०१३

विश्वास-प्रस्तुतिः

त्रयोदशोऽध्यायः - 13
श्रीः—
अनुग्रहात्मिका शक्र शक्तिर्मे पञ्चमी स्मृता।
तामिमां तत्त्वतो वत्स वदामि तव सांप्रतम् ॥ 1 ॥

मूलम्

अविद्यया समाविद्धा अस्मितादिवशीकृताः।
मच्छक्त्यैव तिरोभूतास्तिरोधानाभिधानया ॥ 2 ॥

उच्चान्नीचे पतन्तस्ते नीचादुत्पतयालवः।
निबद्धास्त्रिविधैर्बन्धैः स्थानत्रयविवर्तिनः ॥ 3 ॥

संसाराङ्गारमध्यस्थाः पच्यमानाः स्वकर्मणा।
सुखाभिमानिनो दुःखे नित्यमज्ञानधर्षिताः ॥ 4 ॥

1ता योनीरनुधावन्तश्चराचरविभेदिनीः2
अपूर्वापूर्वभूताभिश्चित्रिताभिः स्वहेतुभिः ॥ 5 ॥

देहेन्द्रियमनोबुद्धिवेदनाभिरहर्निशम्।
जननानि प्रबध्नन्तो मरणानि तथा तथा ॥ 6 ॥

मूलम्

देहेन्द्रियमनोबुद्धिवेदनाभिरहर्निशम्।
जननानि प्रबध्नन्तो मरणानि तथा तथा ॥ 6 ॥

विश्वास-प्रस्तुतिः

क्लिश्यमाना इति क्लेशैस्तैस्तैर्योगवियोगजैः।
उद्यत्कारुण्यसंताननिर्वापिततदागसा ॥ 7 ॥

मया जीवाः समीक्ष्यन्ते श्रिया दुःखविवर्जिताः।
सोऽनुग्रह इति प्रोक्तः शक्तिपातापराह्वयः3 ॥ 8 ॥

कर्मसाम्यं भजन्त्येते प्रेक्ष्यमाणा मया तदा।
अपश्चिमा तनुः सा स्याज्जीवानां प्रेक्षिता मया ॥ 9 ॥

अहमेव हि जानामि4 शक्तिपातक्षणं च तम्5
नासौ पुरुषकारेण न चाप्यन्येन हेतुना ॥ 10 ॥

केवलं स्वेच्छयैवाहं6 प्रेक्षे कंचित् कदाप्यहम्।
ततः प्रभृति स स्वच्छस्वच्छान्तःकरणः पुमान् ॥ 11 ॥

कर्मसाम्यं समासाद्य शुक्लकर्मव्यपाश्रयः।
वेदान्तज्ञानसंपन्नः सांख्ययोगपरायणः ॥ 12 ॥

सम्यक्सात्त्वतविज्ञानाद्विष्णौ सद्भक्तिमुद्वहन्।
कालेन महता योगी निर्धूतक्लेशसंचयः । 13 ॥

विधूय विविधं बन्धं द्योतमानस्ततस्ततः।
प्राप्नोति परमं ब्रह्म लक्ष्मीनारायणात्मकम् ॥ 14 ॥

एषा तु पञ्चमी शक्तिर्मदीयानुग्रहात्मिका।
स्वाच्छन्द्यमेव मे हेतुस्तिरोभावादिकर्मणि ॥ 15 ॥

इत्थं शक्र विजानीहि नानुयोज्यमतः7 परम्।
शक्रः—
नमः सरोरुहावासे नमो नारायणाश्रये ॥ 16 ॥

मूलम्

इत्थं शक्र विजानीहि नानुयोज्यमतः7 परम्।
शक्रः—
नमः सरोरुहावासे नमो नारायणाश्रये ॥ 16 ॥

विश्वास-प्रस्तुतिः

नमो नित्यानवद्यायै कल्याणगुणसिन्धवे।
त्वद्वागमृतसंदोहक्षालितं मे महत्तमः ॥ 17 ॥

[^8]भूयोऽहं श्रोतुमिच्छामि चिच्छ्कते रूपमुत्तमम्।
विश्वास-प्रस्तुतिः

श्रीः—
एको नारायणो देवः परमात्मा सनातनः ॥ 18 ॥

मूलम्

श्रीः—
एको नारायणो देवः परमात्मा सनातनः ॥ 18 ॥

विश्वास-प्रस्तुतिः

सदा ज्ञानबलैश्वर्यवीर्यशक्त्योजसां निधिः॥
अनादिरपरिच्छेद्यो देशकालस्वरूपतः ॥ 19 ॥

तस्याहं परमा देवी षाड्‌गुण्यमहिमोज्ज्वला।
सर्वकार्यकरी शक्तिरहंता नाम शाश्वती ॥ 20 ॥

संविदेका स्वरूपं मे स्वच्छस्वच्छन्दनिर्भरा8
सिद्धयो विश्वजीवानामायतन्तेऽखिला मयि ॥ 21 ॥

आत्मभित्तौ जगत्सर्वं स्वेच्छयोन्मीलयाम्यहम्।
मयि लोकाः स्फुरन्त्येते जले शकुनयो यथा ॥ 22 ॥

