विश्वास-प्रस्तुतिः
एकोनविंशोऽध्यायः - 19
श्रीः1—
सिसृक्षालक्षणा पूर्वा पूर्णाहंता हरेरहम्।
सृष्टिरूपा परा शक्तिरूपेत्येवोदितास्म्यहम् ॥ 1 ॥
मूलम्
एकोनविंशोऽध्यायः - 19
श्रीः1—
सिसृक्षालक्षणा पूर्वा पूर्णाहंता हरेरहम्।
सृष्टिरूपा परा शक्तिरूपेत्येवोदितास्म्यहम् ॥ 1 ॥
टिप्पनी 1
सिसृक्षावस्थायाम् अहंतेति नाम्ना प्रथिता। सृष्ट्यवस्थायां परा शक्तिरिति नाम्ना प्रथिता।
विश्वास-प्रस्तुतिः
दश पञ्च च तुल्या मे दशास्त्रिदशनन्दन।
अनुत्तरं स्वसंवेद्यं चिद्रूपं मम शाश्वतम् ॥ 2 ॥
मूलम्
दश पञ्च च तुल्या मे दशास्त्रिदशनन्दन।
अनुत्तरं स्वसंवेद्यं चिद्रूपं मम शाश्वतम् ॥ 2 ॥
टिप्पनी 2
दशेत्यादि; अकारादिबिन्द्वन्ताः पञ्चदश दशा ज्ञेयाः। विसर्गस्य दशाप्रकृतित्वात् दशासु न परिगणनमिति ज्ञेयम्।
विश्वास-प्रस्तुतिः
वाक्तत्त्वं तदकारात्मा सर्ववाङ्मयसंभवः।
तदेवानन्दरूपेण द्वितीयः स्वर इष्यते ॥ 3 ॥
मूलम्
वाक्तत्त्वं तदकारात्मा सर्ववाङ्मयसंभवः।
तदेवानन्दरूपेण द्वितीयः स्वर इष्यते ॥ 3 ॥
विश्वास-प्रस्तुतिः
इच्छात्मना तृतीयः स्यादीशानात्मा तुरीयकः।
उन्मेषः पञ्चमः षष्ठ ऊर्जतारूप उच्यते ॥ 4 ॥
मूलम्
इच्छात्मना तृतीयः स्यादीशानात्मा तुरीयकः।
उन्मेषः पञ्चमः षष्ठ ऊर्जतारूप उच्यते ॥ 4 ॥
विश्वास-प्रस्तुतिः
चतुष्कं मध्यमं यत्तदिच्छादेरेव विक्रिया।
अनुत्तरेच्छासंयोगादेकारो नाम जायते ॥ 5 ॥
मूलम्
चतुष्कं मध्यमं यत्तदिच्छादेरेव विक्रिया।
अनुत्तरेच्छासंयोगादेकारो नाम जायते ॥ 5 ॥
टिप्पनी 5
चतुष्कमिति। ऋॠलृलॄकाररूपमित्यर्थः। तस्मात् तेषां न पृथक् ग्रहणं कृतम्।
विश्वास-प्रस्तुतिः
तस्यैवानन्दसंयोगाज्जागद्योनिरुदाहृता।
अनुत्तरोन्मेषयोगादोकारो नाम जायते ॥ 6 ॥
मूलम्
तस्यैवानन्दसंयोगाज्जागद्योनिरुदाहृता।
अनुत्तरोन्मेषयोगादोकारो नाम जायते ॥ 6 ॥
टिप्पनी 6
जगद्योनिः ऐकारः।
विश्वास-प्रस्तुतिः
तस्यैवानुत्तरश्लेषात् सद्योजातसमुद्भवः।
अनुत्तराद्भवन्त्येते विकासा वेद्यसंश्रयाः ॥ 7 ॥
मूलम्
तस्यैवानुत्तरश्लेषात् सद्योजातसमुद्भवः।
अनुत्तराद्भवन्त्येते विकासा वेद्यसंश्रयाः ॥ 7 ॥
टिप्पनी 7
सद्योजातः औकारः।
विश्वास-प्रस्तुतिः
तादृक्तादृक्समुन्मेषा आनन्दाद्यास्त्रयोदश।
त्रयोदशतयोन्मेषाः श्रिता वेदनशेषिताम् ॥ 8 ॥
मूलम्
तादृक्तादृक्समुन्मेषा आनन्दाद्यास्त्रयोदश।
त्रयोदशतयोन्मेषाः श्रिता वेदनशेषिताम् ॥ 8 ॥
टिप्पनी 8
वेदनशेषिताम्; संविद्रूपेण परिशेषिताम्। अस्य सूक्ष्मदशामित्युत्तरेणान्वयः।
विश्वास-प्रस्तुतिः
