विश्वास-प्रस्तुतिः
प़ञ्चमोऽध्यायः - 5
श्रीः1—
या साहंता हरेराद्या सर्वाकारा सनातनी।
शुद्धानन्दचिदाकारा सर्वतः समतां गता ॥ 1 ॥
मूलम्

टिप्पनी 1
अत्र शान्तावस्था। द्वितीयश्लोके उदितावस्था। तृतीयश्लोके त्रैगुण्यावस्था महालक्ष्मीसमाख्या। चतुर्थे रजःप्रधानावस्था महाश्रीः महालक्ष्मयपरपर्याया। तमः प्रधानतया पूर्वाध्यायोक्ता महामाया। पञ्चमे पूर्वाध्यायोक्तसत्त्वप्रधाना महाविद्या।
विश्वास-प्रस्तुतिः
साहं सिसृक्षया युक्ता स्वल्पाल्पेनात्मबिन्दुना।
सृष्टिं कृतवती शुद्धां2 पूर्णषाड्गुण्यविग्रहाम्3 ॥ 2 ॥

अनुज्झितस्वरूपाहं 4मदीयेनाल्पबिन्दुना।
महालक्ष्मीः समाक्याता त्रैगुण्यपरिवर्तिनी ॥ 3 ॥

रजःप्रदाना तत्राहं महाश्रीः परमेश्वरी।
मदीयं 5यत्तमोरूपं महामायेति सा स्मृता ॥ 4 ॥

मदीयं सत्त्वरूपं यन्महाविद्येति सा स्मृता।
अहं च ते च कामिन्यौ ता वयं तिस्र ऊर्जिताः ॥ 5 ॥

सृष्टवत्यस्तु मिथुनान्यनुरूपाणि च त्रिधा।
मदीयं मिथुनं यत्तन्मानसं रुचिराकृति ॥ 6 ॥

हिरणय्गर्भं पद्माक्षं सुन्दरं कमलासनम्।
प्रद्युम्नांशादिदं विद्धि संभूतं मयि मानसम् ॥ 7 ॥

धाता विधिर्विरिञ्चिश्च ब्रह्मा च पुरुषः स्मृतः।
श्रीः पद्मा कमला लक्ष्मीस्तत्र नारी प्रकीतिता ॥ 8 ॥

संकर्षणांशतो द्वन्द्वं महामायासमुद्भवम्।
त्रिनेत्रं चारुसर्वाङ्गं मानसं तत्र यः पुमान् ॥ 9 ॥

स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः।
तत्र त्रयीश्वरा भाषा विद्या चैवाक्षरा तथा ॥ 10 ॥

कामधेनुश्च विज्ञेया सा स्त्री गौश्च6 सरस्वती।
अनिरुद्धांशसंभूतं महाविद्यासमुद्भवम् ॥ 11 ॥

मिथुनं मानसं यत्तत्पुरुषस्तत्र केशवः।
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ॥ 12 ॥

उमा7 गौरी सती चण्डा तत्र स्त्री सुभगा सती।
ब्रह्मणस्तु त्रयी पत्नी सा बभूव ममाज्ञया ॥ 13 ॥

रुद्रस्य दीयिता गौरी वासुदेवस्य चाम्बुजा।
रजसस्तमसश्चैव सत्त्वस्य च विवर्तनम् ॥ 14 ॥

आद्यं पर्व तदेतत्ते कथितं मिथुनत्रयम्।
मद्यमं पर्व वक्ष्यामि गुणानां तदिदं शृणु ॥ 15 ॥

टिप्पनी 15
आद्यं पर्वेति। राजस्या लक्ष्म्याः प्रद्युम्नांशात् मानसी सृष्टिः—विरिञ्चिः, श्रीश्च। तामस्या महामायायाः संकर्षणांशात् मानसी सृष्टिः—रुद्रः, त्रयी च। सात्त्विक्या महाविद्याया अनिरुद्धांशात् मानसी सृष्टिः—विष्णुः, गौरी च। ततः राजसस्य विरिञ्चेः तामस्या त्रय्या, तामसस्य रुद्रस्य सात्त्विक्या गौर्या, सात्त्विकस्य विष्णोः राजस्या श्रिया चेति दांपत्यपरिकल्पनरूपमित्यर्थः। मध्यमं पर्वेति। धात्रा अण्डसृष्टिः। रुद्रेण तद्भेदनम्। तत्र पुनश्च धात्रा अण्डमध्ये प्रधानसृष्टिः। विष्णुना तत्परिपालनरूपमित्यर्थः।
विश्वास-प्रस्तुतिः
भाषया सह संभूय विरिञ्चोऽण्डमजीजनत्।
मदाज्ञया8 बिभेदैतत्स गौर्या सह शंकरः ॥ 16 ॥

