००१

श्रीः
लक्ष्मीतन्त्रम्

विश्वास-प्रस्तुतिः

प्रथमोऽध्यायः - 1
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने1 ॥ 1 ॥

मूलम्

प्रथमोऽध्यायः - 1
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने1 ॥ 1 ॥

टिप्पनी 1

नम इति विशिष्टोपायस्य, लक्ष्मीनारायणात्मन इति विशिष्टोपेयस्य च निर्देशः। नित्यानवद्यायेति नारायणस्य जगदुपादानत्वशङ्कितसविकारत्वनिरासः बद्धमुक्तजीववैलक्षण्यं चोक्तम्। जगतः सर्वहेतवे इत्यौपनिषदमभिन्ननिमित्तोपादानत्वं नित्यजीववैलक्षण्यं चोक्तम्। ज्ञानायेति जगत्कारणत्वौपयिकगुणगणपूर्तिः स्वरूपनिरूपकधर्मश्चोक्तः। निस्तरङ्गायेति षडूर्मिराहित्यं सततपरिणाम्यचिद्वैलक्षण्यं चोक्तम्।

विश्वास-प्रस्तुतिः

खगासनं 2घृणाधारमीदृशं सोमभूषितम्।
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे ॥ 2 ॥

मूलम्

खगासनं 2घृणाधारमीदृशं सोमभूषितम्।
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे ॥ 2 ॥

टिप्पनी 2

ईदृशमित्यादि। ईकाररूपमित्यर्थः। अकलङ्केत्यादि। स्वरस्पर्शव्यापकाक्षररूपमिति देव्या वाक्स्वरूपत्वमुक्तं भवति। यथोक्तं प्रपञ्चसारे– “स्वराख्याः षोडश प्रोक्ताः स्पर्शाख्याः पञ्चविंशतिः। व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात्॥” इति।

विश्वास-प्रस्तुतिः

वेदवेदान्त3तत्त्वज्ञं सर्वशास्त्रविशारदम्।
सर्वसिद्धान्ततत्त्वज्ञं धर्माणामागतागमम् ॥ 3 ॥

मूलम्

वेदवेदान्त3तत्त्वज्ञं सर्वशास्त्रविशारदम्।
सर्वसिद्धान्ततत्त्वज्ञं धर्माणामागतागमम् ॥ 3 ॥

विश्वास-प्रस्तुतिः

जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम्।
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम् ॥ 4 ॥

मूलम्

जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम्।
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम् ॥ 4 ॥

टिप्पनी 4

चतुर्दशेति। भक्तिन्यासयोगेत्यर्थः।

विश्वास-प्रस्तुतिः

टिप्पणी
नमस्यामः श्रियं देवीं देवो दीव्यति यत्सखः।
त्रैगुण्यफलके चित्रे क्षिप्तैर्ब्रह्मादिपाशकैः॥

मूलम्

टिप्पणी
नमस्यामः श्रियं देवीं देवो दीव्यति यत्सखः।
त्रैगुण्यफलके चित्रे क्षिप्तैर्ब्रह्मादिपाशकैः॥

विश्वास-प्रस्तुतिः

लक्ष्मीतन्त्रमहाम्भोधौ तत्त्वरत्नानि चिन्वताम्।
तत्त्वप्रकाशनी टीका साहाय्यं कर्तुमीहते॥

मूलम्

लक्ष्मीतन्त्रमहाम्भोधौ तत्त्वरत्नानि चिन्वताम्।
तत्त्वप्रकाशनी टीका साहाय्यं कर्तुमीहते॥

विश्वास-प्रस्तुतिः

विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम्।
निदानं तपसामाद्यं तेजोराशिमनामयम् ॥ 5 ॥

मूलम्

विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम्।
निदानं तपसामाद्यं तेजोराशिमनामयम् ॥ 5 ॥

टिप्पनी 5

विद्ध इति। अत्र महाभारतानुशासनिके 260 अध्यायोक्तमनुसंधेयम्।

विश्वास-प्रस्तुतिः

अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम्।
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम् ॥ 6 ॥

मूलम्

अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम्।
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम् ॥ 6 ॥

