विश्वास-प्रस्तुतिः
सप्तमोऽध्यायः - 7
श्रीः1—
व्याचक्षेऽहं 2ततः शक्र क्रमशस्तत्त्वपद्धतिम्।
शुद्धाशुद्धविमिश्रेयं तत्त्वपद्धतिरुच्यते ॥ 1 ॥
मूलम्

3निरम्भोदाम्बराभासो निष्पन्दोदधिसंनिभः।
स्वच्छस्वच्छन्दचैतन्यसदानन्दमहोदधिः ॥ 2 ॥

टिप्पनी 2
पूर्वाध्यायोक्तानि पञ्चत्रिंशत् तत्त्वानि व्युत्क्रमेण निरूप्यन्ते। तत्रादावत्र भगवत्तत्त्वनिरूपणम्। भगवत्तत्त्वं च शान्तावस्थः परवासुदेवः, उदितावस्था व्यूहाः, तेषामपृथक्सिद्धा देवी चेति।
विश्वास-प्रस्तुतिः
आकारदेशकालादिपरिच्छेदविवर्जितः4।
भगवानिति विज्ञेयः परमात्मा सनातनः ॥ 3 ॥
मूलम्
आकारदेशकालादिपरिच्छेदविवर्जितः4।
भगवानिति विज्ञेयः परमात्मा सनातनः ॥ 3 ॥
विश्वास-प्रस्तुतिः
तस्याहंता परा तादृग्भगवत्ता सनातनी।
नारायणी परा सूक्ष्मा निर्विकल्पा निरञ्जन ॥ 4 ॥

ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः।
षण्णां युगपदुन्मेषो गुणानां प्रथमो हि यः ॥ 5 ॥

भवद्भावात्मकत्वेन द्विधा स व्यपदिश्यते।
भवंस्तु वासुदेवोऽत्र भावोऽस्मिन् वासुदेवता ॥ 6 ॥

शान्तिर्नाम्ना समाख्याता साहं देवी सनातनी।
संकर्षणादयो व्यूहाः साहंताः प्राङ् निरूपिताः ॥ 7 ॥

त्रयश्च चातुरात्म्यं तच्चत्वारोऽमी सुरेश्वर।
एतावद्भगवद्वाच्यं 5निस्तत्त्वं तत्त्वमुत्तमम् ॥ 8 ॥

टिप्पनी 8
निस्तत्त्वम्; तत्त्वान्तरेभ्यो निष्क्रान्तम्, अतिशयितमित्यर्थः। तदेवाह—तत्त्वमुत्तममिति।
विश्वास-प्रस्तुतिः
नभस्तु परमं व्योम परमाकाशशब्दितम्।
यत्र 6देवो मया सार्धं विभज्यात्मानमात्मना ॥ 9 ॥

क्रीडते रमया विष्णुः परमात्मा सनातनः।
षाड्गुण्यस्य समुन्मेषः स देशः परमाम्बरम् ॥ 10 ॥

टिप्पनी 10
परव्योम्नः षाड्गुण्यसमुन्मेषरूपत्वकथनेनाजडत्वमभिप्रेतम्; जडत्वपक्षोऽप्यस्ति परेषाम्।
विश्वास-प्रस्तुतिः
पुरुषो भोक्तृकूटस्थः सर्वज्ञः सर्वतोमुखः।
अंशतः प्रसरन्त्यस्मात्सर्वे जीवाः सनातनाः ॥ 11 ॥

टिप्पनी 11
भोक्तृकूटस्थो जीवसमष्टिरूपः पुरुषो हितण्यगर्भः।
विश्वास-प्रस्तुतिः
7प्रलये त्वपियन्त्येनं कर्मात्मानो नरं परम्।
इयं मातृदशा सा मे 8या ते पूर्वं मयोदिता ॥ 12 ॥
विश्वास-प्रस्तुतिः
महालक्ष्मीः समाख्याता शक्तितत्त्वं मनीषिभिः।
नियतिस्तु महाविद्या कालः काली प्रकीर्तिता ॥ 13 ॥

सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम्।
सुखरूपं स्मृतं सत्त्वं स्वच्छं ज्ञानकरं 9लघु ॥ 14 ॥

दुःखरूपं रजो ज्ञेयं चलं रक्तं प्रवर्तकम्।
10मोहरूपं तमो ज्ञेयं गुरु कृष्णं नियामकम् ॥ 15 ॥

माया चैव प्रसूतिश्च प्रकृतिश्चेति11 वासव।
पुरस्ताद्व्याकृतं तुभ्यं तदेतत्प्रकृतित्रिकम् ॥ 16 ॥

