००६

विश्वास-प्रस्तुतिः

षष्ठोऽध्यायः - 6
श्रीः1
पूर्णस्तिमितषाड्‌गुण्यचिदानन्दमहोदधेः।
अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः ॥ 1 ॥

मूलम्

षष्ठोऽध्यायः - 6
श्रीः1
पूर्णस्तिमितषाड्‌गुण्यचिदानन्दमहोदधेः।
अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः ॥ 1 ॥

विश्वास-प्रस्तुतिः

साहमेवंविधा शुद्धा क्वचिदुच्छूनतां गता।
सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका ॥ 2 ॥

मूलम्

साहमेवंविधा शुद्धा क्वचिदुच्छूनतां गता।
सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका ॥ 2 ॥

विश्वास-प्रस्तुतिः

षट्‌कोशतां समापद्ये सत्ताहं वैष्णवी परा।
शक्तिर्माया प्रसूतिश्च प्रकृतिस्रिगुणात्मिका ॥ 3 ॥

मूलम्

षट्‌कोशतां समापद्ये सत्ताहं वैष्णवी परा।
शक्तिर्माया प्रसूतिश्च प्रकृतिस्रिगुणात्मिका ॥ 3 ॥

टिप्पनी 3

शक्तिमायाप्रसूतिप्रकृतिब्रह्माण्डजीवदेहाख्येषु षट्‌सु कोशेषु शक्तिकोशः सुद्धमार्गप्रवर्तकः। तत्रैव संकर्षणादीनां त्रयाणामाविर्भावः।

विश्वास-प्रस्तुतिः

ब्रह्माण्डं 2जीवलदेहश्चेत्येते षट्‌कोशसंज्ञिताः।
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता ॥ 4 ॥

मूलम्

ब्रह्माण्डं 2जीवलदेहश्चेत्येते षट्‌कोशसंज्ञिताः।
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता ॥ 4 ॥

विश्वास-प्रस्तुतिः

शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी।
कोशः कुलायपर्यायः शरीरापरनामवान् ॥ 5 ॥

मूलम्

शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी।
कोशः कुलायपर्यायः शरीरापरनामवान् ॥ 5 ॥

विश्वास-प्रस्तुतिः

शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे।
अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः ॥ 6 ॥

मूलम्

शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे।
अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः ॥ 6 ॥

विश्वास-प्रस्तुतिः

तिलकालकवत्तत्र विकारो मसृणः स्थितः।
तस्याहंता तु 3या देवी साहं 4सांकर्षणी परा ॥ 7 ॥

मूलम्

तिलकालकवत्तत्र विकारो मसृणः स्थितः।
तस्याहंता तु 3या देवी साहं 4सांकर्षणी परा ॥ 7 ॥

विश्वास-प्रस्तुतिः

श्रीरित्येव5 समाख्याता विज्ञानबलशालिनी।
यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते ॥ 8 ॥

मूलम्

श्रीरित्येव5 समाख्याता विज्ञानबलशालिनी।
यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते ॥ 8 ॥

टिप्पनी 8

संकर्षणस्य महिषी श्रीः। प्रद्युम्नस्य सरस्वती। अनिरुद्धस्य रतिः। वासुदेवस्य शान्तिः।

विश्वास-प्रस्तुतिः

संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः।
6बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः ॥ 9 ॥

मूलम्

संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः।
6बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः ॥ 9 ॥

विश्वास-प्रस्तुतिः

भोक्तृभोग्यसमष्टिस्तु निलीना7 तत्र तिष्ठति।
मनोभूतस्य देवस्य तस्याहंता तु या स्मृता ॥ 10 ॥

मूलम्

भोक्तृभोग्यसमष्टिस्तु निलीना7 तत्र तिष्ठति।
मनोभूतस्य देवस्य तस्याहंता तु या स्मृता ॥ 10 ॥

विश्वास-प्रस्तुतिः

साहं सरस्वती नाम 8वीर्यैश्वर्यविवर्तिनी।
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः ॥ 11 ॥

मूलम्

साहं सरस्वती नाम 8वीर्यैश्वर्यविवर्तिनी।
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः ॥ 11 ॥

