विश्वास-प्रस्तुतिः
सप्तदशोऽध्यायः - 17
शक्रः—
नमस्ते कमलावासे जनन्यै सर्वदेहिनाम्।
गृहिण्यै पद्मनाभस्य नमस्ते सरसीरुहे ॥ 1 ॥
मूलम्
सप्तदशोऽध्यायः - 17
शक्रः—
नमस्ते कमलावासे जनन्यै सर्वदेहिनाम्।
गृहिण्यै पद्मनाभस्य नमस्ते सरसीरुहे ॥ 1 ॥
विश्वास-प्रस्तुतिः
उपायास्ते त्रयः पूर्वे कथिता अवधारिताः।
व्याचक्ष्वाम्ब चतुर्थं 1तमुपायं परमम्बुजे ॥ 2 ॥
मूलम्
उपायास्ते त्रयः पूर्वे कथिता अवधारिताः।
व्याचक्ष्वाम्ब चतुर्थं 1तमुपायं परमम्बुजे ॥ 2 ॥
विश्वास-प्रस्तुतिः
श्रीः—
एको नारायणो देवो वासुदेवः सनातनः।
चातुरात्म्यं परं ब्रह्म सच्चिदानन्दमव्रणम् ॥ 3 ॥
मूलम्
श्रीः—
एको नारायणो देवो वासुदेवः सनातनः।
चातुरात्म्यं परं ब्रह्म सच्चिदानन्दमव्रणम् ॥ 3 ॥
विश्वास-प्रस्तुतिः
एकाहं परमा शक्तिस्तस्य देवी सनातनी।
करोमि सकलं कृत्यं सर्वभावानुगामिनी ॥ 4 ॥
मूलम्
एकाहं परमा शक्तिस्तस्य देवी सनातनी।
करोमि सकलं कृत्यं सर्वभावानुगामिनी ॥ 4 ॥
विश्वास-प्रस्तुतिः
2शान्तानन्तचिदानन्दं यद् ब्रह्म परमं ध्रुवम्।
महाविभूतिसंस्थानं सर्वतः समतां गतम् ॥ 5 ॥
मूलम्
2शान्तानन्तचिदानन्दं यद् ब्रह्म परमं ध्रुवम्।
महाविभूतिसंस्थानं सर्वतः समतां गतम् ॥ 5 ॥
टिप्पनी 5
महाविभूतिः नित्यविभूतिः। “त्रिपादस्यामृतं दिवि” इत्युक्तरीत्या लीलाविभूत्यपेक्षया तस्या महत्त्वात् महाविभूतित्वम्।
विश्वास-प्रस्तुतिः
तस्य शक्तिरहं ब्राह्नी शान्तानन्दचिदात्मिका।
महाविभूतिरनघा सर्वतः समतां गता ॥ 6 ॥
मूलम्
तस्य शक्तिरहं ब्राह्नी शान्तानन्दचिदात्मिका।
महाविभूतिरनघा सर्वतः समतां गता ॥ 6 ॥
विश्वास-प्रस्तुतिः
आश्वासनाय जीवानां यत्तन्मूर्तीकृतं महः।
नारायणः परं ब्रह्म दिव्यं नयननन्दनम् ॥ 7 ॥
मूलम्
आश्वासनाय जीवानां यत्तन्मूर्तीकृतं महः।
नारायणः परं ब्रह्म दिव्यं नयननन्दनम् ॥ 7 ॥
विश्वास-प्रस्तुतिः
तदा मूर्तिमती साहं शक्तिर्नारायणी परा।
समा समविभक्ताङ्गा सर्वावयवसुन्दरी ॥ 8 ॥
मूलम्
तदा मूर्तिमती साहं शक्तिर्नारायणी परा।
समा समविभक्ताङ्गा सर्वावयवसुन्दरी ॥ 8 ॥
विश्वास-प्रस्तुतिः
तयोर्नौ परमं व्योम निर्दुःखं 3पदमुत्तमम्।
षाड्गुण्यप्रसरो दिवियः स्वाच्छन्द्याद्देशतां गतः ॥ 9 ॥
मूलम्
तयोर्नौ परमं व्योम निर्दुःखं 3पदमुत्तमम्।
षाड्गुण्यप्रसरो दिवियः स्वाच्छन्द्याद्देशतां गतः ॥ 9 ॥
टिप्पनी 9
मदीयेच्छया षाड्गुण्यप्रसर एवाप्राकृतदिव्यदेशतां प्राप्त इत्यर्थः।
विश्वास-प्रस्तुतिः
स्वकर्मनिरतैः सिद्धैर्वेदवेदान्तपारगैः।
अनेकजन्मसंताननिःशेषितकषायकैः ॥ 10 ॥
मूलम्
स्वकर्मनिरतैः सिद्धैर्वेदवेदान्तपारगैः।
अनेकजन्मसंताननिःशेषितकषायकैः ॥ 10 ॥
विश्वास-प्रस्तुतिः
क्लेशेन महता सिद्धैरन्तरायातिगैः क्रमात्।
संख्याविधिविधानज्ञैः सांख्यैः संख्यानपारगैः ॥ 11 ॥
मूलम्
क्लेशेन महता सिद्धैरन्तरायातिगैः क्रमात्।
संख्याविधिविधानज्ञैः सांख्यैः संख्यानपारगैः ॥ 11 ॥
विश्वास-प्रस्तुतिः
प्रत्याहृतेन्द्रियग्रामैर्धारणाध्यानशालिभिः।
यौगैः4 समाहितैः शश्वत्क्लेशेन यदवाप्यते ॥ 12 ॥
मूलम्
प्रत्याहृतेन्द्रियग्रामैर्धारणाध्यानशालिभिः।
यौगैः4 समाहितैः शश्वत्क्लेशेन यदवाप्यते ॥ 12 ॥
विश्वास-प्रस्तुतिः
अच्छिद्राः पञ्चकालज्ञाः पञ्चयज्ञविचक्षणाः।
पूर्णे वर्षशते धीराः प्राप्नुवन्ति यदञ्जसा ॥ 13 ॥
मूलम्
अच्छिद्राः पञ्चकालज्ञाः पञ्चयज्ञविचक्षणाः।
पूर्णे वर्षशते धीराः प्राप्नुवन्ति यदञ्जसा ॥ 13 ॥
टिप्पनी 13
अच्छिद्राः; भगवदननुभवरूपच्छिद्ररहिताः। यथोक्तम्—“यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया॥” इति। अभिगमनोपादानेज्यास्वाध्याययोगाख्याः पञ्च कालाः।
विश्वास-प्रस्तुतिः
यत्तत्पुराणमाकाशं सर्वस्मात् परमं ध्रुवम्।
यत्पदं प्राप्य तत्त्वज्ञा मुचन्ते सर्वबन्धनैः ॥ 14 ॥
मूलम्
यत्तत्पुराणमाकाशं सर्वस्मात् परमं ध्रुवम्।
यत्पदं प्राप्य तत्त्वज्ञा मुचन्ते सर्वबन्धनैः ॥ 14 ॥
विश्वास-प्रस्तुतिः
सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः।
यस्मिन् पदे विराजन्ते मुक्ताः संसारबन्धनैः ॥ 15 ॥
मूलम्
सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः।
