पाञ्चरात्रपञ्चामृतम्

[[P1]]

श्रीः श्रीमते रामानुजाय नमः

Kriyasagaram Vol. 14 śrīpāñcarātra pañcāmṛtam (Sanskrit)

क्रियासागरम् Vol. 14 श्रीपाञ्चरात्रपञ्चामृतम्

By: SRI PANCHARATRA AGAMA VIDVAN Therazhundur K.SRIRAMAN BATTACHARYAR, Sri Pancharatra Agama Samrakshana Sabha, CG1-214, East Adayavalanjan St, Srirangam, Trichy - 620-006. +91-97917-02035 sriramanbattachar@gmail.com www.kriyasagaram.in

[[P2]]

Kriyasagaram Volume – 14 śrīpāñcarātrapañcāmṛtam

First Print 100 copies

Books Available at : K.SRIRAMAN BATTACHARYAR, Sri Pancharatra Agama Samrakshana Sabha, CG1-214, East Adayavalanjan St, Sriranagam, Trichy, Tamil - Nadu. 620-006. +91-97917-02035. sriramanbattachar@gmail.com www.kriyasagaram.in

[[P3]]

श्रीः
श्रीपाञ्चरात्रपञ्चामृतम्
विषयसूचिका

अमृतम् मण्डपम् Page No.
1. भोग-मण्डपम् (श्रीरङ्ग-माहात्म्यम्) 1
2. पुष्प-मण्डपम् (श्री-वेङ्कटाचल-माहात्म्यम्) 13
3. त्याग-मण्डपम् (श्री-काञ्चीक्षेत्र-माहात्म्यम्) 18
4. ज्ञान-मण्डपम् (श्री-यादवाचल-माहात्म्यम्) 28
5. तिरुमामाणिमण्डपम् (कुम्भघोण-क्षेत्र-माहात्म्यम्)
परिच्छेदः अध्याय नामम् Page No.
1 42
2 44
3 47
4 49
5 52
6 56
7 59
8 62
9 67

[[P4]]

10 श्रीकोमलवल्लि-नाच्चियार्-श्रीशार्ङ्गपाणिस्वामि-वैवाहिकम् 71
11 महर्षिणा-नित्याराधनादि-कर्तव्यम् 74
12 उत्तरायण-दक्षिणायन-द्वार-माहात्म्यम् 76
13 हेम-पुष्करिणी-माहात्म्यम् 80
14 श्री-वराह-वैभवम्, श्री-वराह-पुष्करणी-वैभवम्, लक्ष्मि-नारायण-वैभवम् 83
15 श्री-वरदराजस्वामि-वैभवम् 85
16 सुदर्शन-वैभवम् 1 88
17 सुदर्शन-वैभवम् 2 91
18 चक्रतीर्थस्य-माहात्म्यम् 95
19 फलश्रुतिः 96

[[P5]]

श्रीपाञ्चरात्रपञ्चामृतम्

भोग-मण्डपम्

[[P6]]

श्रीपाञ्चरात्रपञ्चामृतम्

श्रीमते रामानुजाय नमः
श्री-भूमि-नीला-रङ्गनायिका-समेत श्री-रङ्गनाथ-परब्रह्मणे नमः॥

श्री-पाञ्चरात्रे पारमेश्वर-संहितान्तर्गत (दशमोऽध्याये)

श्री-रङ्ग-क्षेत्र, श्री-रङ्ग-विमान, श्री-रङ्गनाथ-माहात्म्यम्

सनकः-
प्रसादानां स्वयं-व्यक्त-पूर्वाणां तु विशेषतः ।
प्रासादं तु स्वयं-व्यक्तम् अत्यर्थं त्वं प्रशंससि ।
कीदृशं तद्-रूपं स्याद् अन्येषां वा अपि कीदृशम् ।
कीदृशी च महत्ता अस्य ज्ञातुम् इच्छामि साम्प्रतम् ।

