००९

विश्वास-प्रस्तुतिः

नवमोऽध्यायः - 9
श्रीः1
अहं नारायणी देवी नारायणमनुव्रता।
ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी ॥ 1 ॥

मूलम्

नवमोऽध्यायः - 9
श्रीः1
अहं नारायणी देवी नारायणमनुव्रता।
ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी ॥ 1 ॥

विश्वास-प्रस्तुतिः

2तस्या मे न विनाभावस्तेन वा तस्य वा मया।
3प्रकर्तुं शक्यते काले कस्मिंश्चिद्देश एव वा ॥ 2 ॥

मूलम्

2तस्या मे न विनाभावस्तेन वा तस्य वा मया।
3प्रकर्तुं शक्यते काले कस्मिंश्चिद्देश एव वा ॥ 2 ॥

विश्वास-प्रस्तुतिः

तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ।
आत्मयोगबलात्तौ स्वः4 सहैव च विनैव च ॥ 3 ॥

मूलम्

तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ।
आत्मयोगबलात्तौ स्वः4 सहैव च विनैव च ॥ 3 ॥

विश्वास-प्रस्तुतिः

ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः।
दैत्यादिभ्यो 5जगद्‌ध्वंसकरेब्यो वरमुत्तमम् ॥ 4 ॥

मूलम्

ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः।
दैत्यादिभ्यो 5जगद्‌ध्वंसकरेब्यो वरमुत्तमम् ॥ 4 ॥

विश्वास-प्रस्तुतिः

तादृशं तादृशं रूपमास्थायावां सनातनौ।
तत्तत्प्रीतिचिकीर्षायै चरावौ देवकार्यतः ॥ 5 ॥

मूलम्

तादृशं तादृशं रूपमास्थायावां सनातनौ।
तत्तत्प्रीतिचिकीर्षायै चरावौ देवकार्यतः ॥ 5 ॥

विश्वास-प्रस्तुतिः

मायया भावमाच्छाद्य परमार्थं स्वतेजसा।
अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया ॥ 6 ॥

मूलम्

मायया भावमाच्छाद्य परमार्थं स्वतेजसा।
अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया ॥ 6 ॥

विश्वास-प्रस्तुतिः

आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी।
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्नीति रूपतः ॥ 7 ॥

मूलम्

आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी।
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्नीति रूपतः ॥ 7 ॥

विश्वास-प्रस्तुतिः

गुणत्रयविभागेन रूपमेतत्परं मम।
महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे ॥ 8 ॥

मूलम्

गुणत्रयविभागेन रूपमेतत्परं मम।
महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे ॥ 8 ॥

विश्वास-प्रस्तुतिः

हिताय सर्वलोकानां6 जाता महिषमर्दनी।
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः ॥ 9 ॥

मूलम्

हिताय सर्वलोकानां6 जाता महिषमर्दनी।
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः ॥ 9 ॥

विश्वास-प्रस्तुतिः

संभूय ते ममाभूवन् रूपं परमशोभनम्।
आयुधानि च देवानां यानि यानि सुरेश्वर ॥ 10 ॥

मूलम्

संभूय ते ममाभूवन् रूपं परमशोभनम्।
आयुधानि च देवानां यानि यानि सुरेश्वर ॥ 10 ॥

विश्वास-प्रस्तुतिः

तच्छक्तयस्तदाकारा आयुधानि ममाभवन्।
अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात् ॥ 11 ॥

मूलम्

तच्छक्तयस्तदाकारा आयुधानि ममाभवन्।
अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात् ॥ 11 ॥

विश्वास-प्रस्तुतिः

महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा7
`देव्या यया’ दिकं दृष्टं सेन्द्रैर्देवैः 8सहर्षिभिः ॥ 12 ॥

मूलम्

महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा7
`देव्या यया’ दिकं दृष्टं सेन्द्रैर्देवैः 8सहर्षिभिः ॥ 12 ॥

टिप्पनी 12

इदं च सूक्तं मार्कण्डेयपुराणे देवीमाहात्म्ये चतुर्थाध्याये पठितं द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

9उत्पत्तिं युद्धविक्रान्तिं10 स्तोत्रं चेति सुरेश्वर।
कथयन्ति सुविस्तीर्णं ब्राह्नणा वेदपारगाः ॥ 13 ॥

मूलम्

9उत्पत्तिं युद्धविक्रान्तिं10 स्तोत्रं चेति सुरेश्वर।
कथयन्ति सुविस्तीर्णं ब्राह्नणा वेदपारगाः ॥ 13 ॥

