विश्वास-प्रस्तुतिः
एकविंशोऽध्यायः - 21
शक्रः—
शब्दार्थव्यक्तिरूपायै षडध्वपरिवर्तिनि।
अध्वातीतावबोधाख्ये नमस्ते हरिवल्लभे ॥ 1 ॥
मूलम्
एकविंशोऽध्यायः - 21
शक्रः—
शब्दार्थव्यक्तिरूपायै षडध्वपरिवर्तिनि।
अध्वातीतावबोधाख्ये नमस्ते हरिवल्लभे ॥ 1 ॥
टिप्पनी 1
षडध्वेति। वर्णकलातत्त्वमन्त्रपदभुवनाख्याः षडध्वानः।
विश्वास-प्रस्तुतिः
वर्णाः प्रकाशिता देवि यथावत् सर्वहेतवः।
मन्त्रमार्गमिदानीं मे यथावद्वक्तुमर्हसि ॥ 2 ॥
मूलम्
वर्णाः प्रकाशिता देवि यथावत् सर्वहेतवः।
मन्त्रमार्गमिदानीं मे यथावद्वक्तुमर्हसि ॥ 2 ॥
टिप्पनी 2
सर्वेति। शब्दानामर्थानां चेत्यर्थः।
विश्वास-प्रस्तुतिः
श्रीः—
एक एव परो देवः श्रीमान् पुरुषसत्तमः।
षाड्गुण्याम्भोनिधिर्दिव्यः सर्वात्मा सर्वतोमुखः ॥ 3 ॥
मूलम्
श्रीः—
एक एव परो देवः श्रीमान् पुरुषसत्तमः।
षाड्गुण्याम्भोनिधिर्दिव्यः सर्वात्मा सर्वतोमुखः ॥ 3 ॥
विश्वास-प्रस्तुतिः
तस्याहं परमा शक्तिरहंता श्रीरभेदिनी।
सर्वाधारा सर्वशक्तिः सर्वज्ञा सर्वतोमुखी ॥ 4 ॥
मूलम्
तस्याहं परमा शक्तिरहंता श्रीरभेदिनी।
सर्वाधारा सर्वशक्तिः सर्वज्ञा सर्वतोमुखी ॥ 4 ॥
विश्वास-प्रस्तुतिः
मयि प्रकाशते विश्वं दर्पणोदरशैलवत्।
बोध एव स्वरूपं मे निर्मलानन्दलक्षणः ॥ 5 ॥
मूलम्
मयि प्रकाशते विश्वं दर्पणोदरशैलवत्।
बोध एव स्वरूपं मे निर्मलानन्दलक्षणः ॥ 5 ॥
विश्वास-प्रस्तुतिः
इच्छापरवती साहं बोधकांशविवर्तिनी।
शब्दब्रह्ममयी भूत्वा विवर्तेऽहं कलाध्वना ॥ 6 ॥
मूलम्
इच्छापरवती साहं बोधकांशविवर्तिनी।
शब्दब्रह्ममयी भूत्वा विवर्तेऽहं कलाध्वना ॥ 6 ॥
टिप्पनी 6
इच्छापरवतीति। स्वच्छन्देत्यर्थः। विवर्तः परिणामः। कलाध्वनेति। ज्ञानादिगुणात्मनेत्यर्थः।
विश्वास-प्रस्तुतिः
कला ज्ञानादयः प्रोक्ताः षड् गुणाः पारमेश्वराः।
तासां त्रिकद्वियोगेन विवर्ते तत्त्ववर्त्मना ॥ 7 ॥
मूलम्
कला ज्ञानादयः प्रोक्ताः षड् गुणाः पारमेश्वराः।
तासां त्रिकद्वियोगेन विवर्ते तत्त्ववर्त्मना ॥ 7 ॥
टिप्पनी 7
त्रिकद्वियोगेन; युगलत्रययोगेनेत्यर्थः।
विश्वास-प्रस्तुतिः
संकर्षणादयो देवास्तत्त्वानि सुरसत्तम।
वर्णव्यतिकरैर्भूयो विवर्ते मन्त्रवर्त्मना ॥ 8 ॥
मूलम्
संकर्षणादयो देवास्तत्त्वानि सुरसत्तम।
वर्णव्यतिकरैर्भूयो विवर्ते मन्त्रवर्त्मना ॥ 8 ॥
विश्वास-प्रस्तुतिः
तस्य मन्त्राध्वनो व्यक्तिं गदन्त्या मे निशामय।
शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ॥ 9 ॥
