००२

विश्वास-प्रस्तुतिः

द्वितीयोऽध्यायः - 2
श्रीरुवाच—
अस्ति निर्दुःखनिःसीमसुखानुभवलक्षणः।
परमात्मा परं यस्य पदं पश्यन्ति सूरयः ॥ 1 ॥

मूलम्

द्वितीयोऽध्यायः - 2
श्रीरुवाच—
अस्ति निर्दुःखनिःसीमसुखानुभवलक्षणः।
परमात्मा परं यस्य पदं पश्यन्ति सूरयः ॥ 1 ॥

टिप्पनी 1

निर्दुःखेत्यादिना निखिलहेयप्रत्यनीकत्वानन्तकल्याणगुणाकरत्वरूपोभयलिङ्गत्वं परमात्मन उक्तं भवति।

विश्वास-प्रस्तुतिः

कश्चित्केषांचिदात्मा स्यात्तस्यान्येषां च कश्चन।
तस्याप्यन्य1 इतीत्थं तु यत्रैषा2 व्यवतिष्ठते ॥ 2 ॥

मूलम्

कश्चित्केषांचिदात्मा स्यात्तस्यान्येषां च कश्चन।
तस्याप्यन्य1 इतीत्थं तु यत्रैषा2 व्यवतिष्ठते ॥ 2 ॥

टिप्पनी 2

आत्मा। नियन्तेत्यर्थः। एषेति। व्यवस्थेति शेषः। व्यवतिष्ठते समाप्नोति, स परमात्मेति पूर्वेणान्वयः।

विश्वास-प्रस्तुतिः

3अध्वनामध्वनः पारं परमात्मानमूचिरे।
अहं नाम स्मृतो योऽर्थः स आत्मा समुदीर्यते ॥ 3 ॥

मूलम्

3अध्वनामध्वनः पारं परमात्मानमूचिरे।
अहं नाम स्मृतो योऽर्थः स आत्मा समुदीर्यते ॥ 3 ॥

टिप्पनी 3

अध्वनामिति। त्रैवर्गिकाध्वापेक्षया परमो योऽध्वा मोक्षाध्वा अर्चिरादिः, तस्य पारं प्राप्यमित्यर्थः; “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इति वचनात्। “अध्वनामध्वपते” इति श्रुत्युद्धरणमत्र। अहमिति। यः अहंप्रत्ययगोचरः स आत्मेत्यर्थः।

विश्वास-प्रस्तुतिः

अनवच्छिन्नरूपोऽहं परमात्मेति शब्द्यते4
क्रोडीकृतमिदं सर्वं चेतनाचेतनात्मकम् ॥ 4 ॥

मूलम्

अनवच्छिन्नरूपोऽहं परमात्मेति शब्द्यते4
क्रोडीकृतमिदं सर्वं चेतनाचेतनात्मकम् ॥ 4 ॥

टिप्पनी 4

अनवच्छिन्नेति। वस्त्वाद्यपरिच्छेदेन योऽहंशब्दापर्यवसानवृत्त्या प्रतीयते स परमात्मेत्यर्थः।

विश्वास-प्रस्तुतिः

येन सोऽहंस्मृतो भावः परमात्मा सनातनः।
स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः ॥ 5 ॥

मूलम्

येन सोऽहंस्मृतो भावः परमात्मा सनातनः।
स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः ॥ 5 ॥

विश्वास-प्रस्तुतिः

विष्णुर्नारायणो विश्वो विश्वरूप इतीर्यते।
अहंतया समाक्रान्तं यस्य 5विश्वमिदं जगत् ॥ 6 ॥

मूलम्

विष्णुर्नारायणो विश्वो विश्वरूप इतीर्यते।
अहंतया समाक्रान्तं यस्य 5विश्वमिदं जगत् ॥ 6 ॥

टिप्पनी 6

आह च शक्रोऽन्यत्र—“त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम्” इति।

विश्वास-प्रस्तुतिः

6वस्त्ववस्तु च तन्नास्ति यन्नाक्रान्तमहंतया।
7इदंतया यदालीढमाक्रान्तं तदहंतया ॥ 7 ॥

मूलम्

6वस्त्ववस्तु च तन्नास्ति यन्नाक्रान्तमहंतया।
7इदंतया यदालीढमाक्रान्तं तदहंतया ॥ 7 ॥

