००८

विश्वास-प्रस्तुतिः

अष्टमोऽध्यायः - 8
शक्रः—
नमस्ते सिन्धुसंभूते नमस्ते पद्मसंभवे।
नमः सरोरुहावासे नारायणकुटुम्बिनि ॥ 1 ॥

मूलम्

अष्टमोऽध्यायः - 8
शक्रः—
नमस्ते सिन्धुसंभूते नमस्ते पद्मसंभवे।
नमः सरोरुहावासे नारायणकुटुम्बिनि ॥ 1 ॥

विश्वास-प्रस्तुतिः

अवतारास्तु ये प्रोक्तास्त्वदीयाः कोशपञ्चके।
1 तान्मे विस्तरतः पद्मे पृच्छते वक्तुमर्हसि ॥ 2 ॥

मूलम्

अवतारास्तु ये प्रोक्तास्त्वदीयाः कोशपञ्चके।
1 तान्मे विस्तरतः पद्मे पृच्छते वक्तुमर्हसि ॥ 2 ॥

टिप्पनी 2

प्रथमः शक्तिकोशो भगवतः पररूपस्य चतुर्व्यूहानां च संबद्ध इति सुविदितमिति कृत्वा तमुपेक्ष्य मायादिपञ्चकोशविषयः प्रश्नः क्रियतेऽत्र—कोशपञ्चक इति।

विश्वास-प्रस्तुतिः

किमर्थाः किंप्रकारास्ते कियन्तः किंस्वरूपकाः।
तत्त्वं कथय मे देवि सर्वज्ञा ह्यसि शाश्वती ॥ 3 ॥

मूलम्

किमर्थाः किंप्रकारास्ते कियन्तः किंस्वरूपकाः।
तत्त्वं कथय मे देवि सर्वज्ञा ह्यसि शाश्वती ॥ 3 ॥

श्रीः—

विश्वास-प्रस्तुतिः

अतरङ्गमनिर्देश्यमप्रकम्प्यमनूपमम्2
3 अप्रकारमसंभेद्यमविकल्पमनाकुलम्4 ॥ 4 ॥

मूलम्

अतरङ्गमनिर्देश्यमप्रकम्प्यमनूपमम्2
3 अप्रकारमसंभेद्यमविकल्पमनाकुलम्4 ॥ 4 ॥

टिप्पनी 4

प्रसङ्गाद्भगवतः पररूपस्य शक्तिकोशावस्थितिमाह—अतरङ्गमित्यादि। अत्र षष्ठाध्यायसप्तदशस्लोकोक्तमनुसंधेयम्।

विश्वास-प्रस्तुतिः

एकं नारायणं ब्रह्म शून्यं शुद्धं निरामयम्।
5 यदिदं दृश्यते किंचिच्छ्रूयते वानुमीयते ॥ 5 ॥

मूलम्

एकं नारायणं ब्रह्म शून्यं शुद्धं निरामयम्।
5 यदिदं दृश्यते किंचिच्छ्रूयते वानुमीयते ॥ 5 ॥

टिप्पनी 5

नारायण इत्याख्यातं नारायणम्।

विश्वास-प्रस्तुतिः

प्रमाणत्रयसंबोध्यं6 भावाबावस्वलक्षणम्।
चराचरणमु स्थूलं चेतनाचेतनं जगत् ॥ 6 ॥

मूलम्

प्रमाणत्रयसंबोध्यं6 भावाबावस्वलक्षणम्।
चराचरणमु स्थूलं चेतनाचेतनं जगत् ॥ 6 ॥

टिप्पनी 6

प्रमाणत्रयं प्रत्यक्षानुमानशब्दाः।

विश्वास-प्रस्तुतिः

तदिदं सकलं ब्रह्म नारायणमनुत्तरम्7
8 अविद्याविधुरानन्दस्वच्छस्वच्छन्दिचद्धनम् ॥ 7 ॥

मूलम्

तदिदं सकलं ब्रह्म नारायणमनुत्तरम्7
8 अविद्याविधुरानन्दस्वच्छस्वच्छन्दिचद्धनम् ॥ 7 ॥

