०११

विश्वास-प्रस्तुतिः

एकादशोऽध्याः - 11
श्रीः1
निर्दोषो 2निरधिष्ठेयो
निरवद्यः सनातनः।
विष्णुर्नारायणः 3श्रीमान्
परमात्मा सनातनः ॥ 1 ॥

मूलम्

एकादशोऽध्याः - 11
श्रीः1
निर्दोषो 2निरधिष्ठेयो निरवद्यः सनातनः।
विष्णुर्नारायणः 3श्रीमान् परमात्मा सनातनः ॥ 1 ॥

विश्वास-प्रस्तुतिः

षाड्‌गुण्यविग्रहो 4नित्यं
परं ब्रह्माक्षरं परम्।
तस्य मां परमां शक्तिं
नित्यं तद्धर्मधर्मिणीम् ॥ 2 ॥

मूलम्

षाड्‌गुण्यविग्रहो 4नित्यं परं ब्रह्माक्षरं परम्।
तस्य मां परमां शक्तिं नित्यं तद्धर्मधर्मिणीम् ॥ 2 ॥

टिप्पनी 2

ब्रह्माक्षरशब्दयोः प्रकृतिजीवयोरपि प्रयोगात् तद्व्युदासाय परमिति विशेषणम्।

विश्वास-प्रस्तुतिः

सर्वभावानुगां विद्धि
निर्दोषामनपायिनीम्।
सर्वकार्यकरी साहं
विष्णोर् अव्यय-रूपिणः ॥ 3 ॥

मूलम्

सर्वभावानुगां विद्धि निर्दोषामनपायिनीम्।
सर्वकार्यकरी साहं विष्णोरव्ययरूपिणः ॥ 3 ॥

विश्वास-प्रस्तुतिः

शुद्धाशुद्धमयैर् भावैर्
वितत्यात्मानम् आत्मना।
परव्यूहादिसंभेदं
व्यूहयन्ती हरेः सदा ॥ 4 ॥

मूलम्

शुद्धाशुद्धमयैर्भावैर्वितत्यात्मानमात्मना।
परव्यूहादिसंभेदं व्यूहयन्ती हरेः सदा ॥ 4 ॥

विश्वास-प्रस्तुतिः

शुद्धषाड्‌गुण्यम् आदाय
कलपयन्ती तथा तथा।
5तेन नानाविधं रूपं6
व्यूहाद्य् उचितम् अञ्जसा ॥ 5 ॥

मूलम्

शुद्धषाड्‌गुण्यमादाय कलपयन्ती तथा तथा।
5तेन नानाविधं रूपं6व्यूहाद्युचितमञ्जसा ॥ 5 ॥

विश्वास-प्रस्तुतिः

उन्मेषयामि देवस्य
प्रकारं भवदुत्तरम्।
व्यापारस्तस्य देवस्य
साहमस्मि न संशयः ॥ 6 ॥

मूलम्

उन्मेषयामि देवस्य प्रकारं भवदुत्तरम्।
व्यापारस्तस्य देवस्य साहमस्मि न संशयः ॥ 6 ॥

विश्वास-प्रस्तुतिः

मया कृतं हि यत् कर्म
तेन तत् कृतम् उच्यते।
अहं हि तस्य देवस्य
स्मृता 7व्याप्रियमाणता ॥ 7 ॥

मूलम्

मया कृतं हि यत् कर्म तेन तत् कृतमुच्यते।
अहं हि तस्य देवस्य स्मृता 7व्याप्रियमाणता ॥ 7 ॥

विश्वास-टिप्पनी

मया कृतम् तत् कृतम् = समानाभिप्रयत्वम्, विरोधाभाव एव, न तु स्वातन्त्र्याभाव इति।
यदि लक्ष्म्या स्वातन्त्र्य-निर्णये ऽध्यायोयं गृह्यते, तद्-उक्तयो ऽन्या अपि कलनीयास् स्युः।
अत्रैव द्वितीये - “नित्यं तद्धर्मधर्मिणीम्” इति स्पष्टम् एव - यदि स्वातन्त्र्यं विष्णोर् धर्मः, स तस्या अपि। यदीश्वरत्वं तस्य, तत् तस्या अपि।

एवम् विपरीतम् अपि स्फुटम् एव -
तत् कृतम् = मया कृतम्।
(विष्णोः सर्वकार्यकरी … तस्य व्याप्रियमाणता …)
यद् यद् विष्णुः करोति, तत् तल् लक्ष्या कृतम् इत्यपि ग्राह्यम्।