टिप्पनी 7

इदंतयेति। इदंशब्दार्थतया प्रतीतं सर्वं जगदित्यर्थः।

विश्वास-प्रस्तुतिः

8सर्वतः शान्त एवासौ निर्विकारः सनातनः।
अनन्तो देशकालादिपरिच्छेदविवर्जितः ॥ 8 ॥

मूलम्

8सर्वतः शान्त एवासौ निर्विकारः सनातनः।
अनन्तो देशकालादिपरिच्छेदविवर्जितः ॥ 8 ॥

विश्वास-प्रस्तुतिः

महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः।
तद्‌ ब्रह्म परमं धाम निरालम्बनभावनम्9 ॥ 9 ॥

मूलम्

महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः।
तद्‌ ब्रह्म परमं धाम निरालम्बनभावनम्9 ॥ 9 ॥

विश्वास-प्रस्तुतिः

निस्तरङ्गामृताम्भोधिकल्पं षाड्‌गुण्यमुज्ज्वलम्।
एकं तच्चिद्घनं शान्तमुदयास्तमयोज्झितम् ॥ 10 ॥

मूलम्

निस्तरङ्गामृताम्भोधिकल्पं षाड्‌गुण्यमुज्ज्वलम्।
एकं तच्चिद्घनं शान्तमुदयास्तमयोज्झितम् ॥ 10 ॥

टिप्पनी 10

निस्तरङ्गेत्यादिना भगवतः शान्तोदितावस्थोच्यते। तदेवाह—शान्तमिति।

विश्वास-प्रस्तुतिः

अपृथग्भूतशक्तित्वाद् ब्रह्माद्वैतं तदुच्यते।
तस्य या परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः ॥ 11 ॥

मूलम्

अपृथग्भूतशक्तित्वाद् ब्रह्माद्वैतं तदुच्यते।
तस्य या परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः ॥ 11 ॥

टिप्पनी 11

ब्रह्माद्वैतमिति। स्वापृथक्‌सिद्धशक्त्यहंताविशिष्टत्वात् तद्विशिष्टं ब्रह्‌मैकमेव तत्त्वमित्यर्थः। स्वस्वरूपस्य तदपृथक्‌सिद्धत्वमेव दृष्टान्तमुखेनाह—ज्योस्नेति।

विश्वास-प्रस्तुतिः

सर्वावस्थागता देवी स्वात्मभूतानपायिनी।
अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी ॥ 12 ॥

मूलम्

सर्वावस्थागता देवी स्वात्मभूतानपायिनी।
अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी ॥ 12 ॥

टिप्पनी 12

सर्वावस्थागतानपायिनीत्यनेन “राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि। अन्येषु चावतारेषु विष्णोरेषानपायिनी” इति महर्षिवचनं स्मार्यते।

विश्वास-प्रस्तुतिः

आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः।
अहंता सर्वभूतानामहमस्मि सनातनी ॥ 13 ॥

मूलम्

आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः।
अहंता सर्वभूतानामहमस्मि सनातनी ॥ 13 ॥

विश्वास-प्रस्तुतिः

येन भावेन भवति वासुदेवः सनातनः।
भवतस्तस्य देवस्य 10स भावोऽहमितीरिता ॥ 14 ॥

मूलम्

येन भावेन भवति वासुदेवः सनातनः।
भवतस्तस्य देवस्य 10स भावोऽहमितीरिता ॥ 14 ॥

विश्वास-प्रस्तुतिः

भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम्।
भवन्नारायणो देवो भावो लक्ष्मीरहं परा ॥ 15 ॥

मूलम्

भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम्।
भवन्नारायणो देवो भावो लक्ष्मीरहं परा ॥ 15 ॥

विश्वास-प्रस्तुतिः

लक्ष्मीनारायणाख्यातमतो11 ब्रह्म सनातनम्।
अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति ॥ 16 ॥

मूलम्

लक्ष्मीनारायणाख्यातमतो11 ब्रह्म सनातनम्।
अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति ॥ 16 ॥

टिप्पनी 16

श्रीविशिष्टमेव परं ब्रह्म। न तु निःश्रीकमित्यर्थः। लक्ष्मीनारायणयोरुभयोरात्महविःशेषित्वेऽपि आग्नावैष्णवादिष्विव विशिष्टस्यैवे द्देश्यत्वात् तस्य चैकत्वात् न शेषिद्वित्वप्रसक्तिरिति भावः।

विश्वास-प्रस्तुतिः

अहमर्थसमुत्था च साहंता परिकीर्तिता।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 17 ॥

मूलम्

अहमर्थसमुत्था च साहंता परिकीर्तिता।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 17 ॥

विश्वास-प्रस्तुतिः

तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः।
अहंतया विनाहं हि निरुपाख्यो न सिध्यति ॥ 18 ॥