विश्वास-प्रस्तुतिः

भवद्भावात्मकं दिव्यमध्वनः पारमुत्तमम्।
शक्तिमच्छक्तिभावेन तद्‌ द्विधा व्यवतिष्ठते ॥ 8 ॥

मूलम्

भवद्भावात्मकं दिव्यमध्वनः पारमुत्तमम्।
शक्तिमच्छक्तिभावेन तद्‌ द्विधा व्यवतिष्ठते ॥ 8 ॥

विश्वास-प्रस्तुतिः

शक्तिमत्तत् परं ब्र्हन नारायणमहं भवत्।
शक्तिर्नारायणी साहमहंता भावरूपिणी ॥ 9 ॥

मूलम्

शक्तिमत्तत् परं ब्र्हन नारायणमहं भवत्।
शक्तिर्नारायणी साहमहंता भावरूपिणी ॥ 9 ॥

टिप्पनी 9

अहम्; अहंप्रतीतिविषयः।

विश्वास-प्रस्तुतिः

स प्रदेशो न तस्यास्ति येन भूतं मया विना।
स प्रदेशो न मे कश्चिद्विना तद्येन भूयते ॥ 10 ॥

मूलम्

स प्रदेशो न तस्यास्ति येन भूतं मया विना।
स प्रदेशो न मे कश्चिद्विना तद्येन भूयते ॥ 10 ॥

टिप्पनी 10

विना तत्; तत् ब्रह्म विनेत्यर्थः।

विश्वास-प्रस्तुतिः

एकधा 9च द्विधा चैव तैस्तैस्तत्त्वाब्धिपारगैः।
व्यपदिश्यावहे शास्त्रैस्तावावां सर्वकारणम् ॥ 11 ॥

मूलम्

एकधा 9च द्विधा चैव तैस्तैस्तत्त्वाब्धिपारगैः।
व्यपदिश्यावहे शास्त्रैस्तावावां सर्वकारणम् ॥ 11 ॥

विश्वास-प्रस्तुतिः

भावोत्तरा क्वचित्सृष्टिः क्वचित्सा भवदुत्तरा।
भवद्भावोत्तरा क्वापि विद्वास्तत्र न मुह्यति ॥ 12 ॥

मूलम्

भावोत्तरा क्वचित्सृष्टिः क्वचित्सा भवदुत्तरा।
भवद्भावोत्तरा क्वापि विद्वास्तत्र न मुह्यति ॥ 12 ॥

विश्वास-प्रस्तुतिः

एक एवावतीर्णो हि देवानां कार्यवत्तया।
नारायणो यदा साहं तत्र तद्भावभाविनी ॥ 13 ॥

मूलम्

एक एवावतीर्णो हि देवानां कार्यवत्तया।
नारायणो यदा साहं तत्र तद्भावभाविनी ॥ 13 ॥

विश्वास-प्रस्तुतिः

एकैव चावतीर्णाहं यदा देवहितेप्सया।
अहंतायां मयि व्यक्तः स देवोऽहंपदार्थवान् ॥ 14 ॥

मूलम्

एकैव चावतीर्णाहं यदा देवहितेप्सया।
अहंतायां मयि व्यक्तः स देवोऽहंपदार्थवान् ॥ 14 ॥

विश्वास-प्रस्तुतिः

अवतीर्णौ यदा तुल्यं देवकार्यचिकीर्षया।
अन्योन्ययोः स्थितावावां भवद्भावात्मकौ 10द्वयोः ॥ 15 ॥

मूलम्

अवतीर्णौ यदा तुल्यं देवकार्यचिकीर्षया।
अन्योन्ययोः स्थितावावां भवद्भावात्मकौ 10द्वयोः ॥ 15 ॥

विश्वास-प्रस्तुतिः

इत्थं व्यवस्थिते तत्त्वे ह्यवतारगतिं शृणु।
अनिरुद्धो 11विभुर्देवो देवदेवः सनातनः ॥ 16 ॥

मूलम्

इत्थं व्यवस्थिते तत्त्वे ह्यवतारगतिं शृणु।
अनिरुद्धो 11विभुर्देवो देवदेवः सनातनः ॥ 16 ॥

