विश्वास-प्रस्तुतिः
तृतीयोऽध्यायः - 3
श्रीरुवाच—
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनी।
अहं नारायणी नाम सा सत्ता वैष्णवी परा ॥ 1 ॥
मूलम्

देशात्कालात्तथा रूपात्परिच्छेदो न मे स्मृतः।
संवित्तिरेव मे रूपं 1सर्वैश्वर्यादिको गुणः ॥ 2 ॥

टिप्पनी 2
स्वरूपनिरूपको धर्मः ज्ञानम्। अन्ये पञ्चापि गुणाः निरूपितस्वरूपगुणभूता इत्यर्थः।
विश्वास-प्रस्तुतिः
स्वस्वातन्त्र्यवशेनैव विभागस्तत्र वर्तते।
विज्ञानैश्वर्यशक्त्यात्मा2 विभागो यः स ईरितः ॥ 3 ॥

टिप्पनी 3
इत्थं विभागोऽपि मदिच्छाकृत एवेत्याह—स्वस्वातन्त्र्येति।
विश्वास-प्रस्तुतिः
विज्ञानैश्वर्यशक्तीनामुन्मेषस्त्वपरोऽधुना।
अतर्क्याया ममोद्यत्या 3नियोगानर्हया सदा ॥ 4 ॥

टिप्पनी 4
अपर इति। पूर्वं शुद्धसृष्टौ एक उन्मेष उक्तः। अधुना अशुद्धात्मकत्रैगुण्यसृष्टावन्य उन्मेष इत्यर्थः।
विश्वास-प्रस्तुतिः
इच्छयान्यत्कृतं रूपमासीज्ज्ञानादिके त्रिके।
यथैवेक्षुरसः स्वच्छो गुडत्वं प्रतिपद्यते ॥ 5 ॥

टिप्पनी 5
ज्ञानादित्रिकरूपं सत्त्वादित्रिकात्मना अन्यथा कृतमासीदित्यर्थः।
विश्वास-प्रस्तुतिः
तद्वत्स्वच्छमयं ज्ञानं सत्त्वतां प्रतिपद्यते।
रजस्त्वं च ममैश्वर्यं तमस्त्वं शक्तिरप्युत ॥ 6 ॥

टिप्पनी 6
तदेवाह—तद्वदिति। ज्ञानं सत्त्वतया, ऐश्वर्यं रजस्तया, शक्तिश्च तमस्तया जातमिति भावः।
विश्वास-प्रस्तुतिः
एते त्रयो गुणाः शक्र त्रैगुण्यमिति शब्द्यते।
रजःप्रधानं तत्सृष्टौ त्रैगुण्यं परिवर्तते ॥ 7 ॥

टिप्पनी 7
त्रैगुण्यमिति चातुर्वर्ण्यमितिवत् स्वार्थे ष्यञ्।
विश्वास-प्रस्तुतिः
स्थितौ सत्त्वप्रधानं तत् संहृतौ तु तमोमुखम्।
अहं संविन्मयी पूर्वा व्यापिन्यपि पुरंदर ॥ 8 ॥

अधिष्ठाय गुणान् सृष्टिस्थितिसंहृतिकारिणी।
निर्गुणापि गुणानेतानधिष्ठायात्मवाञ्छया ॥ 9 ॥

टिप्पनी 9
निर्गुणापीति। पूर्वं षाडुगुण्यस्योक्तत्वात् अत्र निर्गुणपदस्य सत्त्वरजस्तमोरूपमिश्रगुणरहितेत्यर्थः। आत्मवाञ्छयेत्यनेन जगत्सृष्ट्यादौ लीलैव प्रयोजनमित्युक्तं भवति। यथाह भगवान् बादरायणः—“लोकवत्तु लीलाकैवल्यम्” इति।
विश्वास-प्रस्तुतिः
चक्रं प्रवर्तयाम्येका सृष्टिस्थित्यन्तरूपकम्।
शक्रः—
विधाद्वयं समास्थाय ज्ञानाद्ये तु 4युगत्रये ॥ 10 ॥

शुद्धेतरविभागेन किमर्थं त्वं प्रवर्तसे।
विधयोरनयोः पद्मे संबन्धः कः परस्परम् ॥ 11 ॥

एतत्पृष्टा मया ब्रूहि नमस्ते पद्मसंभवे।
श्रीः—
अनियोज्यं ममैश्वर्यमिच्छैव मम कारणम् ॥ 12 ॥

मुह्यन्त्यत्र महान्तोऽपि तत्त्वं श्रृणु तथापि मे।
ईशेशितव्यभावेन परिवर्ते 5सदा ह्यहम् ॥ 13 ॥

टिप्पनी 13
शुद्धेतरसृष्ट्योः संबन्ध उच्यते—ईशेशितव्येति। रक्ष्यरक्षकभाव इत्यर्थः।
विश्वास-प्रस्तुतिः
ईशो नारायणो ज्ञेय ईशता तस्य चाप्यहम्।
ईशितव्यं तु विज्ञेयं चिदचिच्च पुरंदर ॥ 14 ॥

चिच्छक्तिस्तु परा तत्र भोक्तृतां प्रतिपद्यते।
भोग्योपकरणस्थानरूपं तस्या अचित्पदम् ॥ 15 ॥