विश्वास-प्रस्तुतिः

11एवंप्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि।
लभते च फलं शश्वदाधिपत्यमनश्वरम् ॥ 14 ॥

मूलम्

11एवंप्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि।
लभते च फलं शश्वदाधिपत्यमनश्वरम् ॥ 14 ॥

विश्वास-प्रस्तुतिः

योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया।
12महाकालीतनुं विद्धि तां मां देवीं सनातनीम् ॥ 15 ॥

मूलम्

योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया।
12महाकालीतनुं विद्धि तां मां देवीं सनातनीम् ॥ 15 ॥

विश्वास-प्रस्तुतिः

मधुकैटभनाशे हि मोहितौ तौ13 तया तदा।
जघ्नाते वरलाभेन देवदेवेन विष्णुना ॥ 16 ॥

मूलम्

मधुकैटभनाशे हि मोहितौ तौ13 तया तदा।
जघ्नाते वरलाभेन देवदेवेन विष्णुना ॥ 16 ॥

विश्वास-प्रस्तुतिः

विश्वेस्वर्यादिकं सूक्तं दृष्टं तद्‌ ब्रह्मणा सदा14
स्तुतये योगनिद्राया मम देव्याः पुरंदर ॥ 17 ॥

मूलम्

विश्वेस्वर्यादिकं सूक्तं दृष्टं तद्‌ ब्रह्मणा सदा14
स्तुतये योगनिद्राया मम देव्याः पुरंदर ॥ 17 ॥

टिप्पनी 17

इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये पठितम्।

विश्वास-प्रस्तुतिः

एषा सा वैष्णवी माया महाकाली दुरत्यया।
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् ॥ 18 ॥

मूलम्

एषा सा वैष्णवी माया महाकाली दुरत्यया।
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् ॥ 18 ॥

विश्वास-प्रस्तुतिः

अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि।
हिताय सर्वभूतानां 15धार्यन्ते ब्रह्मवादिभिः ॥ 19 ॥

मूलम्

अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि।
हिताय सर्वभूतानां 15धार्यन्ते ब्रह्मवादिभिः ॥ 19 ॥

विश्वास-प्रस्तुतिः

16तामसे त्वन्तरे शक्र महाविद्या 17हि या परा।
गौरीदेहात्समुद्भूता कौशिकीति 18तदा ह्यहम् ॥ 20 ॥

मूलम्

16तामसे त्वन्तरे शक्र महाविद्या 17हि या परा।
गौरीदेहात्समुद्भूता कौशिकीति 18तदा ह्यहम् ॥ 20 ॥

विश्वास-प्रस्तुतिः

वधाय दुष्टदैत्यानां तथा19 सुम्भनिसुम्भयोः।
रक्षणाय च लोकानां देवानामुपकारिणी ॥ 21 ॥

मूलम्

वधाय दुष्टदैत्यानां तथा19 सुम्भनिसुम्भयोः।
रक्षणाय च लोकानां देवानामुपकारिणी ॥ 21 ॥

विश्वास-प्रस्तुतिः

मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः।
तास्तास्तद्रूपधारिण्यः 20साहाय्यं विदधुर्हि मे ॥ 22 ॥

मूलम्

मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः।
तास्तास्तद्रूपधारिण्यः 20साहाय्यं विदधुर्हि मे ॥ 22 ॥

विश्वास-प्रस्तुतिः

ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा।
संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः ॥ 23 ॥

मूलम्

ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा।
संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः ॥ 23 ॥

विश्वास-प्रस्तुतिः

अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः।
`देवि प्रपन्नादिहरे प्रसीदे’ त्यादिकं तथा ॥ 24 ॥

मूलम्

अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः।
`देवि प्रपन्नादिहरे प्रसीदे’ त्यादिकं तथा ॥ 24 ॥

टिप्पनी 24

नारायणीस्तुतिः मार्कण्डेयपुराणे देवीमाहात्म्ये एकादशाद्याये पठीता।

विश्वास-प्रस्तुतिः

नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्।
स्तुतयो मे 21तदा दृष्टा देवैर्वह्निपुरोगमैः ॥ 25 ॥

मूलम्

नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्।
स्तुतयो मे 21तदा दृष्टा देवैर्वह्निपुरोगमैः ॥ 25 ॥

विश्वास-प्रस्तुतिः

एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति।
कौशिकी सर्वदेवेश22 बहुकामप्रदा ह्यहम् ॥ 26 ॥

मूलम्

एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति।
कौशिकी सर्वदेवेश22 बहुकामप्रदा ह्यहम् ॥ 26 ॥

विश्वास-प्रस्तुतिः

उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः।
23पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः24 ॥ 27 ॥