मूलम्

तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः।
अहंतया विनाहं हि निरुपाख्यो न सिध्यति ॥ 18 ॥

टिप्पनी 18

निरुपाख्यो निर्विशेषः। लोके सर्वमपि वस्तु इदमित्थमिति प्रकारविशेषपुरस्कारेणैव सिध्यति; न तु निर्विशेषणिति भावः।

विश्वास-प्रस्तुतिः

अहमर्थं विनाहंता निराधारा न सिध्यति।
भवद्भावात्मकं रूपं समस्तव्यस्तगोचरम् ॥ 19 ॥

मूलम्

अहमर्थं विनाहंता निराधारा न सिध्यति।
भवद्भावात्मकं रूपं समस्तव्यस्तगोचरम् ॥ 19 ॥

विश्वास-प्रस्तुतिः

परोक्षमपरोक्षं च जगति प्रविचिन्त्यते12
निरुन्मेषे निरुन्मेषा साहंता परमेश्वरी ॥ 20 ॥

मूलम्

परोक्षमपरोक्षं च जगति प्रविचिन्त्यते12
निरुन्मेषे निरुन्मेषा साहंता परमेश्वरी ॥ 20 ॥

विश्वास-प्रस्तुतिः

क्रोडीकृत्याखिलं 13सर्वं ब्रह्मणि व्यवतिष्ठते।
उन्मेषस्तस्य यो नाम यथा चन्द्रोदयेऽम्बुधेः ॥ 21 ॥

मूलम्

क्रोडीकृत्याखिलं 13सर्वं ब्रह्मणि व्यवतिष्ठते।
उन्मेषस्तस्य यो नाम यथा चन्द्रोदयेऽम्बुधेः ॥ 21 ॥

विश्वास-प्रस्तुतिः

अहं नारायणी शक्तिः सिसृक्षालक्षणा तदा।
निमेषस्तस्य यो नाम संहृतौ परमात्मनः ॥ 22 ॥

मूलम्

अहं नारायणी शक्तिः सिसृक्षालक्षणा तदा।
निमेषस्तस्य यो नाम संहृतौ परमात्मनः ॥ 22 ॥

टिप्पनी 22

देव्याः शक्तिरूपत्वं पूर्वमुक्तम्। अधुना तद्भेद उच्यते—सिसृक्षाशक्तिः सुषुप्साशक्तिश्चेति। प्रथमया सृष्टिः, द्वितीयया संहारश्च जायते। तत्र नित्यविभूतिविषये प्रथमाया एव प्रवृत्तिः। द्वितीयायास्तु लीलाविभूतावेवोपयोगः।

विश्वास-प्रस्तुतिः

अहं नारायणी शक्तिः सुषुप्सालक्षणा हि सा।
14सिसृक्षाया ममोद्यन्त्या देवाल्लक्ष्मीपतेः स्वयम् ॥ 23 ॥

मूलम्

अहं नारायणी शक्तिः सुषुप्सालक्षणा हि सा।
14सिसृक्षाया ममोद्यन्त्या देवाल्लक्ष्मीपतेः स्वयम् ॥ 23 ॥

विश्वास-प्रस्तुतिः

अव्याहतमसंकोचमैश्वर्यं प्रविजृम्भते।
ज्ञानं तत्परमं ब्रह्म 15सर्वदर्शि निरामयम् ॥ 24 ॥

मूलम्

अव्याहतमसंकोचमैश्वर्यं प्रविजृम्भते।
ज्ञानं तत्परमं ब्रह्म 15सर्वदर्शि निरामयम् ॥ 24 ॥

टिप्पनी 24

ज्ञानादिषु षट्‌सु गुणेषु ज्ञानं तत्स्वरूपनिरूपकधर्मः। अन्ये गुणास्तु निरूपितस्वरूपविशेषणभूता इति विवेकः। तदेव वक्ष्यत्युत्तरत्र `शेषमैश्वर्यवीर्यादि ज्ञानधर्मः’ इति। ज्ञानाख्यस्य स्वरूपस्य धर्म इत्यर्थः।

विश्वास-प्रस्तुतिः

ज्ञानात्मिका तथाहंता सर्वज्ञा सर्वदर्शिनी।
ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः ॥ 25 ॥

मूलम्

ज्ञानात्मिका तथाहंता सर्वज्ञा सर्वदर्शिनी।
ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः ॥ 25 ॥

विश्वास-प्रस्तुतिः

शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनः।
अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते16 ॥ 26 ॥

मूलम्

शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनः।
अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते16 ॥ 26 ॥