मूलम्
तस्य मन्त्राध्वनो व्यक्तिं गदन्त्या मे निशामय।
शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ॥ 9 ॥
विश्वास-प्रस्तुतिः
चिल्लक्षणः षड्गुणात्मा तस्य भेदश्चतुर्विधः।
क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् ॥ 10 ॥
मूलम्
चिल्लक्षणः षड्गुणात्मा तस्य भेदश्चतुर्विधः।
क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
तुर्यं सुषुप्तिः स्वप्नश्च जाग्रद्बीजादयः क्रमात्।
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् ॥ 11 ॥
मूलम्
तुर्यं सुषुप्तिः स्वप्नश्च जाग्रद्बीजादयः क्रमात्।
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् ॥ 11 ॥
टिप्पनी 11
बीजपिण्डसंज्ञापदमन्त्राः क्रमेण तुर्यादिजाग्रदन्तपदचतुष्टयसंगता ज्ञेया इत्यर्थः।
विश्वास-प्रस्तुतिः
बीजं बहुस्वरं वापि विज्ञेयं विबुधेश्वर।
1अन्तरा हरयः पिण्डं क्वचित्स्वरसमायुतम् ॥ 12 ॥
मूलम्
बीजं बहुस्वरं वापि विज्ञेयं विबुधेश्वर।
1अन्तरा हरयः पिण्डं क्वचित्स्वरसमायुतम् ॥ 12 ॥
टिप्पनी 12
अन्तरा मध्ये स्थिताः हरयः व्यञ्जनानि पिण्डमन्त्र इत्यर्थः। तस्यापवादमाह—क्वचिदिति।
विश्वास-प्रस्तुतिः
तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुता।
क्रियाकारकसंयोगस्तुतिसंबोधलक्षणः ॥ 13 ॥
मूलम्
तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुता।
क्रियाकारकसंयोगस्तुतिसंबोधलक्षणः ॥ 13 ॥
टिप्पनी 13
पदमन्त्रस्वरूपमाह—क्रियेत्यादि। संबोधः संबोधनम्।
विश्वास-प्रस्तुतिः
नानाभिज्ञासमायुक्तः पदात्मा मन्त्र उच्यते।
एतच्चतुष्टयं मन्त्रं संपूर्णं देवतात्मनि ॥ 14 ॥
मूलम्
नानाभिज्ञासमायुक्तः पदात्मा मन्त्र उच्यते।
एतच्चतुष्टयं मन्त्रं संपूर्णं देवतात्मनि ॥ 14 ॥
टिप्पनी 14
अभिज्ञा संज्ञा।
विश्वास-प्रस्तुतिः
सा चतुष्टयसंबद्धा सिद्धिमिष्टां प्रयच्छति।
क्षेत्रक्षेत्रज्ञभावं च मन्त्राणां त्रिदशेश्वर ॥ 15 ॥
मूलम्
सा चतुष्टयसंबद्धा सिद्धिमिष्टां प्रयच्छति।
क्षेत्रक्षेत्रज्ञभावं च मन्त्राणां त्रिदशेश्वर ॥ 15 ॥
टिप्पनी 15
सा; देवता।
विश्वास-प्रस्तुतिः
विज्ञाय तत्त्वतो मन्त्रान् प्रयुञ्जीत विचक्षणः।
शक्रः—
क्षेत्रक्षेत्रज्ञसद्भावं मन्त्राणां वद मेऽम्बुजे ॥ 16 ॥
मूलम्
विज्ञाय तत्त्वतो मन्त्रान् प्रयुञ्जीत विचक्षणः।
शक्रः—
क्षेत्रक्षेत्रज्ञसद्भावं मन्त्राणां वद मेऽम्बुजे ॥ 16 ॥
2यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।
विश्वास-प्रस्तुतिः
श्रीः—
बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ॥ 17 ॥
मूलम्
श्रीः—
बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ॥ 17 ॥
टिप्पनी 17
बीजवतां मन्त्राणां बीजाक्षरं जीव इत्यर्थः।
विश्वास-प्रस्तुतिः
निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम्।
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ॥ 18 ॥
मूलम्
निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम्।
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ॥ 18 ॥
टिप्पनी 18
आदीति। आद्यक्षरमित्यर्थः। अस्तु; अकारस्त्वित्यर्थः।
विश्वास-प्रस्तुतिः
शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः
क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ॥ 19 ॥
मूलम्
शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः
क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ॥ 19 ॥
टिप्पनी 19
अकाररहिते पुनरिति उत्तरत्रान्वेति। स्वरः; यः कश्चित् स्वर इत्यर्थः। केवले च स्वरे इत्युत्तरत्रान्वेति।
विश्वास-प्रस्तुतिः
जीवः स्यात् प्रथमा मात्रा द्वितीयादि 3तनुर्भवेत्।
एकमात्रे तु जीवः स्यात् संस्कारोऽद्भुतलक्षणः4 ॥ 20 ॥
मूलम्
जीवः स्यात् प्रथमा मात्रा द्वितीयादि 3तनुर्भवेत्।
एकमात्रे तु जीवः स्यात् संस्कारोऽद्भुतलक्षणः4 ॥ 20 ॥
टिप्पनी 20
संस्कार इति। मध्यमा वागित्यर्थः। अत्राष्टादशाध्यायस्थः षड्विंशः श्लोकोऽवधेयः।
विश्वास-प्रस्तुतिः
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः।
प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते5 ॥ 21 ॥
मूलम्
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः।
प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते5 ॥ 21 ॥
टिप्पनी 21
उच्चार्यमाणमिति। वैखरीत्यर्थः।
विश्वास-प्रस्तुतिः
क्षेत्रक्षेत्रज्ञसद्भाव एष ते संप्रदर्शितः।
आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा ॥ 22 ॥
मूलम्
क्षेत्रक्षेत्रज्ञसद्भाव एष ते संप्रदर्शितः।
आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा ॥ 22 ॥
विश्वास-प्रस्तुतिः
एषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः।
बीजाभावे तु मन्त्राणां बीजं कृत्वादिमाक्षरम् ॥ 23 ॥
मूलम्
एषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः।
