विश्वास-प्रस्तुतिः
पञ्चदशोऽध्यायः - 15
शक्रः—
नमस्ते पद्मसंभूते नमः कमलमालिनि।
नमः कमलवासिन्यै1 गोविन्दगृहमेधिनि ॥ 1 ॥
मूलम्
पञ्चदशोऽध्यायः - 15
शक्रः—
नमस्ते पद्मसंभूते नमः कमलमालिनि।
नमः कमलवासिन्यै1 गोविन्दगृहमेधिनि ॥ 1 ॥
विश्वास-प्रस्तुतिः
नमस्ते कंजकिञ्जल्ककल्पितालकविभ्रमे।
सर्वज्ञे सर्वभूतानामन्तःस्थे सर्वसाक्षिणि ॥ 2 ॥
मूलम्
नमस्ते कंजकिञ्जल्ककल्पितालकविभ्रमे।
सर्वज्ञे सर्वभूतानामन्तःस्थे सर्वसाक्षिणि ॥ 2 ॥
विश्वास-प्रस्तुतिः
त्वद्वक्त्रकमलोद्भूतं सर्वं तदवधारितम्।
तत्त्वत्सृष्टं त्वया त्रातं त्वय्येव लयमेष्यति ॥ 3 ॥
मूलम्
त्वद्वक्त्रकमलोद्भूतं सर्वं तदवधारितम्।
तत्त्वत्सृष्टं त्वया त्रातं त्वय्येव लयमेष्यति ॥ 3 ॥
विश्वास-प्रस्तुतिः
माता मानं मितिमेयं विधा एतास्त्वदात्मिकाः।
त्वामेवाराध्य जीवास्ते तरन्ति भवसागरम् ॥ 4 ॥
मूलम्
माता मानं मितिमेयं विधा एतास्त्वदात्मिकाः।
त्वामेवाराध्य जीवास्ते तरन्ति भवसागरम् ॥ 4 ॥
विश्वास-प्रस्तुतिः
एवमादि मया देवि तत्त्वतस्त्ववधारितम्।
कौतूहलमिदं मेऽद्य वर्तते पद्मसंभवे ॥ 5 ॥
मूलम्
एवमादि मया देवि तत्त्वतस्त्ववधारितम्।
कौतूहलमिदं मेऽद्य वर्तते पद्मसंभवे ॥ 5 ॥
विश्वास-प्रस्तुतिः
तोषणीयासि केन त्वमुपायेनाम्बुजासने।
परमः पुरुषार्थो यस्त्वत्प्रीतिस्तस्य साधनम् ॥ 6 ॥
मूलम्
तोषणीयासि केन त्वमुपायेनाम्बुजासने।
परमः पुरुषार्थो यस्त्वत्प्रीतिस्तस्य साधनम् ॥ 6 ॥
टिप्पनी 6
परमः पुरुषार्थो मोक्षः। तस्य त्वत्प्रीतिः साधनम्। यथा चाहुः–“श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्” इति।
विश्वास-प्रस्तुतिः
त्वत्प्रीतौ क उपायः स्यात्कीदृशः किंविधः स्मृतः2।
एतन्मे सकलं ब्रूहि नमस्ते पद्मसंभवे ॥ 7 ॥
मूलम्
त्वत्प्रीतौ क उपायः स्यात्कीदृशः किंविधः स्मृतः2।
एतन्मे सकलं ब्रूहि नमस्ते पद्मसंभवे ॥ 7 ॥
विश्वास-प्रस्तुतिः
श्रीः—
चातुरात्म्यं परं ब्रह्म 3सच्चिदानन्दलक्षणम्।
सर्वं सर्वोत्तरं सर्वभूतान्तःस्थमनामयम् ॥ 8 ॥
मूलम्
श्रीः—
चातुरात्म्यं परं ब्रह्म 3सच्चिदानन्दलक्षणम्।
सर्वं सर्वोत्तरं सर्वभूतान्तःस्थमनामयम् ॥ 8 ॥
टिप्पनी 8
“सत्यं ज्ञानम्” इत्यादिश्रुतिप्रतिपाद्यं स्वरूपलक्षणमुच्यते—सदित्यादिना। सर्वोपादानत्वात् सर्वात्मत्वाच्च सर्वमित्युच्यते। तथापि स्वेतरसमस्तवस्तुविलक्षणत्वमाह–सर्वोत्तरमिति।
