००४

विश्वास-प्रस्तुतिः

चतुर्थोऽध्यायः - 4
श्रीः1
निर्मलाकाशकल्पाहं निःसमानन्दचिन्मयी।
अहं नारायणी नाम भावोऽहं तादृशो2 हरेः ॥ 1 ॥

मूलम्

चतुर्थोऽध्यायः - 4
श्रीः1
निर्मलाकाशकल्पाहं निःसमानन्दचिन्मयी।
अहं नारायणी नाम भावोऽहं तादृशो2 हरेः ॥ 1 ॥

विश्वास-प्रस्तुतिः

न शान्ता नोदिता नापि मध्यमाहं चिदात्मिका।
तादृशस्य हरेर्विष्णोः स्वरूपमशिलात्मनः ॥ 2 ॥

मूलम्

न शान्ता नोदिता नापि मध्यमाहं चिदात्मिका।
तादृशस्य हरेर्विष्णोः स्वरूपमशिलात्मनः ॥ 2 ॥

विश्वास-प्रस्तुतिः

3तस्याचित्रैकरूपस्य विकल्पपदवीजुषः।
अचित्राहं तदाकारा सर्वतः समतां गता ॥ 3 ॥

मूलम्

3तस्याचित्रैकरूपस्य विकल्पपदवीजुषः।
अचित्राहं तदाकारा सर्वतः समतां गता ॥ 3 ॥

विश्वास-प्रस्तुतिः

तयोर्नौ संविदात्मैव क्वचिदुन्मेष उत्थितः।
कोटिकोटिसहस्रौघकोटिकोटितमी कला ॥ 4 ॥

मूलम्

तयोर्नौ संविदात्मैव क्वचिदुन्मेष उत्थितः।
कोटिकोटिसहस्रौघकोटिकोटितमी कला ॥ 4 ॥

विश्वास-प्रस्तुतिः

सिसृक्षा नाम तद्रूपा सृष्टिमिष्टां करोम्यहम्।
एकांशेन विशुद्धाध्वरूपा वर्तेऽहमञ्जसा ॥ 5 ॥

मूलम्

सिसृक्षा नाम तद्रूपा सृष्टिमिष्टां करोम्यहम्।
एकांशेन विशुद्धाध्वरूपा वर्तेऽहमञ्जसा ॥ 5 ॥

विश्वास-प्रस्तुतिः

वज्ररत्नप्रभा यद्वत्परिस्फुरति सर्वतः।
एवं शुद्धमयो मार्गो मम स्फुरति सर्वतः4 ॥ 6 ॥

मूलम्

वज्ररत्नप्रभा यद्वत्परिस्फुरति सर्वतः।
एवं शुद्धमयो मार्गो मम स्फुरति सर्वतः4 ॥ 6 ॥

विश्वास-प्रस्तुतिः

5अमेघाकाशसंकाशान्निष्पन्दोदधिरूपतः।
मम ज्ञानघनाद्रूपाच्छुद्धा6 सृष्टिः प्रवर्तते ॥ 7 ॥

मूलम्

5अमेघाकाशसंकाशान्निष्पन्दोदधिरूपतः।
मम ज्ञानघनाद्रूपाच्छुद्धा6 सृष्टिः प्रवर्तते ॥ 7 ॥

विश्वास-प्रस्तुतिः

7निर्व्यापारं सदानन्दं शुद्धं सर्वात्मकं परम्।
व्यज्यते प्रथमं ज्ञानं स संकर्षण उच्यते ॥ 8 ॥

मूलम्

7निर्व्यापारं सदानन्दं शुद्धं सर्वात्मकं परम्।
व्यज्यते प्रथमं ज्ञानं स संकर्षण उच्यते ॥ 8 ॥

विश्वास-प्रस्तुतिः

हेत्वन्तरानपेक्षं यत् स्वातन्त्र्यं विश्वनिर्मितौ।
तदैश्वर्यं तदासीन्मे प्रद्युम्रः पुरुषोत्तमः ॥ 9 ॥

मूलम्

हेत्वन्तरानपेक्षं यत् स्वातन्त्र्यं विश्वनिर्मितौ।
तदैश्वर्यं तदासीन्मे प्रद्युम्रः पुरुषोत्तमः ॥ 9 ॥

