विश्वास-प्रस्तुतिः
विंशोऽध्यायः - 20
शक्रः—
नमो निखिलनिर्माणत्राणसंहारशक्तये।
हरेः स्वरूपभूतायै नमस्ते ज्ञानरूपिणि ॥ 1 ॥
मूलम्

त्वत्प्रसादान्मया पद्मे रहस्यं परमं श्रुतम्।
वर्णाध्वानं यथावन्मे1 भूयस्त्वं वक्तुमर्हसि ॥ 2 ॥

श्रीः2—
शृणु वर्णाध्वनो रीतिमाद्यां त्रिदशपुंगव।
प्राप्नोति यत्परिज्ञानात्साधको 3मत्सरूपताम् ॥ 3 ॥

वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत् परम्।
अनस्तमितभारूपं सर्वाभिन्नमहंपदम् ॥ 4 ॥

अहंता नाम सा शक्तिस्तदभिन्ना सदोदिता।
अनस्तमितभारूपा वेद्यवेदकवर्जिता ॥ 5 ॥
मूलम्
अहंता नाम सा शक्तिस्तदभिन्ना सदोदिता।
अनस्तमितभारूपा वेद्यवेदकवर्जिता ॥ 5 ॥
विश्वास-प्रस्तुतिः
प्रकाशानन्दसाराहं सर्वतः समतां गता।
कोटिकोट्ययुतैकांशकोट्यंशे क्षुभिता सती ॥ 6 ॥

शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि।
मुक्तयेऽखिलजीवानामुदेमि परमेश्वरात् ॥ 7 ॥

तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः।
पृथग्वर्णात्मना याति स्थितये नैकधा4 स तु ॥ 8 ॥

सूक्ष्मवर्णस्वरूपोऽसौ धारासंतानरूपधृत्।
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य विवेकिनः5 ॥ 9 ॥

टिप्पनी 9
भुवनाध्वपदाध्वमन्त्राध्वतत्त्वाध्वकलाध्वानः पञ्चाध्वानः। मायाप्रसूतिप्रकृतिब्रह्माण्डजीवदेहाख्याः पञ्च कोशाः।
विश्वास-प्रस्तुतिः
6अनुभूतिपदं याति प्रसादात् परमात्मनः।
मच्चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना7 ॥ 10 ॥
टिप्पनी 10
चातुरात्म्यं वासुदेवसंकर्षणादिकम्। तदात्मना; वर्णात्मना। तच्चानन्तरमेव वक्ष्यते।
विश्वास-प्रस्तुतिः
प्रभवाप्यययोगेन भारूपध्वनिलक्षणः।
सकारान्तस्त्वकाराच्च हकारादान्त एव च ॥ 11 ॥

टिप्पनी 11
उत्पत्तिक्रमे ध्वनिलक्षणः। अप्ययक्रमे परारूपेण चिल्लक्षणः। अकारमारभ्य सकारपर्यन्तं गणने अष्टचत्वारिंशत् वर्णा भवन्ति। यथा—स्वराः षोडश, स्पर्शाः पञ्चविंशतिः, अन्तःस्थाश्चत्वारः, हकारं विहायोष्माणस्रय इति। एवं हकारमारभ्य दीर्घाकारपर्यन्तगणनेऽपि।
विश्वास-प्रस्तुतिः
प्रभवे द्वादशान्तस्तु हकारश्चतुरात्मनाम्।
अकारस्त्वप्यये चैतौ द्वादशान्तावुभौ समौ ॥ 12 ॥

टिप्पनी 12
चतुरात्मनां वासुदेवादीनां प्रभवे हकारो द्वादशान्तो भवति। अप्यये तु अकारस्तथा। अयं भावः—पूर्वोक्ताष्टचत्वारिंशद्वर्णानां द्वादशधा विभागे प्रतिविभागं चत्वारो वर्णाः संपद्यन्ते। एते च क्रमेण वासुदेवादिभिश्चतुर्भिरधिष्ठिता भवन्ति। द्वादशभागान्ते प्रभवे हकारः लये अकारश्च भवत इति।
विश्वास-प्रस्तुतिः
वार्णे व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना।
विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः ॥ 13 ॥

