चतुर्दशोऽध्यायः - 14
1श्रीः—
विश्वास-प्रस्तुतिः
ज्ञानस्वरूपो भगवान् देशकालाद्यभेदितः2।
वासुदेवः परं ब्रह्म गुणशून्यं निरञ्जनम् ॥ 1 ॥
मूलम्

सुखं सदैकरूपं तु षाड्गुण्यमजरामरम्3।
तस्याहं परमा शक्तिरहंता शाश्वती ध्रुवा ॥ 2 ॥

व्यापारशक्तिरेषा मे सिसृक्षालक्षणा भवेत्4।
5अयुतायुतकोट्योघकोटिकोट्ययुतांशतः6 ॥ 3 ॥
विश्वास-प्रस्तुतिः
साहं सृजामि स्वाच्छन्द्याद् द्विधा भेदमुपेयुषी।
चेत्यचेतनभावेन चिच्छक्तिश्चेतनोऽनयोः ॥ 4 ॥

चेत्यचेतनतां प्राप्ता संविदेव मदात्मिका।
संविदेव हि मे रूपं7स्वच्छस्वच्छन्दनिर्भरा ॥ 5 ॥

सा त्विक्षुरसवद्योगात् स्त्यानतां प्रतिपद्यते।
अतो 8निरूप्यमाणं तच्चेत्यं 9चित्त्वमुपेष्यति ॥ 6 ॥

यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत्।
एवं 10चिता समालीढं चेत्यं चिन्मयतां व्रजेत् ॥ 7 ॥

नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम्।
विशिनष्टि 11विकल्पस्तच्चित्रयोपाधिसंपदा ॥ 8 ॥

12विकल्पोऽपि हि मद्रूपं स्वाच्छन्द्यादेव निर्मितम्।
चेत्यं 13विकल्प्यते येन बहिरन्तर्व्यवस्थया ॥ 9 ॥

न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम्14।
वेद्यवेदकरूपेण भेद्यते मे स्वयंतया ॥ 10 ॥

यद्विकल्पैरनाक्रान्तं15 यच्छब्दैरकदर्थितम्।
यदुपाधिभिरम्लानं16 रूपं तच्चेत्यतां गतम् ॥ 11 ॥
विश्वास-प्रस्तुतिः
दूरापास्तविकल्पेन चेतसा 17यत्र भूयते।
मध्यमां वृत्तिमास्थाय चेत्यं संवित्तया तदा ॥ 12 ॥

यथा चक्षुस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते18।
19तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते ॥ 13 ॥

20यथा वह्निसमाविष्टं काष्ठं तद्रूपमीक्ष्यते।
तथा संवित्समाविष्टं चेत्यं संवित्तयेक्ष्यते ॥ 14 ॥

वेद्यं वेदनतां नीत्वा 21यदा वेत्त्रा निरूप्यते।
तदावित्तिमयी साहं प्रत्यक्षा स्फुटभासिनी ॥ 15 ॥

अहंतैव हि चित्तत्वं वेद्याद्भिन्नं स्वलक्षणम्।
सा चाहमेव तेनाहं 22सर्वतः शुद्धचिन्मयी ॥ 16 ॥

संप्लुतेदंपदद्वीपे प्राप्तैकध्ये चिदम्बुधौ।
मज्जतां चैव चेत्यानामस्मि हस्तावलम्बनम् ॥ 17 ॥

मद्ध्यानामृतनिष्यन्दक्षालिताशेषवासनाः।
मामेवात्मनि पस्यन्ति चेत्यौघग्रसनीं चितम् ॥ 18 ॥

मम 23चित्तैकरूपाया वेद्यवेदकतां जनाः।
अविद्ययैव मन्यन्ते मत्संकल्पितया 24पुरा ॥ 19 ॥
विश्वास-प्रस्तुतिः
न शान्ता नोदिता नापि मद्यमाहं स्वरूपतः।
मद्विवेकजुषामेवं प्रकाशे जागरास्वपि ॥ 20 ॥

परित्यक्तविभागेन निस्तरङ्गेण चेतसा।
25ज्ञाये विकल्प्यमाना तु प्रत्यक्षाप्यस्मि विस्मृता ॥ 21 ॥

पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः।
न भासते तथैवाहं न भासे वासनाजुषाम् ॥ 22 ॥

बुभुत्सावान् यथा 26वृत्तीर्निरुध्यान्यत्र चेतसा।
प्रत्यक्षमीक्षते वस्तु तथा मां शुद्धसंविदम् ॥ 23 ॥

सदैवाप्रतिबद्धाया भान्त्या एव 27वपुर्मम।
प्रत्यक्षं चेत्यसंचारकालेऽपि विमलात्मनाम्28 ॥ 24 ॥
विश्वास-प्रस्तुतिः
यथा जात्या सितं 29वस्त्रं रक्तं रागेण केनचित्।
पुनः स्ववर्णमप्राप्य नैव रागान्तरं श्रयेत् ॥ 25 ॥

नीलाद्येवं विदन् पीतं मध्ये शुद्धचिदात्मनि।
मयि चेन्नैव विश्रान्तः पीतं विद्यात्कथं न्वयम् ॥ 26 ॥

तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत्।
यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि ॥ 27 ॥

एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी।
तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् ॥ 28 ॥

दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः।
अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् ॥ 29 ॥

धिया ध्येयमनालम्ब्य विषयं चास्पृशन् बहिः।
यदन्तरा वेदयते तन्मे रूपमनाकुलम् ॥ 30 ॥

अनुवृत्ता तु या सम्यक् तेजस्यपि तमस्यपि।
भाति भावेऽप्यभावेऽपि सा मे तनुरकर्बुरा ॥ 31 ॥

निवृत्तविषयेच्छस्य मद्भक्त्युल्लसितात्मनः।
आन्तरं यदनालम्बमहंत्वं तद्वपुर्मम ॥ 32 ॥

तदेवाभ्यस्यमानानां देहप्राणाद्यगोचरम्।
विवेकिनामहंरूपं मद्भावेनावतिष्ठते ॥ 33 ॥

ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते।
भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते ॥ 34 ॥

भावैर्विना यथा भानुः समुदेति नभःस्थले।
वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् ॥ 35 ॥

अत्यन्ताच्छस्वभावत्वात् स्फटिकादिर्यथा मणिः।
उपरक्तो जपाद्यैस्तु स्वेन रूपेण नेक्ष्यते ॥ 36 ॥

मत्संकल्पसमुद्रिक्तैश्चेत्यैः30 स्वच्छाहमप्यथ31।
पृथग्जनैर्न लक्ष्यास्मि नैवाहं नास्मि तावता ॥ 37 ॥

कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः।
32न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् ॥ 38 ॥

एवं नित्या विशुद्धा च सुखदुःखाद्यभेदिता।
स्वसंवेदनसंवेद्या मम संविन्मयी स्थितिः ॥ 39 ॥

विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः।
योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः ॥ 40 ॥

देशकालक्रियाकाराः प्रसिद्धा भेदहेतवः।
तान् भेदयति या संवित्तस्या भेदः कुतो भवेत् ॥ 41 ॥

चेत्यभेदो हि यः कालो भूतादित्रितयात्मकः।
संविन्महोदधौ सोऽपि विलीनस्तन्मयो भवेत् ॥ 42 ॥

यदा हि वर्तमानायां मयि भूतभविष्यती।
प्रतिक्षिप्ते तदा चेयं नैव स्याद्वर्तमानता ॥ 43 ॥

आधारोऽहमशेषाणां नैवाधेयास्मि केनचित्।
देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते ॥ 44 ॥

काप्यवस्था 33न मे सास्ति यस्यां संविन्न वर्तते।
तेन मां चिद्धनामेकां सर्वाकारामुपासते ॥ 45 ॥

कालो देशस्तथाकारः क्रिया कर्ता च कर्म च।
करणं संप्रदानं च भवेद्यच्च ततः फलम् ॥ 46 ॥

भोगो भोक्ता च तत्सर्वं विलीनं 34संविदात्मनि।
देवा दैत्यास्तथा नागा गन्ध्रवा रक्षसां गणाः ॥ 47 ॥

विद्याधराः पिशाचाश्च भूताश्चेति गणाष्टकम्।
मनुजा बहुधात्मानो वर्णकर्मादिभेदिताः ॥ 48 ॥

पशवोऽथ मृगाश्चैब पक्षिणश्च सरीसृपाः35।
स्थावराश्च तथैवान्ये कपूयचरणात्मकाः ॥ 49 ॥

स्वर्गस्था नरकस्थाश्च लोकाश्चैव चतुर्दश।
सरिद्द्वीपसमुद्राश्च विविधा ह्यण्डपद्धतिः ॥ 50 ॥

उच्चावचानि तत्त्वानि विविधाः शब्दराशयः।
भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् ॥ 51 ॥

कोशाः षट् कोशजाश्चैव36 चेतनाचेतनात्मकाः।
शुद्धाशुद्धमयौ भावौ पुरुषार्थश्चतुर्विधः ॥ 52 ॥

सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा।
इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् ॥ 53 ॥

अमन्मयं मन्मयं च मयि लीनमवस्थितम्।
सर्वात्मना सदैवाहं स्वच्छस्वच्छन्दचिन्मयी ॥ 54 ॥

लक्ष्या सुखमयी शान्ता भावे भावे विपश्चिता।
एवं व्यवस्थिताया मे तिरोभावाभिधानया ॥ 55 ॥

बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति।
यदा निर्विद्यते 37सासौ मदनुग्रहबिन्दुना ॥ 56 ॥

उपायैर्मां तदाराध्य38 जीवश्चिच्छक्तिसंज्ञकः।
संक्षिण्वन् 39निखिलान्क्लेशान्विधून्वन्वासनारजः ॥ 57 ॥

संप्राप्य ज्ञानसद्भावं योगक्षपितबन्धनः40।
मामेव परमानन्दमयीं लक्ष्मीं स विन्दति ॥ 58 ॥

इति 41श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 42लक्ष्मीस्वरूपप्रकाशो नाम चतुर्दशोऽध्यायः
इति चतुर्दशोऽध्यायः