अनुत्तरीं सूक्ष्मदशां स तु 2पञ्चदशः स्वरः।
एताः पञ्चदशावस्था विसृष्टेः स्फुरणोद्यमाः ॥ 9 ॥
मूलम्
अनुत्तरीं सूक्ष्मदशां स तु 2पञ्चदशः स्वरः।
एताः पञ्चदशावस्था विसृष्टेः स्फुरणोद्यमाः ॥ 9 ॥
टिप्पनी 9
सूक्ष्मदशा बिन्दुः। स च पञ्चदशः अकारमारभ्य गणने भवति।
विश्वास-प्रस्तुतिः
दशभिः पञ्चभिश्चैवमङ्गैः 3पूर्णा सिसृक्षया।
4दैवी सृष्टिमयी शक्तिः कृत्ये कृत्ये कृतोद्यमा ॥ 10 ॥
मूलम्
दशभिः पञ्चभिश्चैवमङ्गैः 3पूर्णा सिसृक्षया।
4दैवी सृष्टिमयी शक्तिः कृत्ये कृत्ये कृतोद्यमा ॥ 10 ॥
टिप्पनी 10
सिसृक्षयेति हेतौ तृतीया।
विश्वास-प्रस्तुतिः
विसृजत्यास्तु तस्या मे तत्त्वानां पञ्चविंशतिम्5।
पुरुषाद्याः पृथिव्यन्ताः कादिमान्ताः समुद्गताः ॥ 11 ॥
मूलम्
विसृजत्यास्तु तस्या मे तत्त्वानां पञ्चविंशतिम्5।
पुरुषाद्याः पृथिव्यन्ताः कादिमान्ताः समुद्गताः ॥ 11 ॥
टिप्पनी 11
मे इति पञ्चम्यर्थे विभक्तिप्रतिरूपकमव्ययम्; मदित्यर्थः। समुद्गता इत्यनेनान्वेति। कादिमान्ता इति व्युत्क्रमेणान्वयः।
विश्वास-प्रस्तुतिः
तत्तदक्षरसंस्फूर्तेस्तत्तत्तत्त्वं समुद्गतम्।
चतुष्कं धाराणारूपं यादिवान्तमुदीर्यते ॥ 12 ॥
मूलम्
तत्तदक्षरसंस्फूर्तेस्तत्तत्तत्त्वं समुद्गतम्।
चतुष्कं धाराणारूपं यादिवान्तमुदीर्यते ॥ 12 ॥
टिप्पनी 12
धारणेति। परदशाया अपरदशामवतरतः पुरुषस्य धारणात् धारणेति समाख्या।
विश्वास-प्रस्तुतिः
धारयन्ति यतो मध्ये पुरुषं धारणाः स्मृताः।
कला किंचित्क्रियारूपा यकारो वातसंज्ञितः6 ॥ 13 ॥
मूलम्
धारयन्ति यतो मध्ये पुरुषं धारणाः स्मृताः।
कला किंचित्क्रियारूपा यकारो वातसंज्ञितः6 ॥ 13 ॥
विश्वास-प्रस्तुतिः
किंचिज्ज्ञानात्मिका विद्या रेफः पावकसंज्ञितः।
स्तम्भमोहात्मिका माया लकारः पृथिवी मतः ॥ 14 ॥
मूलम्
किंचिज्ज्ञानात्मिका विद्या रेफः पावकसंज्ञितः।
स्तम्भमोहात्मिका माया लकारः पृथिवी मतः ॥ 14 ॥
विश्वास-प्रस्तुतिः
रञ्जनात्मा रागशक्तिर्वकारो वरुणात्मकः।
परापरदशामध्ये धारयन्त्यो नरं सदा ॥ 15 ॥
मूलम्
रञ्जनात्मा रागशक्तिर्वकारो वरुणात्मकः।
परापरदशामध्ये धारयन्त्यो नरं सदा ॥ 15 ॥
विश्वास-प्रस्तुतिः
चतस्रो धारणा ज्ञेयास्ता एतास्तत्त्वकोविदैः।
शादिक्षान्तं तु विज्ञेयं विशुद्धं ब्रह्मपञ्चकम् ॥ 16 ॥
मूलम्
चतस्रो धारणा ज्ञेयास्ता एतास्तत्त्वकोविदैः।
शादिक्षान्तं तु विज्ञेयं विशुद्धं ब्रह्मपञ्चकम् ॥ 16 ॥
विश्वास-प्रस्तुतिः
शषसहोऽनिरुद्धाद्या विज्ञेयास्त्रिदशेश्वर।
सृजन्त्याः क्षुभितं रूपं सृष्ट्यादौ यन्ममाद्भुतम् ॥ 17 ॥