मूलम्

उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः।
23पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः24 ॥ 27 ॥

विश्वास-प्रस्तुतिः

वैवस्वतेऽन्तरे चैतौ25 पुनः सुम्भनिसुम्भकौ।
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ ॥ 28 ॥

मूलम्

वैवस्वतेऽन्तरे चैतौ25 पुनः सुम्भनिसुम्भकौ।
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ ॥ 28 ॥

विश्वास-प्रस्तुतिः

नन्दगोपकुले जाता यशोदागर्भसंभवा।
तावहं नाशयिष्यामि सुनन्दा26 विन्ध्यवासिनी ॥ 29 ॥

मूलम्

नन्दगोपकुले जाता यशोदागर्भसंभवा।
तावहं नाशयिष्यामि सुनन्दा26 विन्ध्यवासिनी ॥ 29 ॥

विश्वास-प्रस्तुतिः

पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हनिष्यामि वै प्रचित्तान् महासुरान् ॥ 30 ॥

मूलम्

पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हनिष्यामि वै प्रचित्तान् महासुरान् ॥ 30 ॥

विश्वास-प्रस्तुतिः

27भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ 31 ॥

मूलम्

27भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ 31 ॥

विश्वास-प्रस्तुतिः

ततो मां देवताः सर्वे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं 28रक्तदन्तिकाम् ॥ 32 ॥

मूलम्

ततो मां देवताः सर्वे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं 28रक्तदन्तिकाम् ॥ 32 ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेवान्तरे शक्र चत्वारिंशत्तमे युगे।
सर्वतः शतवार्षिक्यामनावृष्ट्यामनम्भसि ॥ 33 ॥

मूलम्

तस्मिन्नेवान्तरे शक्र चत्वारिंशत्तमे युगे।
सर्वतः शतवार्षिक्यामनावृष्ट्यामनम्भसि ॥ 33 ॥

विश्वास-प्रस्तुतिः

मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा।
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्29 ॥ 34 ॥

मूलम्

मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा।
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्29 ॥ 34 ॥

विश्वास-प्रस्तुतिः

कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः।
तदाहमखिलं लोकमात्मदेहसमुद्भवैः ॥ 35 ॥

मूलम्

कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः।
तदाहमखिलं लोकमात्मदेहसमुद्भवैः ॥ 35 ॥

विश्वास-प्रस्तुतिः

भरिष्यामि शुभैः शाकैराविष्टैः प्राणधारकैः30
शाकंभरीति मां देवास्तदा स्तोष्यन्ति वासव ॥ 36 ॥

मूलम्

भरिष्यामि शुभैः शाकैराविष्टैः प्राणधारकैः30
शाकंभरीति मां देवास्तदा स्तोष्यन्ति वासव ॥ 36 ॥

विश्वास-प्रस्तुतिः

तत्रैव च हनिष्यामि दुर्गमाख्यं महासुरम्।
दुर्गादेवीति विख्यातिं ततो यास्याम्यहं भुवि ॥ 37 ॥

मूलम्

तत्रैव च हनिष्यामि दुर्गमाख्यं महासुरम्।
दुर्गादेवीति विख्यातिं ततो यास्याम्यहं भुवि ॥ 37 ॥

विश्वास-प्रस्तुतिः

शाकंभरीं स्तुवन् ध्यायन्31 शक्र संपूजयन्नमन्।
32अक्षय्यामश्नुते शीघ्रमन्नपानोद्भवां रतिम् ॥ 38 ॥

मूलम्

शाकंभरीं स्तुवन् ध्यायन्31 शक्र संपूजयन्नमन्।
32अक्षय्यामश्नुते शीघ्रमन्नपानोद्भवां रतिम् ॥ 38 ॥

विश्वास-प्रस्तुतिः

चतुर्युगे च पञ्चाशत्तमे मुनिभिरर्थिता।
सुन्दरं चातिभीमं च रूपं कृत्वा हिमाचरे ॥ 39 ॥

मूलम्

चतुर्युगे च पञ्चाशत्तमे मुनिभिरर्थिता।
सुन्दरं चातिभीमं च रूपं कृत्वा हिमाचरे ॥ 39 ॥

विश्वास-प्रस्तुतिः

रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।
ततो मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ 40 ॥

मूलम्

रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।
ततो मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ 40 ॥

विश्वास-प्रस्तुतिः

`भीमे देवि प्रसीदे’ ति भीमामभयदायिनीम्।
युगे षष्टितमे कश्चिदरुणो नाम दानवः ॥ 41 ॥