विश्वास-प्रस्तुतिः

प्रकाशकादिकं रूपं स्फटिकादिसलक्षणम्।
17अतस्तु ज्ञानरूपत्वं मम नारायणस्य च ॥ 27 ॥

मूलम्

प्रकाशकादिकं रूपं स्फटिकादिसलक्षणम्।
17अतस्तु ज्ञानरूपत्वं मम नारायणस्य च ॥ 27 ॥

विश्वास-प्रस्तुतिः

अव्याहतिर्यदुद्यत्यास्तदैश्वर्यं परं मम।
इच्छेति सोच्यते तत्तत्तत्त्वशास्त्रेषु पण्डितैः ॥ 28 ॥

मूलम्

अव्याहतिर्यदुद्यत्यास्तदैश्वर्यं परं मम।
इच्छेति सोच्यते तत्तत्तत्त्वशास्त्रेषु पण्डितैः ॥ 28 ॥

टिप्पनी 28

इच्छेति। सिसृक्षाशक्तेरैश्वर्यरूपत्वं पूर्वं चतुर्विंशे श्लोके वर्णितमत्र स्मर्तव्यम्। सिसृक्षा हि स्रष्टुमिच्छा।

विश्वास-प्रस्तुतिः

जगत्प्रकृतिभावो मे यः सा शक्तिरितीर्यते।
सृजन्त्या यच्छ्रमाभावो मम तद्बलमिष्यते ॥ 29 ॥

मूलम्

जगत्प्रकृतिभावो मे यः सा शक्तिरितीर्यते।
सृजन्त्या यच्छ्रमाभावो मम तद्बलमिष्यते ॥ 29 ॥

टिप्पनी 29

देव्या जगत्प्रकृतिभावो न स्वरूपतः, तथात्वे विकारित्वप्रसङ्गात्। किंतु स्वप्रकारभूतचिदचिदात्मनेति द्रष्टव्यम्। एषैव हि ब्रह्मणो जगत्प्रकृतित्वे गतिः।

विश्वास-प्रस्तुतिः

भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते।
18शक्त्यंशकेन तत्प्राहुर्भरणं तत्त्वकोविदाः ॥ 30 ॥

मूलम्

भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते।
18शक्त्यंशकेन तत्प्राहुर्भरणं तत्त्वकोविदाः ॥ 30 ॥

विश्वास-प्रस्तुतिः

विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा।
स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ॥ 31 ॥

मूलम्

विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा।
स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ॥ 31 ॥

टिप्पनी 31

विकारविरहित्वं, पूर्वोक्तरीत्या प्रकारांशे पिरणामः न तु प्रकार्यंश इति स्वीकारात्। प्रकारिभूते स्वरूप एव परिणाममङ्गीकृत्य अघटितघटनासामर्थ्यात् विकाराभावनिर्वाहस्तु न युक्तिसहः। अथ एव “मायां तु प्रकृतिं विद्यात्” इत्यत्रेश्वरोपाधिभूतमायायां प्रकृतित्वमर्थ इति केषांचिदभ्युपगमः।

विश्वास-प्रस्तुतिः

जगद्भावेऽपि सा नास्ति 19विकृतिर्मम नित्यदा।
विकारविरहो वीर्यमतस्तत्त्वविदां मतम् ॥ 32 ॥

मूलम्

जगद्भावेऽपि सा नास्ति 19विकृतिर्मम नित्यदा।
विकारविरहो वीर्यमतस्तत्त्वविदां मतम् ॥ 32 ॥

विश्वास-प्रस्तुतिः

विक्रमः कथितो वीर्यमैश्वर्यांशः स तु स्मृतः।
सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या ॥ 33 ॥

मूलम्

विक्रमः कथितो वीर्यमैश्वर्यांशः स तु स्मृतः।
सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या ॥ 33 ॥

विश्वास-प्रस्तुतिः

तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः।
पराभिभवसामर्थ्यं तेजः केचित्प्रचक्षते ॥ 34 ॥

मूलम्

तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः।
पराभिभवसामर्थ्यं तेजः केचित्प्रचक्षते ॥ 34 ॥

विश्वास-प्रस्तुतिः

ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः।
इति पञ्च गुणा एते ज्ञानस्य 20स्रुतयोऽमहाः ॥ 35 ॥

मूलम्

ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः।
इति पञ्च गुणा एते ज्ञानस्य 20स्रुतयोऽमहाः ॥ 35 ॥

विश्वास-प्रस्तुतिः

ज्ञानाद्याः षड्‌गुणा एते षाड्‌गुण्यं मम तद्वपुः।
उद्यतीत्थं सिसृक्षाया ममायुततमी कला ॥ 36 ॥

