विश्वास-प्रस्तुतिः
षोडशोऽध्यायः - 16
श्रीः—
व्याख्यानं महतः शक्र शृणुष्वावहितो मम।
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः ॥ 1 ॥
मूलम्
षोडशोऽध्यायः - 16
श्रीः—
व्याख्यानं महतः शक्र शृणुष्वावहितो मम।
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः ॥ 1 ॥
टिप्पनी 1
अनेन गुणत्रयस्य साम्यावस्थायां प्रकृतिरिति, वैषम्यावस्थायां महानिति च व्यवहार इत्युक्तं भवति।
विश्वास-प्रस्तुतिः
स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः।
सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि1 ॥ 2 ॥
मूलम्
स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः।
सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि1 ॥ 2 ॥
विश्वास-प्रस्तुतिः
तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु।
बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च ॥ 3 ॥
मूलम्
तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु।
बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च ॥ 3 ॥
टिप्पनी 3
कालस्य तामसत्वमत्रोच्यते। औपनिषदप्रक्रिया कालस्याप्राकृतत्वमेवेति वदन्ति।
टिप्पनी 4
कलनं विपरिणतिः। आम्रादिशलाटोः तत्फलात्मना, युवदेहस्य वलिभवृद्धदेहात्मना च या परिणतिः सेत्यर्थः।
विश्वास-प्रस्तुतिः
स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात्।
तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः ॥ 5 ॥
मूलम्
स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात्।
तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः ॥ 5 ॥
विश्वास-प्रस्तुतिः
जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान्।
कर्मेन्द्रियगणश्चापि 4राजसादुभयात्मकम् ॥ 6 ॥
मूलम्
जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान्।
कर्मेन्द्रियगणश्चापि 4राजसादुभयात्मकम् ॥ 6 ॥
टिप्पनी 6
कर्मेन्द्रियाणां राजसत्वं, मनसः सात्त्विकराजसत्वमिति विभागस्तन्त्रिकैकदेशिनां मतेन। वस्तुतस्तु एकादशापीन्द्रियाणि सात्त्विकानीत्येव बहूनां पाञ्चरात्रिकाणां मतम्। “देवा वैकारिका दश। एकादशं मनस्च” इति विष्णुपुराणे चोक्तम्।
विश्वास-प्रस्तुतिः
उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः।
अत्र प्रकृतिरेकैव मूलभूता सनातनी ॥ 7 ॥
मूलम्
उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः।
अत्र प्रकृतिरेकैव मूलभूता सनातनी ॥ 7 ॥
टिप्पनी 7
तत्त्वपद्धतिः। अचित्तत्त्वपद्धतिरित्यर्थः। इत्थमत्र विभागः—तत्त्वं द्विविधम्, अचित्तत्त्वं चित्तत्त्वं चेति। तत्राचित्तत्त्वं चतुर्विंशतिधा—प्रकृतिमहदहंकारास्त्रयः, तन्मात्राणि पञ्च, महाभूतानि पञ्च, एकादशेन्द्रियाणीति। चित्तत्त्वं द्वेधा—जीव ईश्वरश्चेति। आहत्य षड्विंशतिस्तत्त्वानि।
विश्वास-प्रस्तुतिः
महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः।
तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः ॥ 8 ॥
मूलम्
महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः।
तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः ॥ 8 ॥
विश्वास-प्रस्तुतिः
बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च।
विकारा एव विज्ञेया एते षोडश चिन्तकैः ॥ 9 ॥
मूलम्
बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च।
विकारा एव विज्ञेया एते षोडश चिन्तकैः ॥ 9 ॥
विश्वास-प्रस्तुतिः
चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते।
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह ॥ 10 ॥
मूलम्
चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते।
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह ॥ 10 ॥
विश्वास-प्रस्तुतिः
स सर्वः कथितः पूर्वं तव वृत्रनिषूदन।
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता ॥ 11 ॥
मूलम्
स सर्वः कथितः पूर्वं तव वृत्रनिषूदन।
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता ॥ 11 ॥
विश्वास-प्रस्तुतिः
इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप।
व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी ॥ 12 ॥
मूलम्
इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप।
व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी ॥ 12 ॥
टिप्पनी 12
प्रकृत्यवस्थायामव्यक्ता, परिणत्यवस्थायां व्यक्ता। कार्यकारणयोरभेदादेवमुक्तिः।
विश्वास-प्रस्तुतिः
विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा5।
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः ॥ 13 ॥
मूलम्
विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा5।
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः ॥ 13 ॥