यस्मिन् पदे विराजन्ते मुक्ताः संसारबन्धनैः ॥ 15 ॥
विश्वास-प्रस्तुतिः
इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वतः।
अनिष्यन्दा अनाहाराः षाड्गुण्यतनवोऽमलाः5 ॥ 16 ॥
मूलम्
इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वतः।
अनिष्यन्दा अनाहाराः षाड्गुण्यतनवोऽमलाः5 ॥ 16 ॥
विश्वास-प्रस्तुतिः
एकान्तिनो महाभागा यत्र पश्यन्ति नौ सदा।
क्षपयित्वाधिकारान् स्वान् शश्वत्कालेन भूयसा ॥ 17 ॥
मूलम्
एकान्तिनो महाभागा यत्र पश्यन्ति नौ सदा।
क्षपयित्वाधिकारान् स्वान् शश्वत्कालेन भूयसा ॥ 17 ॥
टिप्पनी 17
क्षपयित्वेति। अत्र “यावदधिकारमवस्थितिराधिकारिकाणाम्” इति शारीरकसूत्रं तदुपबृंहणानि वचनानि चानुसंधेयानि।
विश्वास-प्रस्तुतिः
6वेधसो यत्र मोदन्ते शंकराः सपुरंदराः।
सूरयो नित्यसंसिद्धाः7 सर्वदा8 सर्वदर्शिनः ॥ 18 ॥
विश्वास-प्रस्तुतिः
वैष्णवं परमं रूपं साक्षात्कुर्वन्ति यत्र ते।
अष्टाक्षरैकसक्तानां द्विषट्कार्णरतात्मनाम् ॥ 19 ॥
मूलम्
वैष्णवं परमं रूपं साक्षात्कुर्वन्ति यत्र ते।
अष्टाक्षरैकसक्तानां द्विषट्कार्णरतात्मनाम् ॥ 19 ॥
टिप्पनी 19
अष्टाक्षरः नारायणाष्टाक्षरमन्त्रः। द्विषट्कार्णः वासुदेवद्वादशाक्षरमन्त्रः।
विश्वास-प्रस्तुतिः
षडक्षरप्रसक्तानां प्रणवासक्तचेतसाम्।
जितंतासक्तचित्तानां तारिकानिरतात्मनाम् ॥ 20 ॥
मूलम्
षडक्षरप्रसक्तानां प्रणवासक्तचेतसाम्।
जितंतासक्तचित्तानां तारिकानिरतात्मनाम् ॥ 20 ॥
टिप्पनी 20
षढक्षरः श्रीविष्णुषडक्षरमन्त्रः। जितंता “जितते पुण्डरीकाक्ष” इत्यादिश्लोकरूपमन्त्रः। अस्य महि मादिकमहिर्बुध्न्यसंहितायामुक्तं वेदितव्यम्। तारिका ह्रींमन्त्रः।
विश्वास-प्रस्तुतिः
अनुताराप्रसक्तानां यत् पदं विमलात्मनाम्।
अनन्तविहगेशानविष्वक्सेनादयोऽमलाः ॥ 21 ॥
मूलम्
अनुताराप्रसक्तानां यत् पदं विमलात्मनाम्।
अनन्तविहगेशानविष्वक्सेनादयोऽमलाः ॥ 21 ॥
टिप्पनी 21
अनुतारा श्रींमन्त्रः।
विश्वास-प्रस्तुतिः
मदाज्ञाकारिणो यत्र मोदन्ते सकलेश्वराः।
तत्र दिव्यवपुः श्रीमान् देवदेवो जनार्दनः ॥ 22 ॥
मूलम्
मदाज्ञाकारिणो यत्र मोदन्ते सकलेश्वराः।
तत्र दिव्यवपुः श्रीमान् देवदेवो जनार्दनः ॥ 22 ॥
विश्वास-प्रस्तुतिः
अनन्तभोगपर्यङ्के निषण्णः 9सुसुखोज्ज्वले।
विज्ञानैश्वर्यवीर्यस्थैः शक्तितेजोबलोल्बणैः ॥ 23 ॥
मूलम्
अनन्तभोगपर्यङ्के निषण्णः 9सुसुखोज्ज्वले।
विज्ञानैश्वर्यवीर्यस्थैः शक्तितेजोबलोल्बणैः ॥ 23 ॥
विश्वास-प्रस्तुतिः
आयुधैर्भूषणैर्दिव्यैरद्भुतैः समलंकृतः।
पञ्चात्मना सुपर्णेन पक्षिराजेन सेवितः ॥ 24 ॥
मूलम्
आयुधैर्भूषणैर्दिव्यैरद्भुतैः समलंकृतः।
पञ्चात्मना सुपर्णेन पक्षिराजेन सेवितः ॥ 24 ॥
टिप्पनी 24
पञ्चात्मना पञ्चोपनिषन्मन्त्रस्वरूपेण।
विश्वास-प्रस्तुतिः
सारूप्यमेयुषा10 साक्षाच्छ्रीवत्सकृतलक्ष्मणा।
सेनान्या सेवितः सम्यग्विष्वक्सेनेन दीप्यता11 ॥ 25 ॥
मूलम्
सारूप्यमेयुषा10 साक्षाच्छ्रीवत्सकृतलक्ष्मणा।
सेनान्या सेवितः सम्यग्विष्वक्सेनेन दीप्यता11 ॥ 25 ॥
टिप्पनी 25
सारूप्यं शङ्खचक्रादिना भगवत्सारूप्यम्। तदेवाह—श्रीवत्सेति। इदं च विशेषणद्वयं सेनान्येत्यनेनान्वेति।
विश्वास-प्रस्तुतिः
क्षेमाय सर्वलोकानामाध्यानाय मनीषिणाम्।
मुक्तयेऽखिलबन्धानां रूपदानाय योगिनाम् ॥ 26 ॥
मूलम्
क्षेमाय सर्वलोकानामाध्यानाय मनीषिणाम्।
मुक्तयेऽखिलबन्धानां रूपदानाय योगिनाम् ॥ 26 ॥
विश्वास-प्रस्तुतिः
आस्ते नारायणः श्रीमान् वासुदेवः सनातनः।
सुकुमारो युवा देवः श्रीवत्सकृतलक्षणः ॥ 27 ॥
मूलम्
आस्ते नारायणः श्रीमान् वासुदेवः सनातनः।
सुकुमारो युवा देवः श्रीवत्सकृतलक्षणः ॥ 27 ॥
विश्वास-प्रस्तुतिः
चतुर्भुजो विशालाक्षः किरीटी कौस्तुभं वहन्।
हारनूपुरकेयूरकाञ्चीपीताम्बरोज्ज्वलः ॥ 28 ॥
मूलम्
चतुर्भुजो विशालाक्षः किरीटी कौस्तुभं वहन्।
हारनूपुरकेयूरकाञ्चीपीताम्बरोज्ज्वलः ॥ 28 ॥
विश्वास-प्रस्तुतिः
वनमालां दधद्दिव्यां पञ्चशक्तिमयीं पराम्।
सर्वावयवसंपन्नः12 सर्वावयवसुन्दरः ॥ 29 ॥
मूलम्
वनमालां दधद्दिव्यां पञ्चशक्तिमयीं पराम्।
सर्वावयवसंपन्नः12 सर्वावयवसुन्दरः ॥ 29 ॥
टिप्पनी 29