मूलम्

`भीमे देवि प्रसीदे’ ति भीमामभयदायिनीम्।
युगे षष्टितमे कश्चिदरुणो नाम दानवः ॥ 41 ॥

विश्वास-प्रस्तुतिः

मनुजानां मुनीनां च महाबाधां करिष्यति।
तत्राहं 33भ्रामरं रूपं कृत्वासंख्येयषट्‌पदा ॥ 42 ॥

मूलम्

मनुजानां मुनीनां च महाबाधां करिष्यति।
तत्राहं 33भ्रामरं रूपं कृत्वासंख्येयषट्‌पदा ॥ 42 ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति 34सर्वदा ॥ 43 ॥

मूलम्

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति 34सर्वदा ॥ 43 ॥

विश्वास-प्रस्तुतिः

28-43. सुनन्दा-रक्तदन्तिका-शताक्षी-शाकंभरी-दुर्गा-भीमा-भ्रामरीणामुपाख्यानानि मार्कण्डेयपुराणे देवी माहात्म्ये एकादशाध्याये द्रष्टव्यानि।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति।
तदा तदावतीर्याहं हनिष्यामि महासुरान् ॥ 44 ॥

अमी ते लेशतः शक्र दर्शिताः परमाद्भुताः।
अवतारा निरातङ्का मदीयाः केवलाह्वयाः ॥ 45 ॥

मूलम्

अमी ते लेशतः शक्र दर्शिताः परमाद्भुताः।
अवतारा निरातङ्का मदीयाः केवलाह्वयाः ॥ 45 ॥

विश्वास-प्रस्तुतिः

एतेषां परमा प्रोक्ता कूटस्था सा महीयसी।
महालक्ष्मीर्महाभागा प्रकृतिः परमेश्वरी ॥ 46 ॥

मूलम्

एतेषां परमा प्रोक्ता कूटस्था सा महीयसी।
महालक्ष्मीर्महाभागा प्रकृतिः परमेश्वरी ॥ 46 ॥

विश्वास-प्रस्तुतिः

अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः।
`नमो देव्या’दिकं सूक्तं सर्वकामप्रदं 35वरम् ॥ 47 ॥

मूलम्

अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः।
`नमो देव्या’दिकं सूक्तं सर्वकामप्रदं 35वरम् ॥ 47 ॥

टिप्पनी 47

इदं च मार्कण्डेयपुराणे देवीमाहात्म्ये पञ्चमाध्याये पठितम्।

विश्वास-प्रस्तुतिः

इमां देवीं स्तुवन्नित्यं स्तोत्रेणानेन मामिह।
36क्लेशानतीत्य सकलानैश्वर्यं महदश्नुते ॥ 48 ॥

मूलम्

इमां देवीं स्तुवन्नित्यं स्तोत्रेणानेन मामिह।
36क्लेशानतीत्य सकलानैश्वर्यं महदश्नुते ॥ 48 ॥

विश्वास-प्रस्तुतिः

अमुष्याः सावताराया महालक्ष्म्या ममानघ।
जन्मानि चरितैः सार्धं स्तोत्रैर्वैभववादिभिः37 ॥ 49 ॥

मूलम्

अमुष्याः सावताराया महालक्ष्म्या ममानघ।
जन्मानि चरितैः सार्धं स्तोत्रैर्वैभववादिभिः37 ॥ 49 ॥

विश्वास-प्रस्तुतिः

कथितानि पुरा शक्र वसिष्ठेन महात्मना।
स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने ॥ 50 ॥

मूलम्

कथितानि पुरा शक्र वसिष्ठेन महात्मना।
स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने ॥ 50 ॥

टिप्पनी 50

इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये दृस्यते।

विश्वास-प्रस्तुतिः

समाधये च 38वैश्याय प्रणतायावसीदते।
भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे ॥ 51 ॥

मूलम्

समाधये च 38वैश्याय प्रणतायावसीदते।
भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे ॥ 51 ॥

विश्वास-प्रस्तुतिः

हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः।
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा ॥ 52 ॥

मूलम्

हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः।
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा ॥ 52 ॥

विश्वास-प्रस्तुतिः

39विधूय निखिलां मायां सम्यग्ज्ञानं समश्नुते।
40सर्वां संपदमाप्रोति धुनोति सकलापदः ॥ 53 ॥

मूलम्

39विधूय निखिलां मायां सम्यग्ज्ञानं समश्नुते।
40सर्वां संपदमाप्रोति धुनोति सकलापदः ॥ 53 ॥

विश्वास-प्रस्तुतिः

मम प्रभावात् सौभाग्यं कीर्ति चैव समश्नुते।
41केवला अपि यद्येते मदीया विष्णुना विना ॥ 54 ॥