12भूतानि दशसंख्यानि तथा खानि त्रयोदश।
त्रयोविंशतिरप्येते सुस्पष्टं व्याकृता पुरा13 ॥ 17 ॥
विश्वास-प्रस्तुतिः
तदयं मम संकोचः प्रमाता शुद्धचिन्मयः।
स्वान्तःस्फुरिततत्त्वौघः स्थितो दर्पणवत्सदा ॥ 18 ॥

टिप्पनी 18
एवं षष्ठाध्याये 42, 43, 44 तमैः श्लोकैः प्रस्तुतानि पञ्चत्रिंशतं तत्त्वानि निरूप्य, तत्रैव 35 तमे श्लोके प्रस्तुता आत्मनश्चतस्रो दशा निरूपयति—तदयमित्यारभ्य यावदध्यायपरिसमाप्ति।
विश्वास-प्रस्तुतिः
चातूरूप्यं तु यत्तस्य तदिहैकमनाः शृणु।
आद्यं शून्यमयो माता मूर्छादौ परिकीतितः ॥ 19 ॥

14ततः प्राणमयो माता सुषुप्तौ परिकीर्तितः।
प्राणा एव प्रतायन्ते सुषुप्तौ पुरुषस्य तु ॥ 20 ॥

मूर्छाविषोपघातादौ प्राणोऽपि विनिवर्तते।
केवलं स्वात्मसत्तैव15 ततः शून्यस्तदा पुमान् ॥ 21 ॥

तृतीयोऽष्टपुरीमात्रः स्वप्ने माता प्रकीर्तितः।
प्राणा भूतानि कर्माणि करणानि त्रयो गुणाः ॥ 22 ॥

टिप्पनी 22
अष्टपुरीमात्रः। मात्रशब्दः प्रमाणार्थकः; केवलार्थको वा। बाह्यचेष्टारहित इत्यर्थः। अष्टपुर्यश्चानन्तरश्लोके वक्ष्यन्ते।
विश्वास-प्रस्तुतिः
प्राग्वासना अविद्या च लिङ्गं पुर्यष्टकं स्मृतम्।
स्वप्नेऽन्तःकरणेनैव स्वैरं हि परिवर्तते ॥ 23 ॥

टिप्पनी 23
लिङ्गं सूक्ष्मशरीरम्।
विश्वास-प्रस्तुतिः
चेष्टमानः स्वदेहेन देही जाग्रद्दशां गतः।
चातूरूप्यमिदं 16पुंसस्रैरूप्यमपि मे शृणु ॥ 24 ॥

ज्ञानक्रियास्वरूपाणां संकोचस्रिविधस्तु यः17।
तस्य तद्धि त्रिरूपत्वं तस्य व्याख्यामिमां शृणु ॥ 25 ॥

मायया ज्ञानसंकोच 18आनैश्वर्यात्क्रियाव्ययः।
अशक्तेरणुता रूपे त्रिधैव व्यपदिश्यते ॥ 26 ॥

टिप्पनी 26
क्रियाव्ययः अभीप्सितक्रियाकरणासामर्थ्यम्। आनैश्वर्यमित्यत्र अनीश्वरस्य भाव इत्यर्थे ष्यञि उभयपदवृद्धिः। स्वरूपसंकोचेनाणुरूप इत्युक्त्या जीवस्य स्वाभाविकं विभुरूपत्वमिति न मन्तव्यम्, तस्याणुस्वरूपत्वस्यानेकप्रमाणसिद्धत्वात्। तस्मादत्र विशिष्याणुरूपत्ववर्णनमसर्व्रशक्तत्वासर्वज्ञत्वादिपरं वेदितव्यम्। तदेवाशक्तेरित्यनेन विव्रियते।
विश्वास-प्रस्तुतिः
अणुः किंचित्करश्चैव किंचिज्ज्ञश्चायमित्युत19।
द्वैरूप्यमैकरूप्यं च पूर्वमेव निरूपितम् ॥ 27 ॥

एवं 20मातृदशा मेऽद्य सविशेषा प्रकीर्तिता।
आन्तः करणिकीं चैव दशां शक्राद्य मे शृणु ॥ 28 ॥

टिप्पनी 28
पूर्वाद्याये अन्तःकरणदशा द्वितीया निर्दिष्टा। सात्र विव्रियते।
विश्वास-प्रस्तुतिः
स्वच्छन्दा संविदेवाहं स्वतश्चेतनतां गता।
हित्वा चेतनतां तां चाप्यवरूढा ततः 21क्रमात् ॥ 29 ॥

चैत्यसंकोचनी चित्तमन्तः करणमीरितम्।
मनोबुद्धिरहंकार इत्येतत् त्रितयं च22 तत् ॥ 30 ॥

टिप्पनी 30
चैत्यम्; चितो भावः, चैतन्यमित्यर्थः।
विश्वास-प्रस्तुतिः
23विकल्पोऽध्यवसायश्चाप्यभिमानश्च वृत्तयः।
मनो विकल्पयत्यर्थमहंकारोऽभिमन्यते ॥ 31 ॥