सृष्टिस्थितिसंहारनिग्राहानुग्रहाः पञ्च शक्यः।
विश्वास-प्रस्तुतिः
13राजराजोऽखिलस्यास्य विश्वस्य परमेश्वरः।
कान्तस्य तस्य देवस्य विष्णोः सद्गुणशालिनः ॥ 30 ॥
मूलम्
13राजराजोऽखिलस्यास्य विश्वस्य परमेश्वरः।
कान्तस्य तस्य देवस्य विष्णोः सद्गुणशालिनः ॥ 30 ॥
विश्वास-प्रस्तुतिः
दयिताहं सदा देवी ज्ञानानन्दमयी परा।
अनवद्यानवद्याङ्गी नित्यं तद्धर्मधर्मिणी ॥ 31 ॥
मूलम्
दयिताहं सदा देवी ज्ञानानन्दमयी परा।
अनवद्यानवद्याङ्गी नित्यं तद्धर्मधर्मिणी ॥ 31 ॥
विश्वास-प्रस्तुतिः
ईश्वरी सर्वभूतानां पद्माक्षी पद्ममालिनी।
शक्तिभिः सेविता नित्यं सृष्टिस्थित्यादिभिः परा ॥ 32 ॥
मूलम्
ईश्वरी सर्वभूतानां पद्माक्षी पद्ममालिनी।
शक्तिभिः सेविता नित्यं सृष्टिस्थित्यादिभिः परा ॥ 32 ॥
टिप्पनी 32
ईश्वरीति। ईष्टे इत्यर्थे कर्तरि औणादिको वरट् प्रत्ययः।
विश्वास-प्रस्तुतिः
द्वात्रिंशता सहस्रेण सृष्टिशक्तिभिरावृता।
14वृता तद्द्विगुणाभिश्च दिव्याभिः स्थितिशक्तिभिः ॥ 33 ॥
मूलम्
द्वात्रिंशता सहस्रेण सृष्टिशक्तिभिरावृता।
14वृता तद्द्विगुणाभिश्च दिव्याभिः स्थितिशक्तिभिः ॥ 33 ॥
विश्वास-प्रस्तुतिः
ततश्च द्विगुणाभिश्च पूर्णा संहृतिशक्तिभिः।
नायिका सर्वशक्तीनां सर्वलोकमहेश्वरी ॥ 34 ॥
मूलम्
ततश्च द्विगुणाभिश्च पूर्णा संहृतिशक्तिभिः।
नायिका सर्वशक्तीनां सर्वलोकमहेश्वरी ॥ 34 ॥
विश्वास-प्रस्तुतिः
महिषी देवदेवस्य सर्वकामदुघा विभोः।
तुल्या गुणवयोरूपैर्मनःप्रमथनी15 हरेः ॥ 35 ॥
मूलम्
महिषी देवदेवस्य सर्वकामदुघा विभोः।
तुल्या गुणवयोरूपैर्मनःप्रमथनी15 हरेः ॥ 35 ॥
विश्वास-प्रस्तुतिः
तैस्तैरनुगुणैर्भावैरहं देवस्य शार्ङ्गिणः।
करोमि सकलं कृत्यं नित्यं तद्धर्मधर्मिणी ॥ 36 ॥
मूलम्
तैस्तैरनुगुणैर्भावैरहं देवस्य शार्ङ्गिणः।
करोमि सकलं कृत्यं नित्यं तद्धर्मधर्मिणी ॥ 36 ॥
विश्वास-प्रस्तुतिः
साहमङ्के स्थिता16 विष्णोर्देवदेवस्य शार्ङ्गिणः।
लालिता तेन चात्यन्तं सामरस्यमुपेयुषी ॥ 37 ॥
मूलम्
साहमङ्के स्थिता16 विष्णोर्देवदेवस्य शार्ङ्गिणः।
लालिता तेन चात्यन्तं सामरस्यमुपेयुषी ॥ 37 ॥
विश्वास-प्रस्तुतिः
कदाचित् सर्वदर्शिन्याः कृपा मे स्वयमुद्गता।
क्लिश्यतः प्राणिनो दृष्ट्वा संसारज्वलनोदरे ॥ 38 ॥
मूलम्
कदाचित् सर्वदर्शिन्याः कृपा मे स्वयमुद्गता।
क्लिश्यतः प्राणिनो दृष्ट्वा संसारज्वलनोदरे ॥ 38 ॥
विश्वास-प्रस्तुतिः
कथं न्विमे17 भविष्यन्ति 18दुःखोत्तीर्णाः सुखोत्तराः।
19संसारपरसीमानमाप्रुयुर्मां कथं न्विति20 ॥ 39 ॥
मूलम्
कथं न्विमे17 भविष्यन्ति 18दुःखोत्तीर्णाः सुखोत्तराः।
19संसारपरसीमानमाप्रुयुर्मां कथं न्विति20 ॥ 39 ॥
विश्वास-प्रस्तुतिः
साहमन्तः कृपाविष्टा21 देवदेवमचूचुदम्।
भगवन् देवदेवेश लोकनाथ मम प्रिय ॥ 40 ॥
मूलम्
साहमन्तः कृपाविष्टा21 देवदेवमचूचुदम्।
भगवन् देवदेवेश लोकनाथ मम प्रिय ॥ 40 ॥
विश्वास-प्रस्तुतिः
सर्वादे सर्वमध्यान्त सर्व सर्वोत्तराच्युत।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम22 ॥ 41 ॥
मूलम्
सर्वादे सर्वमध्यान्त सर्व सर्वोत्तराच्युत।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम22 ॥ 41 ॥
विश्वास-प्रस्तुतिः
दुस्तरापारसंसारसागरोत्तारकारण।
व्यक्ताव्यक्तज्ञकालाख्यक्लृप्तभावचतुष्टय ॥ 42 ॥
मूलम्
दुस्तरापारसंसारसागरोत्तारकारण।
व्यक्ताव्यक्तज्ञकालाख्यक्लृप्तभावचतुष्टय ॥ 42 ॥
विश्वास-प्रस्तुतिः
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।
प्रद्युम्न 23सुभग श्रीमन्ननिरुद्धापराजित ॥ 43 ॥
मूलम्
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।
प्रद्युम्न 23सुभग श्रीमन्ननिरुद्धापराजित ॥ 43 ॥
विश्वास-प्रस्तुतिः
नानाविभवसंस्थान नानाविभवभाजन24।
दिव्यशान्तोदितानन्दषाड्गुण्योदयविग्रह ॥ 44 ॥
मूलम्
नानाविभवसंस्थान नानाविभवभाजन24।
दिव्यशान्तोदितानन्दषाड्गुण्योदयविग्रह ॥ 44 ॥
विश्वास-प्रस्तुतिः
स्फुरत्किरीटकेयूरहारनूपुरकौस्तुभ।
पीताम्बर महोदार पुण्डरीकनिभेक्षण ॥ 45 ॥
मूलम्
स्फुरत्किरीटकेयूरहारनूपुरकौस्तुभ।
पीताम्बर महोदार पुण्डरीकनिभेक्षण ॥ 45 ॥
विश्वास-प्रस्तुतिः