टिप्पनी 6

अत्रिगुणेत्यादिना महर्षेरत्रिनाम्नोऽन्वर्थत्वं व्यज्यते।

विश्वास-प्रस्तुतिः

पतिव्रतानां परमा धर्मपत्नी यशस्विनी।
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे ॥ 7 ॥

मूलम्

पतिव्रतानां परमा धर्मपत्नी यशस्विनी।
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे ॥ 7 ॥

टिप्पनी 7

ब्रह्मेत्यादि। पुरा त्रिमूर्तयोऽनसूयायाः पातिव्रत्यं परीक्षितुमयतन्त। तेन क्रुद्धया तया ते द्विहायनाः शिशवोऽक्रियन्त। ततस्तन्महिषीभिः प्रसादिता सा तान् यथापुरमकरोदिति पौराणिकी कथात्रानुसंधेया।

विश्वास-प्रस्तुतिः

देवैरभिष्टुता शश्वच्छान्तिनित्या तपस्विनी।
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता ॥ 8 ॥

मूलम्

देवैरभिष्टुता शश्वच्छान्तिनित्या तपस्विनी।
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता ॥ 8 ॥

विश्वास-प्रस्तुतिः

पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् ॥ 9 ॥

मूलम्

पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् ॥ 9 ॥

विश्वास-प्रस्तुतिः

अनसूया—
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते।
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः ॥ 10 ॥

मूलम्

अनसूया—
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते।
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः ॥ 10 ॥

विश्वास-प्रस्तुतिः

ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया ॥ 11 ॥

मूलम्

ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया ॥ 11 ॥

टिप्पनी 11

भगवद्धर्मः। भगवत्प्राप्तिफलो निवृत्तिधर्मः।

विश्वास-प्रस्तुतिः

त्वया कथयता तास्ता 4भगवद्धर्मसंहिताः।
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम् ॥ 12 ॥

मूलम्

त्वया कथयता तास्ता 4भगवद्धर्मसंहिताः।
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम् ॥ 12 ॥

विश्वास-प्रस्तुतिः

रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम्।
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् ॥ 13 ॥

मूलम्

रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम्।
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् ॥ 13 ॥

टिप्पनी 13

अप्टष्टत्वादिति। “नाप्टष्टः कस्यचिद् ब्रूयात्” इति विधिरत्राभिप्रेतः।

विश्वास-प्रस्तुतिः

यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा।
यत्प्रमाणा यदाधारा यदुपायाथ5 यत्फला ॥ 14 ॥

मूलम्

यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा।
यत्प्रमाणा यदाधारा यदुपायाथ5 यत्फला ॥ 14 ॥

विश्वास-प्रस्तुतिः

तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः ॥ 15 ॥

मूलम्

तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः ॥ 15 ॥

विश्वास-प्रस्तुतिः

6तं मे दर्शय पन्थानमुपसन्नास्म्यधीहि7 भो।
8इति तस्या वचः श्रुत्वा भगवानत्रिरब्रवीत् ॥ 16 ॥

मूलम्

6तं मे दर्शय पन्थानमुपसन्नास्म्यधीहि7 भो।
8इति तस्या वचः श्रुत्वा भगवानत्रिरब्रवीत् ॥ 16 ॥

टिप्पनी 16

उपसन्नेति। “तस्मै स विद्वानुपसन्नाय सम्यक् प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्” इति श्रुत्यर्थोऽभिप्रेतः। पन्थानमिति। सदुपायमित्यर्थः। “महाजनो येन गतः स पन्थाः” इतिवत्।

अत्रिः—

विश्वास-प्रस्तुतिः

9साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि।
मया प्टष्टेन वक्तव्यमिति नोद्धाटितं पुरा ॥ 17 ॥

मूलम्

9साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि।
मया प्टष्टेन वक्तव्यमिति नोद्धाटितं पुरा ॥ 17 ॥

विश्वास-प्रस्तुतिः

अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् ॥ 18 ॥

मूलम्

अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् ॥ 18 ॥

विश्वास-प्रस्तुतिः

पुरा मलयशैलस्था मुनयो धर्मतत्पराः।
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात् ॥ 19 ॥