विश्वास-प्रस्तुतिः
अयं स्वरसतः शुद्ध- परिणामविवर्जितः।
कूटस्थश्चिद्धनो 6नित्यो ह्यनन्तोऽप्रतिसंक्रमः ॥ 14 ॥
मूलम्
अयं स्वरसतः शुद्ध- परिणामविवर्जितः।
कूटस्थश्चिद्धनो 6नित्यो ह्यनन्तोऽप्रतिसंक्रमः ॥ 14 ॥
टिप्पनी 14
स्वरसतः स्वभावतः। अनन्तः; संख्यया ज्ञानादिगुणैश्चापरिच्छिन्न इत्यर्थः।
विश्वास-प्रस्तुतिः
इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ7।
प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ ॥ 15 ॥
मूलम्
इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ7।
प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ ॥ 15 ॥
विश्वास-प्रस्तुतिः
लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि।
साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः ॥ 16 ॥
मूलम्
लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि।
साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः ॥ 16 ॥
विश्वास-प्रस्तुतिः
वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे।
प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी ॥ 17 ॥
मूलम्
वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे।
प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी ॥ 17 ॥
विश्वास-प्रस्तुतिः
अविवेकाप्यशुद्धा च सर्वजीवसमा सदा।
विषयोऽचेतना8 चैव सुखदुःखविमोहिनी ॥ 18 ॥
मूलम्
अविवेकाप्यशुद्धा च सर्वजीवसमा सदा।
विषयोऽचेतना8 चैव सुखदुःखविमोहिनी ॥ 18 ॥
विश्वास-प्रस्तुतिः
मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः।
साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः ॥ 19 ॥
मूलम्
मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः।
साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः ॥ 19 ॥
विश्वास-प्रस्तुतिः
वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु।
या सा सदसदाख्यादिविकल्पविकला9 ध्रुवा ॥ 20 ॥
मूलम्
वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु।
या सा सदसदाख्यादिविकल्पविकला9 ध्रुवा ॥ 20 ॥
टिप्पनी 20
विकल्पविकलेति। विविधपरिणत्यभागिनीत्यर्थः।
विश्वास-प्रस्तुतिः
नित्योदिता सदानन्दा पूर्णषाड्गुण्यविग्रहा।
अहं नारायणी शक्तिर्विष्णोः श्रीरपायिनी ॥ 21 ॥
मूलम्
नित्योदिता सदानन्दा पूर्णषाड्गुण्यविग्रहा।
अहं नारायणी शक्तिर्विष्णोः श्रीरपायिनी ॥ 21 ॥
विश्वास-प्रस्तुतिः
मत्तः प्रभवतो ह्येतौ मय्येव लयमेष्यतः।
साहमेतावती 10भावैर्विविधैर्विस्तृतिं गता ॥ 22 ॥
मूलम्
मत्तः प्रभवतो ह्येतौ मय्येव लयमेष्यतः।
साहमेतावती 10भावैर्विविधैर्विस्तृतिं गता ॥ 22 ॥
विश्वास-प्रस्तुतिः
नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम्।
एको नारायणो विष्णुर्वासुदेवः सनातनः ॥ 23 ॥
मूलम्
नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम्।
एको नारायणो विष्णुर्वासुदेवः सनातनः ॥ 23 ॥
विश्वास-प्रस्तुतिः
अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम्।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ॥ 24 ॥
मूलम्
अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम्।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ॥ 24 ॥
टिप्पनी 24
श्कतिशक्तिमतोरपृथक्सिद्धसंबन्धात् एकत्वम्। अतो नाद्वितीयत्वविरोध इति भावः।
विश्वास-प्रस्तुतिः
निस्तरङ्गः सदैवासौ जगदेतच्चराचरम्।
इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् ॥ 25 ॥
मूलम्
निस्तरङ्गः सदैवासौ जगदेतच्चराचरम्।
इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् ॥ 25 ॥
टिप्पनी 25
असौ नारायण एव चराचरात्मकजगद्रूपतयावतिष्ठत इति यावत्।
विश्वास-प्रस्तुतिः
या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः।
ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् ॥ 26 ॥
मूलम्
या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः।
ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् ॥ 26 ॥
विश्वास-प्रस्तुतिः
कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम्।
चर्चायामिह संख्यायां 11सिद्धायाममलात्मनि ॥ 27 ॥
मूलम्
कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम्।
चर्चायामिह संख्यायां 11सिद्धायाममलात्मनि ॥ 27 ॥
टिप्पनी 27
चर्चा नाम पुनः पुनः परिशीलनम्।
विश्वास-प्रस्तुतिः
उदेति या समीचीना संख्या सत्तत्त्वगोचरा।
एषा सा परमा संख्या मत्प्रसादसमुद्भवा ॥ 28 ॥
मूलम्
उदेति या समीचीना संख्या सत्तत्त्वगोचरा।
एषा सा परमा संख्या मत्प्रसादसमुद्भवा ॥ 28 ॥
विश्वास-प्रस्तुतिः
सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम्।