चतुर्मूर्ते चतुर्व्यूह शरदिन्दीवरद्युते।
अभिरामशरीरेश नारायण जगन्मय ॥ 46 ॥
मूलम्
चतुर्मूर्ते चतुर्व्यूह शरदिन्दीवरद्युते।
अभिरामशरीरेश नारायण जगन्मय ॥ 46 ॥
विश्वास-प्रस्तुतिः
अमी हि प्राणिनः सर्वे निमग्नाः क्लेशसागरे।
उत्तारं प्राणिनामस्मात्कथं चिन्तयसि प्रभो ॥ 47 ॥
मूलम्
अमी हि प्राणिनः सर्वे निमग्नाः क्लेशसागरे।
उत्तारं प्राणिनामस्मात्कथं चिन्तयसि प्रभो ॥ 47 ॥
विश्वास-प्रस्तुतिः
इत्युक्तो देवदेवेशः स्मयमानोऽब्रवीदिदम्।
अरविन्दासने देवि पद्मगर्भे सरोरुहे ॥ 48 ॥
मूलम्
इत्युक्तो देवदेवेशः स्मयमानोऽब्रवीदिदम्।
अरविन्दासने देवि पद्मगर्भे सरोरुहे ॥ 48 ॥
विश्वास-प्रस्तुतिः
उत्तारहेतवोऽमीषामुपाया विहिता मया।
कर्म सांख्यं तथा योग इति शास्त्रव्यपाश्रयाः ॥ 49 ॥
मूलम्
उत्तारहेतवोऽमीषामुपाया विहिता मया।
कर्म सांख्यं तथा योग इति शास्त्रव्यपाश्रयाः ॥ 49 ॥
विश्वास-प्रस्तुतिः
प्रत्यवोचमहं देवमित्युक्ता पुरुषोत्तमम्।
देवदेव न ते शक्याः कर्तुं कालेन गच्छता ॥ 50 ॥
मूलम्
प्रत्यवोचमहं देवमित्युक्ता पुरुषोत्तमम्।
देवदेव न ते शक्याः कर्तुं कालेन गच्छता ॥ 50 ॥
विश्वास-प्रस्तुतिः
कालो हि कलयन्नेव25 स्वतन्त्रो भवदात्मकः।
ज्ञानं सत्त्वं बलं चैषामायुश्च विनिकृन्तति26 ॥ 51 ॥
विश्वास-प्रस्तुतिः
अन्तःकरणसंस्था हि वासना विविधात्मिकाः।
तत्तत्कालवशं प्राप्य यातयन्ति शरीरिणः27 ॥ 52 ॥
मूलम्
अन्तःकरणसंस्था हि वासना विविधात्मिकाः।
तत्तत्कालवशं प्राप्य यातयन्ति शरीरिणः27 ॥ 52 ॥
विश्वास-प्रस्तुतिः
उदासीनो भवानेवं प्राणिनां कर्म कुर्वताम्।
28तत्तत्कालानुकूलानि तत्फलानि प्रयच्छति ॥ 53 ॥
मूलम्
उदासीनो भवानेवं प्राणिनां कर्म कुर्वताम्।
28तत्तत्कालानुकूलानि तत्फलानि प्रयच्छति ॥ 53 ॥
विश्वास-प्रस्तुतिः
येन त्वं बत संरब्धः प्राणिनः पालयिष्यसि।
प्रब्रूहि तमुपायं मे प्रणतायै जनार्दन ॥ 54 ॥
मूलम्
येन त्वं बत संरब्धः प्राणिनः पालयिष्यसि।
प्रब्रूहि तमुपायं मे प्रणतायै जनार्दन ॥ 54 ॥
विश्वास-प्रस्तुतिः
इत्युक्तः प्रत्युवाचेदं भगवानुत्स्मयन्निव।
सरोरुहे विजानीषे सर्वमेवात्मनो गतम् ॥ 55 ॥
मूलम्
इत्युक्तः प्रत्युवाचेदं भगवानुत्स्मयन्निव।
सरोरुहे विजानीषे सर्वमेवात्मनो गतम् ॥ 55 ॥
विश्वास-प्रस्तुतिः
मां तु जिज्ञाससे देवि तथापि शृणु भामिनि।
29उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया ॥ 56 ॥
मूलम्
मां तु जिज्ञाससे देवि तथापि शृणु भामिनि।
29उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया ॥ 56 ॥
टिप्पनी 56
उपायाः पुण्यसंपादकाः ज्योतिष्टोमादयः। अपायाः पापसंपादकाः परहिंसादयः।
विश्वास-प्रस्तुतिः
विहिता य उपायास्ते निषिद्धाश्चेतरे मताः।
अधो नयन्त्यपायास्तं य 30एनाननुवर्तते ॥ 57 ॥
मूलम्
विहिता य उपायास्ते निषिद्धाश्चेतरे मताः।
अधो नयन्त्यपायास्तं य 30एनाननुवर्तते ॥ 57 ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वं नयन्त्युपायास्तं य 31एनाननुवर्तते।
उपायापायसंत्यागी32 मध्यमां वृत्तिमाश्रितः ॥ 58 ॥
टिप्पनी 58
संत्यागीति। पुण्यपापसंपादकानि काम्यनिषिद्धानि परित्यज्य नित्यनैमित्तिकक्रियापर इत्यर्तः।
विश्वास-प्रस्तुतिः
मामेकं शरणं प्राप्य मामेवान्ते समश्नुते।
षडङ्गं तमुपायं च शृणु मे पद्मसंभवे ॥ 59 ॥
मूलम्
मामेकं शरणं प्राप्य मामेवान्ते समश्नुते।
षडङ्गं तमुपायं च शृणु मे पद्मसंभवे ॥ 59 ॥
टिप्पनी 59
मामेकम्; मामेवेत्यर्थः। एकशब्दोऽवधारणार्थः सन् अन्ययोगव्यवच्छेदे वर्तते। अत्रेदं बोध्यम्—शरणवरणात् पूर्वं मध्यमवृत्त्याश्रयणं भवतु वा, मा वा। अस्ति चेत्, शरणवरणे त्वरामुपजनयति। न चेत्, विलम्बः। शरणवरणानन्तरं तु यावज्जीवं मध्यमवृत्त्याश्रयणमवश्यं कर्तव्यम्। न चेत् विलम्बेन फलं स्यात्। पूर्वकृतानि तु कर्माणि न्यासबलादेव नश्यन्ति। पश्चात् कृतानि तु प्रामादिकानि न श्लिष्यन्ति। बुद्धिपूर्वकृतान्यपि प्रायश्चित्तापनोद्यानि भवन्ति। अतः चान्द्रायणादिप्रायश्चित्तपरिहरणाय मध्यमवृत्त्याश्रणमावश्यकं विधीयत इति।
विश्वास-प्रस्तुतिः
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम्।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ 60 ॥