मूलम्

ज्ञानाद्याः षड्‌गुणा एते षाड्‌गुण्यं मम तद्वपुः।
उद्यतीत्थं सिसृक्षाया ममायुततमी कला ॥ 36 ॥

टिप्पनी 36

उद्यतीति। उदयं प्राप्तेत्यर्थः।

विश्वास-प्रस्तुतिः

शुद्धाशुद्धात्मको वर्गस्तया क्रोडीकृतोऽखिलः।
तत्र शुद्धमयं मार्गं व्याख्यास्यामि सुरेश्वर ॥ 37 ॥

मूलम्

शुद्धाशुद्धात्मको वर्गस्तया क्रोडीकृतोऽखिलः।
तत्र शुद्धमयं मार्गं व्याख्यास्यामि सुरेश्वर ॥ 37 ॥

टिप्पनी 37

शुद्ध सृष्टिः, अशुद्धसृष्टिश्चेति द्विविधा सृष्टिः। तत्र शुद्धा त्नैगुण्यरहिता शुद्धसत्त्वमयी। तस्याः स्वयंप्रकाशत्वादजडत्वमिति केचित्। जडत्वमेवेति परे। अस्या एव नित्यविभूतिरिति व्यवहारः। अशुद्धसृष्टिस्तु त्रैगुण्यमयी जडरूपा लीलाविभूतिरिति व्यवहृता।

विश्वास-प्रस्तुतिः

अभिव्यक्तानभिव्यक्तषाड्‌गुण्यक्रममुज्ज्वलम्।
आलम्बितचतूरूपं रूपं तत्पारमेश्वरम् ॥ 38 ॥

मूलम्

अभिव्यक्तानभिव्यक्तषाड्‌गुण्यक्रममुज्ज्वलम्।
आलम्बितचतूरूपं रूपं तत्पारमेश्वरम् ॥ 38 ॥

टिप्पनी 38

न केवलं नित्यविभूतिरेव शुद्धसृष्टिः। किंतु तत्र विद्योतमानाः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्या व्यूहा अपि तथेति मन्तव्यम्। तत्र प्रथमे वासुदेवे षाड्‌गुण्यक्रमस्य न स्फुटावभासः। तदनन्तरव्यूहेषु तु किंचित्किंचित् क्रमेणेति ज्ञेयम्।

विश्वास-प्रस्तुतिः

21गुणकल्पनयाध्यस्तो गुणोन्मेषकृतक्रमः।
मूर्तीकृतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः ॥ 39 ॥

मूलम्

21गुणकल्पनयाध्यस्तो गुणोन्मेषकृतक्रमः।
मूर्तीकृतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः ॥ 39 ॥

टिप्पनी 39

तेषु क्वचित् व्यूहे गुणानां सम्यगनुन्मेषात् न गुणात्मतया ज्ञानम्। क्वचित्तु क्रमेणोन्मेषात् क्रमादभिव्यक्तिः। क्वचित्तु गुणानामतिप्रकाशात् गुणात्मना परिज्ञानमिति क्रमः।

विश्वास-प्रस्तुतिः

युगानि त्रीणि षण्णं यान्याहुर्ज्ञानादिकानि वै22
समासव्यासतस्तेषां चातुरात्म्यं विविच्यते23 ॥ 40 ॥

मूलम्

युगानि त्रीणि षण्णं यान्याहुर्ज्ञानादिकानि वै22
समासव्यासतस्तेषां चातुरात्म्यं विविच्यते23 ॥ 40 ॥

विश्वास-प्रस्तुतिः

24समस्तव्यस्तभेदेन गुणानां तद्युगत्रयम्।
विवक्ष्यते यदा सा मे शान्तायाश्चातुरात्म्यता25 ॥ 41 ॥

मूलम्

24समस्तव्यस्तभेदेन गुणानां तद्युगत्रयम्।
विवक्ष्यते यदा सा मे शान्तायाश्चातुरात्म्यता25 ॥ 41 ॥

विश्वास-प्रस्तुतिः

आकृतीरनवेक्ष्यापि 26गुणानां कल्पनाकृतम्।
चातुरात्म्यमिदं प्राहुः शान्तायास्तत्त्वचिन्तकाः ॥ 42 ॥

मूलम्

आकृतीरनवेक्ष्यापि 26गुणानां कल्पनाकृतम्।
चातुरात्म्यमिदं प्राहुः शान्तायास्तत्त्वचिन्तकाः ॥ 42 ॥

विश्वास-प्रस्तुतिः

27शान्तातिशान्तादुन्मेषो मम रूपाद्युगत्रये।
क्रमव्यक्तं तदाद्यं मे चातुरात्म्यममूर्तिमत् ॥ 43 ॥