विश्वास-प्रस्तुतिः

इति 8शक्र परं रूपं
व्यूहरूपं च दर्शितम्।
तृतीयं विभवाख्यं तु
रूपमद्य निशामय ॥ 8 ॥

मूलम्

इति 8शक्र परं रूपं व्यूहरूपं च दर्शितम्।
तृतीयं विभवाख्यं तु रूपमद्य निशामय ॥ 8 ॥

विश्वास-प्रस्तुतिः

तुर्यादि-जाग्रद्-अन्तं यत्
प्रोक्तं पदचतुष्टयम्।
वासुदेवादिना व्याप्तम्
अनिरुद्धान्तिमेन तु ॥ 9 ॥

मूलम्

तुर्यादिजाग्रदन्तं यत् प्रोक्तं पदचतुष्टयम्।
वासुदेवादिना व्याप्तमनिरुद्धान्तिमेन तु ॥ 9 ॥

विश्वास-प्रस्तुतिः

तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा।
अव्यक्तव्यक्तरूपैः स्वैरुदितं ते यथोदितम् ॥ 10 ॥

मूलम्

तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा।
अव्यक्तव्यक्तरूपैः स्वैरुदितं ते यथोदितम् ॥ 10 ॥

विश्वास-प्रस्तुतिः

व्यूहाद् व्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम्।
9अन्तरं सकलं देशं संपूरयति तेजसा ॥ 11 ॥

मूलम्

व्यूहाद् व्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम्।
9अन्तरं सकलं देशं संपूरयति तेजसा ॥ 11 ॥

विश्वास-प्रस्तुतिः

10पूजितस्तेजसां राशिरव्यक्तो मूर्तिवर्जितः।
विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिबृंहितः ॥ 12 ॥

मूलम्

10पूजितस्तेजसां राशिरव्यक्तो मूर्तिवर्जितः।
विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिबृंहितः ॥ 12 ॥

टिप्पनी 12

विशाखयूपो नामाप्राकृते दिव्यलोके भ्राजमानो ज्योतिर्मयः स्तम्भाकारो भगवद्रूपविशेषः। तत्राधोभागमारभ्य ऊर्ध्वभागपर्यन्तं चत्वारि पर्वाणि क्रमेणानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाधिष्ठितानि स्पष्टतरस्पष्टकिंचित्स्पष्टास्पष्टशङ्खचक्रादिलक्ष्माणि। प्रतिपर्व प्रागादिक्रमेण चतुर्ष्वपि पार्श्वेषु क्रमेण वासुदेवादयो व्यूहा भ्राजन्ते। एवं विभागश्च योगिना ध्यानालम्बनार्थं भगवतैव कल्पितः। अस्य च विस्तरः सात्त्वतसंहितायां द्रष्टव्यः।

विश्वास-प्रस्तुतिः

तस्मिंस्तस्मिन् पदे तस्मान्मूर्तिशाखाचतुष्टयम्।
वासुदेवादिकं शक्र प्रादुर्भवति वै क्रमात् ॥ 13 ॥

मूलम्

तस्मिंस्तस्मिन् पदे तस्मान्मूर्तिशाखाचतुष्टयम्।
वासुदेवादिकं शक्र प्रादुर्भवति वै क्रमात् ॥ 13 ॥

विश्वास-प्रस्तुतिः

एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने।
स्वप्रात्पदाज्जाग्रदन्ते तैजसः पूज्यते महान् ॥ 14 ॥

मूलम्

एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने।
स्वप्रात्पदाज्जाग्रदन्ते तैजसः पूज्यते महान् ॥ 14 ॥

विश्वास-प्रस्तुतिः

विशाखयूपो भगवान् स देवस्तेजसां निधिः।
तुर्याद्ये स्वप्नपर्यन्ते 11चातुरात्म्यत्रिके हि यत् ॥ 15 ॥

मूलम्

विशाखयूपो भगवान् स देवस्तेजसां निधिः।
तुर्याद्ये स्वप्नपर्यन्ते 11चातुरात्म्यत्रिके हि यत् ॥ 15 ॥

विश्वास-प्रस्तुतिः

तत्तदैश्वर्यसंपन्ने षाड्‌गुण्यं सुव्यवस्थितम्।
तदादायाखिलं दिव्यं 12शुद्धसंवित्पुरःसरम् ॥ 16 ॥