मूलम्

मम प्रभावात् सौभाग्यं कीर्ति चैव समश्नुते।
41केवला अपि यद्येते मदीया विष्णुना विना ॥ 54 ॥

विश्वास-प्रस्तुतिः

न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 55 ॥

मूलम्

न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 55 ॥

विश्वास-प्रस्तुतिः

42मय्ययं देवदेवेशस्तत्राहं च सनातनी।
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः ॥ 56 ॥

मूलम्

42मय्ययं देवदेवेशस्तत्राहं च सनातनी।
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः ॥ 56 ॥

विश्वास-प्रस्तुतिः

अवतारा मदीयास्ते संभूताः कोशपञ्चके।
शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे43 ॥ 57 ॥

मूलम्

अवतारा मदीयास्ते संभूताः कोशपञ्चके।
शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे43 ॥ 57 ॥

विश्वास-प्रस्तुतिः

तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः।
एवंप्रकारां44 मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 58 ॥

मूलम्

तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः।
एवंप्रकारां44 मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 58 ॥

विश्वास-प्रस्तुतिः

उपायैर्विविधैः शश्वदुपास्य 45बहुधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 59 ॥

मूलम्

उपायैर्विविधैः शश्वदुपास्य 45बहुधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 59 ॥

इति 46श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 47केवलावतारप्रकाशो नाम नवमोऽध्यायः।

इति नवमोऽध्यायः

  1. श्रीरुवाच B. ↩︎ ↩︎

  2. तस्य A. B. D. ↩︎ ↩︎

  3. कर्तुं हि E. F. ↩︎ ↩︎

  4. तु I. ↩︎ ↩︎

  5. वरानाशु जगद्‌ध्वंसिजिघांसया A. F. ↩︎ ↩︎

  6. देवानां A. B. D. F. G. ↩︎ ↩︎

  7. तथा A. B. I. ↩︎ ↩︎

  8. महर्षिभिः B. ↩︎ ↩︎

  9. उत्पत्तिः E. I. ↩︎ ↩︎

  10. विक्रान्तिः E. I. ↩︎ ↩︎

  11. A. B. C. D. omit this line. ↩︎ ↩︎

  12. महाकाल्यास्तनुं B. C. E. I. ↩︎ ↩︎

  13. च A. B. D. ↩︎ ↩︎

  14. पुरा G. ↩︎ ↩︎

  15. ध्यायन्ते D. E. ↩︎ ↩︎

  16. तापसे A. B. C. ↩︎ ↩︎

  17. मिधा B. I. ↩︎ ↩︎

  18. तदाप्यहम् C. ↩︎ ↩︎

  19. तदा A. B. C. ↩︎ ↩︎

  20. सहायं A. D. ↩︎ ↩︎

  21. सदा E. ↩︎ ↩︎

  22. देवेशा A. B. G. ↩︎ ↩︎

  23. पाठ्यते F. ↩︎ ↩︎

  24. बेदान्तपारगैः E. ↩︎ ↩︎

  25. शक्र B. ↩︎ ↩︎

  26. सुनन्द्या E. ↩︎ ↩︎

  27. B. omits this line; भक्षयन्त्यागतानुग्रान् F. ↩︎ ↩︎

  28. रत्न A. C. ↩︎ ↩︎

  29. निरीक्षिष्यामि यन्मुनीन् E. ↩︎ ↩︎

  30. धारणैः D. ↩︎ ↩︎

  31. तु संध्यायां B. ↩︎ ↩︎

  32. अक्षया A. B. C. ↩︎ ↩︎

  33. भ्रमरं E. F. ↩︎ ↩︎

  34. संयताः A. ↩︎ ↩︎

  35. परम् B. ↩︎ ↩︎

  36. B. F. omit this line. ↩︎ ↩︎

  37. कारिभिः E. ↩︎ ↩︎

  38. वश्याय B. ↩︎ ↩︎

  39. C. omits this line. ↩︎ ↩︎

  40. सर्व E. I. ↩︎ ↩︎

  41. केवलाः कथयन्त्येते A. B. C. ↩︎ ↩︎

  42. मय्येवं वर्तते देवः E. ↩︎ ↩︎

  43. भावात्मकात्मके A. B. C. ↩︎ ↩︎

  44. प्रकारं E. F. ↩︎ ↩︎

  45. विविधा B. ↩︎ ↩︎

  46. श्रीपञ्चरात्र A.; पाञ्चरात्र B.; श्रीपाञ्चरात्रे I. ↩︎

  47. भगवदविनामावकथनं नाम A. G.; I. omits the title. ↩︎