टिप्पनी 13
प्रतिविभागमास्थिता वासुदेवादयः क्रमेण विश्रामोदयव्याप्तिव्यक्तिरूपा ज्ञेयाः।
विश्वास-प्रस्तुतिः
अत्रैकैकोपरि ज्ञेया मूर्तिर्वै त्वेवमेव हि।
8युक्ता विश्रामपूर्वेण चतुष्केण समासतः ॥ 14 ॥

विश्रामं चिन्तयेद्देवं वासुदेवं सनातनम्।
अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् ॥ 15 ॥

टिप्पनी 15
तदेव विशदयति—विश्राममित्यादिना।
विश्वास-प्रस्तुतिः
संकर्षणादितत्त्वानि विश्राम्यन्ति लयेऽत्र हि।
ततः संकर्षणं देवमाकारमुदयं स्मरेत् ॥ 16 ॥

उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम्।
व्याप्तं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत् ॥ 17 ॥

विविधं प्राप्यते तेन त्रयीकर्मात्मना जगत्।
अनिरुद्धं व्यक्तिरूपमीकारं तमनुस्मरेत् ॥ 18 ॥

व्यज्यन्ते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः।
दण्डवत्संनिवेशेन संस्थिता ह्येवमेव हि ॥ 19 ॥

आ सकाराच्चतूरूपयुक्ता मे चतुरात्मता।
स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम् ॥ 20 ॥

टिप्पनी 20
आ सकारादिति। सकारपर्यन्तमित्यर्थः।
विश्वास-प्रस्तुतिः
हकारं वासुदेवं तु विश्रामं परिचिन्तयेत्।
संकर्षणं सकारं तमुदयं त्वप्यये स्मरेत् ॥ 21 ॥

टिप्पनी 21
लयक्रमे चातुरात्म्यनिवेशमाह—हकारमिति।
विश्वास-प्रस्तुतिः
एवमाकारतो दिव्यां चिन्तयेच्चतुरात्मताम्।
द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम्9 ॥ 22 ॥

टिप्पनी 22
आकारत इति। आकारपर्यन्तमित्यर्थः।
विश्वास-प्रस्तुतिः
सोपानभूतं यत्क्रान्त्वा द्वादशान्ताद्विशेत् परम्10।
एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता ॥ 23 ॥

सूक्ष्मा तच्चातुरात्मीया भारूपा मन्मयी परा।
मध्यमा पूर्वमेवोक्ता विशेषं तत्र मे शृणु ॥ 24 ॥

धारणाः पूर्वमुक्ता याश्चतस्रो मत्स्वरूपिकाः।
वकाराख्यानिरुद्धस्य शक्तिः सा रागसंज्ञिता11 ॥ 25 ॥

माया नाम महालक्ष्मीर्लकारापरनामिका।
विद्या या रेफसंज्ञाता महावाणी तु सा स्मृता ॥ 26 ॥

वातसंज्ञा महाकाली क्रियाशक्तिर्यकारिणी।
ब्रह्माद्या मूर्तयस्तिस्रः पत्न्यस्रय्यादयश्च याः ॥ 27 ॥

तज्ज्ञेयं सकलं सूक्ष्ममकारस्यादिमेंऽशके।
मध्यमे भोक्तृकूटस्थः पुरुषोंऽशे प्रतिष्ठितः ॥ 28 ॥

संसारी पुरुषः सर्वश्चरमांशेऽवतिष्ठते।
एषा ते मध्यमा रीतिर्वर्णमार्गस्य दर्शिता ॥ 29 ॥

चरमामथ वक्ष्यामि रीतिं बलनिषूदन।
वैखरी चरमा रीतिः प्रयत्नस्थानभेदिनी ॥ 30 ॥

व्यक्तवाचां समुच्चारे सा स्फुटीभवति ध्रवम्।
जीवानां देहबद्धानां तत्तत्सन्मार्गदर्शिका ॥ 31 ॥

मातृका जायते सेयं विष्णुशक्त्युपबृंहिता।
विष्णुवत्तत्र पञ्चाशच्छक्तयः परिकीर्तिताः ॥ 32 ॥

