०१८

अष्टादशोऽध्यायः - 18
शक्रः—

विश्वास-प्रस्तुतिः

1नमस्ते पद्मनिलये नमस्ते पद्मसंभवे।
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम् ॥ 1 ॥

मूलम्

1नमस्ते पद्मनिलये नमस्ते पद्मसंभवे।
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम् ॥ 1 ॥

विश्वास-प्रस्तुतिः

ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम् ॥ 2 ॥

मूलम्

ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम् ॥ 2 ॥

विश्वास-प्रस्तुतिः

कुतो मन्त्रसमुत्पत्तिः क्व च मन्त्रः 2प्रलीयते।
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते ॥ 3 ॥

मूलम्

कुतो मन्त्रसमुत्पत्तिः क्व च मन्त्रः 2प्रलीयते।
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते ॥ 3 ॥

विश्वास-प्रस्तुतिः

कियत्यश्च 3विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे ॥ 4 ॥

मूलम्

कियत्यश्च 3विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे ॥ 4 ॥

विश्वास-प्रस्तुतिः

मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे ॥ 5 ॥

मूलम्

मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे ॥ 5 ॥

विश्वास-प्रस्तुतिः

उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा ॥ 6 ॥

मूलम्

उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा ॥ 6 ॥

विश्वास-प्रस्तुतिः

योगः स्वाध्याययोगश्च रक्षायोगस्तथैव च।
4प्रायश्चित्तविधिश्चैव 5श्राद्धकल्पस्तथैव च ॥ 7 ॥

मूलम्

योगः स्वाध्याययोगश्च रक्षायोगस्तथैव च।
4प्रायश्चित्तविधिश्चैव 5श्राद्धकल्पस्तथैव च ॥ 7 ॥

विश्वास-प्रस्तुतिः

दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते6 ॥ 8 ॥

मूलम्

दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते6 ॥ 8 ॥

विश्वास-प्रस्तुतिः

प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे।
तवैष शिरसा पादौ नतोऽस्मि कमलारूणौ ॥ 9 ॥

मूलम्

प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे।
तवैष शिरसा पादौ नतोऽस्मि कमलारूणौ ॥ 9 ॥

विश्वास-प्रस्तुतिः

शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो।
श्रीः7
प्रशभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर ॥ 10 ॥

मूलम्

शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो।
श्रीः7
प्रशभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर ॥ 10 ॥

विश्वास-प्रस्तुतिः

वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः 8पूर्णः पुरुषः पुष्करेक्षणः ॥ 11 ॥

मूलम्

वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः 8पूर्णः पुरुषः पुष्करेक्षणः ॥ 11 ॥

विश्वास-प्रस्तुतिः

स्वभावः सर्वभावानामभावानां च वासव।
इदंतयावलीढं यत् सदसज्जगति स्थितम् ॥ 12 ॥

मूलम्

स्वभावः सर्वभावानामभावानां च वासव।
इदंतयावलीढं यत् सदसज्जगति स्थितम् ॥ 12 ॥

टिप्पनी 12

इदंतयेति। इदमिति प्रतीतिविषयतयेत्यर्थः। पराक्त्वेनेति यावत्। युष्मदस्मत्प्रत्ययगोचरत्वं हि क्रमेण पराक्त्वप्रत्यक्त्वयोर्लक्षणमामनन्ति।

विश्वास-प्रस्तुतिः

तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते।
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः ॥ 13 ॥

मूलम्

तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते।
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः ॥ 13 ॥

टिप्पनी 13

विलीनेत्यादि; इदंपदार्थभूताः सर्वेऽपि अचित्पदार्थाः; त एव द्वीपाः चिदम्बुधौ वासुदेवे विलीय तेन सहैकत्वं प्राप्ता इत्यर्थः।

विश्वास-प्रस्तुतिः

निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते।
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी ॥ 14 ॥

मूलम्

निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते।
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी ॥ 14 ॥