अण्डमध्ये प्रदानं यत्कार्यमासीत्तु वेधसः।
तदेतत्पालयामास पद्मया सह केशवः ॥ 17 ॥

तदेतन्मध्यमं पर्व गुणानां परिकीर्तितम्।
तृतीयं पर्व वक्ष्यामि तदिहैकमनाः शृणु ॥ 18 ॥

टिप्पनी 18
तृतीयं पर्वेति। विष्णोर्नाभिसरोरुहात् हिरण्यगर्भस्य त्रय्या सह प्रादुर्भावः। नाभिपद्मं तदुद्भूतं द्वन्द्वं चेति त्रयं समुदितं महदिति कथ्यते। तस्मादहंकारादिक्रमेण प्रपञ्चसृष्टिरूप मित्यर्थः।
विश्वास-प्रस्तुतिः
अण्डमध्ये प्रधानं हि यत्तत्सदसदात्मकम्।
त्रैगुण्यं प्रकृतिर्व्योम स्वभावो योनिरक्षरम् ॥ 19 ॥

तदेतत्सलिलीकृत्य तत्त्वमव्यक्तसंज्ञकम्।
हृषीकेशः स भगवान् पद्मया सह विद्यया ॥ 20 ॥

अप्सु9 संशयनं चक्रे निद्रायोगमुपागतः।
या सा प्रोक्ता महाकाली सा निद्रा तामसी ह्यभूत् ॥ 21 ॥

शयानस्य तदा पद्ममभून्नाभ्यां पुरंदर।
तत्कालमयमाख्यातं पङ्कजं यदपङ्कजम् ॥ 22 ॥

10जलाधिकरणं पद्ममाधारः पुष्करं तथा॥
चक्रं च पुण्डरीकं चेत्येवं नामानि तस्य तु ॥ 23 ॥

शक्रः—
चिदचित्तत्त्वमाख्यातं चेतनश्चित्प्रकीतितः।
अचित् त्रैगुण्यमित्युक्तं कीदृक् कालोऽपरः स्मृतः ॥ 24 ॥

श्रीः—
अचिदंशोऽपरः कालस्रैगुण्यमपरं स्मृतम्।
बलादिकं तु यत्पूर्वं षाड्गुण्ये त्रिकमीरितम् ॥ 25 ॥

टिप्पनी 25
त्रिकमिति। बलैश्वर्यवीर्यरूपमित्यर्थः।
विश्वास-प्रस्तुतिः
तदेतत्कालरूपेण सृष्टौ संपरिवर्तते।
स्वतश्चापरिणामीदं11 त्रैगुण्यं परिणामि तत् ॥ 26 ॥

कालकाल्यात्मकं12 द्वन्द्वमचिदेतत्प्रकीर्तितम्।
सृजन्त्या विविधान् भावान्मम देव्या महाश्रियः ॥ 27 ॥

टिप्पनी 27
कालः क्षणादिः। काल्यं त्रिगुणं तद्विकारजातं च।
विश्वास-प्रस्तुतिः
कालोऽयं करणत्वेन वर्तते मन्मयः सदा।
तस्मात्कालमयात्पद्माद्विष्णुनाभिसमुद्भवात् ॥ 28 ॥

ब्रह्मा वेदमयो जज्ञे 13स त्रय्या सह वीर्यवान्।
हिरण्यगर्भ उक्तो यः14 पूर्वं लक्ष्मीसमुद्भवः ॥ 29 ॥

महाकालीसमुद्भता या सा नारी त्रयी स्मृता।
तदेतन्मिथुनं जज्ञे15 विष्णोर्नाभिसरोरुहात्16 ॥ 30 ॥
विश्वास-प्रस्तुतिः
पद्मं 17पद्मोद्भवद्वन्द्वं तदेतत् त्रितयं सह।
महांस्तामस आक्यातो विकारः 18पूर्वकैर्बुधैः ॥ 31 ॥

टिप्पनी 31
पद्मोद्भवद्वन्द्वं हिरण्यगर्भस्त्रयी च।
विश्वास-प्रस्तुतिः
प्राणो हिरण्यगर्भश्च बुद्धिश्चेति त्रिधा भिदा।
पद्मपुंस्रीसमालम्बान्महत्त्वं तस्य शब्द्यते ॥ 32 ॥