टिप्पनी 31
विकल्पः; विविधः कल्पः, अनिर्णयात्मकं ज्ञानम्। अभिमन्यते; स्वकीयत्वेन बुध्यते।
विश्वास-प्रस्तुतिः
अध्यवस्यति बुद्धिश्च चेतनाधिष्ठिता सदा।
बुद्धिरध्यात्ममित्युक्ता निर्णयोऽप्यधिभूतकम्24 ॥ 32 ॥

टिप्पनी 32
अध्यवस्यति; निश्विनोति।
विश्वास-प्रस्तुतिः
बुद्धिदर्पणसंलीनः क्षेत्रज्ञश्चाधिदैवतम्।
अहंकृतिस्तथाध्यात्ममभिमानोऽधिभूतकम् ॥ 33 ॥

अधिदैवमथो रुद्रो मनोऽध्यात्मं प्रकीर्तितम्।
विकल्पोऽप्यधिभूतस्तु चन्द्रमा अधिदैवतम् ॥ 34 ॥

प्राणसंरम्भसंकल्पा गुणा एषां क्रियाविधौ।
25प्राणः प्रयत्न इत्युक्तः संरम्भो गर्व उच्यते ॥ 35 ॥

26फलस्वाम्यस्वरूपश्च गर्वः संरम्भ उच्यते।
औदासीन्यच्युतिः प्रोक्तः संकल्पो मानसो बुधैः ॥ 36 ॥

व्याख्यातेयं द्वितीया मे ह्यान्तःकरणिकी दशा।
प्रच्यवन्ती ततो रूपादान्तः करणिकादहम् ॥ 37 ॥

स्त्यानतां क्रमशः प्राप्ता बहिष्करणसंज्ञिता27।
करणानि तु बाह्यानि व्याख्यातानि मया पुरा ॥ 38 ॥

ज्ञानेन्द्रियप्रवृत्तौ तु मनआदि प्रवर्तते।
चक्षुरालोकयत्यर्थं विकल्पयति 28तन्मनः ॥ 39 ॥

29आलोकनविकल्पस्थमहंकारोऽभिमन्यते।
अध्यवस्य ततो बुद्धिः क्षेत्रज्ञाय प्रयच्छति ॥ 40 ॥

टिप्पनी 40
अध्यवस्य; अध्यवसाय, अध्यवसायं कृत्वेत्यर्थः।
विश्वास-प्रस्तुतिः
कर्मेन्द्रियप्रवृत्तौ तु विपर्यस्तः क्रमः स्मृतः।
संकल्पादेः पराचीना वचनादिक्रिया यतः ॥ 41 ॥

टिप्पनी 41
पराचीना; पस्चाद्भवा।
विश्वास-प्रस्तुतिः
अध्यात्मादिविशेषोऽत्र सर्वः पूर्वमुदीरितः।
तृतीयेयं विधाख्याता बहिष्करणवर्तिनी ॥ 42 ॥

चतुर्थीं त्वमिमां कोटिं मेयरूपां तु मे शृणु।
मेयं 30तु द्विविधं तावद्बहिरन्तर्व्यवस्थया ॥ 43 ॥

टिप्पनी 43
मेयेति। इदमेव भावभूमिकेति पूर्वं निर्दिष्टम्।
विश्वास-प्रस्तुतिः
बाह्यं तु नीलपीतादि सुखदुःखाद्यथान्तरम्।
आभिश्चतसृभिश्चाहं विधाभिः स्त्यानतां गता ॥ 44 ॥

स्वचित्तोत्थविकल्पार्थैः प्रत्यक्षाप्यस्मि विस्मृता।
सदाचार्योपदेशेन सत्तर्कमनुरुन्धता ॥ 45 ॥

निरूप्ये निपूणैर्यत्र 31मेयेऽप्यस्मि तदा स्फुटम्।
विलाप्य सकलं भावं चेत्यरूपमिमं तथा ॥ 46 ॥

टिप्पनी 46
चेत्यम्; मेयम्।
विश्वास-प्रस्तुतिः
स्वच्छन्दा पूर्णचिद्रूपा प्रकाशेऽहं तदा स्वयम्।
स्वच्छा स्वच्छतरा साहं ततः करणसंज्ञिता ॥ 47 ॥

ततो मातर्यतिस्वच्छा स्फुरामि स्वच्छचिन्मयी।
आरोहमवरोहं च भावयन्मामकावुभौ।
मच्चित्तो मद्गतप्राणो मद्भावायोपपद्यते ॥ 48 ॥

इति 32श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 33प्रमातृकरणप्रकाशो नाम सप्तमोऽध्यायः
इति सप्तमोऽध्यायः