विश्वास-प्रस्तुतिः

नित्योदिता सदानन्दा सर्वतः समतां गता।
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता ॥ 15 ॥

मूलम्

नित्योदिता सदानन्दा सर्वतः समतां गता।
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता ॥ 15 ॥

टिप्पनी 15

नित्योदितेति। उदयो द्विविधः—शान्तोदयः नित्योदयश्चेति। अवतारावस्थायामाद्यः। परावस्थायां द्वितीयः।

विश्वास-प्रस्तुतिः

या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता9
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी ॥ 16 ॥

मूलम्

या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता9
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी ॥ 16 ॥

विश्वास-प्रस्तुतिः

अवबोधात्मिकाया मे या प्रत्यगवमर्शिता10
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते ॥ 17 ॥

मूलम्

अवबोधात्मिकाया मे या प्रत्यगवमर्शिता10
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते ॥ 17 ॥

टिप्पनी 17

प्रत्यगवमर्शिता; अहंप्रत्ययगम्यता।

विश्वास-प्रस्तुतिः

प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता ॥ 18 ॥

मूलम्

प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता ॥ 18 ॥

विश्वास-प्रस्तुतिः

व्यापकं यत्परं ब्रह्म नारायणमनामयम्।
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः ॥ 19 ॥

मूलम्

व्यापकं यत्परं ब्रह्म नारायणमनामयम्।
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः ॥ 19 ॥

विश्वास-प्रस्तुतिः

तस्या मे य उदेति स्म सिसृक्षाक्योऽल्प11 उद्यमः।
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते ॥ 20 ॥

मूलम्

तस्या मे य उदेति स्म सिसृक्षाक्योऽल्प11 उद्यमः।
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते ॥ 20 ॥

विश्वास-प्रस्तुतिः

शब्दोदयपुरस्कारः सर्वत्रार्थोदय स्मृतः।
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा ॥ 21 ॥

मूलम्

शब्दोदयपुरस्कारः सर्वत्रार्थोदय स्मृतः।
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा ॥ 21 ॥

टिप्पनी 21

शब्दस्योदयः प्रथमम्; अनन्तरमर्थस्येति तान्त्रिकसिद्धान्तः। श्रुतावपि “नामरूपे व्याकरवाणि” इति नामव्याकरणं पूर्वं, ततो रूपव्याकरणमुक्तं वेदितव्यम्।

विश्वास-प्रस्तुतिः

बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः ॥ 22 ॥

मूलम्

बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः ॥ 22 ॥

विश्वास-प्रस्तुतिः

स नाद इति विख्यातो वाच्यतामसृणस्तदा।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ॥ 23 ॥

मूलम्

स नाद इति विख्यातो वाच्यतामसृणस्तदा।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ॥ 23 ॥

टिप्पनी 23

एवं च शब्दब्रह्म, परा वाक्, नाद इति पर्यायाः

विश्वास-प्रस्तुतिः

नादात् परो य उन्मोषो द्वितीयः शक्तिसंभवः।
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ॥ 24 ॥

मूलम्

नादात् परो य उन्मोषो द्वितीयः शक्तिसंभवः।
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ॥ 24 ॥

विश्वास-प्रस्तुतिः

पश्यन्ती नाम सावस्था मम दिव्या महोदया।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ॥ 25 ॥

मूलम्

पश्यन्ती नाम सावस्था मम दिव्या महोदया।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ॥ 25 ॥

टिप्पनी 25

बिन्दोरनन्तरं शक्त्युन्मेषस्य मध्यमेति नाम।

विश्वास-प्रस्तुतिः

मध्यमा सा दशा तत्र संस्कारयति संगतिम्।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ 26 ॥

मूलम्

मध्यमा सा दशा तत्र संस्कारयति संगतिम्।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ 26 ॥

विश्वास-प्रस्तुतिः

चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः।
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया ॥ 27 ॥