मूलम्
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम्।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ 60 ॥
विश्वास-प्रस्तुतिः
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।
एवं मां शरणं प्राप्य वीतशोकभयक्लमः ॥ 61 ॥
मूलम्
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।
एवं मां शरणं प्राप्य वीतशोकभयक्लमः ॥ 61 ॥
विश्वास-प्रस्तुतिः
निरारम्भो निराशीश्च33 निर्ममो निरहंकृतिः।
मामेव शरणं प्राप्य तरेत् संसारसागरम् ॥ 62 ॥
मूलम्
निरारम्भो निराशीश्च33 निर्ममो निरहंकृतिः।
मामेव शरणं प्राप्य तरेत् संसारसागरम् ॥ 62 ॥
विश्वास-प्रस्तुतिः
34सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा35।
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥ 63 ॥
टिप्पनी 63
सत्कर्मनिरताः; कर्मयोगनिष्ठाः। सांख्यविदः; ज्ञानयोगिनः। योगविदः; भक्तियोगिनः।
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा देवदेवस्य शार्ङ्गिणः।
प्रीताहमभवं शक्र तदिदं वर्णितं तव ॥ 64 ॥
मूलम्
इति तस्य वचः श्रुत्वा देवदेवस्य शार्ङ्गिणः।
प्रीताहमभवं शक्र तदिदं वर्णितं तव ॥ 64 ॥
शक्रः—
विश्वास-प्रस्तुतिः
[^36]देवप्रिये महादेवि नमस्ते पङ्कजासने।
आनुकूल्यादिकं भावं मम व्याचक्ष्व विस्तरात् ॥ 65 ॥
मूलम्
[^36]देवप्रिये महादेवि नमस्ते पङ्कजासने।
आनुकूल्यादिकं भावं मम व्याचक्ष्व विस्तरात् ॥ 65 ॥
विश्वास-प्रस्तुतिः
श्रीः—
आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता।
अन्तः स्थिताहं सर्वेषां भावानामिति निश्चयात् ॥ 66 ॥
मूलम्
श्रीः—
आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता।
अन्तः स्थिताहं सर्वेषां भावानामिति निश्चयात् ॥ 66 ॥
टिप्पनी 66
आनुकूल्यसंकल्पो न केवलमावयोर्विषये। किंतु अस्मच्छेषभूतेषु सर्वेष्वपि भूतेष्वित्याह—सर्वेति।
विश्वास-प्रस्तुतिः
मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत्।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ॥ 67 ॥
मूलम्
मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत्।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ॥ 67 ॥
विश्वास-प्रस्तुतिः
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः।
अङ्गसामग्र्यसंपत्तेरशक्तेरपि कर्मणआम् ॥ 68 ॥
मूलम्
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः।
अङ्गसामग्र्यसंपत्तेरशक्तेरपि कर्मणआम् ॥ 68 ॥
विश्वास-प्रस्तुतिः
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।
उपाया नैव सिद्यन्ति ह्यपाया बहुलास्तथा ॥ 69 ॥
मूलम्
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।
उपाया नैव सिद्यन्ति ह्यपाया बहुलास्तथा ॥ 69 ॥
विश्वास-प्रस्तुतिः
इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ॥ 70 ॥
मूलम्
इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ॥ 70 ॥
विश्वास-प्रस्तुतिः
ईशेशितव्यसंबन्धादनिदंप्रथमादपि।
रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः ॥ 71 ॥
मूलम्
ईशेशितव्यसंबन्धादनिदंप्रथमादपि।
रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः ॥ 71 ॥
विश्वास-प्रस्तुतिः
स विश्वासो भवेच्छक्र सर्वदुष्कृतनाशनः।
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ॥ 72 ॥
मूलम्
स विश्वासो भवेच्छक्र सर्वदुष्कृतनाशनः।
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ॥ 72 ॥
विश्वास-प्रस्तुतिः
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः।
गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् ॥ 73 ॥
मूलम्
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः।
गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् ॥ 73 ॥
विश्वास-प्रस्तुतिः
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥ 74 ॥
मूलम्
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥ 74 ॥
विश्वास-प्रस्तुतिः
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥ 75 ॥