विश्वास-प्रस्तुतिः

तस्य संकर्षणस्याहमहंकारविधौ स्थिता।
संकर्षणादयो देवास्त्रय एते पुरातनाः ॥ 12 ॥

मूलम्

तस्य संकर्षणस्याहमहंकारविधौ स्थिता।
संकर्षणादयो देवास्त्रय एते पुरातनाः ॥ 12 ॥

विश्वास-प्रस्तुतिः

जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः।
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः ॥ 13 ॥

मूलम्

जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः।
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः ॥ 13 ॥

विश्वास-प्रस्तुतिः

आदिव्यूहस्य9 देवस्य वासुदेवस्य दीव्यतः।
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः ॥ 14 ॥

मूलम्

आदिव्यूहस्य9 देवस्य वासुदेवस्य दीव्यतः।
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः ॥ 14 ॥

विश्वास-प्रस्तुतिः

सर्वे ते षड्‌गुणाः प्रोक्ताः सर्वे ते पुरुषोत्तमाः।
पूर्णस्तिमितषाड्‌गुण्यसदानन्दमहोदधेः ॥ 15 ॥

मूलम्

सर्वे ते षड्‌गुणाः प्रोक्ताः सर्वे ते पुरुषोत्तमाः।
पूर्णस्तिमितषाड्‌गुण्यसदानन्दमहोदधेः ॥ 15 ॥

विश्वास-प्रस्तुतिः

षण्णां युगपदुन्मेषो गुणानां10 कार्यवत्तया।
योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः ॥ 16 ॥

मूलम्

षण्णां युगपदुन्मेषो गुणानां10 कार्यवत्तया।
योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः ॥ 16 ॥

विश्वास-प्रस्तुतिः

तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता।
शक्तिकोशस्थिता देवाः 11सूयन्ते यत्र चिन्तिताः ॥ 17 ॥

मूलम्

तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता।
शक्तिकोशस्थिता देवाः 11सूयन्ते यत्र चिन्तिताः ॥ 17 ॥

विश्वास-प्रस्तुतिः

अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता।
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते ॥ 18 ॥

मूलम्

अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता।
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते ॥ 18 ॥

टिप्पनी 18

मायाकोशमारभ्याशुद्धसृष्टिः। महालक्ष्म्या राजसत्वं प्रपञ्चसृष्टिनिदानत्वं च पूर्वमुक्तम्।

विश्वास-प्रस्तुतिः

महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः।
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते ॥ 19 ॥

मूलम्

महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः।
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते ॥ 19 ॥

विश्वास-प्रस्तुतिः

महालक्ष्मीमहामायामहाविद्यामयो महान्।
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते ॥ 20 ॥

मूलम्

महालक्ष्मीमहामायामहाविद्यामयो महान्।
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते ॥ 20 ॥

टिप्पनी 20

प्रसूतिकोशः राजस्या महालक्ष्म्याः, तामस्या महामायायाः, सात्त्विक्या महाविद्यायाश्च समवायरूपः।

विश्वास-प्रस्तुतिः

त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते।
प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः ॥ 21 ॥

मूलम्

त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते।
प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः ॥ 21 ॥

टिप्पनी 21

त्रीणि मिथुनानि पञ्चमाध्याये सप्तमादिभिः सप्तभिः श्लोकैर्वर्णितानि। प्रधानमेव प्रकृतिकोश इत्युच्यते। एतासां मायाप्रसूतिप्रकृतीनां तमोऽव्यक्तप्रकृतिनामभिरुपनिषत्सु व्यवहारः।

विश्वास-प्रस्तुतिः

सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी।
विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि ॥ 22 ॥

मूलम्

सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी।
विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि ॥ 22 ॥

विश्वास-प्रस्तुतिः

तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः।
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह ॥ 23 ॥

मूलम्

तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः।
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह ॥ 23 ॥

विश्वास-प्रस्तुतिः

तद्ब्रह्माण्डमिति12 प्रोक्तं यत्र ब्रह्मा विराडभूत्।
अङ्गप्रत्यङ्गयुक्तं यच्छरीरं 13जीविनामिह ॥ 24 ॥