विश्वास-प्रस्तुतिः

निलीनचित्ररूपा या सर्वत्र समवस्थिता।
अव्याहतासीच्छक्तिर्मे सोऽनिरुद्धः प्रकीर्तितः ॥ 10 ॥

मूलम्

निलीनचित्ररूपा या सर्वत्र समवस्थिता।
अव्याहतासीच्छक्तिर्मे सोऽनिरुद्धः प्रकीर्तितः ॥ 10 ॥

विश्वास-प्रस्तुतिः

सृष्टिस्थित्यन्तकर्तारो विज्ञानैश्वर्यशक्तयः।
मम रूपममी देवाः पुरुषाः पुष्करेक्षणाः ॥ 11 ॥

मूलम्

सृष्टिस्थित्यन्तकर्तारो विज्ञानैश्वर्यशक्तयः।
मम रूपममी देवाः पुरुषाः पुष्करेक्षणाः ॥ 11 ॥

विश्वास-प्रस्तुतिः

अतरह्गार्णवाभासमस्ताम्भोदाम्बरोपमम्8
रूपं सिसृक्षमाणाया वासुदेवो ममादिमम्9 ॥ 12 ॥

मूलम्

अतरह्गार्णवाभासमस्ताम्भोदाम्बरोपमम्8
रूपं सिसृक्षमाणाया वासुदेवो ममादिमम्9 ॥ 12 ॥

विश्वास-प्रस्तुतिः

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः।
उन्मिषन्ति यदा तुल्यं वासुदेवस्तदोच्यते ॥ 13 ॥

मूलम्

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः।
उन्मिषन्ति यदा तुल्यं वासुदेवस्तदोच्यते ॥ 13 ॥

विश्वास-प्रस्तुतिः

तेषां ज्ञानबलोन्मेषे10 संकर्षण उदीर्यते।
बिभर्ति सकलं विश्वं तिलकालकवत्स्वतः ॥ 14 ॥

मूलम्

तेषां ज्ञानबलोन्मेषे10 संकर्षण उदीर्यते।
बिभर्ति सकलं विश्वं तिलकालकवत्स्वतः ॥ 14 ॥

विश्वास-प्रस्तुतिः

बलमित्येव तन्नाम ततो वेदान्तशब्दितम्।
वीर्यैश्वर्यसमुन्मेषे11 प्रद्युम्नः परिकीर्तितः ॥ 15 ॥

मूलम्

बलमित्येव तन्नाम ततो वेदान्तशब्दितम्।
वीर्यैश्वर्यसमुन्मेषे11 प्रद्युम्नः परिकीर्तितः ॥ 15 ॥

विश्वास-प्रस्तुतिः

विकारविरहो वीर्यमविकारी ततश्च सः।
शक्तितेजःसमुन्मेषे ह्यनिरुद्धः स ईरितः12 ॥ 16 ॥

मूलम्

विकारविरहो वीर्यमविकारी ततश्च सः।
शक्तितेजःसमुन्मेषे ह्यनिरुद्धः स ईरितः12 ॥ 16 ॥

विश्वास-प्रस्तुतिः

तेजस्त्वन्यानपेक्षत्वमनिरुद्धत्वमप्युत13
शास्त्रं 14संकर्षणादेव भाति निर्घातशब्दवत् ॥ 17 ॥

मूलम्

तेजस्त्वन्यानपेक्षत्वमनिरुद्धत्वमप्युत13
शास्त्रं 14संकर्षणादेव भाति निर्घातशब्दवत् ॥ 17 ॥

विश्वास-प्रस्तुतिः

तत्क्रिया सकला देवात्प्रद्युम्नात् संभवेद्यतः15
क्रियाफलमशेषं तदनिरुद्धात्प्रचक्षते ॥ 18 ॥

मूलम्

तत्क्रिया सकला देवात्प्रद्युम्नात् संभवेद्यतः15
क्रियाफलमशेषं तदनिरुद्धात्प्रचक्षते ॥ 18 ॥

विश्वास-प्रस्तुतिः

सृजते ह्यनिरुद्धोऽत्र प्रद्युम्नः पाति तत्कृतम्।
सृष्टं तद्रक्षितं चात्ति स च संकर्षणः प्रभुः ॥ 19 ॥

मूलम्

सृजते ह्यनिरुद्धोऽत्र प्रद्युम्नः पाति तत्कृतम्।
सृष्टं तद्रक्षितं चात्ति स च संकर्षणः प्रभुः ॥ 19 ॥