टिप्पनी 32
प्राणः हिरण्यगर्भः बुद्धिरिति महतो भेदाः।
विश्वास-प्रस्तुतिः
गुणः प्राणस्य तु स्पन्दो बुद्धेरद्यवसायता।
धर्मादिकमधर्माद्यं द्वयं पुंसो 19गुणो मतः ॥ 33 ॥

टिप्पनी 33
पुंस इति। हिरण्यगर्भस्येत्यर्थः।
विश्वास-प्रस्तुतिः
धर्मो ज्ञानं च वैराग्यमैश्वर्यं चेति वर्णितः20।
धर्मादिको गुणो यस्मादधर्माद्याः प्रकीर्तिताः ॥ 34 ॥

टिप्पनी 34
यस्मादिति। धर्मादीनां विपर्यासा अधर्मः, अज्ञानम्, अवैराग्यम्, अनैश्वर्यं चेति ज्ञेया इत्यर्तः।
विश्वास-प्रस्तुतिः
महान्तमाविशन्त्येनं प्रेरयामि स्वसृष्टये21।
प्रेर्यमाणात्ततस्तस्मादहंकारश्च जज्ञिवान् ॥ 35 ॥

22पूर्वं यः शंकरः प्रोक्तो महामायासमुद्भवः।
या पत्नी तस्य गौरी सा जज्ञेऽभिमतिरत्र तु ॥ 36 ॥

टिप्पनी 36
अहंकारस्यैवाभिमतिरिति गुणः आख्यान्तरं च।
विश्वास-प्रस्तुतिः
आविश्यामुमहंकारं सृष्टये प्रेरयाम्यहम्।
स बभूव त्रिधा पूर्वं गुणव्यतिकरात्तदा ॥ 37 ॥

तामसस्तत्र भूतादिस्तस्य सर्वमिदं श्रृणु।
भूतादेः शब्दतन्मात्रं तन्मात्राच्छब्दसंभवः ॥ 38 ॥

टिप्पनी 38
तामसाहंकारस्य भूतादिरिति, सात्त्विकाहंकारस्य वैकारिक इति, राजसाहंकारस्य तैजस इति च नामान्तरं बोध्यम्।
विश्वास-प्रस्तुतिः
मत्प्रेरिताच्छब्दमात्रात्स्पर्शमात्रं बभूव ह।
स्पर्शस्तु स्पर्शतन्मात्रात्तन्मात्रात्प्रेरितान्मया ॥ 39 ॥

तदासीद्रूपतन्मात्रं तस्माच्च प्रेरितान्मया।
रूपमाविर्बभूवाद्यं रसमात्रं ततः परम् ॥ 40 ॥

रसमात्रान्मया 23क्षिप्तात्तस्माज्जज्ञे रसस्ततः।
गन्धतन्मात्रमप्यासीत्तस्माच्च प्रेरितान्मया ॥ 41 ॥

शुद्धो गन्धः समुद्भूत इतीयं भौतिकी भिदा।
मात्राणि सूक्ष्मभूतानि स्थूलभूतानि चापरे ॥ 42 ॥

शब्दादयः समाख्याता गुणाः शब्दादयस्तु ये।
स्थूलभूतविसर्गास्ते नान्ये शब्दादयो गुणाः ॥ 43 ॥

शान्तत्वं चैव घोरत्वं मूढत्वं चेति तत् त्रिधा।
सत्त्वाद्युन्मेषरूपाणि तानि सूक्ष्मेषु सन्ति न ॥ 44 ॥

तेन तन्मात्रता तेषां सूक्ष्माणां परिकीर्तिता।
सुखदुःखादिदायित्वात् स्थूलत्वमितरत्र तु ॥ 45 ॥

स्थूलानामेव भूतानां त्रिधावस्था24 प्रकीर्तिता25।
सूक्ष्मास्च पितृजाश्चैव प्रभूता इति भेदतः ॥ 46 ॥

घटाद्या 26विविधा बाह्याः प्रभूता इति शब्द्यते।
शुक्लशोणितसंभूता विशेषाः पितृजाः स्मृताः ॥ 47 ॥

सूक्ष्मास्तु पञ्चभूताः स्युः सूक्ष्मदेहव्यपाश्रयाः।
सर्गो भूतादिजो ह्येवं क्रमशः परिकीर्तितः ॥ 48 ॥