मूलम्

27शान्तातिशान्तादुन्मेषो मम रूपाद्युगत्रये।
क्रमव्यक्तं तदाद्यं मे चातुरात्म्यममूर्तिमत् ॥ 43 ॥

विश्वास-प्रस्तुतिः

अतरङ्गमनिर्देश्यं निःसत्तं सत्त्वमव्ययम्।
सच्चिन्मात्राख्य उन्मेषः साद्या मे शान्तताच्युतिः ॥ 44 ॥

मूलम्

अतरङ्गमनिर्देश्यं निःसत्तं सत्त्वमव्ययम्।
सच्चिन्मात्राख्य उन्मेषः साद्या मे शान्तताच्युतिः ॥ 44 ॥

विश्वास-प्रस्तुतिः

व्यक्तज्ञानबलाक्यायां पूर्वं संकर्षणात्मनि।
28तिलकालकवत्सर्वो विकारो मयि तिष्ठति ॥ 45 ॥

मूलम्

व्यक्तज्ञानबलाक्यायां पूर्वं संकर्षणात्मनि।
28तिलकालकवत्सर्वो विकारो मयि तिष्ठति ॥ 45 ॥

टिप्पनी 45

तिलकालकवदिति। यथा प्राणिनां देहे तिलवत् सूक्ष्मः कालवर्णश्च बिन्दुविशेषोऽत्यल्पपरिमिते क्वचित्कोणे दृश्यते, तद्वत् सर्वोऽपि प्रपञ्चः ममैकदेशे तिष्ठतीत्यर्थः। संकर्षतीति संकर्षण इत्यन्वर्थं नाम। अत्र ज्ञानबलयोः समुन्मेषः।

विश्वास-प्रस्तुतिः

तन्मां संकर्षणात्मानं विदुर्ज्ञानबले बुधाः।
स्वयं गृह्णामि कर्तृत्वमुन्मिषन्ती ततः परम्29 ॥ 46 ॥

मूलम्

तन्मां संकर्षणात्मानं विदुर्ज्ञानबले बुधाः।
स्वयं गृह्णामि कर्तृत्वमुन्मिषन्ती ततः परम्29 ॥ 46 ॥

विश्वास-प्रस्तुतिः

प्रद्युम्न इति मामाहुः सर्वार्थद्योतनीं तदा।
युगं प्रस्फुरितं रूपं30 तस्मिन्नैश्वर्यवीर्ययोः ॥ 47 ॥

मूलम्

प्रद्युम्न इति मामाहुः सर्वार्थद्योतनीं तदा।
युगं प्रस्फुरितं रूपं30 तस्मिन्नैश्वर्यवीर्ययोः ॥ 47 ॥

टिप्पनी 47

प्रकृष्टं द्युम्नं तेजो वा यस्येत्यन्वर्थं नाम। सृष्टिकर्तृत्वात् अत्र वीर्यैश्वर्ययोः समुन्मेषः।

विश्वास-प्रस्तुतिः

ततस्तया क्रियाशक्त्या 31लब्धावेशा चिकीर्षया।
युज्यमानानिरुद्धाख्यां लम्भिता तत्त्वकोविदैः ॥ 48 ॥

मूलम्

ततस्तया क्रियाशक्त्या 31लब्धावेशा चिकीर्षया।
युज्यमानानिरुद्धाख्यां लम्भिता तत्त्वकोविदैः ॥ 48 ॥

टिप्पनी 48

अनिरुद्धेति। पालनकर्तैषः। अत्र शक्तितेजसोः समुन्मेषः। तथा च संजगृहुः—“षाड्‌गुण्याद्वासुदेः पर इति स भवान्मुक्तभोग्यो बलाढ्याद्बोधात्संकर्षणस्त्वं हरसि वितनुषे शास्त्रमैस्वर्यवीर्यात्। प्रद्युम्नः सर्गधर्मौ नयसि च भगवन् शक्तितेजोऽनिरुद्धो बिभ्राणः पासि सत्त्वं समयसि च तथा व्यूह्य रङ्गधिराज॥ " इति।

विश्वास-प्रस्तुतिः

अवस्थाः क्रमशो मे ताः सुषुप्तिस्वप्नजागराः।
तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः ॥ 49 ॥

मूलम्

अवस्थाः क्रमशो मे ताः सुषुप्तिस्वप्नजागराः।
तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः ॥ 49 ॥

टिप्पनी 49

सुषुप्तीत्यादि। संकर्षणप्रद्युम्नानिरुद्धानां सुषुप्त्याद्यधिष्ठातृत्वम्। वासुदेवस्तु तुरीयाधिष्ठातेति वेवेकः। अयमेव विभवगः माण्डूक्योपनिषदि विश्वतैजसप्राज्ञतुर्यनामभिर्निर्दिष्टः।