विश्वास-प्रस्तुतिः
वासुदेवः परं ब्रह्म 4नारायणमयं महत्।
तस्याहं परमा शक्तिरहंतानन्दचिन्मयी ॥ 9 ॥
मूलम्
वासुदेवः परं ब्रह्म 4नारायणमयं महत्।
तस्याहं परमा शक्तिरहंतानन्दचिन्मयी ॥ 9 ॥
टिप्पनी 9
नारायणमयमिति मयट् स्वार्थे।
विश्वास-प्रस्तुतिः
भिन्नाऽभिन्ना च वर्तेऽहं ज्योत्स्नेव हिमदीधितेः।
तावावां तत्त्वमेकं तु द्विधा भूतौ5 व्यवस्थितौ ॥ 10 ॥
मूलम्
भिन्नाऽभिन्ना च वर्तेऽहं ज्योत्स्नेव हिमदीधितेः।
तावावां तत्त्वमेकं तु द्विधा भूतौ5 व्यवस्थितौ ॥ 10 ॥
टिप्पनी 10
प्रपञ्च इव ब्रह्मण एवावस्थाभेदः श्रीरिति केषांचिन्मतमनभिमत्याह—भिन्नेति।
विश्वास-प्रस्तुतिः
ब्रह्म नारायणं मां 6यज्ज्ञानेनैवाप्रुयाद्यतिः।
पन्था नान्योऽस्ति विज्ञानादयनाय विपश्चिताम् ॥ 11 ॥
मूलम्
ब्रह्म नारायणं मां 6यज्ज्ञानेनैवाप्रुयाद्यतिः।
पन्था नान्योऽस्ति विज्ञानादयनाय विपश्चिताम् ॥ 11 ॥
टिप्पनी 11
यतिः नियतात्मवान्। नात्र चतुर्थाश्रमी विवक्षितः।
विश्वास-प्रस्तुतिः
ज्ञानं तच्च विवेकोत्थं सर्वतः शुद्धमव्रणम्।
वासुदेवैकविषयमपुनर्भवकारणम् ॥ 12 ॥
मूलम्
ज्ञानं तच्च विवेकोत्थं सर्वतः शुद्धमव्रणम्।
वासुदेवैकविषयमपुनर्भवकारणम् ॥ 12 ॥
टिप्पनी 12
विवेकः ब्रह्मणः सर्वविलक्षणत्वज्ञानम्।
विश्वास-प्रस्तुतिः
ज्ञाने तस्मिन् समुत्पन्ने विशते मामनन्तरम्।
तैस्तैरुपायैः प्रीताहं जीवानाममलात्मनाम् ॥ 13 ॥
मूलम्
ज्ञाने तस्मिन् समुत्पन्ने विशते मामनन्तरम्।
तैस्तैरुपायैः प्रीताहं जीवानाममलात्मनाम् ॥ 13 ॥
विश्वास-प्रस्तुतिः
उद्भावयामि तज्ज्ञानमात्मज्योतिः प्रदर्शकम्।
उपायास्ते च चत्वारो मम प्रीतिविवर्धनाः ॥ 14 ॥
मूलम्
उद्भावयामि तज्ज्ञानमात्मज्योतिः प्रदर्शकम्।
उपायास्ते च चत्वारो मम प्रीतिविवर्धनाः ॥ 14 ॥
टिप्पनी 14
कर्मज्ञानभक्तिन्यासाख्याः चत्वारो योगा अत्र विवक्षिताः।
7शक्रः—
विश्वास-प्रस्तुतिः
भगवत्यरविन्दस्थे पङ्कजेक्षणकामिनि।
8उपायाः के च चत्वारस्तान्मे दर्शय पङ्कजे ॥ 15 ॥
मूलम्
भगवत्यरविन्दस्थे पङ्कजेक्षणकामिनि।
8उपायाः के च चत्वारस्तान्मे दर्शय पङ्कजे ॥ 15 ॥
विश्वास-प्रस्तुतिः
श्रीः—
उपायांश्चतुरः शक्र शृणु मत्प्रीतिवर्धनान्।
यैरहं परमां प्रीतिं यास्याम्यनपगामिनीम् ॥ 16 ॥
मूलम्
श्रीः—
उपायांश्चतुरः शक्र शृणु मत्प्रीतिवर्धनान्।
यैरहं परमां प्रीतिं यास्याम्यनपगामिनीम् ॥ 16 ॥