मूलम्

तद्ब्रह्माण्डमिति12 प्रोक्तं यत्र ब्रह्मा विराडभूत्।
अङ्गप्रत्यङ्गयुक्तं यच्छरीरं 13जीविनामिह ॥ 24 ॥

विश्वास-प्रस्तुतिः

एषा कोशविधा षष्ठी क्रमशस्तनुतां गता।
अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः ॥ 25 ॥

मूलम्

एषा कोशविधा षष्ठी क्रमशस्तनुतां गता।
अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः ॥ 25 ॥

विश्वास-प्रस्तुतिः

आद्ये कोशे स्वयं देवस्रिधैवाहंतया स्थितः।
पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः ॥ 26 ॥

मूलम्

आद्ये कोशे स्वयं देवस्रिधैवाहंतया स्थितः।
पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः ॥ 26 ॥

विश्वास-प्रस्तुतिः

शुभाशुभविभागोत्थां भजन्ते विविधां दशाम्।
दिव्यास्तिस्रस्रयस्तासां14 मिथुनानि च यानि तु ॥ 27 ॥

मूलम्

शुभाशुभविभागोत्थां भजन्ते विविधां दशाम्।
दिव्यास्तिस्रस्रयस्तासां14 मिथुनानि च यानि तु ॥ 27 ॥

विश्वास-प्रस्तुतिः

अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः।
स्वातन्त्र्यनिर्मितास्त्वेते15 नैव कर्मवशानुगाः ॥ 28 ॥

मूलम्

अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः।
स्वातन्त्र्यनिर्मितास्त्वेते15 नैव कर्मवशानुगाः ॥ 28 ॥

विश्वास-प्रस्तुतिः

अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः।
अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः ॥ 29 ॥

मूलम्

अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः।
अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः ॥ 29 ॥

विश्वास-प्रस्तुतिः

नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये।
16अधिकारक्षयं नीत्वा शुभपाकवशादिमे ॥ 30 ॥

मूलम्

नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये।
16अधिकारक्षयं नीत्वा शुभपाकवशादिमे ॥ 30 ॥

टिप्पनी 30

अधिकारेति “यावदधिकारमवस्थितिराधिकारिकाणाम्” इति बादरायणसूत्रम्।

विश्वास-प्रस्तुतिः

संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः।
आरोहन्ति शनैः कोशानारूढा न पतन्ति ते ॥ 31 ॥

मूलम्

संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः।
आरोहन्ति शनैः कोशानारूढा न पतन्ति ते ॥ 31 ॥

विश्वास-प्रस्तुतिः

सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः।
पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति ते ॥ 32 ॥

मूलम्

सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः।
पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति ते ॥ 32 ॥

विश्वास-प्रस्तुतिः

शक्रः17
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि।
जीवः को नाम 18तद्‌ ब्रूहि नमस्ते पद्मसंभवे ॥ 33 ॥

मूलम्

शक्रः17
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि।
जीवः को नाम 18तद्‌ ब्रूहि नमस्ते पद्मसंभवे ॥ 33 ॥

श्रीः—

विश्वास-प्रस्तुतिः

पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा।
19तस्याः स्मृताश्चतस्रो मे दशास्त्रिदशपुंगव ॥ 34 ॥

मूलम्

पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा।
19तस्याः स्मृताश्चतस्रो मे दशास्त्रिदशपुंगव ॥ 34 ॥

विश्वास-प्रस्तुतिः

प्रमातेति विधा त्वेका तदन्तःकरणं परा।
बहिः करणमन्या च चतुर्थी भावभूमिका ॥ 35 ॥

मूलम्

प्रमातेति विधा त्वेका तदन्तःकरणं परा।
बहिः करणमन्या च चतुर्थी भावभूमिका ॥ 35 ॥

टिप्पनी 35

प्रमाता जीवः। अन्तःकरणं मनोबुद्ध्यहंकाररूपेण त्रिविधम्। बहिः करणं ज्ञानेन्द्रियकर्मेन्द्रियरूपेण दशविधम्। भावभूमिका प्रमेयप्रपञ्चजातम्।

विश्वास-प्रस्तुतिः

प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते।
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी ॥ 36 ॥

मूलम्

प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते।
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी ॥ 36 ॥