मूलम्
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥ 75 ॥
विश्वास-प्रस्तुतिः
उपायोऽयं चतुर्थस्ते प्रोक्तः शीघ्रफलप्रदः।
अस्मिन् हि वर्तमानानां विधौ विप्रनिषेविते ॥ 76 ॥
मूलम्
उपायोऽयं चतुर्थस्ते प्रोक्तः शीघ्रफलप्रदः।
अस्मिन् हि वर्तमानानां विधौ विप्रनिषेविते ॥ 76 ॥
विश्वास-प्रस्तुतिः
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः।
आनुकूल्येतराभ्यां च विनिवृत्तिरपायतः ॥ 77 ॥
मूलम्
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः।
आनुकूल्येतराभ्यां च विनिवृत्तिरपायतः ॥ 77 ॥
विश्वास-प्रस्तुतिः
कार्पण्येनाप्युपायानां विनिवृत्तिरिहोदिता36।
रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम्37 ॥ 78 ॥
विश्वास-प्रस्तुतिः
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्।
सर्वज्ञोऽपि हि विश्वेशः सदा कारुणिकोऽपि सन् ॥ 79 ॥
मूलम्
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्।
सर्वज्ञोऽपि हि विश्वेशः सदा कारुणिकोऽपि सन् ॥ 79 ॥
टिप्पनी 79
शरण्यस्य सर्वज्ञत्वात् करुणाकरत्वाच्च स्वयमेवार्तान् रक्षिष्यतीत्याशङ्क्याह—सर्वज्ञोऽपीति। संसारतन्त्रवाहित्वं नाम लीलाविभूतिनिर्वहणम्। व्याजानपेक्षरक्षणे सुकृद्दुष्कृत्साधारण्येन सर्वरक्षणप्रसक्तौ धर्माधर्मकृत्याकृत्यन्यायान्यायसंकरप्रसङ्गः। स्वेच्छया कांश्चिदेव रक्षन् अन्यान् न रक्षति चेत् “समोऽहं सर्वभूतेषु” इत्युद्धोषयतस्तस्य वैषम्यनैर्घृण्यप्रसङ्ग इति भावः।
विश्वास-प्रस्तुतिः
संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते।
आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते ॥ 80 ॥
मूलम्
संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते।
आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते ॥ 80 ॥
विश्वास-प्रस्तुतिः
हिंसास्तेयादयः शास्त्रैरपायत्वेन दर्शिताः।
कर्मसांख्यादयः शास्त्रैरुपायत्वेन दर्शिताः ॥ 81 ॥
मूलम्
हिंसास्तेयादयः शास्त्रैरपायत्वेन दर्शिताः।
कर्मसांख्यादयः शास्त्रैरुपायत्वेन दर्शिताः ॥ 81 ॥
विश्वास-प्रस्तुतिः
अपायोपायसंत्यागी 38मध्यमां स्थितिमास्थितः।
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः ॥ 82 ॥
मूलम्
अपायोपायसंत्यागी 38मध्यमां स्थितिमास्थितः।
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः ॥ 82 ॥
विश्वास-प्रस्तुतिः
बुध्येत देवदेवेशं39 गोप्तारं पुरुषोत्तमम्।
शक्रः—
उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ॥ 83 ॥
मूलम्
बुध्येत देवदेवेशं39 गोप्तारं पुरुषोत्तमम्।
शक्रः—
उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ॥ 83 ॥
विश्वास-प्रस्तुतिः
अपायोपायतामेव क्रिया सर्वावलम्बते।
स्वीकारे40 व्यतिरिके41 च निषेधविधिशास्त्रयोः ॥ 84 ॥
टिप्पनी 84
निषिद्धस्वीकारे विहितास्वीकारे चापायः। विहितस्वीकारे निषिद्धास्वीकारे चोपायः।
विश्वास-प्रस्तुतिः
दृश्यते कर्मणो व्यक्तमपायोपायरूपता।
श्रीः—
त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् ॥ 85 ॥
मूलम्
दृश्यते कर्मणो व्यक्तमपायोपायरूपता।
श्रीः—
त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् ॥ 85 ॥
विश्वास-प्रस्तुतिः
निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे।
अनर्थसाधनं किंचित्किंचिच्चाप्यर्थसाधनम् ॥ 86 ॥
मूलम्
निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे।
अनर्थसाधनं किंचित्किंचिच्चाप्यर्थसाधनम् ॥ 86 ॥
टिप्पनी 86
हिंसादि अनर्थसाधनम्। ज्योतिष्टोमादि स्वर्गाद्यर्थसाधनम्। प्रायश्चित्तादि अनर्थपरिहारकम्।
विश्वास-प्रस्तुतिः
अनर्थपरिहारं42 च 43किंचित् कर्मोपदिश्यते।
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा ॥ 87 ॥
मूलम्
अनर्थपरिहारं42 च 43किंचित् कर्मोपदिश्यते।
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा ॥ 87 ॥
विश्वास-प्रस्तुतिः
अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत्।
44तृतीयो द्विविधो राशिरनर्थपरिहारकः ॥ 88 ॥
मूलम्
अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत्।