टिप्पनी 19

अत्रानिरुद्धस्य सृष्टिकर्तृत्वं प्रद्युम्नस्य पालनकर्तृत्वं चोच्यते। पूर्वं तु द्वितीयाध्याये अनिरुद्धस्य पालनकर्तृत्वं प्रद्युम्नस्य सृष्टिकर्तृत्वं चोक्तम्। तत्तु कल्पान्तरेणेति ध्येयम्।

विश्वास-प्रस्तुतिः

सृष्टिस्थित्यन्तकार्येण शास्त्रधर्मफलेन च।
अनुग्रहमिमे देवाः सदा विदधते स्वयम् ॥ 20 ॥

मूलम्

सृष्टिस्थित्यन्तकार्येण शास्त्रधर्मफलेन च।
अनुग्रहमिमे देवाः सदा विदधते स्वयम् ॥ 20 ॥

विश्वास-प्रस्तुतिः

यद्यप्येकगुणोन्मेषस्तथाप्येते16 हि षड्‌गुणाः।
अन्यूनानधिकाः सर्वे वासुदेवात्सनातनात्17 ॥ 21 ॥

मूलम्

यद्यप्येकगुणोन्मेषस्तथाप्येते16 हि षड्‌गुणाः।
अन्यूनानधिकाः सर्वे वासुदेवात्सनातनात्17 ॥ 21 ॥

विश्वास-प्रस्तुतिः

अङ्गप्रत्यङ्गबुद्ध्यादिर्नैषां भूतमयः स्मृतः।
षाड्‌गुण्यमय एवैषां दिव्यो देहः सनातनः ॥ 22 ॥

मूलम्

अङ्गप्रत्यङ्गबुद्ध्यादिर्नैषां भूतमयः स्मृतः।
षाड्‌गुण्यमय एवैषां दिव्यो देहः सनातनः ॥ 22 ॥

टिप्पनी 22

बुद्धिरत्रान्तः करणम्। `नैषां भूतमयः’ इति वचनेन “न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः” इति शान्तिपर्ववचनं स्मारितम्।

विश्वास-प्रस्तुतिः

नैवैषां वास्तवो भेदश्चिन्तनीयो दिवस्पते18
तत्तत्कार्यप्रसिद्ध्यर्थं कृतोऽसौ कल्पनावशात् ॥ 23 ॥

मूलम्

नैवैषां वास्तवो भेदश्चिन्तनीयो दिवस्पते18
तत्तत्कार्यप्रसिद्ध्यर्थं कृतोऽसौ कल्पनावशात् ॥ 23 ॥

विश्वास-प्रस्तुतिः

ज्ञानान्नान्यत्तथैश्वर्यं तस्मान्नान्या च शक्तिका।
मयैताः कल्पिताः शक्र 19ध्यानविश्रामभूमयः ॥ 24 ॥

मूलम्

ज्ञानान्नान्यत्तथैश्वर्यं तस्मान्नान्या च शक्तिका।
मयैताः कल्पिताः शक्र 19ध्यानविश्रामभूमयः ॥ 24 ॥

टिप्पनी 24

ध्यानेति। उपासकानां यथारुच्यालम्बनदानाय तत्र भेदपरिकल्पनेत्यर्थः।

विश्वास-प्रस्तुतिः

वस्तु पूर्वं ततो भावः पश्चादर्थस्ततः क्रिया।
चातूरूप्यमिदं ज्ञेयं सर्वभावेषु सर्वदा ॥ 25 ॥

मूलम्

वस्तु पूर्वं ततो भावः पश्चादर्थस्ततः क्रिया।
चातूरूप्यमिदं ज्ञेयं सर्वभावेषु सर्वदा ॥ 25 ॥

विश्वास-प्रस्तुतिः

वासुदेवादिरूपेण चतुर्धात्मानमात्मना।
संविभज्यावतिष्ठेऽहं 20सर्वमावृत्य संविदा ॥ 26 ॥

मूलम्

वासुदेवादिरूपेण चतुर्धात्मानमात्मना।
संविभज्यावतिष्ठेऽहं 20सर्वमावृत्य संविदा ॥ 26 ॥

विश्वास-प्रस्तुतिः

वासुदेवादयो देवाः प्रत्येकं तु त्रिधा त्रिधा।
केशवादिस्वरूपेण विभजन्ति स्वकं वपुः ॥ 27 ॥