मूलम्
शषसहोऽनिरुद्धाद्या विज्ञेयास्त्रिदशेश्वर।
सृजन्त्याः क्षुभितं रूपं सृष्ट्यादौ यन्ममाद्भुतम् ॥ 17 ॥
टिप्पनी 17
अनिरुद्धाद्या इति क्रमेणान्वयः। शकारः अनिरुद्धात्मकः।
विश्वास-प्रस्तुतिः
क्षोभिका सा महाशक्तिः क्षात्मा सत्यापराह्वया।
पृथिव्याद्या वियत्प्रान्ता या दिव्याः पञ्च शक्तयः ॥ 18 ॥
मूलम्
क्षोभिका सा महाशक्तिः क्षात्मा सत्यापराह्वया।
पृथिव्याद्या वियत्प्रान्ता या दिव्याः पञ्च शक्तयः ॥ 18 ॥
टिप्पनी 18
क्षकारस्य सत्यात्मकत्वमाह—क्षोभिकेति।
विश्वास-प्रस्तुतिः
बलादिपञ्चकात्मानो दिव्या मत्सत्त्वनामिकाः।
ज्ञानात्मानो ममोद्यत्यास्ता एताः शादिशक्तयः ॥ 19 ॥
मूलम्
बलादिपञ्चकात्मानो दिव्या मत्सत्त्वनामिकाः।
ज्ञानात्मानो ममोद्यत्यास्ता एताः शादिशक्तयः ॥ 19 ॥
टिप्पनी 19
बलादीति। बलैश्वर्यवीर्यशक्तितेजांसीत्यर्थः।
विश्वास-प्रस्तुतिः
विसर्गो नाम यः प्रोक्तः पुरा पञ्चदशाङ्गवान्।
साहं सोममयी शक्तिः किरणायुतसंकुला ॥ 20 ॥
मूलम्
विसर्गो नाम यः प्रोक्तः पुरा पञ्चदशाङ्गवान्।
साहं सोममयी शक्तिः किरणायुतसंकुला ॥ 20 ॥
विश्वास-प्रस्तुतिः
7संकोचश्च विकासश्च तावेव परिकीर्तितौ।
अङ्गानामन्तिमो यस्तु प्रोक्तः पञ्चदशो मया ॥ 21 ॥
मूलम्
7संकोचश्च विकासश्च तावेव परिकीर्तितौ।
अङ्गानामन्तिमो यस्तु प्रोक्तः पञ्चदशो मया ॥ 21 ॥
टिप्पनी 21
बिन्दुः संकोचः। विसर्गः विकासः। अन्तिम इति। बिन्दुरित्यर्थः।
विश्वास-प्रस्तुतिः
आदानशीलं तं विद्धि सूर्यं भोक्तारमञ्जसा।
सूर्याचन्द्रमसावेतौ बिन्दुसर्गौ पुरंदर ॥ 22 ॥
मूलम्
आदानशीलं तं विद्धि सूर्यं भोक्तारमञ्जसा।
सूर्याचन्द्रमसावेतौ बिन्दुसर्गौ पुरंदर ॥ 22 ॥
टिप्पनी 22
भोक्तारम्; संहारकमित्यर्थः। बिन्दुः सूर्यः। विसर्गश्चन्द्रमा इत्यर्थः।
विश्वास-प्रस्तुतिः
8किरणाः सप्त सप्त स्युर्देवयोरनयोर्द्वयोः।
चतुर्दश स्वराः शिष्टाः सप्त युग्मानि कल्पयेत् ॥ 23 ॥
मूलम्
8किरणाः सप्त सप्त स्युर्देवयोरनयोर्द्वयोः।
चतुर्दश स्वराः शिष्टाः सप्त युग्मानि कल्पयेत् ॥ 23 ॥
विश्वास-प्रस्तुतिः
तेषु सप्तसु युग्मेषु पूर्वे सप्त पुरंदर।
शोषकाः सूर्यरूपाया भोक्त्राक्याया ममांशवः ॥ 24 ॥
मूलम्
तेषु सप्तसु युग्मेषु पूर्वे सप्त पुरंदर।
शोषकाः सूर्यरूपाया भोक्त्राक्याया ममांशवः ॥ 24 ॥
टिप्पनी 24
पूर्वे सप्तेति। अ, इ, उ, ऋ, लृ, ए, ओ इति सप्तेत्यर्थः।
विश्वास-प्रस्तुतिः
उत्तरे सप्त युग्मेषु शीतलाह्लादकारिणः।
पोषकाः सोमरूपाया भोग्याख्याया ममांशवः ॥ 25 ॥
मूलम्