विश्वास-प्रस्तुतिः

महाविद्यासमुद्भूतस्तदाहमपि वासव।
मत्त एव महालक्ष्म्या अभूवं कमलाख्यया ॥ 17 ॥

मूलम्

महाविद्यासमुद्भूतस्तदाहमपि वासव।
मत्त एव महालक्ष्म्या अभूवं कमलाख्यया ॥ 17 ॥

टिप्पनी 17

मायाकोशावतारमाह—मत्त एव महालक्ष्म्या इति। अत्र षष्ठाध्यायाष्टादशश्लोकोक्तमनुसंधेयम्।

विश्वास-प्रस्तुतिः

ताविमौ दम्पती दिव्यौ पितरौ जगतां मतौ।
पद्मनाभावतारे तु तावेतौ द्वावयोनिजौ ॥ 18 ॥

मूलम्

ताविमौ दम्पती दिव्यौ पितरौ जगतां मतौ।
पद्मनाभावतारे तु तावेतौ द्वावयोनिजौ ॥ 18 ॥

टिप्पनी 18

प्रसूतिकोशावतारमाह—पद्मनाभावतार इत्यादिना। महालक्ष्मीमहाविद्यामहामायानामवतारोऽत्र षष्ठाध्याये विंशश्लोके पूर्वमुक्तः

विश्वास-प्रस्तुतिः

नारायणावतारो यः शक्तीशो नाम नामतः।
प्रकारा बहवस्तस्य सर्वत्राहमनुव्रता ॥ 19 ॥

मूलम्

नारायणावतारो यः शक्तीशो नाम नामतः।
प्रकारा बहवस्तस्य सर्वत्राहमनुव्रता ॥ 19 ॥

विश्वास-प्रस्तुतिः

एकधा 12द्विचतुर्धा च षोढा चैव तथाष्टधा।
पुनर्द्वादशधा 13चैव तत्र नामानि मे शृणु ॥ 20 ॥

मूलम्

एकधा 12द्विचतुर्धा च षोढा चैव तथाष्टधा।
पुनर्द्वादशधा 13चैव तत्र नामानि मे शृणु ॥ 20 ॥

विश्वास-प्रस्तुतिः

श्रीर्नाम 14द्विभुजस्याहमङ्कस्था वरवर्णिनी।
तस्यैवोभयतोरूपे श्रीश्च पुष्टिश्च वासव ॥ 21 ॥

मूलम्

श्रीर्नाम 14द्विभुजस्याहमङ्कस्था वरवर्णिनी।
तस्यैवोभयतोरूपे श्रीश्च पुष्टिश्च वासव ॥ 21 ॥

विश्वास-प्रस्तुतिः

चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा।
मायेति कृत्वा रूपाणि 15भुज्येऽहं तेन विष्णुना ॥ 22 ॥

मूलम्

चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा।
मायेति कृत्वा रूपाणि 15भुज्येऽहं तेन विष्णुना ॥ 22 ॥

विश्वास-प्रस्तुतिः

तस्यैव कोणषट्‌कस्था षोढाहं शृणु नाम च।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव ॥ 23 ॥

मूलम्

तस्यैव कोणषट्‌कस्था षोढाहं शृणु नाम च।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव ॥ 23 ॥

विश्वास-प्रस्तुतिः

तथापराजिता चैव षष्ठी तु प्रकृतिः परा।
तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता ॥ 24 ॥

मूलम्

तथापराजिता चैव षष्ठी तु प्रकृतिः परा।
तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता ॥ 24 ॥

विश्वास-प्रस्तुतिः

लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी।
यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी ॥ 25 ॥

मूलम्

लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी।
यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी ॥ 25 ॥

विश्वास-प्रस्तुतिः

16कोणद्विषट्‌के तस्यैव स्थिता द्वादशधारम्यहम्17
श्रीश्च कामेश्वरी 18कान्तिः क्रियाशक्तिविभूतयः ॥ 26 ॥

मूलम्

16कोणद्विषट्‌के तस्यैव स्थिता द्वादशधारम्यहम्17
श्रीश्च कामेश्वरी 18कान्तिः क्रियाशक्तिविभूतयः ॥ 26 ॥