मूलम्

वासुदेवादयो देवाः प्रत्येकं तु त्रिधा त्रिधा।
केशवादिस्वरूपेण विभजन्ति स्वकं वपुः ॥ 27 ॥

टिप्पनी 27

एवं च केशवादिदामोदरान्ता द्वादशापि व्यूहान्तरभूता ध्येयाः।

विश्वास-प्रस्तुतिः

एतद्व्यूहान्तरं नाम पञ्चरात्राभिशब्दितम्।
21कार्यस्य नयने देवा द्वादशैते व्यवस्थिताः ॥ 28 ॥

मूलम्

एतद्व्यूहान्तरं नाम पञ्चरात्राभिशब्दितम्।
21कार्यस्य नयने देवा द्वादशैते व्यवस्थिताः ॥ 28 ॥

विश्वास-प्रस्तुतिः

विभोरप्यनिरुद्धस्य हिताय जगतां हरेः।
प्रसरो विभवो नाम पद्मनाभादयः स्मृताः ॥ 29 ॥

मूलम्

विभोरप्यनिरुद्धस्य हिताय जगतां हरेः।
प्रसरो विभवो नाम पद्मनाभादयः स्मृताः ॥ 29 ॥

विश्वास-प्रस्तुतिः

आविश्याविश्य कुरुते यत्र देवनरादिकम्।
जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् ॥ 30 ॥

मूलम्

आविश्याविश्य कुरुते यत्र देवनरादिकम्।
जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् ॥ 30 ॥

टिप्पनी 30

`देवनरादिकम्’ इत्यनेन दत्तात्रेयबादरायणादीनामपि विभवान्तरत्वं ध्येयम्।

विश्वास-प्रस्तुतिः

देवर्षिपितृसिद्धाद्यैः स्वयं वा जगतां हिते।
निर्मितं भगवद्रूपमर्चा सा शुद्धचिन्मयी ॥ 31 ॥

मूलम्

देवर्षिपितृसिद्धाद्यैः स्वयं वा जगतां हिते।
निर्मितं भगवद्रूपमर्चा सा शुद्धचिन्मयी ॥ 31 ॥

टिप्पनी 31

स्वयमित्यनेन स्वयंव्यक्तक्षेत्रस्थार्चा गृह्यन्ते।

विश्वास-प्रस्तुतिः

इत्येष लेशतो मार्गः शुद्धस्ते संप्रदर्शितः।
त्रैगुण्यमपरं मार्गं गदन्त्या मे निशामय ॥ 32 ॥

मूलम्

इत्येष लेशतो मार्गः शुद्धस्ते संप्रदर्शितः।
त्रैगुण्यमपरं मार्गं गदन्त्या मे निशामय ॥ 32 ॥

विश्वास-प्रस्तुतिः

यत्ते ज्ञानं पुरा प्रोक्तं तत्सत्त्वेन विवर्तते।
रजस्तया तदैश्वर्यं शक्तिश्चापि तमस्तया ॥ 33 ॥

मूलम्

यत्ते ज्ञानं पुरा प्रोक्तं तत्सत्त्वेन विवर्तते।
रजस्तया तदैश्वर्यं शक्तिश्चापि तमस्तया ॥ 33 ॥

विश्वास-प्रस्तुतिः

प्राधान्येन रजस्तत्र सृष्टौ संपरिवर्तते।
अभितः सत्त्वतमसी गुणौ द्वौ तस्य तिष्ठतः ॥ 34 ॥

मूलम्

प्राधान्येन रजस्तत्र सृष्टौ संपरिवर्तते।
अभितः सत्त्वतमसी गुणौ द्वौ तस्य तिष्ठतः ॥ 34 ॥

विश्वास-प्रस्तुतिः

या सा पूर्वं मया प्रोक्ता कोटिकोटितमी कला।
तस्याः कोटितमेनाहमंशेन विसृजे जगत् ॥ 35 ॥

मूलम्

या सा पूर्वं मया प्रोक्ता कोटिकोटितमी कला।
तस्याः कोटितमेनाहमंशेन विसृजे जगत् ॥ 35 ॥

विश्वास-प्रस्तुतिः

सर्वस्याद्या महालक्ष्मीस्रिगुणाहं महेश्वरी।
रजोरूपमधिष्ठाय सृष्टिमिष्टां करोम्यहम् ॥ 36 ॥