विश्वास-प्रस्तुतिः
स्वजातिविहितं कर्म सांख्यं योगस्तथैव च।
सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे ॥ 17 ॥
मूलम्
स्वजातिविहितं कर्म सांख्यं योगस्तथैव च।
सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे ॥ 17 ॥
विश्वास-प्रस्तुतिः
चतुर्भिर्लक्षणैर्युक्तं त्रिविधं कर्म वैदिकम्।
स्ववर्णाश्रमसंबन्धि नित्यनैमित्तिकात्मकम् ॥ 18 ॥
मूलम्
चतुर्भिर्लक्षणैर्युक्तं त्रिविधं कर्म वैदिकम्।
स्ववर्णाश्रमसंबन्धि नित्यनैमित्तिकात्मकम् ॥ 18 ॥
टिप्पनी 18
लक्षणचतुष्कं विंशे श्लोके वक्ष्यते। नित्यनैमित्तिककाम्यभेदेन त्रैविध्यम्।
विश्वास-प्रस्तुतिः
अकामहतसंसिद्धं कर्म तत् पूर्वसाधनम्।
चतुर्विधस्तु संन्यासस्तत्र कार्यो विपश्चिता ॥ 19 ॥
मूलम्
अकामहतसंसिद्धं कर्म तत् पूर्वसाधनम्।
चतुर्विधस्तु संन्यासस्तत्र कार्यो विपश्चिता ॥ 19 ॥
टिप्पनी 19
काम्यकर्मसु विशेषमाह—अकामेति। फलविशेषकामनया कृतानि कर्माणि काम्यानि ज्योतिष्टोमादयः। तानि च कामहतानीत्युच्यन्ते। कामनां विना केवलं भगवत्प्रीत्यर्थं कृतानि तान्यकामहतानि। अनेन काम्यानामपि कर्मणां कामनां विनानुष्ठानमनुमन्यते। परं त्वेतदुपायान्तरनिष्ठविषयम्। न्यासयोगनिष्ठानां तु काम्यकर्मणां सर्वथा स्वरूपतोऽपि त्याग एव, न तु कामनां विनाप्यनुष्ठानमिति सिद्धान्तोऽवगन्तव्यः।
विश्वास-प्रस्तुतिः
मन्त्रोक्तदेवतायां वा प्रकृताविन्द्रियेषु वा।
परस्मिन् देवदेवे वा वासुदेवे जनार्दने ॥ 20 ॥
मूलम्
मन्त्रोक्तदेवतायां वा प्रकृताविन्द्रियेषु वा।
परस्मिन् देवदेवे वा वासुदेवे जनार्दने ॥ 20 ॥
टिप्पनी 20
भगवति वासुदेवे कर्मणां संन्यसनमेव मुमुक्षुभिः कर्तव्यम्। मन्त्रदेवतादौ विन्यसनं तु बुभुक्षुविषयमिति ध्येयम्।
विश्वास-प्रस्तुतिः
9पूर्वं कर्तृत्वसंन्यासः फलसंन्यास एव च।
कर्मणामपि संन्यासो देवदेवे जनार्दने ॥ 21 ॥
मूलम्
9पूर्वं कर्तृत्वसंन्यासः फलसंन्यास एव च।
कर्मणामपि संन्यासो देवदेवे जनार्दने ॥ 21 ॥
टिप्पनी 21
`भगवानेव स्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय स्वशेषभूतमिदं कर्म स्वयमेव कारयति’ इत्यनुसंधानप्रकारो विवक्षितः।
विश्वास-प्रस्तुतिः
शास्त्रीयमाचरन्नेवं नित्यनैमित्तिकात्मकम्।
मदाराधनकामः सञ्शश्वत् प्रीणाति मां नरः ॥ 22 ॥
मूलम्
शास्त्रीयमाचरन्नेवं नित्यनैमित्तिकात्मकम्।