12अधितिष्ठन्ति ये यां च मातृकां वर्णमालिनीम्।
वासुदेवादयो व्यूहा दश द्वौ केशवादयः ॥ 33 ॥

स्वराधिष्ठायिनो देवाः शक्तीस्तेषामिमाः शृणु।
लक्ष्मीः कीर्तिर्जया माया व्यूहशक्तय ईरिताः ॥ 34 ॥

श्रीश्च वागीश्वरी कान्तिक्रियाशान्तिविभूतयः।
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च ॥ 35 ॥

शक्तयः केशवादीनां ता एताः स्वरशक्तयः।
काद्यधिष्ठायिनो देवान् गदन्त्या मे निशामय ॥ 36 ॥

पद्मनाभादिनामानो विष्णवः कादिदेवातः।
पद्मनाभो ध्रुवोऽनन्तः शक्तीशो मधुसूदनः ॥ 37 ॥

टिप्पनी 37
पद्मनाभादयो विभवभेदाः पूर्वमेवैकादशाध्याये पठिता ज्ञातव्याः।
विश्वास-प्रस्तुतिः
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः।
13क्रोडात्मा बडबावक्त्त्रो धर्मो वागीश्वरस्तथा ॥ 38 ॥

एकार्णवशयो देवः कूर्मः पातालधारकः।
वराहो नारसिंहश्चाप्यमृताहरणस्तथा ॥ 39 ॥
मूलम्
एकार्णवशयो देवः कूर्मः पातालधारकः।
वराहो नारसिंहश्चाप्यमृताहरणस्तथा ॥ 39 ॥
विश्वास-प्रस्तुतिः
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः।
राहुजित् कालनेमिघ्नः पारिजातहरो महान् ॥ 40 ॥

लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः ॥ 41 ॥

देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 42 ॥

ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः।
वेदविद्भगवान् कल्की पातालशयनः प्रभुः ॥ 43 ॥

एतेष्वन्त्येषु चत्वारो देवा रामादयो हि ये।
ते रङ्गयमयोर्जिह्वामूलोपध्मानयोरपि ॥ 44 ॥

टिप्पनी 44
रङ्गः अनुनासिकः। यमाः प्रातिशाख्ये प्रसिद्धा वर्णविशेषाः।
विश्वास-प्रस्तुतिः
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च।
संख्या विश्वा खगा भूर्गौर्लक्ष्मीर्वागीश्वरी तथा ॥ 45 ॥

अमृता धरणी छाया नारसिंही सुधा तथा14।
श्रीः कीर्तिर्विश्वकामा मा सत्या कान्तिः सरोरुहा ॥ 46 ॥

माया पद्मासना खर्वा विक्रान्तिर्नरसंभवा।
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ॥ 47 ॥

वैदेही 15वेदविद्या च पद्मिनी नागशायिनी16।
मदंशका इमा देव्यो विज्ञेयाः कादिशक्तयः ॥ 48 ॥
विश्वास-प्रस्तुतिः
भवोपकरणैश्चेयं मातृकाधिष्ठिता सुरैः।
श्रीकण्ठानन्दसूक्ष्माद्यैर्लम्बोदर्यादिशक्तिभिः ॥ 49 ॥

विननायकैश्च दुर्गाभिः क्षेत्रेशैर्मातृभिस्तथा।
समयस्थैस्तथा बौद्धैरार्हतैरपि चापरैः ॥ 50 ॥

यथा हि क्षुधिता बाला मातरं पर्युपासते।
एवं सर्वे सुरा देवीं मातृकां पर्युपासते ॥ 51 ॥

इयं योनिर्हि मन्त्राणां विद्यानां जन्मभूरियम्।
तत्त्वानां तात्त्विकानां च ज्ञानानां प्रसवस्थली ॥ 52 ॥

इति 17श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मातृकाप्रकाशो नाम विंशोऽध्यायः
इति विंशोऽध्यायः
-
श्रीपञ्चरात्र A.; श्रीप़ञ्चरात्रे I. ↩︎