एवं हि परिसंख्याय सांख्या 12मद्भावमागताः ॥ 29 ॥
मूलम्
सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम्।
एवं हि परिसंख्याय सांख्या 12मद्भावमागताः ॥ 29 ॥
विश्वास-प्रस्तुतिः
उपायो 13यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः।
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा ॥ 30 ॥
मूलम्
उपायो 13यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः।
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा ॥ 30 ॥
विश्वास-प्रस्तुतिः
यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे।
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता14 ॥ 31 ॥
मूलम्
यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे।
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता14 ॥ 31 ॥
विश्वास-प्रस्तुतिः
साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम्।
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा ॥ 32 ॥
मूलम्
साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम्।
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा ॥ 32 ॥
टिप्पनी 32
अविभागस्थेति। “आत्मेति तूपगच्छन्ति ग्राहयन्ति च” इत्युक्तरीत्या परस्य ब्रह्मणोऽविभागेनोपासनमत्राभिप्रेतम्।
विश्वास-प्रस्तुतिः
संयमो नाम सत्कर्म परमात्मैकगोचरम्।
तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा ॥ 33 ॥
मूलम्
संयमो नाम सत्कर्म परमात्मैकगोचरम्।
तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा ॥ 33 ॥
विश्वास-प्रस्तुतिः
विस्तरेणाभिधास्येते समाधिः संयमस्तथा।
प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा ॥ 34 ॥
मूलम्
विस्तरेणाभिधास्येते समाधिः संयमस्तथा।
प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा ॥ 34 ॥
विश्वास-प्रस्तुतिः
संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात्।
तेन हि प्रीणिता साहं सदाचारनिषेवणात् ॥ 35 ॥
मूलम्
संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात्।
तेन हि प्रीणिता साहं सदाचारनिषेवणात् ॥ 35 ॥
विश्वास-प्रस्तुतिः
ददामि बुद्धियोगं तमन्तःकरणशोधनम्।
सांख्यं नाम द्वितीयो य उपायः कथितस्तव ॥ 36 ॥
मूलम्
ददामि बुद्धियोगं तमन्तःकरणशोधनम्।
सांख्यं नाम द्वितीयो य उपायः कथितस्तव ॥ 36 ॥
विश्वास-प्रस्तुतिः
परोक्षः शास्त्रजन्योऽसौ निर्णयो दृढतां गतः।
प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् ॥ 37 ॥
मूलम्
परोक्षः शास्त्रजन्योऽसौ निर्णयो दृढतां गतः।
प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् ॥ 37 ॥
विश्वास-प्रस्तुतिः
अहं संख्यायमाना हि स्वरूपगुणवैभवैः ।
उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् ॥ 38 ॥
मूलम्
अहं संख्यायमाना हि स्वरूपगुणवैभवैः ।
उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
तृतीयस्तु समाध्यात्मा 15प्रत्यक्षोऽविप्लवो दृढः।
प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः ॥ 39 ॥
मूलम्
तृतीयस्तु समाध्यात्मा 15प्रत्यक्षोऽविप्लवो दृढः।
प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः ॥ 39 ॥
विश्वास-प्रस्तुतिः
तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः।
भोगैः शुद्धैस्रिधोद्भूतैरत्यन्तप्रीतये मम ॥ 40 ॥
मूलम्
तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः।
भोगैः शुद्धैस्रिधोद्भूतैरत्यन्तप्रीतये मम ॥ 40 ॥
विश्वास-प्रस्तुतिः
अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा।
साक्षादेव समाराध्या देवो वा पुरुषोत्तमः ॥ 41 ॥
मूलम्
अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा।
साक्षादेव समाराध्या देवो वा पुरुषोत्तमः ॥ 41 ॥
विश्वास-प्रस्तुतिः
इति ते कथिताः सम्यगुपायास्त्रय ऊर्जिताः।
शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् ॥ 42 ॥
मूलम्
इति ते कथिताः सम्यगुपायास्त्रय ऊर्जिताः।
शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् ॥ 42 ॥
विश्वास-प्रस्तुतिः
16तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान्।
संसारानलसंतप्तो मामेकां शरणं व्रजेत् ॥ 43 ॥
मूलम्
16तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान्।
संसारानलसंतप्तो मामेकां शरणं व्रजेत् ॥ 43 ॥
विश्वास-प्रस्तुतिः
अहं हि शरणं प्राप्ता नरेणआनन्यचेतसा।
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् ॥ 44 ॥
मूलम्
अहं हि शरणं प्राप्ता नरेणआनन्यचेतसा।
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् ॥ 44 ॥
इति 17श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 18उपायप्रकारविवरणं नाम षोडशोऽध्यायः
इति षोडशोऽध्यायः