मूलम्

तत्तदैश्वर्यसंपन्ने षाड्‌गुण्यं सुव्यवस्थितम्।
तदादायाखिलं दिव्यं 12शुद्धसंवित्पुरःसरम् ॥ 16 ॥

विश्वास-प्रस्तुतिः

विभजन्नात्मनात्मानं वासुदेवादिरूपतः13
14पुनविभववेलायां विना मूर्तिचतुष्टयम् ॥ 17 ॥

मूलम्

विभजन्नात्मनात्मानं वासुदेवादिरूपतः13
14पुनविभववेलायां विना मूर्तिचतुष्टयम् ॥ 17 ॥

विश्वास-प्रस्तुतिः

विशाखयूप एवैष विभवान् भावयत्युत।
ते देवा विभवात्मानः पद्मनाभादयो मताः ॥ 18 ॥

मूलम्

विशाखयूप एवैष विभवान् भावयत्युत।
ते देवा विभवात्मानः पद्मनाभादयो मताः ॥ 18 ॥

विश्वास-प्रस्तुतिः

पद्मनाभो ध्रुवोऽनन्तः शक्रीशो मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः ॥ 19 ॥

मूलम्

पद्मनाभो ध्रुवोऽनन्तः शक्रीशो मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः ॥ 19 ॥

टिप्पनी 19

एत एव देवा व्यञ्जनाधिष्ठातृतया तत्तन्महिषीभिः सहात्रैव विंशाध्याये वक्ष्यन्ते।

विश्वास-प्रस्तुतिः

15क्रोडात्मा बडवावक्त्रो धर्मो वागीश्वरस्तथा।
एकार्णवान्तःशायी च तथैव कमठाकृतिः ॥ 20 ॥

मूलम्

15क्रोडात्मा बडवावक्त्रो धर्मो वागीश्वरस्तथा।
एकार्णवान्तःशायी च तथैव कमठाकृतिः ॥ 20 ॥

विश्वास-प्रस्तुतिः

वराहो नरसिंहश्चाप्यमृताहरणस्तथा।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः ॥ 21 ॥

मूलम्

वराहो नरसिंहश्चाप्यमृताहरणस्तथा।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः ॥ 21 ॥

विश्वास-प्रस्तुतिः

राहुजित् कालनेमिघ्नः पारिजातहरस्तथा।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ 22 ॥

मूलम्

राहुजित् कालनेमिघ्नः पारिजातहरस्तथा।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ 22 ॥

विश्वास-प्रस्तुतिः

न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ 23 ॥

मूलम्

न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ 23 ॥

विश्वास-प्रस्तुतिः

नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
ज्वलत्परशुभृद्रामो16 रामश्चान्यो धनुर्धरः ॥ 24 ॥

मूलम्

नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
ज्वलत्परशुभृद्रामो16 रामश्चान्यो धनुर्धरः ॥ 24 ॥

विश्वास-प्रस्तुतिः

वेदविद्भगवान् कल्की पातालशयनः प्रभुः।
17त्रिंशच्चाष्टाविमे देवाः पद्मनाभादयो मताः ॥ 25 ॥

मूलम्

वेदविद्भगवान् कल्की पातालशयनः प्रभुः।
17त्रिंशच्चाष्टाविमे देवाः पद्मनाभादयो मताः ॥ 25 ॥

विश्वास-प्रस्तुतिः

विभोर्विशाखयूपस्य तत्तत्कार्यवशादिमे।
18स्फूर्तयो विभवाः ख्याताः कार्यं चैषामसंकरम्19 ॥ 26 ॥

मूलम्

विभोर्विशाखयूपस्य तत्तत्कार्यवशादिमे।
18स्फूर्तयो विभवाः ख्याताः कार्यं चैषामसंकरम्19 ॥ 26 ॥

विश्वास-प्रस्तुतिः

शुद्धाशुद्धाध्वनोर्मध्ये पद्मनाभो व्यवस्थितः।
ध्रुवादयोऽपरे 20देवा विवृता विश्वमन्दिरे ॥ 27 ॥

मूलम्

शुद्धाशुद्धाध्वनोर्मध्ये पद्मनाभो व्यवस्थितः।
ध्रुवादयोऽपरे 20देवा विवृता विश्वमन्दिरे ॥ 27 ॥