44तृतीयो द्विविधो राशिरनर्थपरिहारकः ॥ 88 ॥
टिप्पनी 88
अनर्थपरिहारकं तृतीयं द्विविधम्—चान्द्रायणादि प्रायश्चित्तम् उत्पन्नानर्थनाशकम्। नित्यनैमित्तिकादि भाव्यनर्थपरिहारकमिति।
विश्वास-प्रस्तुतिः
प्रायश्चित्तात्मकः कश्चिदुत्पन्नानर्थनाशनः।
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ॥ 89 ॥
मूलम्
प्रायश्चित्तात्मकः कश्चिदुत्पन्नानर्थनाशनः।
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ॥ 89 ॥
टिप्पनी 89
तृतीये प्रथमां विधामाह—प्रायस्चित्तेति।
विश्वास-प्रस्तुतिः
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते।
अक्रियावदनर्थाय 45तत्तु कर्म समाचरेत् ॥ 90 ॥
मूलम्
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते।
अक्रियावदनर्थाय 45तत्तु कर्म समाचरेत् ॥ 90 ॥
टिप्पनी 90
तृतीये द्वितीयां विधामाह—क्रियमाणेत्यादि। नित्यनैमित्तिकरूपमित्यर्थः।
विश्वास-प्रस्तुतिः
एषा 46सा वैदिकी निष्ठा ह्युपायापायमध्यमा।
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् ॥ 91 ॥
मूलम्
एषा 46सा वैदिकी निष्ठा ह्युपायापायमध्यमा।
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् ॥ 91 ॥
विश्वास-प्रस्तुतिः
सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम्।
उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ 92 ॥
मूलम्
सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम्।
उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ 92 ॥
विश्वास-प्रस्तुतिः
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्।
प्रायस्चित्तिरियं सात्र यत्पुनः शरणं श्रयेत्47 ॥ 93 ॥
मूलम्
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्।
प्रायस्चित्तिरियं सात्र यत्पुनः शरणं श्रयेत्47 ॥ 93 ॥
टिप्पनी 93
अपायसंप्लव इति। बुद्धिपूर्वापराधसंभव इत्यर्थः।
विश्वास-प्रस्तुतिः
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च ॥ 94 ॥
मूलम्
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च ॥ 94 ॥
टिप्पनी 94
ज्योतिष्टोमादीनां मोक्षोपायत्वस्वीकारेऽपि निष्ठाप्रच्युतिर्भवत्येव। तस्मात् तानि न कुर्वीत। अयमत्र निर्गलितार्थः—भक्तियोगनिष्ठानां तद्योगमहिम्नेव प्रपत्तियोगनिष्ठानामपि प्रपत्तिमहिम्नैव पूर्वतनानि सर्वाण्यपि बुद्धिपूर्वकाण्यबुद्धिपूर्वकाणि च मोक्षविरोधिकर्माणि समूलनाशं नश्यन्ति। प्रपन्नानां प्रायशः प्रपत्तेरनन्तरं तादृशानि कर्माणि न संभवन्त्येव। कदाचिज्जातान्यप्यबुद्धिपूर्वकाणि अश्लिष्टानि भवन्ति। बुद्धिपूर्वकाणि तु पुनः प्रपदनेन नश्यन्ति। अकृतपुनःप्रपदनानां तु स्वल्पदण्डेन तद्भोगात्तन्नाशः। प्रारब्धकर्माण्यपि प्रपन्नस्यार्तितारतम्येन सद्यो वा तद्देहावसाने वा नश्यन्ति। भक्तियोगात् न्यासयोगस्यायं महिमातिशयः—भक्तियोगः प्रारब्धकर्माणि नापोहयितुमलम्। न्यासयोगस्तु प्रारब्धकर्माण्यप्यपोहयितुमलम्। यद्यार्त्यतिशयात् प्रपत्तिकाले सद्यस्तन्नाशोऽपि प्रार्थितः, तदा सद्य एव तानि नस्यन्ति। यदि तद्देहावसने प्रार्थितः, तदा तद्देहावसान एव नश्यन्ति। न तु भक्तियोगनिष्ठानामिव तद्भोगार्थदेहान्तरापादकानि। तथा चाहुः—“साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी” इति। किंच वैदिकानि काम्यकर्माणि निष्कामनया भक्तियोगाङ्गतयानुष्ठातुमभ्यनुज्ञायन्ते। प्रपन्नानां तु निष्कामनयापि तेषामनुष्ठानं स्वरूपविरुद्धमिति।
विश्वास-प्रस्तुतिः
संग्रहाय च लोकस्य मर्यादास्थापनाय च।
प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः ॥ 95 ॥
मूलम्
संग्रहाय च लोकस्य मर्यादास्थापनाय च।
प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः ॥ 95 ॥
विश्वास-प्रस्तुतिः
मनीषी वैदिकाचारं मनसापि न लङ्घयेत्।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् ॥ 96 ॥
मूलम्
मनीषी वैदिकाचारं मनसापि न लङ्घयेत्।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् ॥ 96 ॥
विश्वास-प्रस्तुतिः
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम्।