उत्तरे सप्त युग्मेषु शीतलाह्लादकारिणः।
पोषकाः सोमरूपाया भोग्याख्याया ममांशवः ॥ 25 ॥
टिप्पनी 25
उत्तरे सप्तेति। आ, ई, ऊ, ॠ, लॄ, ऐ औ इति सप्तेत्यर्थः।
विश्वास-प्रस्तुतिः
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे।
पाक इत्युदिताः पूर्वे किरणाः सूर्यसंभवाः ॥ 26 ॥
मूलम्
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे।
पाक इत्युदिताः पूर्वे किरणाः सूर्यसंभवाः ॥ 26 ॥
टिप्पनी 26
अकाराद्योकारान्तानां सप्तानां युग्मस्थपूर्ववर्णआनां सूर्यकिरणात्मकत्वं गुणांश्चाह—आलोक इत्यादि। तथा च जयाख्ये—“आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे। पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः। अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात्”॥ (6-13) इति। अत्रानुस्वारमपि संयोज्याष्टत्वमुक्तम्।
विश्वास-प्रस्तुतिः
9द्रवता शीतभावश्च शान्तिः10 किरणैः कान्तिशालिनी।
रसतानन्द इत्येते सप्त चान्द्रमसाः कराः ॥ 27 ॥
मूलम्
9द्रवता शीतभावश्च शान्तिः10 किरणैः कान्तिशालिनी।
रसतानन्द इत्येते सप्त चान्द्रमसाः कराः ॥ 27 ॥
टिप्पनी 27
एवमुत्तरवर्णानां सोमकिरणात्मकत्वं गुणांश्चाह—द्रवतेत्यादिना। जयाख्ये च—“द्रवता शैत्यभावश्च तृप्तिः कान्तिः प्रसन्नता। रसतास्वाद आनन्दो ह्यष्टौ चान्द्रा इमे मताः॥” (6-15) इति। अत्र विसर्गं संयोज्याष्टत्वं भाव्यम्।
विश्वास-प्रस्तुतिः
अग्नीषोमात्मकैरेभिः11 किरणैः कान्तिशालिनी।
पुमांसं बिन्दुरूपं तमङ्गीकृत्य विशेषणी ॥ 28 ॥
मूलम्
अग्नीषोमात्मकैरेभिः11 किरणैः कान्तिशालिनी।
पुमांसं बिन्दुरूपं तमङ्गीकृत्य विशेषणी ॥ 28 ॥
विश्वास-प्रस्तुतिः
सोमरूपोत्तरा शक्तिकोटिमण्डलमण्डिता।
महासृष्टिर्महानन्दा प्रवर्तेऽन्त्यस्वरात्मना ॥ 29 ॥
मूलम्
सोमरूपोत्तरा शक्तिकोटिमण्डलमण्डिता।
महासृष्टिर्महानन्दा प्रवर्तेऽन्त्यस्वरात्मना ॥ 29 ॥
विश्वास-प्रस्तुतिः
12तस्याः प्रवर्तमानाया उद्गतं ब्रह्मपञ्चकम्।
क्षादि शान्तं सुरेशान शक्त्युन्मेषविशेषितम् ॥ 30 ॥
मूलम्
12तस्याः प्रवर्तमानाया उद्गतं ब्रह्मपञ्चकम्।
क्षादि शान्तं सुरेशान शक्त्युन्मेषविशेषितम् ॥ 30 ॥
विश्वास-प्रस्तुतिः
क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया।
वासुदेवाख्यया होऽभूता साख्यः संकर्षणोदयः ॥ 31 ॥
मूलम्
क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया।
वासुदेवाख्यया होऽभूता साख्यः संकर्षणोदयः ॥ 31 ॥
टिप्पनी 31
क्षादिशान्ताधिष्ठायिब्रह्मपञ्चकनामान्याह—सत्येत्यादिना।