विश्वास-प्रस्तुतिः

रूपाण्यस्त्राणि चैतेषां शक्तयश्चापरा विधाः।
सर्वं तत् सात्त्वते सिद्धं संज्ञामात्रं प्रदर्शितम् ॥ 28 ॥

मूलम्

रूपाण्यस्त्राणि चैतेषां शक्तयश्चापरा विधाः।
सर्वं तत् सात्त्वते सिद्धं संज्ञामात्रं प्रदर्शितम् ॥ 28 ॥

विश्वास-प्रस्तुतिः

शाखास्तु वासुदेवाद्या विभोर्देवस्य कीर्तिताः।
विशाखयूपो भगवान् वितताभिः करोति तत् ॥ 29 ॥

मूलम्

शाखास्तु वासुदेवाद्या विभोर्देवस्य कीर्तिताः।
विशाखयूपो भगवान् वितताभिः करोति तत् ॥ 29 ॥

विश्वास-प्रस्तुतिः

चतसृभ्योऽथ शाखाभ्यः केशवाद्यं त्रयं त्रयम्।
दामोदरान्तमुद्भूतं तद्‌ व्यूहान्तरमुच्यते ॥ 30 ॥

मूलम्

चतसृभ्योऽथ शाखाभ्यः केशवाद्यं त्रयं त्रयम्।
दामोदरान्तमुद्भूतं तद्‌ व्यूहान्तरमुच्यते ॥ 30 ॥

विश्वास-प्रस्तुतिः

ताभ्य 21एव हि शाखाभ्यः श्रियादीनां त्रयं त्रयम्।
पूर्वत्रयानुरूपेण शक्तीनां च 22समुद्गतम् ॥ 31 ॥

मूलम्

ताभ्य 21एव हि शाखाभ्यः श्रियादीनां त्रयं त्रयम्।
पूर्वत्रयानुरूपेण शक्तीनां च 22समुद्गतम् ॥ 31 ॥

विश्वास-प्रस्तुतिः

परादिविभवान्तानां सर्वेषां देवतात्मनाम्।
शुद्धषाड्‌गुण्यरूपाणि वपूंषि त्रिदशेश्वर ॥ 32 ॥

मूलम्

परादिविभवान्तानां सर्वेषां देवतात्मनाम्।
शुद्धषाड्‌गुण्यरूपाणि वपूंषि त्रिदशेश्वर ॥ 32 ॥

विश्वास-प्रस्तुतिः

यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै।
भूषणानि विचित्राणि वासांसि विविधानि च ॥ 33 ॥

मूलम्

यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै।
भूषणानि विचित्राणि वासांसि विविधानि च ॥ 33 ॥

विश्वास-प्रस्तुतिः

ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः।
वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर ॥ 34 ॥

मूलम्

ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः।
वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर ॥ 34 ॥

विश्वास-प्रस्तुतिः

शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः।
आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखइलाः ॥ 35 ॥

मूलम्

शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः।
आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखइलाः ॥ 35 ॥

विश्वास-प्रस्तुतिः

यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः।
षाड्‌गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन ॥ 36 ॥

मूलम्

यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः।
षाड्‌गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन ॥ 36 ॥

विश्वास-प्रस्तुतिः

शुद्धसंविन्मयी साहं षाड्‌गुण्यपरिपूरिता।
तथा तथा भवाम्येषामिष्टं यद्धि यथा यथा ॥ 37 ॥

मूलम्

शुद्धसंविन्मयी साहं षाड्‌गुण्यपरिपूरिता।
तथा तथा भवाम्येषामिष्टं यद्धि यथा यथा ॥ 37 ॥

विश्वास-प्रस्तुतिः

न विना देवेदेवेन स्थितिर्मम हि विद्यते।
23मया विना न देवस्य स्थितिर्विष्णोर्हि24 विद्यते ॥ 38 ॥

मूलम्

न विना देवेदेवेन स्थितिर्मम हि विद्यते।
23मया विना न देवस्य स्थितिर्विष्णोर्हि24 विद्यते ॥ 38 ॥

विश्वास-प्रस्तुतिः

तावावामेकतां प्राप्तौ द्विधा भूतौ च संस्थितौ।
विधां भजावहे तां तां यद्दद्यत्र 25ह्यपेक्षितम् ॥ 39 ॥

मूलम्

तावावामेकतां प्राप्तौ द्विधा भूतौ च संस्थितौ।
विधां भजावहे तां तां यद्दद्यत्र 25ह्यपेक्षितम् ॥ 39 ॥

