विश्वास-प्रस्तुतिः
दशमोऽध्यायः - 10
शक्रः—
क्षीरोदमथनायासफलरूपे मधुद्विषः।
नमश्चन्द्रसहोदर्यै नमस्तेऽमृतयोनये ॥ 1 ॥
मूलम्

भावोत्तराः प्रकारास्ते श्रुतास्त्वद्वक्त्रपङ्कजात्।
इदानीं श्रोतुमिच्छामि प्रकारान् भवदुत्तरान् ॥ 2 ॥

वैष्णवा अवतारास्ते किंरूपाः 1कति वाम्बुजे।
एतत्पृष्टा मया ब्रूहि नमस्ते पङ्कजासने ॥ 3 ॥

श्रीः—
विश्वास-प्रस्तुतिः
2हन्त ते शक्र वक्ष्यामि प्रकारान् भवदुत्तरान्।
वैष्णवा अवतारास्ते यावन्तो यद्विधाश्च ते ॥ 4 ॥

षाड्गुण्यममलं ब्रह्म निर्दोषमजरं ध्रुवम्।
सर्वशक्ति निरातङ्कं निरालम्बनभावनम् ॥ 5 ॥

तदुन्मिषति वैपूर्वं शक्तिमच्छक्तिभावतः।
नारायणः परो देवः संस्थितः शक्तिमत्तया ॥ 6 ॥

स्थिरा शक्तिरहं तस्य सर्वकार्यकरी विभोः।
तावावां जगतोऽर्थाय बहुधा विक्रियावहे ॥ 7 ॥

यथाहमास्थिता भेदैस्तथा ते कथितं पुरा।
विकारानविकारस्य विष्णोः श्रृणु मयोदितान् ॥ 8 ॥

अप्राकृताननौपम्यानचिन्तयमहिमोज्ज्वलान्।
स्वां शक्तिं मामधिष्ठाय प्रकृतिं परमाद्भुताम् ॥ 9 ॥

त्रैरूप्येण जगन्नाथः समुदेति जगद्धिते।
आद्येन पररूपेण व्यूहरूपेण चाप्यथ ॥ 10 ॥
मूलम्
त्रैरूप्येण जगन्नाथः समुदेति जगद्धिते।
आद्येन पररूपेण व्यूहरूपेण चाप्यथ ॥ 10 ॥
विश्वास-प्रस्तुतिः
तथा विभवरूपेण नानाभावमुपेयुषा।
व्यापको भगवान् देवो भक्तानुग्रहकाम्यया ॥ 11 ॥

अनौपम्यमनिर्दश्यं 3वपुः स भजते परम्।
विश्वाप्यायनकं4 कान्त्या पूर्णेन्द्वयुततुल्यया ॥ 12 ॥
विश्वास-प्रस्तुतिः
वरदाभयहस्तं च द्विभुजं पद्मलोचनम्।
रेखामयेन चक्रेण शङ्खेन च करद्वये ॥ 13 ॥
मूलम्
वरदाभयहस्तं च द्विभुजं पद्मलोचनम्।
रेखामयेन चक्रेण शङ्खेन च करद्वये ॥ 13 ॥
विश्वास-प्रस्तुतिः
अङ्कितं निर्विकाराङ्घ्रिस्थितं परमशोभनम्।
अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्भिरलंकृतम् ॥ 14 ॥

समं समविभक्ताङ्नं सर्वावयवसुन्दरम्।
पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः ॥ 15 ॥

रश्मिभूतैरमूर्तैः स्वैरच्युताद्यैरविच्युतम्।
एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा ॥ 16 ॥

योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम्5।
अथ व्यूहस्बरूपं ते द्वितीयं वर्णयाम्यहम् ॥ 17 ॥

व्यूह्यात्मानं चतुर्धा स्वं देवः प्रागादिभेदतः6।
वासुदेवादिभेदेन 7सौषुप्ताध्वनि तिष्ठति ॥ 18 ॥

8संस्थानमादिमूर्तेर्वै सर्वेषां तु समं स्मृतम्।
षड्गुणं प्रथमं रूपं द्वन्द्वैर्ज्ञानादिसंभवैः ॥ 19 ॥

इतराणि स्वरूपाणि कथितानि मया पुरा9।
वह्न्यर्केन्दुसहस्राभमानन्दास्पन्दलक्षणम्10 ॥ 20 ॥
विश्वास-प्रस्तुतिः
बीजं सर्वक्रियाणां तद्विकल्पानां तदास्पदम्।
सौषुप्तं चातुरात्म्यं तत्प्रथमं विद्धि वासव ॥ 21 ॥