मूलम्

चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः।
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया ॥ 27 ॥

विश्वास-प्रस्तुतिः

अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी12
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम् ॥ 28 ॥

मूलम्

अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी12
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम् ॥ 28 ॥

विश्वास-प्रस्तुतिः

शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ 29 ॥

मूलम्

शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ 29 ॥

विश्वास-प्रस्तुतिः

वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी ॥ 30 ॥

मूलम्

वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी ॥ 30 ॥

विश्वास-प्रस्तुतिः

वाच्यवाचकभेदेन13 पुनः सा द्विपदी स्मृता।
14ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी ॥ 31 ॥

मूलम्

वाच्यवाचकभेदेन13 पुनः सा द्विपदी स्मृता।
14ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी ॥ 31 ॥

टिप्पनी 31

शषसहा ऊष्माणः। यरलवा अन्तःस्थाः। अचः स्वराः। कादयो मावसानाः स्पर्शाः।

विश्वास-प्रस्तुतिः

अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता।
अघोषरूपेणान्येन युक्ता नवपदी स्मृता ॥ 32 ॥

मूलम्

अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता।
अघोषरूपेणान्येन युक्ता नवपदी स्मृता ॥ 32 ॥

टिप्पनी 32

अष्ट वर्गाः—स्वरवर्गः, कादिपान्तवर्गाः पञ्च, ऊष्मवर्गः, अन्तःस्थवर्गश्चेति। अघोषाश्च—यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गश्चेति।

विश्वास-प्रस्तुतिः

अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः ॥ 33 ॥

मूलम्

अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः ॥ 33 ॥

टिप्पनी 33

प्रकारान्तरेणैकध्यादिकमुच्यते। शब्दब्रह्मरूपेणैकरूपा। ध्वनिवर्णात्मना द्विरूपा।

विश्वास-प्रस्तुतिः

तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः ॥ 34 ॥

मूलम्

तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः ॥ 34 ॥

टिप्पनी 34

तक्षती; तक्षन्ती तनूकुर्वती। सर्वं सलिलं संसरणहेतुं प्राकृततुष्टिम्। सलिलाक्यस्तुष्टिविशेषः सांख्यसमयप्रसिद्धः। अत्र “गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्॥” (ऋ. 1-164-41) इति श्रुतिरनुक्रियते। चतुष्पदी; द्रव्यजातिगुणक्रियाशब्दात्मना चतूरूपा।

विश्वास-प्रस्तुतिः

नामभावद्वयोपेता साहमष्टपदी स्मृता।
अविकल्पविकल्पस्था साहं नवपदी स्मृता ॥ 35 ॥

मूलम्

नामभावद्वयोपेता साहमष्टपदी स्मृता।
अविकल्पविकल्पस्था साहं नवपदी स्मृता ॥ 35 ॥

टिप्पनी 35

तेषामेव शब्दार्थात्मना प्रत्येकं द्वैविध्ये संकलय्याष्टरूपा।

विश्वास-प्रस्तुतिः

व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी।
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा ॥ 36 ॥

मूलम्

व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी।
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा ॥ 36 ॥

टिप्पनी 36

एषा च व्यवस्था प्राकृतलोक एव। अप्राकृतलोके तु अनन्ताक्षररूपा।

विश्वास-प्रस्तुतिः

मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी।
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः ॥ 37 ॥

मूलम्

मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी।
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः ॥ 37 ॥

विश्वास-प्रस्तुतिः

15मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि।
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः ॥ 38 ॥

मूलम्

15मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि।
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः ॥ 38 ॥

टिप्पनी 38

विवर्तन्ते; परिणमन्ति। नात्रान्यपरिभाषितो विवर्तो विवक्षितः, `त्रैगुण्यं परिणामि तत्’ इत्युक्तत्वेन त्रिगुणपरिणामत्वात् शब्दस्य।