मूलम्

सर्वस्याद्या महालक्ष्मीस्रिगुणाहं महेश्वरी।
रजोरूपमधिष्ठाय सृष्टिमिष्टां करोम्यहम् ॥ 36 ॥

टिप्पनी 36

अनेन त्रिगुणजगत्सृष्टिकर्तृत्वदशायां महालक्ष्मीसमाख्येति ज्ञायते।

विश्वास-प्रस्तुतिः

अग्नीषोममयौ भावौ दिव्यौ स्रीपुंसलक्षणौ।
बिभ्रती चारुसर्वाङ्गी लोकानां हितकाम्यया ॥ 37 ॥

मूलम्

अग्नीषोममयौ भावौ दिव्यौ स्रीपुंसलक्षणौ।
बिभ्रती चारुसर्वाङ्गी लोकानां हितकाम्यया ॥ 37 ॥

विश्वास-प्रस्तुतिः

चतुर्भुजा विशालाक्षी तप्तकाञ्चनसंनिभा।
मातुलङ्गं गदां खेटं सुधापात्रं च बिभ्रती ॥ 38 ॥

मूलम्

चतुर्भुजा विशालाक्षी तप्तकाञ्चनसंनिभा।
मातुलङ्गं गदां खेटं सुधापात्रं च बिभ्रती ॥ 38 ॥

विश्वास-प्रस्तुतिः

महालक्ष्मीः समाख्याता साहं सर्वाङ्गसुन्दरी।
महाश्रीः सा महालक्ष्मीश्चण्डा चण्डी च चण्डिका ॥ 39 ॥

मूलम्

महालक्ष्मीः समाख्याता साहं सर्वाङ्गसुन्दरी।
महाश्रीः सा महालक्ष्मीश्चण्डा चण्डी च चण्डिका ॥ 39 ॥

विश्वास-प्रस्तुतिः

भद्रकाली तथा भद्रा काली दुर्गा महेश्वरी।
त्रिगुणा भगवत्पत्नी तथा भगवती परा ॥ 40 ॥

मूलम्

भद्रकाली तथा भद्रा काली दुर्गा महेश्वरी।
त्रिगुणा भगवत्पत्नी तथा भगवती परा ॥ 40 ॥

विश्वास-प्रस्तुतिः

एताः संज्ञास्तथा चान्यास्तत्र मे बहुधा स्मृताः।
विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः ॥ 41 ॥

मूलम्

एताः संज्ञास्तथा चान्यास्तत्र मे बहुधा स्मृताः।
विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः ॥ 41 ॥

विश्वास-प्रस्तुतिः

लक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते।
22महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता ॥ 42 ॥

मूलम्

लक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते।
22महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता ॥ 42 ॥

विश्वास-प्रस्तुतिः

महद्भिः श्रयणीयत्वान्महाश्रीरिति 23गद्यते।
चण्डस्य दयिता चण्डी चण्डत्वाच्चण्डिका मता ॥ 43 ॥

मूलम्

महद्भिः श्रयणीयत्वान्महाश्रीरिति 23गद्यते।
चण्डस्य दयिता चण्डी चण्डत्वाच्चण्डिका मता ॥ 43 ॥

विश्वास-प्रस्तुतिः

कल्याणरूपा भद्रास्मि काली च कलनात्सताम्।
द्विषतां कालरूपत्वादपि काली प्रकीर्तिता ॥ 44 ॥

मूलम्

कल्याणरूपा भद्रास्मि काली च कलनात्सताम्।
द्विषतां कालरूपत्वादपि काली प्रकीर्तिता ॥ 44 ॥

विश्वास-प्रस्तुतिः

सुहृदां द्विषतां चैव युगपत्सदसद्विधेः।
भद्रकाली समाख्याता मायास्चर्यगुणात्मिका ॥ 45 ॥

मूलम्

सुहृदां द्विषतां चैव युगपत्सदसद्विधेः।
भद्रकाली समाख्याता मायास्चर्यगुणात्मिका ॥ 45 ॥

टिप्पनी 45

मायाश्चर्येति। अनेनाश्चर्यावहत्वं मायाशब्दार्थ इत्युक्तं भवति। अनेन मायाशब्दस्य मिथ्यार्थकल्वकल्पनं वार्यते।