बीजाभावे तु मन्त्राणां बीजं कृत्वादिमाक्षरम् ॥ 23 ॥
टिप्पनी 23
यत्र मन्त्रे बीजं नास्ति तत्र प्रथमाक्षरमनुस्वारयुतं बीजमित्यर्थः। यथा गणपतये नमः इत्यत्र गं इति बीजमन्त्रः।
विश्वास-प्रस्तुतिः
अनुस्वारयुतं पश्चात् सकलं मन्त्र उच्यते।
प्रक्रीडयन्ति पुरुषं मन्त्रा रागेण रञ्जितम् ॥ 24 ॥
मूलम्
अनुस्वारयुतं पश्चात् सकलं मन्त्र उच्यते।
प्रक्रीडयन्ति पुरुषं मन्त्रा रागेण रञ्जितम् ॥ 24 ॥
विश्वास-प्रस्तुतिः
चतुर्दशविभागस्थे प्राकृते भुवनाध्वनि।
तुर्यवर्जं सुषुप्त्याद्यो प्राकृते च पदाध्वनि ॥ 25 ॥
मूलम्
चतुर्दशविभागस्थे प्राकृते भुवनाध्वनि।
तुर्यवर्जं सुषुप्त्याद्यो प्राकृते च पदाध्वनि ॥ 25 ॥
विश्वास-प्रस्तुतिः
आचार्यदृष्टिपातस्थं पुरुषं संयतेन्द्रियम्।
प्रसादसुमुखा मन्त्रा उत्तार्य भुवनाध्वनः ॥ 26 ॥
मूलम्
आचार्यदृष्टिपातस्थं पुरुषं संयतेन्द्रियम्।
प्रसादसुमुखा मन्त्रा उत्तार्य भुवनाध्वनः ॥ 26 ॥
विश्वास-प्रस्तुतिः
6पदाध्वनश्च वैराग्यं जनयन्तः पदे पदे।
क्रमात्तत्त्वकलावर्णपदवीषु नयन्ति तम् ॥ 27 ॥
मूलम्
6पदाध्वनश्च वैराग्यं जनयन्तः पदे पदे।
क्रमात्तत्त्वकलावर्णपदवीषु नयन्ति तम् ॥ 27 ॥
विश्वास-प्रस्तुतिः
मान्त्रं प्रासादमासाद्य निर्धूताशेषबन्धनः।
लक्ष्मीनारायणाख्यं तद्विशति ब्रह्म शाश्वतम् ॥ 28 ॥
मूलम्
मान्त्रं प्रासादमासाद्य निर्धूताशेषबन्धनः।
लक्ष्मीनारायणाख्यं तद्विशति ब्रह्म शाश्वतम् ॥ 28 ॥
विश्वास-प्रस्तुतिः
शक्रः—
आचार्यः कीदृशो देवि शिष्यस्तस्य च कीदृशः।
मन्त्रेषु कतमो मन्त्रः प्रभवेत् परमाप्तये ॥ 29 ॥
मूलम्
शक्रः—
आचार्यः कीदृशो देवि शिष्यस्तस्य च कीदृशः।
मन्त्रेषु कतमो मन्त्रः प्रभवेत् परमाप्तये ॥ 29 ॥
विश्वास-प्रस्तुतिः
कथं स चोपदेष्टव्य एतद् ब्रूहि नमोऽस्तु ते।
श्रीः—
सर्वलक्षणसंयुक्तो7 ब्राह्नणे वेदपारगः ॥ 30 ॥
मूलम्
कथं स चोपदेष्टव्य एतद् ब्रूहि नमोऽस्तु ते।
श्रीः—
सर्वलक्षणसंयुक्तो7 ब्राह्नणे वेदपारगः ॥ 30 ॥
विश्वास-प्रस्तुतिः
षट्कर्मनिरतः शान्तः पञ्चकालरतः शुचिः।
पञ्चरात्रार्थविन्मौनी मन्त्राक्षरकृतश्रमः ॥ 31 ॥
मूलम्
षट्कर्मनिरतः शान्तः पञ्चकालरतः शुचिः।
पञ्चरात्रार्थविन्मौनी मन्त्राक्षरकृतश्रमः ॥ 31 ॥
विश्वास-प्रस्तुतिः
न स्थूलो न कृशो ह्रस्वो न काणो नैव रोगवान्।
नान्धो न बधिरो मूढो न खल्वाटो न पङ्गुकः ॥ 32 ॥
मूलम्
न स्थूलो न कृशो ह्रस्वो न काणो नैव रोगवान्।