मूलम्

पुरा मलयशैलस्था मुनयो धर्मतत्पराः।
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात् ॥ 19 ॥

विश्वास-प्रस्तुतिः

अप्टच्छन्नेतमेवार्थं भगवन्तं सनातनम्।
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम् ॥ 20 ॥

मूलम्

अप्टच्छन्नेतमेवार्थं भगवन्तं सनातनम्।
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम् ॥ 20 ॥

ऋषयः—

विश्वास-प्रस्तुतिः

10भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः।
शुद्धो 11भागवतो धर्मो मोक्षैकफललक्षणः ॥ 21 ॥

मूलम्

10भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः।
शुद्धो 11भागवतो धर्मो मोक्षैकफललक्षणः ॥ 21 ॥

टिप्पनी 21

सात्त्वतः सत्त्वसंश्रयः। सत्त्वगुणैकप्रधानो धर्म इत्यर्थः। अनेन सात्त्वतशब्दनिर्वचनमपि सूचितम्। यथा–सत्त्वं सत्त्वगुणः अस्यास्तीति सत्त्वतः। पर्वतादिवत् मत्वर्थे तप्‌प्रत्ययः। सत्त्वत एव सात्त्वत इति। तस्यैव विवरणं शुद्धो भागवतो धर्म इति।

विश्वास-प्रस्तुतिः

तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम्।
सूचितं तत्र तत्रैव नाप्टष्टत्वात्प्रकाशितम् ॥ 22 ॥

मूलम्

तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम्।
सूचितं तत्र तत्रैव नाप्टष्टत्वात्प्रकाशितम् ॥ 22 ॥

विश्वास-प्रस्तुतिः

इच्छामस्तदिदं श्रोतुं भवसागरतारकम्।
पद्मिनीवैभवं सर्वं प्रज्ञापयुत नो भवान् ॥ 23 ॥

मूलम्

इच्छामस्तदिदं श्रोतुं भवसागरतारकम्।
पद्मिनीवैभवं सर्वं प्रज्ञापयुत नो भवान् ॥ 23 ॥

विश्वास-प्रस्तुतिः

नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ॥ 24 ॥

मूलम्

नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ॥ 24 ॥

टिप्पनी 24

चिरमिति। “नासंवत्सरवासिने ब्रूयात्” इति विधिरभिप्रेतः।

विश्वास-प्रस्तुतिः

नारदः—
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः।
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम् ॥ 25 ॥

मूलम्

नारदः—
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः।
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम् ॥ 25 ॥

टिप्पनी 25

लक्ष्मीतन्त्रमिति ग्रन्थनाम। इदं च तन्त्रं शतकोटिग्रन्थपरिमितात् मूलभूतलक्ष्मीतन्त्रात् सारमुद्धृत्य कथितमिति वक्ष्यतेऽत्रैव (44-52)।

विश्वास-प्रस्तुतिः

यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः।
पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा ॥ 26 ॥

मूलम्

यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः।
पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा ॥ 26 ॥

विश्वास-प्रस्तुतिः

पुरा दुर्वाससः शापादभिभूते पुरंदरे।
निःस्वाध्यायवषट्‌कारे भ्रष्टश्रीके जगत्त्रये ॥ 27 ॥

मूलम्

पुरा दुर्वाससः शापादभिभूते पुरंदरे।
निःस्वाध्यायवषट्‌कारे भ्रष्टश्रीके जगत्त्रये ॥ 27 ॥

टिप्पनी 27

पुरेत्यादि। इयमाख्यायिका विष्णुपुराणे प्रथमांशे द्रष्टव्या। निःस्वाध्यायवषट्‌कारत्व भ्रष्टश्रीकत्वे हेतुः।

विश्वास-प्रस्तुतिः

दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि12 ॥ 28 ॥

मूलम्

दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि12 ॥ 28 ॥

टिप्पनी 28

निसंतते। विच्छिन्न इत्यर्थः।

विश्वास-प्रस्तुतिः

13बहून वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः।
संबोधिते जगन्नाथे देवदेवे जनार्धने ॥ 29 ॥

मूलम्

13बहून वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः।
संबोधिते जगन्नाथे देवदेवे जनार्धने ॥ 29 ॥