विश्वास-प्रस्तुतिः

इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च।
एवं चतुर्भुजस्यापि षोढाहं क्रमशः स्थिता19 ॥ 27 ॥

मूलम्

इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च।
एवं चतुर्भुजस्यापि षोढाहं क्रमशः स्थिता19 ॥ 27 ॥

विश्वास-प्रस्तुतिः

तस्यैव 20षड्‌भुजस्याहमष्टबाहोश्च वासव।
द्विषड्‌बाहोस्तथा साहं द्विसप्तकभुजस्य च ॥ 28 ॥

मूलम्

तस्यैव 20षड्‌भुजस्याहमष्टबाहोश्च वासव।
द्विषड्‌बाहोस्तथा साहं द्विसप्तकभुजस्य च ॥ 28 ॥

विश्वास-प्रस्तुतिः

तथा षोडशहस्तस्य भुजद्विनवकस्य च।
विभज्य बहुधात्मानमियद्भेदा व्यवस्थिता ॥ 29 ॥

मूलम्

तथा षोडशहस्तस्य भुजद्विनवकस्य च।
विभज्य बहुधात्मानमियद्भेदा व्यवस्थिता ॥ 29 ॥

विश्वास-प्रस्तुतिः

अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः।
स्थिताहं परितस्तस्य चतुर्धा रूपमेयुषी ॥ 30 ॥

मूलम्

अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः।
स्थिताहं परितस्तस्य चतुर्धा रूपमेयुषी ॥ 30 ॥

टिप्पनी 30

प्रकृतिकोशावतारमाह—सिन्धुशायीति। अत्र पञ्चमाध्यायैकविंशश्लोकोक्तमनुसंधेयम्।

विश्वास-प्रस्तुतिः

लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी।
अवतारो हि यो विष्णोः 21श्रीपतिर्नाम नामतः ॥ 31 ॥

मूलम्

लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी।
अवतारो हि यो विष्णोः 21श्रीपतिर्नाम नामतः ॥ 31 ॥

विश्वास-प्रस्तुतिः

श्रीरित्येवाख्यया तत्र तस्याहं वामतः स्थिता।
अवतारो हि यो विष्णोर्नामतः पारिजातजित् ॥ 32 ॥

मूलम्

श्रीरित्येवाख्यया तत्र तस्याहं वामतः स्थिता।
अवतारो हि यो विष्णोर्नामतः पारिजातजित् ॥ 32 ॥

विश्वास-प्रस्तुतिः

22तदंसस्थकरा तस्य वामोत्सङ्गे हरेः स्थिता।
अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः ॥ 33 ॥

मूलम्

22तदंसस्थकरा तस्य वामोत्सङ्गे हरेः स्थिता।
अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः ॥ 33 ॥

टिप्पनी 33

ब्रह्माण्डकोशावतारमाह—नाम्ना मीनधर इत्यादि।

विश्वास-प्रस्तुतिः

23अनुभ्रमामि तं तत्र साहं नौरूपधारिणी।
त्रैविक्रमोदयो विष्णोरवतारः परः स्मृतः ॥ 34 ॥

मूलम्

23अनुभ्रमामि तं तत्र साहं नौरूपधारिणी।
त्रैविक्रमोदयो विष्णोरवतारः परः स्मृतः ॥ 34 ॥

विश्वास-प्रस्तुतिः

आह्लादजननी गङ्गा तत्पादात्प्रभवाम्यहम्।
अनन्तशयनो नाम योऽवतारो हरेरहम् । 35 ॥

मूलम्

आह्लादजननी गङ्गा तत्पादात्प्रभवाम्यहम्।
अनन्तशयनो नाम योऽवतारो हरेरहम् । 35 ॥

विश्वास-प्रस्तुतिः

स्थिता चतुर्दिशं तस्य चातुरात्म्यमुपेयुषी।
लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता ॥ 36 ॥

मूलम्

स्थिता चतुर्दिशं तस्य चातुरात्म्यमुपेयुषी।
लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता ॥ 36 ॥

विश्वास-प्रस्तुतिः

इत्येषु सह सिद्धाहमवतीर्णाण्डमध्यतः।
24अवताराः पृथग्भूता यदा ब्रह्माण्डमध्यतः ॥ 37 ॥