नान्धो न बधिरो मूढो न खल्वाटो न पङ्गुकः ॥ 32 ॥
विश्वास-प्रस्तुतिः
न हीनाङ्गोऽतिरिक्ताङ्गो न श्वित्री न च डाम्भिकः।
न क्रोधनो न दुश्चर्मा न लोभहतचेतनः ॥ 33 ॥
मूलम्
न हीनाङ्गोऽतिरिक्ताङ्गो न श्वित्री न च डाम्भिकः।
न क्रोधनो न दुश्चर्मा न लोभहतचेतनः ॥ 33 ॥
विश्वास-प्रस्तुतिः
अकुलीनं दुराचारं शठं जिह्नं च वर्जयेत्।
दयादान्तिशमोपेतं[^8] दृढभक्तिं क्रियापरम् ॥ 34 ॥
मूलम्
अकुलीनं दुराचारं शठं जिह्नं च वर्जयेत्।
दयादान्तिशमोपेतं[^8] दृढभक्तिं क्रियापरम् ॥ 34 ॥
विश्वास-प्रस्तुतिः
सत्यवाक्छीलसंपन्नं रेखाकर्मसु कौशलम्।
जितेन्द्रियं सुसुतुष्ट करुणापूर्णमानसम् ॥ 35 ॥
मूलम्
सत्यवाक्छीलसंपन्नं रेखाकर्मसु कौशलम्।
जितेन्द्रियं सुसुतुष्ट करुणापूर्णमानसम् ॥ 35 ॥
विश्वास-प्रस्तुतिः
8आर्यलक्षणसंपन्नमार्जवं चारुहासिनम्।
9एवंगुणगणाकीर्णं गुरुं विद्यात्तु वैष्णवम्10 ॥ 36 ॥
विश्वास-प्रस्तुतिः
शिष्यश्च तादृशो ज्ञेयः सर्वलक्षणलक्षितः।
क्षान्तिशीलं सुधीमन्तं11 क्रोधलोभविवर्जितम् ॥ 37 ॥
मूलम्
शिष्यश्च तादृशो ज्ञेयः सर्वलक्षणलक्षितः।
क्षान्तिशीलं सुधीमन्तं11 क्रोधलोभविवर्जितम् ॥ 37 ॥
विश्वास-प्रस्तुतिः
स्नानार्चनरतं12 नित्यं गुरुशुश्रूषणोद्यतम्।
विप्राग्निदेवपितृषु भक्तं तर्पणशीलिनम् ॥ 38 ॥
मूलम्
स्नानार्चनरतं12 नित्यं गुरुशुश्रूषणोद्यतम्।
विप्राग्निदेवपितृषु भक्तं तर्पणशीलिनम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
कुलीनं च तथा प्राज्ञं शास्त्रार्थनिरतं सदा।
ब्राह्नणं क्षत्रियं वैश्यं शूद्रं वा भगवत्परम् ॥ 39 ॥
मूलम्
कुलीनं च तथा प्राज्ञं शास्त्रार्थनिरतं सदा।
ब्राह्नणं क्षत्रियं वैश्यं शूद्रं वा भगवत्परम् ॥ 39 ॥
विश्वास-प्रस्तुतिः
ईदृग्लक्षणसंयुक्तं शिष्यमार्जवसंयुतम्।
वर्णधर्मक्रियोपेतां नारीं वा सद्विवेकिनीम् ॥ 40 ॥
मूलम्
ईदृग्लक्षणसंयुक्तं शिष्यमार्जवसंयुतम्।
वर्णधर्मक्रियोपेतां नारीं वा सद्विवेकिनीम् ॥ 40 ॥
13विद्यादनुमते पत्युरनन्यां पतिमानिनम्।
एवंलक्षणकं शिष्यमाचार्यो भगवन्मयः।
14ज्ञापयेद्विधिवन्मन्त्रान् गुरुदृष्ट्या समीक्ष्य तु ॥ 41 ॥
टिप्पनी 41
अनेन स्रीशूद्रयोरपि तान्त्रिकमन्त्रग्रहणे अधिकारो विधीते। परं तु तारविषये विशेषो ग्रन्थान्तरेष्ववगन्तव्यः।
इति 15श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे गुरुशिष्यलक्षणं नाम एकविंशोऽध्यायः
इत्येकविंशोऽध्यायः