मदाराधनकामः सञ्शश्वत् प्रीणाति मां नरः ॥ 22 ॥
विश्वास-प्रस्तुतिः
इति ते लेशतः प्रोक्तं श्रुतिस्मृतिनिदर्शितम्10।
द्वितीयं सांख्यविज्ञानमुपायं श्रृणु सांप्रतम् ॥ 23 ॥
मूलम्
इति ते लेशतः प्रोक्तं श्रुतिस्मृतिनिदर्शितम्10।
द्वितीयं सांख्यविज्ञानमुपायं श्रृणु सांप्रतम् ॥ 23 ॥
विश्वास-प्रस्तुतिः
संख्यास्तिस्रो हि मन्तव्याः सांख्यशास्त्रनिदर्शिताः।
प्रथमा लौकिकी संख्या द्वितीया 11चर्चनात्मिका ॥ 24 ॥
मूलम्
संख्यास्तिस्रो हि मन्तव्याः सांख्यशास्त्रनिदर्शिताः।
प्रथमा लौकिकी संख्या द्वितीया 11चर्चनात्मिका ॥ 24 ॥
टिप्पनी 24
त्रयाणामप्येषां ज्ञानानां विवरणमत्रैव करिष्यते।
विश्वास-प्रस्तुतिः
समीचीना तु या धीः सा तृतीया परिपठ्यते।
संख्यात्रयसमूहो यः सांख्यं तत्परिपठ्यते ॥ 25 ॥
मूलम्
समीचीना तु या धीः सा तृतीया परिपठ्यते।
संख्यात्रयसमूहो यः सांख्यं तत्परिपठ्यते ॥ 25 ॥
टिप्पनी 25
संख्याः ज्ञानानि पूर्वोक्तानि। तेषां समूहः सांख्यमित्युच्यते। एतदेव ज्ञानयोग इत्युच्यते।
विश्वास-प्रस्तुतिः
पृथिव्यापस्तथा तेजो वायुराकाशमेव च।
अहंकारो महांश्चैव प्रकृतिः परमा तथा ॥ 26 ॥
मूलम्
पृथिव्यापस्तथा तेजो वायुराकाशमेव च।
अहंकारो महांश्चैव प्रकृतिः परमा तथा ॥ 26 ॥
टिप्पनी 26
लौकिकी लोकविषया संख्योच्यतेऽनेन श्लोकेन। उपरितनैः श्लोकैरस्या विवरणं क्रियते।
विश्वास-प्रस्तुतिः
एताः प्रकृतयस्त्त्वष्टौ तासां व्याख्यामिमां शृणु।
प्रकृतिस्रिविधा प्रोक्ता माया सूतिर्गुणात्मिका ॥ 27 ॥
मूलम्
एताः प्रकृतयस्त्त्वष्टौ तासां व्याख्यामिमां शृणु।
प्रकृतिस्रिविधा प्रोक्ता माया सूतिर्गुणात्मिका ॥ 27 ॥
टिप्पनी 27
माया प्रसूतिः त्रैगुण्यमिति प्रकृतिभेदाः। यद्यपि प्रकृतिः सूक्ष्मैव; तथापि तत्रैव सूक्ष्मसूक्ष्मतरसूक्ष्मतमरूपेण त्रैविध्यादेवं व्यवहारः।
विश्वास-प्रस्तुतिः
निःसक्तासक्तमद्वैतमतरङ्गमनश्वरम्।
अचेतनानां परमं सौक्ष्म्यं मायेति गीयते ॥ 28 ॥
मूलम्
निःसक्तासक्तमद्वैतमतरङ्गमनश्वरम्।
अचेतनानां परमं सौक्ष्म्यं मायेति गीयते ॥ 28 ॥
विश्वास-प्रस्तुतिः
ईषदुच्छूनता तस्याः प्रसूतिरिति गीयते।
गुणत्रयसमुन्मेषः साम्येन प्रकृतिः परा ॥ 29 ॥
मूलम्
ईषदुच्छूनता तस्याः प्रसूतिरिति गीयते।
गुणत्रयसमुन्मेषः साम्येन प्रकृतिः परा ॥ 29 ॥
विश्वास-प्रस्तुतिः