विश्वास-प्रस्तुतिः
प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया।
ता एताः शक्तयः पञ्च पञ्चब्रह्मात्मिकाः पराः ॥ 32 ॥
मूलम्
प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया।
ता एताः शक्तयः पञ्च पञ्चब्रह्मात्मिकाः पराः ॥ 32 ॥
टिप्पनी 32
ब्रह्मात्मिकाः; ब्रह्ममय्य इत्यर्थः।
विश्वास-प्रस्तुतिः
स्फूर्तयो मदभिन्नास्ता जगदुत्पत्तिहेतवः।
ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः ॥ 33 ॥
मूलम्
स्फूर्तयो मदभिन्नास्ता जगदुत्पत्तिहेतवः।
ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः ॥ 33 ॥
टिप्पनी 33
ब्रह्मणो ममेति। ब्रह्माभिन्नाया ममेत्यर्थः।
विश्वास-प्रस्तुतिः
चतस्रो धारणा जाता वाद्या यान्ताः पुरंदर।
तुर्याद्या जाग्रदन्तास्ता अवस्थाः परिकीर्तिताः ॥ 34 ॥
मूलम्
चतस्रो धारणा जाता वाद्या यान्ताः पुरंदर।
तुर्याद्या जाग्रदन्तास्ता अवस्थाः परिकीर्तिताः ॥ 34 ॥
विश्वास-प्रस्तुतिः
पुमांसं धारयन्त्येता मध्यतो दशयोर्द्वयोः।
यैषा ब्रह्मदशा प्रोक्ता प्राकृती भादिका13 च या ॥ 35 ॥
मूलम्
पुमांसं धारयन्त्येता मध्यतो दशयोर्द्वयोः।
यैषा ब्रह्मदशा प्रोक्ता प्राकृती भादिका13 च या ॥ 35 ॥
टिप्पनी 35
मध्यत इति। परापरदशयोर्मध्ये इत्यर्थः। भादिकेति। भकारादिककारपर्यन्ताधिष्ठातृभूताः प्रकृत्यादिपृथिव्यन्ता ज्ञेयाः।
विश्वास-प्रस्तुतिः
मध्ये तयोर्मकाराख्यो धारणानां चतुष्कतः।
14ध्रियते स पुमान् प्रोक्तो जाग्रदादिविभेदवान् ॥ 36 ॥
मूलम्
मध्ये तयोर्मकाराख्यो धारणानां चतुष्कतः।
14ध्रियते स पुमान् प्रोक्तो जाग्रदादिविभेदवान् ॥ 36 ॥
विश्वास-प्रस्तुतिः
यदि न ध्रियते ताभिर्दशामन्यतरां व्रजेत्।
ब्राह्नीं वा प्राकृतीं वापि नैव स्यात् संसृतिस्ततः ॥ 37 ॥
मूलम्
यदि न ध्रियते ताभिर्दशामन्यतरां व्रजेत्।
ब्राह्नीं वा प्राकृतीं वापि नैव स्यात् संसृतिस्ततः ॥ 37 ॥
विश्वास-प्रस्तुतिः
15इत्यर्थं धारणा मत्तः प्रादुर्भूता ममाज्ञया।
ततो दशाचतुष्कस्थः पुरुषो भोक्तृसंज्ञकः ॥ 38 ॥
मूलम्
15इत्यर्थं धारणा मत्तः प्रादुर्भूता ममाज्ञया।
ततो दशाचतुष्कस्थः पुरुषो भोक्तृसंज्ञकः ॥ 38 ॥
टिप्पनी 38
धारणाः अन्तःस्थाः। ब्रह्मप्राकृतदशामध्यस्थत्वात् अन्तःस्था इत्युक्ताः। अहिर्बुध्न्ये तु—“अन्तःस्था इति च प्रोक्ता अन्तःस्थपुरुषेशयाः” इति व्युत्पत्त्यन्तरमुक्तम्।
विश्वास-प्रस्तुतिः
मत्तो जज्ञे म इत्येवं योग्यो भोगापवर्गयोः।
भोगानां प्रसवार्थाय पुरुषस्यास्य वासव ॥ 39 ॥
मूलम्