टिप्पनी 48
शब्दतन्मात्रात् शब्दः स्पर्शतन्मात्रं च जातम्। स्पर्शतन्मात्रात् स्पर्शः रूपतन्मात्रं च जातम्। रुपतन्मात्रात् रूपं रसतन्मात्रं च जातम्। रसतन्मात्रात् रसः गन्धतन्मात्रं च जातम्। गन्धतन्मात्रात् गन्धो जात इत्यत्रत्या प्रक्रिया। सांख्यास्तु—भूतादेरेव सर्वेषां तन्मात्राणामुत्पत्तिं वदन्ति। औपनिषदप्रक्रिया तु—भूतादेः शब्दतन्मात्रम्, तस्मादाकाशः, तस्मात् स्पर्शतन्मात्रम्, तस्माद्वायुः; तस्मात् रूपतन्मात्रम्, तस्मादग्निः, तस्मात् रसतन्मात्रम्, तस्मात् जलम्, तस्मात् गन्धतन्मात्रम्, तस्मात् पृथिवी जातेति।
विश्वास-प्रस्तुतिः
अहंकारस्य यावंशौ रजःसत्त्वसमाश्रयौ।
वैकारिक इति प्रोक्तः सात्त्विकोंऽशस्तयोः परः27 ॥ 49 ॥

तैजसः कथितः सद्भिस्तयोः सृष्टिमिमां श्रृणु।
वैकारिकादहंकारादासीच्छ्रोत्रादिधीन्द्रियम् ॥ 50 ॥

कर्मेन्द्रियं च वागादि तैजसात्संप्रवर्तते।
28उभयस्मात्ततश्चासीद् बुद्धिकर्मेन्द्रियं मनः ॥ 51 ॥

टिप्पनी 51
वैकारिकात् ज्ञानेन्द्रियाणां, तैजसात् कर्मेन्द्रियाणां चोत्पत्तिरिति भेदपरिकल्पनमत्र। औपनिषदास्तु—सर्वेषामपीन्द्रियाणां वैकारिकादुत्पत्तिमाचक्षते। तथा मनस उभयेन्द्रियत्वं सांख्यमतरीत्या। औपनिषदमते तु ज्ञानेन्द्रियत्वमेव.
विश्वास-प्रस्तुतिः
श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्।
बुद्धीन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ॥ 52 ॥

वाक् च हस्तौ च पादौ च तथोपस्थं च पायु च।
कर्मेन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ॥ 53 ॥

या सा विज्ञानशक्तिर्मे पारंपर्यक्रमागता।
बुद्धीन्द्रियाण्यधिष्ठाय विषयेषु प्रवर्तते ॥ 54 ॥

क्रियाशक्तिस्च या सा मे पारंपर्यक्रमागता।
कर्मेन्द्रियाण्यधिष्ठाय कर्तव्येषु प्रवर्तते ॥ 55 ॥

श्रोत्रस्य विषयः शब्दः श्रवणं च क्रिया मता।
त्वचश्च विष्यः स्पर्शः स्पर्शनं च क्रिया मता ॥ 56 ॥

चक्षुषो विषयो रूपं दर्शनं च क्रिया मता।
जिह्वाया विषयो रस्यो रसनं च क्रिया मता ॥ 57 ॥

घ्राणस्य विषयो गन्ध आघ्राणं च क्रिया मता।
वृत्तयो विषयेष्वस्य श्रोत्रादेः श्रवणादयः ॥ 58 ॥

29आलोचनानि कथ्यन्ते धर्मिमात्रग्रहश्च सः।
दिक् च विद्युत्तथा सूर्यः सोमो वसुमती तथा ॥ 59 ॥

टिप्पनी 59
आलोचनं नाम शब्दादिधर्माणां स्फुटग्रहणमन्तरा वस्तुमात्रग्रहणम्। तदप्यस्फुटमेव। आहुश्च—“अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम्। बालमूकादिविज्ञानसदृशं मुग्धवस्तुकम्॥” इति।
विश्वास-प्रस्तुतिः
अदिदैवमिति प्रोक्तं क्रमाच्छ्रोत्रादिपञ्चके।
30अधिभूतमिति प्रोक्तः शब्दाद्यो विषयः क्रमात् ॥ 60 ॥

श्रोत्रादिपञ्चकं त्वेतदध्यात्मं परिकीर्तितम्।
31श्रोत्रादेः सात्त्विकात्सृष्टिर्वियदादिव्यपेक्षया ॥ 61 ॥

तेन भौतिकमित्युक्तं क्रमाच्छ्रोत्रादिपञ्चकम्।
वाचस्तु विषयः शब्दो वचनं च क्रिया मता ॥ 62 ॥

32हस्तेन्द्रियस्य चादेयमादानं च क्रिया मता।
पादेन्द्रियस्य गन्तव्यं गमनं च क्रिया मता ॥ 63 ॥

उपस्थस्य तदानन्द्यमानन्दश्च क्रिया मता।
विसृज्यं विषयः पायोर्विसर्गश्च क्रिया मता ॥ 64 ॥