विश्वास-प्रस्तुतिः

उन्मिषन्त्यः पृथक्तत्त्वत्रयेण परिकीर्तिताः।
बलं वीर्यं तथा तेज 32इत्येतत्तु गुणत्रयम् ॥ 50 ॥

मूलम्

उन्मिषन्त्यः पृथक्तत्त्वत्रयेण परिकीर्तिताः।
बलं वीर्यं तथा तेज 32इत्येतत्तु गुणत्रयम् ॥ 50 ॥

विश्वास-प्रस्तुतिः

33श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम्।
इत्थं शान्तोदितावस्थाद्वयभेदजुषो मम ॥ 51 ॥

मूलम्

33श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम्।
इत्थं शान्तोदितावस्थाद्वयभेदजुषो मम ॥ 51 ॥

टिप्पनी 51

शान्तोदितेति। शान्तावस्था परवासुदेवावस्था। उदितावस्था व्यूहावस्था। तत्रापि शान्तोदितावस्थः प्रथमव्यूहः। नित्योदितावस्था अन्ये त्रय इति विशेषः।

विश्वास-प्रस्तुतिः

स्वधर्मोर्मिसमुल्लासो न भेदायाम्बुधेरिव।
प्रायो यद्‌गुणकर्तव्ये वर्ते कृत्या यया ह्यहम् ॥ 52 ॥

मूलम्

स्वधर्मोर्मिसमुल्लासो न भेदायाम्बुधेरिव।
प्रायो यद्‌गुणकर्तव्ये वर्ते कृत्या यया ह्यहम् ॥ 52 ॥

विश्वास-प्रस्तुतिः

तत्र तद्‌गुणयुग्मं तु मम रूपतयोच्यते।
अतो ज्ञानबले देवः संकर्षण 34उदीर्यते ॥ 53 ॥

मूलम्

तत्र तद्‌गुणयुग्मं तु मम रूपतयोच्यते।
अतो ज्ञानबले देवः संकर्षण 34उदीर्यते ॥ 53 ॥

विश्वास-प्रस्तुतिः

ऐश्वर्यवीर्ये प्रद्युम्नोऽनिरुद्धः शक्तितेजसी।
35आद्यस्त्वभिन्नषाड्‌गुण्यो ब्रह्मतत्त्वापृथक्‌स्थितौ ॥ 54 ॥

मूलम्

ऐश्वर्यवीर्ये प्रद्युम्नोऽनिरुद्धः शक्तितेजसी।
35आद्यस्त्वभिन्नषाड्‌गुण्यो ब्रह्मतत्त्वापृथक्‌स्थितौ ॥ 54 ॥

विश्वास-प्रस्तुतिः

एकोऽप्यनुनयौदार्यक्रौर्यशौर्यादिभिर्गुणैः।
नटः प्रवर्तते यद्वद्वेषचेष्टादिभेदवान् ॥ 55 ॥

मूलम्

एकोऽप्यनुनयौदार्यक्रौर्यशौर्यादिभिर्गुणैः।
नटः प्रवर्तते यद्वद्वेषचेष्टादिभेदवान् ॥ 55 ॥

विश्वास-प्रस्तुतिः

तद्वदेकापि सैवाहं 36ज्ञानशक्त्यादिभिर्गुणैः।
संकर्षणादिसद्भावं भजे लोकहितेप्सया ॥ 56 ॥

मूलम्

तद्वदेकापि सैवाहं 36ज्ञानशक्त्यादिभिर्गुणैः।
संकर्षणादिसद्भावं भजे लोकहितेप्सया ॥ 56 ॥

विश्वास-प्रस्तुतिः

37क्रमशः प्रलयोत्पत्तिस्थितिभिः प्राण्यनुग्रहः।
प्रयोजनमथान्यच्च शास्त्रशास्त्रार्थतत्फलैः ॥ 57 ॥

मूलम्

37क्रमशः प्रलयोत्पत्तिस्थितिभिः प्राण्यनुग्रहः।
प्रयोजनमथान्यच्च शास्त्रशास्त्रार्थतत्फलैः ॥ 57 ॥

टिप्पनी 57

संकर्षणः प्रकलयकर्ता शास्त्रोपदेष्टा च। प्रद्युम्नः सृष्टिकर्ता शास्त्रार्थप्रवर्तयिता च। अनिरुद्धः पालनकर्ता शास्त्रार्थफलनिर्वाहकश्चेति प्रत्येकं व्यापारविभागः।