मूलम्

इत्येषु सह सिद्धाहमवतीर्णाण्डमध्यतः।
24अवताराः पृथग्भूता यदा ब्रह्माण्डमध्यतः ॥ 37 ॥

विश्वास-प्रस्तुतिः

अनुव्रता तथैवाहमवतीर्णा पृथक् पृथक्।
अवतारो हि यो नाम वराहो वेदविश्रुतः ॥ 38 ॥

मूलम्

अनुव्रता तथैवाहमवतीर्णा पृथक् पृथक्।
अवतारो हि यो नाम वराहो वेदविश्रुतः ॥ 38 ॥

विश्वास-प्रस्तुतिः

तदाहमपि भूर्नाम पृथग्भूता भजाम्यहम्।
अवतारो हि यो नाम धर्मो विष्णुः पुरातनः ॥ 39 ॥

मूलम्

तदाहमपि भूर्नाम पृथग्भूता भजाम्यहम्।
अवतारो हि यो नाम धर्मो विष्णुः पुरातनः ॥ 39 ॥

विश्वास-प्रस्तुतिः

तदाहं भार्गवी नाम ख्यातिजा श्रीः प्रकीर्तिता।
अवतारो हि यो नाम दत्तात्रेयोऽत्रिनन्दनः ॥ 40 ॥

मूलम्

तदाहं भार्गवी नाम ख्यातिजा श्रीः प्रकीर्तिता।
अवतारो हि यो नाम दत्तात्रेयोऽत्रिनन्दनः ॥ 40 ॥

विश्वास-प्रस्तुतिः

तदा हि तस्य भोगाय 25सरसोऽहं समुत्थिता26
अवतारो हि यो नाम वामनो वैष्णवः शुभः ॥ 41 ॥

मूलम्

तदा हि तस्य भोगाय 25सरसोऽहं समुत्थिता26
अवतारो हि यो नाम वामनो वैष्णवः शुभः ॥ 41 ॥

विश्वास-प्रस्तुतिः

पद्मादहं समुत्पन्ना तदा पद्मेति विश्रुता।
अवतारो यदा विष्णोर्भार्गवो रामसंज्ञितः ॥ 42 ॥

मूलम्

पद्मादहं समुत्पन्ना तदा पद्मेति विश्रुता।
अवतारो यदा विष्णोर्भार्गवो रामसंज्ञितः ॥ 42 ॥

विश्वास-प्रस्तुतिः

तदाहं धरणी नाम शक्तिरासमयोनिजा।
अवतारो हि यो नाम रामो दाशरथिः शुभः ॥ 43 ॥

मूलम्

तदाहं धरणी नाम शक्तिरासमयोनिजा।
अवतारो हि यो नाम रामो दाशरथिः शुभः ॥ 43 ॥

विश्वास-प्रस्तुतिः

जाता जनकयज्ञेऽहं क्षेत्राद्धलमुखक्षतात्।
नाम्ना सीतेति विख्याता दशाननविनाशनी ॥ 44 ॥

मूलम्

जाता जनकयज्ञेऽहं क्षेत्राद्धलमुखक्षतात्।
नाम्ना सीतेति विख्याता दशाननविनाशनी ॥ 44 ॥

विश्वास-प्रस्तुतिः

अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति।
मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा ॥ 45 ॥

मूलम्

अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति।
मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा ॥ 45 ॥

विश्वास-प्रस्तुतिः

रेवती रुक्मिणी चैव रतिर्नाम्ना तथा ह्युषा।
अवतारान्तरं यत्तु मोहनं बुद्धसंज्ञकम् ॥ 46 ॥

मूलम्

रेवती रुक्मिणी चैव रतिर्नाम्ना तथा ह्युषा।
अवतारान्तरं यत्तु मोहनं बुद्धसंज्ञकम् ॥ 46 ॥

विश्वास-प्रस्तुतिः

ताराहं तत्र नाम्ना वै 27धारा चैव प्रकीतिता।
ध्रुवादयोऽवतारा ये केवला वैष्णवाः स्मृताः ॥ 47 ॥