स्वाच्छन्द्यादवरोहामि पञ्चकृत्यविधायिनी।
साहं यदवरोहामि 9सा हि चिच्छक्तिरुच्यते ॥ 23 ॥

संकोचो मामकः सोऽयं स्वच्छस्वच्छन्दचिद्धनः।
अस्मिन्नपि जगद्भाति दर्पणोदरशैलवत् ॥ 24 ॥

वज्ररत्नवदेवैष 10स्वच्छः स्फुरति सर्वदा।
चैतन्यमस्य धर्मो यः प्रभा भानोरिवामला ॥ 25 ॥

11तया स्फुरति जीवोऽसौ स्वत एवानुरूपया12
विधत्ते पञ्च कृत्यानि जीवोऽयमपि नित्यदा ॥ 26 ॥

या 13वृत्तिर्नीलपीतादौ सृष्टिः सा कथिता बुधैः।
14सक्तिर्या विषये तत्र15 सा स्थितिः परिकीर्त्यते ॥ 27 ॥

गृहीताद्विषयाद्योऽस्य विरामोऽन्यजिघृक्षया।
सा संहृतिः समाख्याता तत्त्वशास्त्रविशारदैः ॥ 28 ॥

तद्वासना तिरोभावोऽनुग्रहस्तद्विलापनम्।
16ग्राह्यग्रसनशीलोऽयं वह्निवद्ग्रसनः17 सदा ॥ 29 ॥

पुष्यत्येष सदा जीवो मात्रया मे समिन्धनम्।
आविद्यं मत्स्वरूपं तु व्याक्यातं ते पुरा मया ॥ 30 ॥

शुद्धविद्यासमायोगात् संकोचं यज्जहात्यसौ।
तदा प्रद्योतमानोऽयं सर्वतो मुक्तबन्धनः ॥ 31 ॥

ज्ञानक्रियासमायोगात् सर्ववित्सर्वकृत्सदा18
अनणुश्चाप्यसंकोचान्मद्भावायोपपद्यते ॥ 32 ॥

यावन्निरीक्ष्यते नायं मया कारुण्यवत्तया।
तावत्संकुचितज्ञानः करणैर्विश्वमीक्षते ॥ 33 ॥

चक्षुषालोक्य वस्तूनि विकल्प्य मनसा तथा।
अभिमत्याप्यहंकाराद् बुद्धयैव ह्यध्यवस्यति ॥ 34 ॥

19जागराजामथ स्वप्ने करणैरान्तरैश्चरन्।
विहाय तत् सुषुप्तौ तु स्वरूपेणावतिष्ठते ॥ 35 ॥

अवस्थास्ता इमास्तिस्रः 20प्राकृत्यो नैव जीवगा।
तुर्यापि या दशा जीवे समाधिस्थे प्रजायते ॥ 36 ॥

सापि नैवास्य किं त्वेषा शुद्धसत्त्वव्यवस्थितिः।
अनवस्थमनाघ्रातमखिलैः प्राकृतैर्गुणैः ॥ 37 ॥

अनौपाधिकमच्छेद्यं जीवरूपं तु चिन्मयप्त्।
एवंरूपमपि त्वेतच्छाद्यतेऽनाद्यविद्यया ॥ 38 ॥

सुदृश्यामात्मभूतां मां नैव पश्यत्यसौ ततः।
शक्रः—
सुदृश्यासि कथं देवि त्वं प्रमाणातिगा सती ॥ 39 ॥

वेदान्ता अपि नैवत्वां विदुरित्थंतयाम्बुजे।
श्रीः—
मां तु शक्र विजानीहिप्रत्यक्षां सर्वदेहिनाम्।
समाहितमना भूत्वा श्रृणुष्वेदं मतं मम ॥ 40 ॥

इति [^22]श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे [^23]जीवस्वरूपप्रकाशो नाम त्रयोदशोऽध्यायः

इति त्रयोदशोऽध्यायः

  1. तयोर्निरनु A. B. C. ↩︎ ↩︎

  2. भेदिनः A. B. C. F. G. ↩︎ ↩︎

  3. पातपराह्वयः E. I. ↩︎ ↩︎

  4. जानानि E. ↩︎ ↩︎

  5. क्षणाञ्चितम् E. ↩︎ ↩︎

  6. एका E. ↩︎ ↩︎

  7. इतः E.; योज्यास्म्यतः I. ↩︎ ↩︎

  8. निर्भया B. D. F. ↩︎ ↩︎

  9. जीवः A. B. F. ↩︎ ↩︎

  10. सदा स्फुरति छन्दतः C. I. ↩︎ ↩︎

  11. तथा E. ↩︎ ↩︎

  12. रूपवान् E. ↩︎ ↩︎

  13. भित्तौ नीलपीतादि E. I. ↩︎ ↩︎

  14. सत्ति D. ↩︎ ↩︎

  15. यत्र B. F.; योऽत्र E. ↩︎ ↩︎

  16. ग्राह्याशनीय A. B. C. ↩︎ ↩︎

  17. छेदनः A. B. C. ↩︎ ↩︎

  18. तदा B. ↩︎ ↩︎

  19. जागरान्तं यथा A. G. ↩︎ ↩︎

  20. प्रकृत्या A. B. C. D. ↩︎ ↩︎