याङ्गा मध्यमाः स्मृताः।
अनङ्गा अधमा मन्त्रा भूयः शृणु सुरेश्वर ॥ 37 ॥
मूलम्
कलाङ्गा उत्तमा ज्ञेया अन्याङ्गा मध्यमाः स्मृताः।
अनङ्गा अधमा मन्त्रा भूयः शृणु सुरेश्वर ॥ 37 ॥
टिप्पनी 37
कलाः ; ज्ञानादयः।
विश्वास-प्रस्तुतिः
बीजपिण्डादिसंयुक्ता उत्तमाः परिकीर्तिताः।
बीजाद्यन्यतमान्तःस्था मन्त्रा मध्यमसंज्ञिताः ॥ 38 ॥
मूलम्
बीजपिण्डादिसंयुक्ता उत्तमाः परिकीर्तिताः।
बीजाद्यन्यतमान्तःस्था मन्त्रा मध्यमसंज्ञिताः ॥ 38 ॥
विश्वास-प्रस्तुतिः
अबीजादियुता ज्ञेया मन्त्रा अधमसंज्ञिताः।
एवं मन्त्रविधा ज्ञात्वा ह्याचार्यः शास्त्रलोचनः।
10यथास्वरूपतः शिष्यान् ज्ञापयेदर्थितो मनून् ॥ 39 ॥
मूलम्
अबीजादियुता ज्ञेया मन्त्रा अधमसंज्ञिताः।
एवं मन्त्रविधा ज्ञात्वा ह्याचार्यः शास्त्रलोचनः।
10यथास्वरूपतः शिष्यान् ज्ञापयेदर्थितो मनून् ॥ 39 ॥
इति 11श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 12षडध्वमन्त्रस्वरूपकथनं नाम द्वाविंशोऽध्यायः
इति द्वाविंशोऽध्यायः