विश्वास-प्रस्तुतिः

महत्त्वाच्च महामाया मोहनान्मोहिनी मता।
दुर्गा च दुर्गमत्वेन भक्तरक्षाविधेरपि ॥ 46 ॥

मूलम्

महत्त्वाच्च महामाया मोहनान्मोहिनी मता।
दुर्गा च दुर्गमत्वेन भक्तरक्षाविधेरपि ॥ 46 ॥

विश्वास-प्रस्तुतिः

योजनाच्चैव योगाहं योगमाया च कीर्तिता।
मायायोगेति विज्ञेया ज्ञानयोजनतो नृणाम् ॥ 47 ॥

मूलम्

योजनाच्चैव योगाहं योगमाया च कीर्तिता।
मायायोगेति विज्ञेया ज्ञानयोजनतो नृणाम् ॥ 47 ॥

टिप्पनी 47

ज्ञानयोजनत इति। अनेन “माया वयुनं ज्ञानम्” इति यास्कवचनात् मायाशब्दस्य ज्ञानार्थकत्वमुक्तं भवति। “संभवाम्यात्ममायया” इत्यत्र आत्मसंकल्पेनेत्यर्थवर्णनमप्येतन्मूलकमेव।

विश्वास-प्रस्तुतिः

पूर्णषाड्‌गुण्यरूपत्वात्साहं भगवती स्मृता।
भगवद्यज्ञसंयोगात्पत्नी भगवतोऽस्म्यहम् ॥ 48 ॥

मूलम्

पूर्णषाड्‌गुण्यरूपत्वात्साहं भगवती स्मृता।
भगवद्यज्ञसंयोगात्पत्नी भगवतोऽस्म्यहम् ॥ 48 ॥

टिप्पनी 48

यज्ञसंयोगादिति। “पत्युर्नो यज्ञसंयोगे” इत्यनुसासनसिद्धं रूपम्। भगवद्यज्ञस्च आश्रितजनरक्षणरूपो ज्ञेयः। तत्रास्याः संयोगः पुरुषकारत्वादिना।

विश्वास-प्रस्तुतिः

विशालत्वात्स्मृता व्योम पूरणाच्च पुरी स्मृता24
परावरस्वरूपत्वात् स्मृता चाहं परावरा ॥ 49 ॥

मूलम्

विशालत्वात्स्मृता व्योम पूरणाच्च पुरी स्मृता24
परावरस्वरूपत्वात् स्मृता चाहं परावरा ॥ 49 ॥

विश्वास-प्रस्तुतिः

शकनाच्छक्तिरुक्ताहं राज्ञ्यहं 25रञ्जनात् सदा।
सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता ॥ 50 ॥

मूलम्

शकनाच्छक्तिरुक्ताहं राज्ञ्यहं 25रञ्जनात् सदा।
सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता ॥ 50 ॥

विश्वास-प्रस्तुतिः

मत्तः प्रक्रियते विश्वं प्रकृतिः सास्मि कीर्तिता।
श्रयन्ती श्रयणीयास्मि श्रृणामि दुरितं सताम् ॥ 51 ॥

मूलम्

मत्तः प्रक्रियते विश्वं प्रकृतिः सास्मि कीर्तिता।
श्रयन्ती श्रयणीयास्मि श्रृणामि दुरितं सताम् ॥ 51 ॥

टिप्पनी 51

“श्रि श्रयणे” “शॄ हिंसायाम्” इति च धातुः।

विश्वास-प्रस्तुतिः

शृणोमि करुणां वाचं शृणामि च गुणैर्जगत्।
26(शयेऽन्तः) सर्वभूतानां रमेऽहं पुण्यकर्मणाम् ॥ 52 ॥

मूलम्

शृणोमि करुणां वाचं शृणामि च गुणैर्जगत्।
26(शयेऽन्तः) सर्वभूतानां रमेऽहं पुण्यकर्मणाम् ॥ 52 ॥

टिप्पनी 52

“श्रु श्रवणे” “शॄ प्रीणने” “शी स्वप्ने” “रम्‌ क्रीडायाम्” इति धातवो विवक्षिताः। श्रीनाम्नि शकारविवरणम्—शयेऽन्तरिति। रेफविवरणम्—रमेऽहमिति।

विश्वास-प्रस्तुतिः

ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम्।
एतान्मयि गुणान् दृष्ट्वा वेदवेदान्तपारगाः ॥ 53 ॥