विश्वास-प्रस्तुतिः

पितामहेन देवाय कार्ये च विनिवेदिते।
क्षीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना ॥ 30 ॥

मूलम्

पितामहेन देवाय कार्ये च विनिवेदिते।
क्षीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना ॥ 30 ॥

विश्वास-प्रस्तुतिः

पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे।
कालकूटे समुद्‌भूते वारुण्याममृते तथा ॥ 31 ॥

मूलम्

पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे।
कालकूटे समुद्‌भूते वारुण्याममृते तथा ॥ 31 ॥

विश्वास-प्रस्तुतिः

सह चन्द्रमसा देव्यामुत्थितायां 14महार्णवात्।
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम् ॥ 32 ॥

मूलम्

सह चन्द्रमसा देव्यामुत्थितायां 14महार्णवात्।
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम् ॥ 32 ॥

विश्वास-प्रस्तुतिः

तयावलोकिते देववर्गे श्रियमुपेयुषि।
तयानवेक्षिते दैत्यवर्गे चैव 15पराजिते ॥ 33 ॥

मूलम्

तयावलोकिते देववर्गे श्रियमुपेयुषि।
तयानवेक्षिते दैत्यवर्गे चैव 15पराजिते ॥ 33 ॥

टिप्पनी 33

अनेनान्वयव्यतिरेकाभ्यां लक्ष्मीकटाक्षपातस्य सर्वसंपन्निदानत्वं निरूप्यते। यत्सत्त्वे यत्सत्त्वमित्यन्वये यथा देवेषु इति दृष्टान्तः। यदभावे यदभाव इति व्यतिरेके यथा दैत्येषु इति दृष्टान्तः। इममेव विषयमनन्तरमेव 35 तमश्लोके वक्ष्यति।

विश्वास-प्रस्तुतिः

स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् ॥ 34 ॥

मूलम्

स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् ॥ 34 ॥

विश्वास-प्रस्तुतिः

बृहस्पतिः—
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते [^16]कथिता पुरा ॥ 35 ॥

मूलम्

बृहस्पतिः—
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते [^16]कथिता पुरा ॥ 35 ॥

विश्वास-प्रस्तुतिः

महत्ता महतां नाथ तस्यामायतते16 स्थितिः।
17न भ्रश्येत यथैवैषा तव राज्यस्थितेः परा ॥ 36 ॥

मूलम्

महत्ता महतां नाथ तस्यामायतते16 स्थितिः।
17न भ्रश्येत यथैवैषा तव राज्यस्थितेः परा ॥ 36 ॥

विश्वास-प्रस्तुतिः

18तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः ॥ 37 ॥

मूलम्

18तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः ॥ 37 ॥

विश्वास-प्रस्तुतिः

श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया19 ॥ 38 ॥

मूलम्

श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया19 ॥ 38 ॥

टिप्पनी 38

श्रुतीनामिति। “वेदैश्च सर्वैरहमेव वेद्यः” इत्युक्तरीत्या सर्ववेदतात्पर्यपर्यवसानभूमिरित्यर्थः। उभयोरपृथग्भावान्न वचनविरोधः।

विश्वास-प्रस्तुतिः

20एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम् ॥ 39 ॥

मूलम्

20एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम् ॥ 39 ॥

टिप्पनी 39

जगत्कारणत्वस्य ब्रह्मासाधारणत्वसिद्धान्तेऽपि तच्छक्तिरूपत्वेन तदपृथक्सिद्धत्वात् शक्तिकृतस्यापि शक्तिमत्कृतत्वव्यपदेशो युज्यत एव। वक्ष्यते चैतत् सुस्पष्टं देव्यैव (11-6, 7).