विश्वास-प्रस्तुतिः

स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम्।
प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते ॥ 37 ॥

मूलम्

स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम्।
प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते ॥ 37 ॥

विश्वास-प्रस्तुतिः

चिदात्मनि यथा विश्वं मयि लीनमवस्थितम्।
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् ॥ 38 ॥

मूलम्

चिदात्मनि यथा विश्वं मयि लीनमवस्थितम्।
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् ॥ 38 ॥

विश्वास-प्रस्तुतिः

ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम्।
20सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते ॥ 39 ॥

मूलम्

ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम्।
20सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते ॥ 39 ॥

टिप्पनी 39

चत्वारो भेदाः जाग्रदाद्यवस्थाः।

विश्वास-प्रस्तुतिः

प्रकाशेनात्मनो21 ह्येको ग्राह्यग्राहकतावशात्।
द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना ॥ 40 ॥

मूलम्

प्रकाशेनात्मनो21 ह्येको ग्राह्यग्राहकतावशात्।
द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना ॥ 40 ॥

सप्तपञ्चकरूपत्वं तत्तत्तत्त्वस्थितौ स्थितम्।

शक्रः—

विश्वास-प्रस्तुतिः

22कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च ॥ 41 ॥
एतत्पृष्टा मया ब्रूहि नमस्ते 23सिन्धुसंभवे।

मूलम्

22कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च ॥ 41 ॥
एतत्पृष्टा मया ब्रूहि नमस्ते 23सिन्धुसंभवे।

श्रीः24
25स्थूलसूक्ष्मविभेदेन भूतानि दश खानि च ॥ 42 ॥

विश्वास-प्रस्तुतिः

ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च।
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः ॥ 43 ॥

मूलम्

ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च।
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः ॥ 43 ॥

विश्वास-प्रस्तुतिः

कालश्च नियतिः शक्तिः पुरुषः परमं नभः।
भगवानिति तत्त्वानि सात्त्वताः समधीयते ॥ 44 ॥

मूलम्

कालश्च नियतिः शक्तिः पुरुषः परमं नभः।
भगवानिति तत्त्वानि सात्त्वताः समधीयते ॥ 44 ॥

विश्वास-प्रस्तुतिः

शक्रः—
मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात्।
व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे ॥ 45 ॥

मूलम्

शक्रः—
मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात्।
व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे ॥ 45 ॥

इति 26श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 27षट्‌कोशप्रकाशो नाम षष्ठोऽध्यायः

इति षष्ठोऽध्यायः


  1. श्रीरुवाच B. ↩︎ ↩︎

  2. जीवदेहाश्च B. ↩︎ ↩︎

  3. देवी या E. I. ↩︎ ↩︎

  4. संकर्षणी B. ↩︎ ↩︎

  5. एवं B. ↩︎ ↩︎

  6. बुद्धिवत् A. B. ↩︎ ↩︎

  7. निलीनं B. ↩︎ ↩︎

  8. वीर्यशौर्य A. I. ↩︎ ↩︎

  9. व्यूढस्य F. ↩︎ ↩︎

  10. उन्मेषात् षाड्‌गुण्यं B. ↩︎ ↩︎

  11. त्रयस्ते E. I. ↩︎ ↩︎

  12. ब्रह्माण्डमिदं E. ↩︎ ↩︎

  13. जीवतामिह E. ↩︎ ↩︎

  14. त्रयस्त्वासां E. I. ↩︎ ↩︎

  15. निर्मितास्ते ते E. I. ↩︎ ↩︎

  16. अधिकारं E. ↩︎ ↩︎

  17. शक्र उवाच F. ↩︎ ↩︎

  18. तं E. ↩︎ ↩︎

  19. सत्याः E. ↩︎ ↩︎

  20. षट्‌सप्तपञ्च A. B. C. ↩︎ ↩︎

  21. आत्मना E. ↩︎ ↩︎

  22. तानि F. ↩︎ ↩︎

  23. पद्म B. ↩︎ ↩︎

  24. श्रीरुवाच B. ↩︎

  25. C. omits three lines from here. ↩︎

  26. श्रीपञ्चरात्र A. E.; श्रीपञ्चरात्रे I. ↩︎

  27. I. omits the title. ↩︎