विश्वास-प्रस्तुतिः

दशास्तुर्यसुषुप्त्याद्याश्चतुर्व्यूहेऽपि लक्षयेत्।
विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ॥ 58 ॥

मूलम्

दशास्तुर्यसुषुप्त्याद्याश्चतुर्व्यूहेऽपि लक्षयेत्।
विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ॥ 58 ॥

टिप्पनी 58

परव्यूहावुपवर्ण्य विभवः कथ्यतेऽत्र। विभवावताराः पद्मनाभादयो बहवः। मत्स्यकूर्मादयोऽप्यत्रैव परिगणिता अवताराः।

विश्वास-प्रस्तुतिः

अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्त्वते।
अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् ॥ 59 ॥

मूलम्

अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्त्वते।
अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् ॥ 59 ॥

टिप्पनी 59

अर्चा नाम देवालयेषु प्रतिष्ठिता बिम्बविशेषाः।

विश्वास-प्रस्तुतिः

मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्‌गुण्यविग्रहा।
38पराद्यर्चावसानेऽस्मिन्मम रूपचतुष्टये ॥ 60 ॥

मूलम्

मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्‌गुण्यविग्रहा।
38पराद्यर्चावसानेऽस्मिन्मम रूपचतुष्टये ॥ 60 ॥

विश्वास-प्रस्तुतिः

तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः।
ईषद्भेदेन विज्ञेयं तद्वयूहविभवान्तरम्॥

मूलम्

तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः।
ईषद्भेदेन विज्ञेयं तद्वयूहविभवान्तरम्॥

शुद्धेतरं त्वथो मार्गं मम शक्र निशामया ॥ 61 ॥

इति 39श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 40शुद्धमार्गप्रकाशो नाम द्वितीयोऽध्यायः

इति द्वितीयोऽध्यायः


  1. एवम् A. ↩︎ ↩︎

  2. एषः E. I. ↩︎ ↩︎

  3. अध्वानम् A. B. C. ↩︎ ↩︎

  4. शस्यते B. C. ↩︎ ↩︎

  5. सर्वं B. E. ↩︎ ↩︎

  6. वस्तुतस्तु A. B. C. ↩︎ ↩︎

  7. A. B. C. D. omit this line. ↩︎ ↩︎

  8. सर्वः शान्तः स B. ↩︎ ↩︎

  9. निरालम्बमभावनम् I. ↩︎ ↩︎

  10. सहायो B. C. ↩︎ ↩︎

  11. णाख्यं तत् E. I. ↩︎ ↩︎

  12. विभाव्यते E; विभज्यते I. ↩︎ ↩︎

  13. विश्वं B. ↩︎ ↩︎

  14. सिसृक्षायां ममोद्यन्त्यां E. ↩︎ ↩︎

  15. सर्वादेशि B. ↩︎ ↩︎

  16. मितीर्यते E. ↩︎ ↩︎

  17. अतस्तत् I. ↩︎ ↩︎

  18. शक्यं शक्तेन च A. C. G. ↩︎ ↩︎

  19. प्रकृतिः I. ↩︎ ↩︎

  20. स्फूर्तयः E. I. ↩︎ ↩︎

  21. गुणानां कल्पनावस्थो I. ↩︎ ↩︎

  22. वेदिनः E. ↩︎ ↩︎

  23. अमूर्तिमत् A. B. C. D. ↩︎ ↩︎

  24. A. B. C. D. omit verses 41 and 42. ↩︎ ↩︎

  25. चतुरात्मता I. ↩︎ ↩︎

  26. गुणकल्पनया I. ↩︎ ↩︎

  27. A. B. C. D. F. omit this verse. ↩︎ ↩︎

  28. तिलकालिक E. I. ↩︎ ↩︎

  29. परा A. B. C. G. I. ↩︎ ↩︎

  30. रूपे B. C. D. I. ↩︎ ↩︎

  31. लब्धावस्था A. B. C. D. ↩︎ ↩︎

  32. इति तत्तु E. I. ↩︎ ↩︎

  33. श्रमाद्यविद्या A. B. C. G. ↩︎ ↩︎

  34. इतीर्यते B. ↩︎ ↩︎

  35. आद्यं D. ↩︎ ↩︎

  36. ज्ञानैश्वर्या E. I. ↩︎ ↩︎

  37. क्रमेण I. ↩︎ ↩︎

  38. पराद्यर्चावतारे A. B. C. D. ↩︎ ↩︎

  39. पाञ्चरात्रे I. ↩︎

  40. A. B. C. D. F. omit the title; शुद्धसृष्टि G. ↩︎