विश्वास-प्रस्तुतिः

सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः ॥ 39 ॥

मूलम्

सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः ॥ 39 ॥

विश्वास-प्रस्तुतिः

अध्यायाश्च परिच्छेदाः सर्गा उछ्वासकास्तथा।
पटलाद्या 16अवच्छेदाः 17प्रश्रवाकानुवाककाः ॥ 40 ॥

मूलम्

अध्यायाश्च परिच्छेदाः सर्गा उछ्वासकास्तथा।
पटलाद्या 16अवच्छेदाः 17प्रश्रवाकानुवाककाः ॥ 40 ॥

विश्वास-प्रस्तुतिः

मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् ॥ 41 ॥

मूलम्

मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् ॥ 41 ॥

विश्वास-प्रस्तुतिः

शास्त्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा।
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः ॥ 42 ॥

मूलम्

शास्त्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा।
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः ॥ 42 ॥

विश्वास-प्रस्तुतिः

मन्त्ररूपभिदं शक्र विद्धि मद्रूपवेदिनाम्।
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः ॥ 43 ॥

मूलम्

मन्त्ररूपभिदं शक्र विद्धि मद्रूपवेदिनाम्।
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः ॥ 43 ॥

विश्वास-प्रस्तुतिः

मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनीः।
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात् ॥ 44 ॥

मूलम्

मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनीः।
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात् ॥ 44 ॥

विश्वास-प्रस्तुतिः

स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः ॥ 45 ॥

मूलम्

स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः ॥ 45 ॥

विश्वास-प्रस्तुतिः

सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम्।
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः ॥ 46 ॥

मूलम्

सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम्।
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः ॥ 46 ॥

विश्वास-प्रस्तुतिः

प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः।
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये ॥ 47 ॥

मूलम्

प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः।
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये ॥ 47 ॥

विश्वास-प्रस्तुतिः

प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः।
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम् ॥ 48 ॥

मूलम्

प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः।
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम् ॥ 48 ॥

विश्वास-प्रस्तुतिः

तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः।
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम् ॥ 49 ॥

मूलम्

तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः।
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम् ॥ 49 ॥

विश्वास-प्रस्तुतिः

भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः।
विशन्ति भावमेवैके यान्त्येके भवदेव च ॥ 50 ॥

मूलम्

भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः।
विशन्ति भावमेवैके यान्त्येके भवदेव च ॥ 50 ॥

विश्वास-प्रस्तुतिः

भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया।
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः।
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते ॥ 51 ॥

मूलम्

भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया।
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः।
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते ॥ 51 ॥

इति 18श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 19मन्त्रस्वरूपकथनं नाम अष्टादशोऽध्यायः

इत्यष्टादशोऽध्यायः


  1. F. omits this verse. ↩︎ ↩︎

  2. विलीयते B. ↩︎ ↩︎

  3. विधास्तस्य B. G. I. ↩︎ ↩︎

  4. प्रायश्चित्ति A. F. G. ↩︎ ↩︎

  5. श्रद्धाकल्पः A. ↩︎ ↩︎

  6. उपपद्यते B. ↩︎ ↩︎

  7. श्रीरुवाच I. ↩︎ ↩︎

  8. पूर्ण B. G. I. ↩︎ ↩︎

  9. रूपिणी G. ↩︎ ↩︎

  10. अवमर्शिनी C. ↩︎ ↩︎

  11. अयम् B. ↩︎ ↩︎

  12. अनपायिनी F. ↩︎ ↩︎

  13. भावेन B. ↩︎ ↩︎

  14. B. and F. omit nine lines from here. ↩︎ ↩︎

  15. मामेवाश्रित्य वर्तन्ते F. ↩︎ ↩︎

  16. व्यवच्छेदाः D. ↩︎ ↩︎

  17. प्रश्ना C. ↩︎ ↩︎

  18. श्रीपञ्चरात्र A. ↩︎

  19. I. omits the title. ↩︎