मत्तो जज्ञे म इत्येवं योग्यो भोगापवर्गयोः।
भोगानां प्रसवार्थाय पुरुषस्यास्य वासव ॥ 39 ॥
टिप्पनी 39
मत्तो जज्ञे म इत्येवमित्यनेन मशब्दस्य जीववाचकस्य व्युत्पत्तिरभिप्रेता। मनधातोर्निष्पत्तिरप्यन्यत्रोक्ता।
विश्वास-प्रस्तुतिः
अचैतन्यं परं सूक्ष्मं गुणसाम्यमनुल्बणम्।
योनिस्वभावसंज्ञातं मत्तोऽभूद्भ इति स्वयम् ॥ 40 ॥
मूलम्
अचैतन्यं परं सूक्ष्मं गुणसाम्यमनुल्बणम्।
योनिस्वभावसंज्ञातं मत्तोऽभूद्भ इति स्वयम् ॥ 40 ॥
टिप्पनी 40
अचैतन्यमिति बहुव्रीहिः। अचेतनमित्यर्थः। “अचेतना परार्था च नित्या सततविक्रिया” इत्यन्यत्रोक्तम्। अनुल्वणम्; अव्यक्तमित्यर्थः। योनिः स्वभाव इति च तन्नाम। भ इति; भकारवाच्यत्वेनेत्यर्थः।
विश्वास-प्रस्तुतिः
16भोग्यभोगादिसिद्ध्यर्थं भुञ्जानस्य विपश्चितः17।
बाद्यात् ककारपर्यन्ताद्वर्णग्रामात् पुरंदर ॥ 41 ॥
मूलम्
16भोग्यभोगादिसिद्ध्यर्थं भुञ्जानस्य विपश्चितः17।
बाद्यात् ककारपर्यन्ताद्वर्णग्रामात् पुरंदर ॥ 41 ॥
टिप्पनी 41
तत्त्वाविर्भावक्रममनुरुद्य बाद्यादित्यादिना वर्णानां व्यत्क्रमेण निर्देशः कृतः।
विश्वास-प्रस्तुतिः
व्यक्तानि जज्ञिरे मत्तो विंशतिस्रीणि च क्रमात्।
बुद्ध्यहंकारमनसां सृष्टिर्बादित्रयात्तथा ॥ 42 ॥
मूलम्
व्यक्तानि जज्ञिरे मत्तो विंशतिस्रीणि च क्रमात्।
बुद्ध्यहंकारमनसां सृष्टिर्बादित्रयात्तथा ॥ 42 ॥
विश्वास-प्रस्तुतिः
श्रोत्रादेर्नादितान्तेषु पञ्चकस्य समुद्भवः।
वागादेर्णादिटान्तेषु पञ्चकस्य समुद्भवः ॥ 43 ॥
मूलम्
श्रोत्रादेर्नादितान्तेषु पञ्चकस्य समुद्भवः।
वागादेर्णादिटान्तेषु पञ्चकस्य समुद्भवः ॥ 43 ॥
विश्वास-प्रस्तुतिः
18शब्दाद्याः पञ्चतन्मात्रा ञादिचान्तेषु जज्ञिरे।
वियदादीनि भूतानि ङादिकान्तेषु जज्ञिरे ॥ 44 ॥
मूलम्
18शब्दाद्याः पञ्चतन्मात्रा ञादिचान्तेषु जज्ञिरे।
वियदादीनि भूतानि ङादिकान्तेषु जज्ञिरे ॥ 44 ॥
विश्वास-प्रस्तुतिः
बोधः शब्दात्मनोदेति शब्दस्त्त्वर्थात्मना ततः।
विद्धि बोधं तु मद्रूपं सर्वेयं मत्ततिस्ततः ॥ 45 ॥
मूलम्
बोधः शब्दात्मनोदेति शब्दस्त्त्वर्थात्मना ततः।
विद्धि बोधं तु मद्रूपं सर्वेयं मत्ततिस्ततः ॥ 45 ॥
विश्वास-प्रस्तुतिः
वर्णाध्वनस्त्वियं रीतिर्मध्यमा कथिता तव।
आद्यामन्तां च देवेश गदन्त्या मे निशामय ॥ 46 ॥
मूलम्
वर्णाध्वनस्त्वियं रीतिर्मध्यमा कथिता तव।
आद्यामन्तां च देवेश गदन्त्या मे निशामय ॥ 46 ॥
इति 19श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 20वर्णोत्पत्तिनिरूपणं नाम एकोनविंशोऽध्यायः
इत्येकोनविंशोऽध्यायः