विश्वास-प्रस्तुतिः

जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः ॥ 40 ॥

मूलम्

जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः ॥ 40 ॥

विश्वास-प्रस्तुतिः

21एतत्तु वैष्णवं धाम यते नावर्तते यतिः22
एषा सा परमा निष्ठा सांख्यानां विदितात्मनाम् ॥ 41 ॥

मूलम्

21एतत्तु वैष्णवं धाम यते नावर्तते यतिः22
एषा सा परमा निष्ठा सांख्यानां विदितात्मनाम् ॥ 41 ॥

विश्वास-प्रस्तुतिः

एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति।
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः ॥ 42 ॥

मूलम्

एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति।
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः ॥ 42 ॥

विश्वास-प्रस्तुतिः

23पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना ॥ 43 ॥

मूलम्

23पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना ॥ 43 ॥

विश्वास-प्रस्तुतिः

पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः।
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः ॥ 44 ॥

मूलम्

पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः।
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः ॥ 44 ॥

टिप्पनी 44

नारायण्या नारायणात्मनावस्थानं पूर्वश्लोकोक्तमेवोपपादयति—पृथग्भूतेति अपृथग्भूतेति च। धर्मधर्मिणोरपृथक्‌सिद्धयोः निष्कर्षविवक्षायां धर्मस्य पृथग्व्यपदेशः। अनिष्कर्षे तु धर्मितया। यथा `शुक्लं रूपम्, शुक्लः पटः’ इति।

विश्वास-प्रस्तुतिः

एकैवैषा परा देवी बहुधा 24समुपास्यते।
तामुपेहि महाभागां शरणं पद्मसंभवाम् ॥ 45 ॥

मूलम्

एकैवैषा परा देवी बहुधा 24समुपास्यते।
तामुपेहि महाभागां शरणं पद्मसंभवाम् ॥ 45 ॥

विश्वास-प्रस्तुतिः

तपोविशेषै25 र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् ॥ 46 ॥

मूलम्

तपोविशेषै25 र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् ॥ 46 ॥

विश्वास-प्रस्तुतिः

एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति।
अभीप्सितार्थदा देवी कामिनामपि कामदा ॥ 47 ॥

मूलम्

एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति।
अभीप्सितार्थदा देवी कामिनामपि कामदा ॥ 47 ॥

टिप्पनी 47

देवीप्रसादे परमपदरूपमोक्षप्राप्तिः, आनुषङ्गिकत्रिवर्गफलप्राप्तिश्चानेनोच्यते।

विश्वास-प्रस्तुतिः

नारदः—
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ ॥ 48 ॥

मूलम्

नारदः—
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ ॥ 48 ॥

विश्वास-प्रस्तुतिः

तत्र दिव्यं तपस्तेपे बिल्वमूलनिकेतनः।
26एकपादस्थितो 27मौनी काष्ठभूतोऽनिलाशनः ॥ 49 ॥

मूलम्

तत्र दिव्यं तपस्तेपे बिल्वमूलनिकेतनः।
26एकपादस्थितो 27मौनी काष्ठभूतोऽनिलाशनः ॥ 49 ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान्।
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम् ॥ 50 ॥

मूलम्

ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान्।
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम् ॥ 50 ॥

विश्वास-प्रस्तुतिः

तपसोऽवभृथे तस्य सा देवी पद्मसंभवा।
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ ॥ 51 ॥

मूलम्

तपसोऽवभृथे तस्य सा देवी पद्मसंभवा।
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ ॥ 51 ॥

विश्वास-प्रस्तुतिः

अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ ॥ 52 ॥

मूलम्

अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ ॥ 52 ॥

विह्वलः प्रणिपत्याथ पाञ्जलिर्बलसूदनः।
28श्रियं सूक्तेन तुष्टाव पद्मिनीं पाकशासनः ॥ 53 ॥

विश्वास-प्रस्तुतिः

एकान्तभावमापन्नमव्याजां भक्तिमास्थितम्।
तं वीक्ष्य जगतां माता वाक्यमेतदुवाच ह ॥ 54 ॥

मूलम्

एकान्तभावमापन्नमव्याजां भक्तिमास्थितम्।
तं वीक्ष्य जगतां माता वाक्यमेतदुवाच ह ॥ 54 ॥

विश्वास-प्रस्तुतिः

श्रीः—
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते ॥ 55 ॥

मूलम्

श्रीः—
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते ॥ 55 ॥

विश्वास-प्रस्तुतिः

शक्रः—
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया ॥ 56 ॥

मूलम्

शक्रः—
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया ॥ 56 ॥

विश्वास-प्रस्तुतिः

यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि29 यासि त्वं यत्प्रकारिका ॥ 57 ॥