अथ स्वाप्रे पदेऽप्येवं विभज्यात्मानमात्मना।
देवः प्रागादिभेदेन वासुदेवादिरूपतः ॥ 22 ॥

समासव्यासभेदेन गुणआनां पुरुषोत्तमः।
सितरक्तसुवर्णाभ्रसदृशैः परमाद्भुतैः ॥ 23 ॥

चातुरात्म्यं द्वितीयं तत् सुधासंदोहसुन्दरम्।
अथ जाग्रत्पदे देवः सितरक्तादिभेदतः13 ॥ 25 ॥

चतुर्भुजैरुदाराङ्गैः शङ्खचक्रादिचिह्नितैः।
नानाध्वजविचित्राङ्गैर्वासुदेवादिसंज्ञितैः ॥ 26 ॥

व्यूहैः 14स्वं प्रविभज्यास्ते विभुर्नाम स्वलीलया।
तत्राद्यं भगवद्रूपं हिमकुन्देन्दुकान्तिमत् ॥ 27 ॥

चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षणम्।
पीतकौशेयवसनं सुपर्णध्वजभूषितम् ॥ 28 ॥

मुक्यदक्षिणहस्तेन भीतानामभयप्रदम्।
तथाविधेन वामेन दधानं शङ्खमुत्तमम् ॥ 29 ॥

अपरेण दधानं च दक्षिणेन सुदर्शनम्।
वामेन च गदां गुर्वीं निषण्णां वसुधातले ॥ 30 ॥

संचिन्तयेत् पुरो भागे वासुदेवमितीदृशम्।
सिन्दूरशिखराकारं सौम्यवक्त्रं चतुर्भुजम् ॥ 31 ॥

अतसीपुष्पसंकाशवसनं ताललाञ्छितम्15।
मुख्येन पाणियुग्मेन तुल्यमाद्यस्य वै विभोः ॥ 32 ॥

सीरं तच्चक्रहस्तेऽस्य मुसलं तु 16गदाकरे।
दक्षिणे चिन्दयेद्भागे संकर्षणमितीदृशम् ॥ 33 ॥

प्रावृण्निशासमुदितखद्योतनिचयप्रभम्।
रक्तकौशेयवसनं मकरध्वजशोभितम् ॥ 34 ॥
मूलम्
प्रावृण्निशासमुदितखद्योतनिचयप्रभम्।
रक्तकौशेयवसनं मकरध्वजशोभितम् ॥ 34 ॥
विश्वास-प्रस्तुतिः
सौम्यवक्त्रं चतुर्बाहुं तृतीयं परमेश्वरम्।
मुख्यहस्तद्वयं चास्य प्राग्वत्तुल्यं महामते ॥ 35 ॥

वामेऽपरस्मिन् शार्ङ्गं च दक्षिणे बाणपञ्चकम्।
अपरे चिन्तयेद्भागे प्रद्युम्नमिति कीर्तितम् ॥ 36 ॥

अञ्जनाद्रिप्रतीकाशं 17सुपीताम्बरवेष्टितम्।
चतुर्भुजं विशालाक्षं मृगलाञ्छनभूषितम् ॥ 37 ॥

आदिवत् पाणियुगलमाद्यमस्य18 विचिन्तयेत्।
दक्षिणादिक्रमेणाथ द्वाभ्यां वै खड्गखेटकौ ॥ 38 ॥

दधानमनिरुद्धं तु सौम्यभागे विचिन्तयेत्।
वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः19 ॥ 39 ॥

शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि।
जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् ॥ 40 ॥

स्थित्युत्पत्तिप्रलयकृत्सर्वोपकरणान्वितम्।
दिव्यं तच्चिन्तयेद्यस्य20 विश्वं तिष्ठति शासने ॥ 41 ॥

त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके।
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ॥ 42 ॥

ज्ञानक्रियादिभिर्विष्णोर्लोकाननुसिसृक्षतः।
व्यूहसंज्ञमिदं रूपं द्वितीयं कथितं मया ॥ 43 ॥

तृतीयं विभवाख्यं तु21 विश्वमन्दिरमध्यगम्।
नानाकारक्रियाकर्तृ रूपं विष्णोर्निशामय ॥ 44 ॥

इति 22श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे परव्यूहप्रकाशो नाम दशमोऽध्यायः
इति दशमोऽध्यायः
-
श्रीपञ्चरात्र A.; श्रीपञ्चरात्रे B. E. ↩︎