हस्तादिकं चतुष्कं यत्तत्पञ्चविषयात्मकम्।
अग्निरिन्द्रश्च विष्णुश्च 33तथैवाद्यः प्रजापतिः ॥ 65 ॥

मित्रश्चेति क्रमाज्ज्ञेया अदिदेवा विचक्षणैः।
शब्दः पञ्चात्मकं चैव वागादेर्विषयो हि यः ॥ 66 ॥

सोऽधिभूत इति प्रोक्तो वागाद्यध्यात्ममुच्यते।
मनस्तु सहकार्यस्मिन्नुभयत्रापि पञ्चके ॥ 67 ॥

34ज्ञानेन्द्रियगणैश्चैतद्विकल्पं तनुते मनः।
विकल्पो विविधा क्लृप्तिस्तच्च प्रोक्तं विशेषणम् ॥ 68 ॥

धर्मेण सह संबन्धो धर्मिणश्च स उच्यते।
विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः ॥ 69 ॥

दण्डीति द्रव्यसंयोगाच्छुक्लो गुणसमन्वयात्।
गच्छतीति क्रियायोगात्पुमान् सामान्यसंस्थितेः35 ॥ 70 ॥

36डित्थः शब्दसमायोगादितीयं पञ्चधा स्थितिः।
कर्मेन्द्रियगणैश्चैतत्संकल्पं तनुते मनः ॥ 71 ॥

औदासीन्यच्युतिर्या सा संकल्पोद्योगनामिका।
अहंकारेण चैतस्मिन्रुभयत्र गणे स्थितिः ॥ 72 ॥

ज्ञानेन्द्रियगणे सोऽयमभिमानेन वर्तते।
देशकालान्वयो ज्ञातुरभिमानः प्रकीर्तितः ॥ 73 ॥

ममाद्य पुरतो भातीत्येवं वस्तु प्रतीयते।
कर्मेन्द्रियगणे त्वेष संरम्भेण प्रवर्तते ॥ 74 ॥

संकल्पपूर्वरूपस्तु37 संरम्भः38 परिकीर्तितः।
बुद्धिरध्यवसायेन ज्ञानेन्द्रियगणे स्थिता ॥ 75 ॥
विश्वास-प्रस्तुतिः
बुद्धिरध्यवसायार्थावधारणमुदीर्यते।
अवधारणमर्थानां निश्चयः परिकीर्तितः ॥ 76 ॥

कर्मेन्द्रियगणे बुद्धिः प्रयत्नेन प्रवर्तते।
त्रयोदशविधं ज्ञेयं39 तदेतत्करणं बुधैः ॥ 77 ॥

बाह्यं दशविधं ज्ञेयं त्रिधान्तःकरणं स्मृतम्।
त्रयोविंशतिरेते तु 40विकाराः परिकीर्तिताः ॥ 78 ॥

करणानि दश त्रीणि सूक्ष्मांशाः स्थूलसंभवाः।
एतत्सृक्ष्मशरीरं तु विराजः परिकीर्तितम् ॥ 79 ॥

41व्यष्टयः सूक्ष्मदेहाश्च42 प्रतिजीवं व्यवस्थिताः॥
अपवर्गे निवर्तन्ते जीवेभ्यस्ते स्वयोनिजाः ॥ 80 ॥

अन्योन्यानुग्रहेणैते त्रयोविंशतिरुत्थिताः43।
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ 81 ॥

तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्44।
तस्मिन् प्रजापतिर्जज्ञे विराड् देवश्चतुर्मुखः ॥ 82 ॥

टिप्पनी 82
अत्र पूर्वोक्त एव सृष्टिक्रमो मन्वादिसृष्ट्या सह संकलय्योच्यते।
विश्वास-प्रस्तुतिः
विराजश्च मनुर्जज्ञे मनोस्ते मानवाः स्मृताः।
मरीचिप्रमुखास्तेभ्यो जगदेतच्चराचरम् ॥ 83 ॥

प्रकारोऽयं ममोद्यत्या लेशतस्ते प्रदर्शितः।
45स्वतः शुद्धापि चिच्छक्तिः संविद्धानाद्यविद्यया ॥ 84 ॥

दुःखं जन्मजराद्युत्थं तत्रस्था प्रतिपद्यते।
शुद्धविज्ञानसंबन्धाच्छुद्धकर्मसमन्वयात्।
यदा धुनोत्यविद्यां तां तदा 46सानन्दमश्नुते ॥ 85 ॥

इति 47श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 48प्राकृतसृष्टिप्रकाशो नाम पञ्चमोऽध्यायः
इति पञ्चमोऽध्यायः