लङ्घयञ्शूलमारोहेदनपेक्षोऽपि तां प्रति ॥ 97 ॥
मूलम्
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम्।
लङ्घयञ्शूलमारोहेदनपेक्षोऽपि तां प्रति ॥ 97 ॥
विश्वास-प्रस्तुतिः
एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम्।
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ॥ 98 ॥
मूलम्
एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम्।
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ॥ 98 ॥
टिप्पनी 98
अयं भावः—नित्यनैमित्तिककर्माणि न सर्वथा फलरहितानि। किंतु प्रत्यवायोत्पत्तिनिरोधफलानि। आनुषङ्गिकमपि हि प्राजापत्यादिलोकप्राप्तिरूपफलं स्मर्यते। तत्र विनियोगपृथक्त्वात् प्रत्यवायोत्पत्तिनिरोधफलकानि तान्याद्रियन्ते। प्रत्यवायश्च भगवन्निग्रह एव। एवंच भगवन्निग्रहोत्पत्तिनिरोधाय तानि क्रियन्त इति न सर्वात्मना निरर्थकानीति। अतः “प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति चोद्यस्य नावकाशः।
विश्वास-प्रस्तुतिः
उपायत्वग्रहं तत्र 48वर्जयन् मनसा सुधीः।
चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम् ॥ 99 ॥
मूलम्
उपायत्वग्रहं तत्र 48वर्जयन् मनसा सुधीः।
चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम् ॥ 99 ॥
विश्वास-प्रस्तुतिः
अतीत्य सकलं क्लेशं संविशत्यमलं पदम्।
अपायोपायनिर्मुक्तां मध्यमां 49स्थितिमास्थिता ॥ 100 ॥
मूलम्
अतीत्य सकलं क्लेशं संविशत्यमलं पदम्।
अपायोपायनिर्मुक्तां मध्यमां 49स्थितिमास्थिता ॥ 100 ॥
विश्वास-प्रस्तुतिः
शरणागतिरग्र्यैषा संसारार्णवतारिणी।
इदं शरणमज्ञानामिदमेव विजानताम् ॥ 101 ॥
मूलम्
शरणागतिरग्र्यैषा संसारार्णवतारिणी।
इदं शरणमज्ञानामिदमेव विजानताम् ॥ 101 ॥
विश्वास-प्रस्तुतिः
इदं तितीर्षतां पारमिदमानन्त्यमिच्छताम्।
50प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ॥ 102 ॥
मूलम्
इदं तितीर्षतां पारमिदमानन्त्यमिच्छताम्।
50प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ॥ 102 ॥
मामेकां देवदेवस्य महिषीं शरणं 51श्रयेत्।
52उपायाद्विरतः शश्वन्मां चैव53 शरणं व्रजेत् ॥ 103 ॥
विश्वास-प्रस्तुतिः
तनूकृत्याखिलं पापं मां चाप्नोति नरः शनैः।
अथोपायप्रसक्तश्च भुक्त्वा भोगाननामयान्54 ॥ 104 ॥
मूलम्
तनूकृत्याखिलं पापं मां चाप्नोति नरः शनैः।
अथोपायप्रसक्तश्च भुक्त्वा भोगाननामयान्54 ॥ 104 ॥
विश्वास-प्रस्तुतिः
अन्ते विरक्तिमासाद्य विशते परमं पदम्।
उपायः सुकरः सोऽयं दुष्करस्च मतो मम ॥ 105 ॥
मूलम्
अन्ते विरक्तिमासाद्य विशते परमं पदम्।
उपायः सुकरः सोऽयं दुष्करस्च मतो मम ॥ 105 ॥
टिप्पनी 105
ननु चिरकालसाध्यस्य भक्तियोगस्य क्षणकालसाध्यस्य न्यासयोगस्य च मोक्षाक्यतुल्यफलत्वं न घटते, गुरुलघूपाययोर्विकल्पायोगात्। तथा सति प्रेक्षावन्तः सर्वेऽपि लघूपाय एव प्रवर्तेरन्, न गुरूपाय इति तद्विधेरननुष्ठानलक्षणमप्रामाण्यं स्यादित्यत्राह—उपायः सुकर इति। यद्यप्ययं न्यासयोगः क्षणकालकर्तव्यत्वात् कर्माद्यनङ्गकत्वाच्च सुकर एव, तथाप्यत्यन्तदुर्लभमहाविश्वासाद्यङ्गापेक्षत्वात् दुरूहमध्यमवृत्त्याश्रयत्वाच्च दुष्कर एवेति भावः। अत्र यद्यपि ज्ञानशक्त्यादिपौष्कल्यतद्राहित्याभ्यामधिकारिभेदात् व्यवस्था सुवचा, तथापि `इदमेव विजानताम्’ इत्यादिना ज्ञानादिमतामपि न्यासयोगविधानात् सा रीतिर्नादृता।
विश्वास-प्रस्तुतिः
शिष्टैर्निषेव्यते सोऽयमकामहतचेतनैः।
अकामैश्च सकामैश्च तस्मात्सिद्ध्यर्थमात्मनः ॥ 106 ॥
मूलम्
शिष्टैर्निषेव्यते सोऽयमकामहतचेतनैः।
अकामैश्च सकामैश्च तस्मात्सिद्ध्यर्थमात्मनः ॥ 106 ॥
विश्वास-प्रस्तुतिः
अर्चनीया नरैः शश्वन्मम मन्त्रमयी तनुः।
प्रविश्य विधिवद्दीक्षां गुरोर्लब्ध्वार्थसंपदः55।
मन्मयैरर्चयेन्मन्त्रैर्मामिकां मान्त्रिकीं56 तनुम् ॥ 107 ॥
मूलम्
अर्चनीया नरैः शश्वन्मम मन्त्रमयी तनुः।
प्रविश्य विधिवद्दीक्षां गुरोर्लब्ध्वार्थसंपदः55।
मन्मयैरर्चयेन्मन्त्रैर्मामिकां मान्त्रिकीं56 तनुम् ॥ 107 ॥
इति 57श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे रहस्योपायप्रकाशो58 नाम सप्तदशोऽध्यायः
इति सप्तदशोऽध्यायः