अव्यक्तमक्षरं योनिरविद्या त्रिगुणा स्थितिः।
माया स्वभाव इत्याद्याः शब्दाः पर्यायवाचकाः ॥ 30 ॥
मूलम्
अव्यक्तमक्षरं योनिरविद्या त्रिगुणा स्थितिः।
माया स्वभाव इत्याद्याः शब्दाः पर्यायवाचकाः ॥ 30 ॥
टिप्पनी 30
अवान्तरभेदैः सह संकलय्य प्रकृतिपर्यायनामानि अव्यक्तादीनि। उपनिषदि “अव्यक्तमक्षरे लीयते। अक्षरं तमसि लीयते। तमः परमात्मन्येकीयभवति” इति त्रयाणामेषां व्यवहारः क्रियते।
विश्वास-प्रस्तुतिः
सत्त्वं रजस्तमश्चेति गुणा एते त्रयो मताः।
तत्र सत्त्वं लघु ज्ञेयं सुखरूपमचञ्चलम् ॥ 31 ॥
मूलम्
सत्त्वं रजस्तमश्चेति गुणा एते त्रयो मताः।
तत्र सत्त्वं लघु ज्ञेयं सुखरूपमचञ्चलम् ॥ 31 ॥
विश्वास-प्रस्तुतिः
प्रकाशो नाम तद्वृत्तिश्चैतन्योद्ग्रहणात्मकः।
रजोऽपि च लघु ज्ञेयं दुःखरूपं च चञ्चलम् ॥ 32 ॥
मूलम्
प्रकाशो नाम तद्वृत्तिश्चैतन्योद्ग्रहणात्मकः।
रजोऽपि च लघु ज्ञेयं दुःखरूपं च चञ्चलम् ॥ 32 ॥
टिप्पनी 32
चैतन्यस्य ज्ञानस्य उद्ग्रहणम् उन्मेष इत्यर्थः; वस्तुयाथात्म्यग्रहणशीलतेति यावत्।
विश्वास-प्रस्तुतिः
प्रवृत्तिर्नाम तद्वृत्तिः स्पन्दहेतुरनश्वरः।
तमो नाम गुरु ज्ञेयं मोहरूपमचञ्चलम् ॥ 33 ॥
मूलम्
प्रवृत्तिर्नाम तद्वृत्तिः स्पन्दहेतुरनश्वरः।
तमो नाम गुरु ज्ञेयं मोहरूपमचञ्चलम् ॥ 33 ॥
विश्वास-प्रस्तुतिः
नियमो नाम तद्वृतिः क्वचित् स्वापनलक्षणम्।
न तदस्ति पृथिव्यां वा दिवि व्योम्नि च वासव ॥ 34 ॥
मूलम्
नियमो नाम तद्वृतिः क्वचित् स्वापनलक्षणम्।
न तदस्ति पृथिव्यां वा दिवि व्योम्नि च वासव ॥ 34 ॥
टिप्पनी 34
नियमो बन्धः।
विश्वास-प्रस्तुतिः
भूतं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः।
एते चित्तमधिष्ठाय गुणा इन्द्रियगास्तथा ॥ 35 ॥
मूलम्
भूतं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः।
एते चित्तमधिष्ठाय गुणा इन्द्रियगास्तथा ॥ 35 ॥
विश्वास-प्रस्तुतिः
सुखं दुःखं तथा मोहं विषयस्थाश्च कुर्वते।
12शरीरेन्द्रियतां याता13 गुणाः कर्माणि कुर्वते।
इति यस्य मतिर्नित्या स गुणात्ययमश्नुते ॥ 36 ॥
मूलम्
सुखं दुःखं तथा मोहं विषयस्थाश्च कुर्वते।
12शरीरेन्द्रियतां याता13 गुणाः कर्माणि कुर्वते।
इति यस्य मतिर्नित्या स गुणात्ययमश्नुते ॥ 36 ॥
इति 14श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 15उपायप्रकारप्रकाशो नाम पञ्चदशोऽध्यायः
इति पञ्चदशोऽध्यायः