अनाद्यया समाविद्धा सा चिच्छक्तिरविद्यया।
मत्प्रवर्तितया नित्यं चिच्छक्तिर्भोक्तृतां गता ॥ 16 ॥

अहंममत्वसंबन्धाद्ध्यचित्स्वेनाभिमन्यते।
अविद्या सा तिरोभावं विद्यया याति वै यदा ॥ 17 ॥

चिच्छक्तिर्निरभीमाना तदा मद्भावमेष्यति।
तां विद्यां शुद्धमार्गस्थां परव्यूहादिरूपिणी ॥ 18 ॥

प्रवर्तयामि कारुण्याज्ज्ञानसद्भावदर्शिनी।
रक्ष्यरक्षकभावोऽयं संबन्धो विधयोर्द्वयोः ॥ 19 ॥

विधा रक्षति शुद्धाद्या रक्ष्यते च 6विधापरा।
एतत्ते कथितं शक्र किं भूयः श्रोतुमिच्छसि ॥ 20 ॥

ईशेशितव्यभावेन किमर्थं त्वं7 प्रवर्तसे।
ईशितव्यं कियद्भेदं किंरूपं तत्र मे वद ॥ 21 ॥

ईशितव्यं द्विधा प्रोक्तं चिदचिव्द्यतिरेकतः।
चिच्छक्तिर्भोक्तृरूपात्र सा च 10चिद्रूपधारिणी ॥ 23 ॥

भोग्योपकरणस्थानैरचिच्छक्तिस्त्रिधा स्थिता11।
प्रसरन्त्यास्तृतीयं मे सा च पर्व स्मृतं बुधैः ॥ 24 ॥

विभक्ते अपि ते एते शक्ती चिदचिदात्मिके।
मत्स्वाच्छन्द्यवशेनैव मम रूपे सनातने ॥ 25 ॥

चिच्छक्तिर्विमला शुद्धा चिन्मय्यानन्दरूपिणी।
अनाद्यविद्याविद्धेयमित्थं संसरति ध्रुवम् ॥ 26 ॥

अचिच्छक्तिर्जडाप्येवमशुद्धा परिणामिनी।
त्रिगुणआपि ममैवेदं स्वाच्छन्द्यात् प्रविजृम्भितम् ॥ 27 ॥

धूमकेतुर्यथा धूमं12 दीप्यमानो भजेत् स्वयम्।
शुद्धसंवित्स्वरूपापि भजे साहमचिद्गतिम् ॥ 28 ॥

टिप्पनी 28
ज्वलनस्वभावोऽपि धूमकेतुर्यथा मलिनधूमरूपतां प्रतिपद्यते, तथा ज्ञानस्वरूपाप्यहमचिद्भावमापद्य इत्यर्थः।
विश्वास-प्रस्तुतिः
अनाक्रान्ता विकल्पेन 13शब्दैरप्यकदर्थिता।
आद्यानोपधिनाप्येवं वर्तेऽहमचिदात्मना ॥ 29 ॥

टिप्पनी 29
आध्यानोपधिनेति। मदिच्छारूपोपादिनेत्यर्थः। ध्यानालम्बनार्थमिति वार्थः। यथा वक्ष्यति—`ध्यानविश्रामभूमयः’ (4-24) इति।
विश्वास-प्रस्तुतिः
बहिरन्तःपदार्थे हि चित्स्वरूपमखण्डितम्।
विशिनष्टि तथाप्येतच्चित्रयोपाधिसंपदा ॥ 30 ॥

स्वातन्त्र्यमेव मे हेतुर्नानुयोज्यास्मि किंचन।
14इत्थंप्रभावामेवं मां विदन् भुद्धो भविष्यसि ॥ 31 ॥

कथं सृजसि वै लोकान् सुखदुःखसमन्वितान्।
असृष्टिर्हि वरं यद्वा सृष्टिरस्तु सुखात्मिका ॥ 32 ॥

टिप्पनी 32
असृष्टिरिति। अत्र “सृजेच्च सुखमेवैकमनुकम्पाप्रचोदितः” इति श्लोकवार्त्तिकवचनं स्मर्तव्यम्।
विश्वास-प्रस्तुतिः
श्रीः—
अनाद्यविद्याविद्धानां जीवानां सदसन्मयम्।
संचितं कर्म संप्रेक्ष्य मिश्रां सृष्टिं करोम्यहम् ॥ 33 ॥

क्षीरोदसंभवे देवि स्वाच्छन्द्यं ते कथं भवेत्।
कर्म चेत्समवेक्ष्य त्वं विदधासि सुखासुखे ॥ 34 ॥

कुर्वत्या मम कार्याणि कर्म तत्करणं स्मृतम्।
कर्तुश्च करणापेक्षा न स्वातन्त्र्यविघातिनी ॥ 35 ॥

निरवद्या स्वतन्त्राहं नानुयोगपदे स्थिता।
विभजे बहुधात्मानं कर्तृकर्मक्रियादिना ॥ 36 ॥

यद्वा तद्वास्तु तद्देवि स्वातन्त्र्यं ते यदीदृशम्।
सृष्टिप्रकारमाख्याहि नमस्ते पद्मसंभवे ॥ 37 ॥

इति 15श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 16त्रैगुण्यप्रकाशो नाम तृतीयोऽध्यायः
इति तृतीयोऽध्यायः