मूलम्

ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम्।
एतान्मयि गुणान् दृष्ट्वा वेदवेदान्तपारगाः ॥ 53 ॥

टिप्पनी 53

ईकारविवरणम्—ईडितेति। “ईड स्तुतौ” इति धातुः। विष्णोः शरीरं रूपमित्यर्थः।

विश्वास-प्रस्तुतिः

गुणयोगविधानज्ञाः श्रियं मां संप्रचक्षते।
साहमेवंविधा नित्या सर्वाकारा सनातनी ॥ 54 ॥

मूलम्

गुणयोगविधानज्ञाः श्रियं मां संप्रचक्षते।
साहमेवंविधा नित्या सर्वाकारा सनातनी ॥ 54 ॥

विश्वास-प्रस्तुतिः

गुणत्रयमधिष्ठात्री त्रिगुणा परिकीर्तिता।
27गुणवैषम्यसर्गाय प्रवृत्ताहं सिसृक्षया ॥ 55 ॥

मूलम्

गुणत्रयमधिष्ठात्री त्रिगुणा परिकीर्तिता।
27गुणवैषम्यसर्गाय प्रवृत्ताहं सिसृक्षया ॥ 55 ॥

विश्वास-प्रस्तुतिः

तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा।
निरालोकमिमं लोकं पूरयामि स्वतेजसा ॥ 56 ॥

मूलम्

तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा।
निरालोकमिमं लोकं पूरयामि स्वतेजसा ॥ 56 ॥

विश्वास-प्रस्तुतिः

शून्यं तदखिलं लोकं स्वेन पूरयितुं पुरा।
भरामि त्वपरं रूपं तमसा केवलेन तु ॥ 57 ॥

मूलम्

शून्यं तदखिलं लोकं स्वेन पूरयितुं पुरा।
भरामि त्वपरं रूपं तमसा केवलेन तु ॥ 57 ॥

विश्वास-प्रस्तुतिः

सा भिन्नाञ्जनसंकाशा 28दंष्ट्राञ्चितवरानना।
विशाललोचना नारी बभूव तनुमध्यमा ॥ 58 ॥

मूलम्

सा भिन्नाञ्जनसंकाशा 28दंष्ट्राञ्चितवरानना।
विशाललोचना नारी बभूव तनुमध्यमा ॥ 58 ॥

विश्वास-प्रस्तुतिः

खड्‌गपात्रशिरःखेटैरलंकृतमहाभुजा।
कबन्धहारा शिरसि बिभ्राणाहिशिरःस्रजम् ॥ 59 ॥

मूलम्

खड्‌गपात्रशिरःखेटैरलंकृतमहाभुजा।
कबन्धहारा शिरसि बिभ्राणाहिशिरःस्रजम् ॥ 59 ॥

विश्वास-प्रस्तुतिः

सा मां प्रोवाच संभूता तामसी प्रमदोत्तमा।
29नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ 60 ॥

मूलम्

सा मां प्रोवाच संभूता तामसी प्रमदोत्तमा।
29नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ 60 ॥

विश्वास-प्रस्तुतिः

श्रीः30
तामब्रवं वरारोहां तामसीं प्रमदोत्तमाम्।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ 61 ॥

मूलम्

श्रीः30
तामब्रवं वरारोहां तामसीं प्रमदोत्तमाम्।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ 61 ॥

विश्वास-प्रस्तुतिः

महाकाली महामाया महामारी क्षुधा तृषा31
निद्रा कृष्णा32 चैकवीरा कालरात्रिर्दुरत्यया ॥ 62 ॥

मूलम्

महाकाली महामाया महामारी क्षुधा तृषा31
निद्रा कृष्णा32 चैकवीरा कालरात्रिर्दुरत्यया ॥ 62 ॥

विश्वास-प्रस्तुतिः

एतानि तव नामानि प्रतिपाद्यानि नामभिः।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ 63 ॥

मूलम्

एतानि तव नामानि प्रतिपाद्यानि नामभिः।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ 63 ॥

विश्वास-प्रस्तुतिः

अपर्याप्तमिमं सर्गं मन्यमानाहमादिमम्।
सत्त्वोन्मेषमयं रूपं भरामि स्मेन्दुसंनिभम् ॥ 64 ॥

मूलम्

अपर्याप्तमिमं सर्गं मन्यमानाहमादिमम्।
सत्त्वोन्मेषमयं रूपं भरामि स्मेन्दुसंनिभम् ॥ 64 ॥