मूलम्

ताराहं तत्र नाम्ना वै 27धारा चैव प्रकीतिता।
ध्रुवादयोऽवतारा ये केवला वैष्णवाः स्मृताः ॥ 47 ॥

टिप्पनी 47

जीवदेहकोशावतारमाह—ध्रुवादय इति।

विश्वास-प्रस्तुतिः

तत्तच्छरीरभूताहं तेषां भोग्या व्यवस्थिता।
यत्तु 28मे मोहनं रूपं श्रूयतेऽमृतधारकम् ॥ 48 ॥

मूलम्

तत्तच्छरीरभूताहं तेषां भोग्या व्यवस्थिता।
यत्तु 28मे मोहनं रूपं श्रूयतेऽमृतधारकम् ॥ 48 ॥

विश्वास-प्रस्तुतिः

भवद्भावौ तदा तत्र रूपे तुल्योपलक्षितौ।
देवैः पुरुषरूपेण स्रीरूपेण तथेतरैः ॥ 49 ॥

मूलम्

भवद्भावौ तदा तत्र रूपे तुल्योपलक्षितौ।
देवैः पुरुषरूपेण स्रीरूपेण तथेतरैः ॥ 49 ॥

विश्वास-प्रस्तुतिः

सह सिद्धं 29पृथक्सिद्धमित्येतज्जन्म मेऽद्भुतम्।
कीर्तितं तव देवेश केवलं जन्म मे श्रृणु ॥ 50 ॥

मूलम्

सह सिद्धं 29पृथक्सिद्धमित्येतज्जन्म मेऽद्भुतम्।
कीर्तितं तव देवेश केवलं जन्म मे श्रृणु ॥ 50 ॥

इति 30श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 31लक्ष्म्यवतारप्रकाशो नामाष्टमोऽध्यायः

इत्यष्टमोऽध्यायः


  1. तन्मे A. ↩︎ ↩︎

  2. अरूपकम् E. I. ↩︎ ↩︎

  3. अप्रकाश C. ↩︎ ↩︎

  4. अविकारमनाकुलम् B. ↩︎ ↩︎

  5. B. omits 8 lines from here. ↩︎ ↩︎

  6. संभेद्यं A. C. I. ↩︎ ↩︎

  7. अहं भवत् A. F.; अनुत्तमम् E. I. ↩︎ ↩︎

  8. F. omits 4 lines from here. ↩︎ ↩︎

  9. तत् B. ↩︎ ↩︎

  10. दूयौ A. B. C. D. ↩︎ ↩︎

  11. अभवद्देवः A. B. G. ↩︎ ↩︎

  12. च चतुर्धा B. E. I. ↩︎ ↩︎

  13. चेति E. ↩︎ ↩︎

  14. द्विभुजा साहं A.; द्विभुजास्याहं D. ↩︎ ↩︎

  15. भुञ्जेऽहं E. ↩︎ ↩︎

  16. कोणषट्‌के तु B.; कोणषट्‌के तु तस्यैव षड्‌भुजस्याहमष्टधा F. ↩︎ ↩︎

  17. ह्यहम् B. ↩︎ ↩︎

  18. शान्तिः A.; कीर्तिः F. ↩︎ ↩︎

  19. तथा E. ↩︎ ↩︎

  20. षड्‌भुजस्यैवं B. E. ↩︎ ↩︎

  21. शक्तीशो A. ↩︎ ↩︎

  22. तदानन्दकरा A. G. ↩︎ ↩︎

  23. अनुग्रहक्रमात्तत्र A. B. D. ↩︎ ↩︎

  24. A. B. C. D. F. omit six lines from here. ↩︎ ↩︎

  25. सरसाहं F. ↩︎ ↩︎

  26. सरःस्थिता B. ↩︎ ↩︎

  27. धरा B. E.; दारा G. ↩︎ ↩︎

  28. तन्मोहनं D. E.; तन्मोहिनी F. ↩︎ ↩︎

  29. मयीत्येतज्जन्म मे महदद्भुतम् A. G. ↩︎ ↩︎

  30. श्रीपञ्चरात्र A.; श्रीपञ्चरात्रे E. I. ↩︎

  31. E. I. omit the title. ↩︎