विश्वास-प्रस्तुतिः

शक्रः—
सिन्धुकन्ये नमस्तुभ्यं नमस्ते सरसीरुहे।
परव्यूहादिभेदेन किं प्रयोजनमीशितुः ॥ 40 ॥

मूलम्

शक्रः—
सिन्धुकन्ये नमस्तुभ्यं नमस्ते सरसीरुहे।
परव्यूहादिभेदेन किं प्रयोजनमीशितुः ॥ 40 ॥

श्रीः—

विश्वास-प्रस्तुतिः

26अनुग्रहाय 27जीवानां भक्तानामनुकम्पया।
परव्यूहादिभेदेन देवदेवप्रवृत्तयः ॥ 41 ॥

मूलम्

26अनुग्रहाय 27जीवानां भक्तानामनुकम्पया।
परव्यूहादिभेदेन देवदेवप्रवृत्तयः ॥ 41 ॥

विश्वास-प्रस्तुतिः

शक्रः—
देवदेवप्रिये देवि नमस्ते कमलोद्भवे।
अनुग्रहाय भक्तानामेकैवास्तु विधा हरेः ॥ 42 ॥

मूलम्

शक्रः—
देवदेवप्रिये देवि नमस्ते कमलोद्भवे।
अनुग्रहाय भक्तानामेकैवास्तु विधा हरेः ॥ 42 ॥

श्रीः—

विश्वास-प्रस्तुतिः

28जीवानां विविधाः शक्र संचिताः पुण्यसंचयाः।
संचिन्वन्ति न ते जीवास्तुल्यकालं कथंचन ॥ 43 ॥

मूलम्

28जीवानां विविधाः शक्र संचिताः पुण्यसंचयाः।
संचिन्वन्ति न ते जीवास्तुल्यकालं कथंचन ॥ 43 ॥

विश्वास-प्रस्तुतिः

कश्चिद्धि सुकृतोन्मेषात् कदाचित् पुरुषो नृषु।
श्रीमता कमलाक्षेण जायमानो निरीक्ष्यते ॥ 44 ॥

मूलम्

कश्चिद्धि सुकृतोन्मेषात् कदाचित् पुरुषो नृषु।
श्रीमता कमलाक्षेण जायमानो निरीक्ष्यते ॥ 44 ॥

विश्वास-प्रस्तुतिः

अन्यदा पुरुषोऽन्यश्चेत्येवं भिन्नाः शुभाशयाः।
भेदोऽधिकारिणां पुण्यतारतम्येन जायते ॥ 45 ॥

मूलम्

अन्यदा पुरुषोऽन्यश्चेत्येवं भिन्नाः शुभाशयाः।
भेदोऽधिकारिणां पुण्यतारतम्येन जायते ॥ 45 ॥

विश्वास-प्रस्तुतिः

विवेकः कस्यचिन्मन्दो भगवत्तत्ववेदने।
मद्यमस्तु परस्याथ दिव्योऽन्यस्य तु जायते ॥ 46 ॥

मूलम्

विवेकः कस्यचिन्मन्दो भगवत्तत्ववेदने।
मद्यमस्तु परस्याथ दिव्योऽन्यस्य तु जायते ॥ 46 ॥

विश्वास-प्रस्तुतिः

ईशानुग्रहवैषम्यादेवं भेदे व्यवस्थिते।
तत्तत्कार्यानुरोधेन परव्यूहादिभावना ॥ 47 ॥

मूलम्

ईशानुग्रहवैषम्यादेवं भेदे व्यवस्थिते।
तत्तत्कार्यानुरोधेन परव्यूहादिभावना ॥ 47 ॥

विश्वास-प्रस्तुतिः

क्रियते देवदेवेन शक्तिं मामधितिष्ठता।
29संसिद्धयोगतत्त्वानामधिकारः परात्मनि ॥ 48 ॥

मूलम्

क्रियते देवदेवेन शक्तिं मामधितिष्ठता।
29संसिद्धयोगतत्त्वानामधिकारः परात्मनि ॥ 48 ॥

विश्वास-प्रस्तुतिः

व्यामिश्रयोगयुक्तानां मध्यानां व्यूहभावने।
वैभवीयादिरूपेषु विवेकविधुरात्मनाम् ॥ 49 ॥

मूलम्

व्यामिश्रयोगयुक्तानां मध्यानां व्यूहभावने।
वैभवीयादिरूपेषु विवेकविधुरात्मनाम् ॥ 49 ॥