मूलम्

यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि29 यासि त्वं यत्प्रकारिका ॥ 57 ॥

विश्वास-प्रस्तुतिः

यत्प्रमाणा यदाधारा यदुपाया सनातनी।
यस्य त्वं तेन30 वा देवि संबन्धस्तव यद्विधः ॥ 58 ॥

मूलम्

यत्प्रमाणा यदाधारा यदुपाया सनातनी।
यस्य त्वं तेन30 वा देवि संबन्धस्तव यद्विधः ॥ 58 ॥

विश्वास-प्रस्तुतिः

यच्चान्यद्वेदितव्यं ते नानाशास्त्रोपबृंहितम्।
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो ॥ 59 ॥

मूलम्

यच्चान्यद्वेदितव्यं ते नानाशास्त्रोपबृंहितम्।
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो ॥ 59 ॥

विश्वास-प्रस्तुतिः

इति 31प्रसादिता तेन वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 60 ॥

मूलम्

इति 31प्रसादिता तेन वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 60 ॥

विश्वास-प्रस्तुतिः

श्रीः—
शृणु शक्र महाभाग या 32ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् ॥ 61 ॥

मूलम्

श्रीः—
शृणु शक्र महाभाग या 32ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् ॥ 61 ॥

इति 33श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 34शास्त्रावतारो नाम प्रथमोऽध्यायः

इति प्रथमोऽध्यायः


  1. B and C add the following verses in the beginning:
    तुषाराद्रिसमच्छायं तुलसीदामभूषणम्।
    तुरंगममुखं वन्दे तुङ्गसारस्वतप्रदम्॥
    ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्।
    आधारं सर्वविद्यानां हयग्रीवमुपास्महे॥ ↩︎ ↩︎

  2. All Mss. read wrongly ऋणाधारं. ↩︎ ↩︎

  3. वेदाङ्ग D. E. I. ↩︎ ↩︎

  4. भगवन् B. C. ↩︎ ↩︎

  5. च C. E. ↩︎ ↩︎

  6. तन्मे B. G. ↩︎ ↩︎

  7. स्म्यहं विभो C. E. ↩︎ ↩︎

  8. B. C. E. omit this line. ↩︎ ↩︎

  9. सम्यक् C. D. E. G. ↩︎ ↩︎

  10. भगवत्तः A. B. C. ↩︎ ↩︎

  11. भगवतो A. B. C. G. ↩︎ ↩︎

  12. मीयुषि G; क्षीरार्णवमुपेयुषि I. ↩︎ ↩︎

  13. बहुवर्ष E. I. ↩︎ ↩︎

  14. सुधा D. E. F. I. ↩︎ ↩︎

  15. पुरा G. ↩︎ ↩︎

  16. मायाति ते A. B. C. ↩︎ ↩︎

  17. A. B. C. G. omit this line. ↩︎ ↩︎

  18. परां यजस्व A. B. C. G. ↩︎ ↩︎

  19. प्रिया C. ↩︎ ↩︎

  20. एषा हि A. B. C. G. ↩︎ ↩︎

  21. एतत्तद्वै E. I. ↩︎ ↩︎

  22. पुनः E. ↩︎ ↩︎

  23. पाञ्च E. G. ↩︎ ↩︎

  24. तदु D. F. ↩︎ ↩︎

  25. नियमैस्तैस्तैश्च विविधैः E. F. I. ↩︎ ↩︎

  26. E. omits 8 lines from here. ↩︎ ↩︎

  27. भूमौ F. ↩︎ ↩︎

  28. श्रियः I. ↩︎

  29. मे देवि E. I. ↩︎ ↩︎

  30. केन E. I. ↩︎ ↩︎

  31. संबोधिता E. ↩︎ ↩︎

  32. स्म्यहं D. F. G. I. ↩︎ ↩︎

  33. श्रीपञ्चरात्रे तन्त्रे E. श्रीपञ्चरात्रसारे B. श्रीपाञ्चरात्रे F. ↩︎

  34. A. B. C. D. F. read सर्वाधिष्ठानप्रकाशो; A. I. omit the title. ↩︎