विश्वास-प्रस्तुतिः

अक्षमालाङ्‌कुशधरा वीणापुस्तकधारिणी।
सा बभूव वरा नारी नाम कर्म तदा ह्यदाम् ॥ 65 ॥

मूलम्

अक्षमालाङ्‌कुशधरा वीणापुस्तकधारिणी।
सा बभूव वरा नारी नाम कर्म तदा ह्यदाम् ॥ 65 ॥

विश्वास-प्रस्तुतिः

महाविद्या महावाणी भारती वाक् सरस्वती।
आर्या ब्राह्नी महाधेनुर्वेदगर्भा च धीश्च गीः33 ॥ 66 ॥

मूलम्

महाविद्या महावाणी भारती वाक् सरस्वती।
आर्या ब्राह्नी महाधेनुर्वेदगर्भा च धीश्च गीः33 ॥ 66 ॥

विश्वास-प्रस्तुतिः

नामानुरूपं 34कर्म स्यात् 35सात्त्विक्याः कार्यमद्भुतम्।
वयं तिस्रो जगद्धात्र्यो मातरश्च प्रकीर्तिताः ॥ 67 ॥

मूलम्

नामानुरूपं 34कर्म स्यात् 35सात्त्विक्याः कार्यमद्भुतम्।
वयं तिस्रो जगद्धात्र्यो मातरश्च प्रकीर्तिताः ॥ 67 ॥

इति 36श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 37महालक्ष्मीसमुद्भूतिर्नाम चतुर्थोऽध्यायः

इति चतुर्थोऽध्यायः


  1. श्रीरुवाच B. ↩︎ ↩︎

  2. तादृशी B. ↩︎ ↩︎

  3. तस्य चित्रैक E. I. ↩︎ ↩︎

  4. रूपतः A. B. C. G. I. ↩︎ ↩︎

  5. अमेया A. B. ↩︎ ↩︎

  6. शुद्ध A. G. ↩︎ ↩︎

  7. निर्वासनं E. I. ↩︎ ↩︎

  8. अनम्भोदाम्बरोपमम् E. I. ↩︎ ↩︎

  9. ममात्मकः A. G. ↩︎ ↩︎

  10. बलोन्मेषः E. ↩︎ ↩︎

  11. समुन्मेषः E. I. ↩︎ ↩︎

  12. समीरितः E. I. ↩︎ ↩︎

  13. अतः E. I. ↩︎ ↩︎

  14. संकर्षणाद्देवात् E. I. ↩︎ ↩︎

  15. संभवत्युत E. I. ↩︎ ↩︎

  16. तदाप्येते E. ↩︎ ↩︎

  17. सनातनाः A. B. D. ↩︎ ↩︎

  18. विपश्चिता E. I. ↩︎ ↩︎

  19. ध्येयाः A. B. C. D. ↩︎ ↩︎

  20. सर्वदा A. C. D; सर्वदा सत्य B. ↩︎ ↩︎

  21. कालस्य E. ↩︎ ↩︎

  22. महती या B. ↩︎ ↩︎

  23. गीयते E. ↩︎ ↩︎

  24. पुरः स्थिता A. B. C. G. ↩︎ ↩︎

  25. राजनात् B. ↩︎ ↩︎

  26. All the Mss. and the printed book read wrongly श्रयते. ↩︎ ↩︎

  27. गुणैर्वैषम्य A. B. C. D. ↩︎ ↩︎

  28. दंष्टान्वित A. B. C. D. ↩︎ ↩︎

  29. शान्तिः added before नाम I. ↩︎ ↩︎

  30. A. B. C. F. omit श्रीः ↩︎ ↩︎

  31. क्रिया A. B. C. F. ↩︎ ↩︎

  32. तृष्णा A. B. C. F. ↩︎ ↩︎

  33. A. B. C. read wrongly वेदभागाश्चगश्व धीः; गीश्च धीः I. ↩︎ ↩︎

  34. कर्मास्याः E. G. ↩︎ ↩︎

  35. सात्वत्याः A. B. C. D. ↩︎ ↩︎

  36. श्रीपाञ्चरात्रे I.; श्रीपञ्चरात्र A. ↩︎

  37. A. B. C. D. F. omit the title; सृष्टिद्वयप्रकाशः G. ↩︎