विश्वास-प्रस्तुतिः

अहंताममातार्तानां30 भक्तानां परमेश्वरे।
अधिकारस्य वैषम्यं भक्तानामनुदृश्य31 सः ॥ 50 ॥

मूलम्

अहंताममातार्तानां30 भक्तानां परमेश्वरे।
अधिकारस्य वैषम्यं भक्तानामनुदृश्य31 सः ॥ 50 ॥

विश्वास-प्रस्तुतिः

भजते विविधं भावं परव्यूहादिशब्दितम्।
इति ते लेशतः शक्र दर्शिता उभयात्मकाः ॥ 51 ॥

मूलम्

भजते विविधं भावं परव्यूहादिशब्दितम्।
इति ते लेशतः शक्र दर्शिता उभयात्मकाः ॥ 51 ॥

विश्वास-प्रस्तुतिः

भवद्भावोत्तरा व्यूहा मम नारायणस्य च।
शुद्धे शुद्धेतरस्मिंश्च कोशवर्गे मदुद्भवे ॥ 52 ॥

मूलम्

भवद्भावोत्तरा व्यूहा मम नारायणस्य च।
शुद्धे शुद्धेतरस्मिंश्च कोशवर्गे मदुद्भवे ॥ 52 ॥

विश्वास-प्रस्तुतिः

स्थितिर्नौ दर्शिता तेऽद्य पृथक् सह च केवला।
एवंप्रकारां32 मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 53 ॥

मूलम्

स्थितिर्नौ दर्शिता तेऽद्य पृथक् सह च केवला।
एवंप्रकारां32 मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 53 ॥

विश्वास-प्रस्तुतिः

उपायैर्विविधैः शश्वदुपास्य विविधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 54 ॥

मूलम्

उपायैर्विविधैः शश्वदुपास्य विविधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 54 ॥

टिप्पनी 54

क्लेशकर्माशया अनन्तराध्याये वक्ष्यन्ते।

इति 33श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 34विभवप्रकाशो नाम एकादशोऽध्यायः

इत्येकादशोऽध्यायः


  1. श्रीरुवाच B. ↩︎ ↩︎

  2. नि निष्टो यो E. I. ↩︎ ↩︎

  3. श्रीशः E. I. ↩︎ ↩︎

  4. नित्यः E. ↩︎ ↩︎

  5. तेनापि विविधं E. ↩︎ ↩︎

  6. व्यूहाद्यञ्चित E. ↩︎ ↩︎

  7. व्याक्रिय A. I. ↩︎ ↩︎

  8. कृत्वा A. I. ↩︎ ↩︎

  9. आनन्दं G. ↩︎ ↩︎

  10. पूरितः G. ↩︎ ↩︎

  11. चातुरात्म्यादिके A. B. C. D. F. ↩︎ ↩︎

  12. शुद्धं B. ↩︎ ↩︎

  13. रूपकम् A. B. C. ↩︎ ↩︎

  14. पुनर्विशाख E. ↩︎ ↩︎

  15. क्रोधात्मा A. C. D. F. I. ↩︎ ↩︎

  16. धृग्रामो A. B. C. D. ↩︎ ↩︎

  17. त्रिंशदष्टाविमे A. B. C. D. ↩︎ ↩︎

  18. मूर्तयो A. B. C. D. ↩︎ ↩︎

  19. असंकरः B. ↩︎ ↩︎

  20. देवाः प्रवृत्ताः E. ↩︎ ↩︎

  21. एवाथ B. E. ↩︎ ↩︎

  22. समुद्भवम् A. B. E. ↩︎ ↩︎

  23. C. omits this line. ↩︎ ↩︎

  24. विष्णोश्च E. I. ↩︎ ↩︎

  25. व्यपेक्षितम् E. I. ↩︎ ↩︎

  26. B. omits verses 41 and 42. ↩︎ ↩︎

  27. देवानां D. ↩︎ ↩︎

  28. जीविनां B. ↩︎ ↩︎

  29. सुसिद्ध A. C. D. E. G. ↩︎ ↩︎

  30. ममताज्ञनां B. ↩︎ ↩︎

  31. अधिगम्य F. ↩︎ ↩︎

  32. प्रकारं B. D. E. I. ↩︎ ↩︎

  33. श्रीपञ्चरात्र A. I. ↩︎

  34. वैभव A. I. ↩︎