शाण्डिल्यः-
यद् इदं दृश्यते विष्णोर् मायया निर्मितं जगत् ।
कालादि-बहुभिर् भेदैर् भिन्नं नाना-स्वरूपकैः ।
तदीये प्रभवो हि अग्निः प्रलयश् च निशागमे ।
दिव्यं युग-सहस्रं हि तदीयं विद्धि वासरम् ।
रात्रिश् च तावती ज्ञेया एवं रात्रिक्षये सति ।
प्रवर्त्ममाने त्व् अहनि काले सन्ध्याख्य-लक्षणे ।
स्व-कारणम् अनुविध्य कार्यार्थं मुनि-पुङ्गव ।
ज्ञान-योग-प्रभावेन अमेय-महिमावृतम् ।
प्रेरितं नाभि-रन्ध्रेण तेन हार्दं कुशेशयम् ।
विज्ञप्ति-मात्र-रूपं तु स्वस्य अन्तःकरणे स्थितम् ।
सहस्रार्क-प्रतीकाशं सहस्र-शशि-केशरम् ।
सहस्र-वह्नि-गर्भं च हेम-नालं महा-प्रभम् ।
तन्-मध्ये मानसो ब्रह्मा तेन सृष्टश् चतुर्मुखः ।
जगद्-विभव-कृद् विप्र! विद्या-देहः सनातनः ।
सर्व-संस्कार-सम्पूर्णो वेद-वेदाङ्ग-पारगः ।
अणिमाद्य्-अष्टकोपेतः सिसृक्षा-शक्तिभिर् युतः ।
न तस्य विदितश् च असौ यदा यातः [[सगवताम्|सर्गवताम्]] ।
अस्मीति प्रत्ययं लब्ध्वा रजसा [[कषीकृतः|कलुषीकृतः]] ।
तस्मिंश् च अन्तर्हिते तस्य पौष्करस्य मतिस् तदा ।
विपर्यस्ता ततः सृष्टौ प्रवृत्तिर् न अभवद् द्विज ।
कार्य-अकार्य-विशेषज्ञो [[नाभदूिद्वग्नचेतनः|नाभेर् उद्विग्न-चेतनः]] ।
ततः प्रसन्न-चेतास् तु तपस् तेपे सु-दुश्चरम् ।
अचिरात् पुण्डरीकाक्षं द्रष्टु-कामः प्रजापतिः ।
ततस् तु तप्यमानस्य ब्रह्मणो द्विज-सत्तम ।
हरेः स्तोत्रार्थम् उद्भूता बुद्धिर् बुद्धिमतां वर ।
ततो जगौ परं जप्यं साञ्जलि-प्रग्रहो विभुः ।

ब्रह्मा-

नमस्ते ब्रह्म-हृदय नमस्ते ब्रह्म-पूर्वज ।

[[P7]]

योगार्थ-नय-श्रेष्ठे! साङ्ख्य-योग-निधे विभो ।
व्यक्त-अव्यक्त-कर-अचिन्त्य क्षेमं पन्थानम् आस्थित ।
विश्वभृत्-सर्व-भूतानाम्-अन्तरात्मन्न्-अयोनिज ।
अहं प्रसादजस् तुभ्यं लोक-धात्रे स्वयम्भुवे ।
त्वत्तो मे मानसं जन्म प्रथमं द्विज-पूजितम् ।
चाक्षुषं यद् द्वितीयं मे जन्म इह आसीत् पुरातनम् ।
त्वत्-प्रसादाच् च मे जन्म तृतीयं वाचकं महत् ।
तत्त्वतः श्रावणं च अपि चतुर्थं जन्म मे विभो ।
नासिक्यं वा अपि मे जन्म त्वत्तः पञ्चमम् उच्यते ।
अण्डजं च अपि मे जन्म त्वत्तः षष्ठं विनिर्मितम् ।
इदं च सप्तमं जन्म पद्मजं त्वम् इत-प्रभ ।
सर्गे सर्गे हि अहं पुत्रस् तृतीय-गुण-वर्जित ।
प्रथमः पुण्डरीकाक्षः प्रधान-गुण-कल्पितः ।
त्वम् ईश्वर! प्रभावश् च भूतानां च प्र भावनः ।
त्वं पञ्च-काल-कर्तृणां गतिस् त्वं पाञ्चरात्रिक ।
त्वया हि निर्मितो ऽहं वै वेद-चक्षुर्-वचो ऽतिग ।
स्रष्टुं जगद् इदं सर्वं चेतन-अचेतनात्मकम् ।
का शक्तिर् मम देवेश जगत् स्रष्टुं जगत्-प्रभो ।
एवं स्तुतः स भगवान् पुरुषः सर्वतो-मुखः ।
स्वरूपं दर्शयामास तस्मै दिव्यम् अनुत्तमम् ।
तं दृष्ट्वा महता युक्तो हर्षेण [[कमलासन|कमलासनः]] ।
आनन्दाश्रु-समाविष्टः प्रणम्य प्राञ्जलिः स्थितः ।
ततस् तु पुण्डरीकाक्षस् तम् उवाच जगत्-पतिः ।
सृजा प्रजाः पुत्र सर्वाः मुखतः पादतस् तथा ।
श्रेयस् तव विधास्यामि बलं तेजश् च सु-व्रत ।
वेदं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ।
तेन सर्वं कृत-युगं स्थापयस्व यथा-विधि ।
प्रजानाम् अपि सर्वासं संवृत्ते सर्ग-कर्मणि ।
दिव्यस्य महतो धाम्नः साक्षाद् व्यक्तस्य च अन्तरे ।
स्वयं-व्यक्तेन दिव्येन हि आकरेण अमलेन च ।
अनन्त-भोग-शयने शयानः पङ्कजेक्षणः ।
प्रकाशयिष्यति परो वासुदेवः परात्-परः ।
तम् आराधय देवेशं विमान-अभ्यन्तर-स्थितम् ।
सर्वेषाम् अपि लोकानां सृष्टि-स्थित्य्-अन्त-कारणम् ।
वासुदेवं तु परमं पुमांसं भक्त-वत्सलम् ।
द्वादशाक्षर-मन्त्रेण भोगैः साम्पर्शिक-आदिकैः ।
हृदयङ्गम-संज्ञैश् च विविधैर् औपचारिकैः ।
स्व-अधिकार-प्रवृत्त्यर्थं लोकानां हित-काम्यया ।
महोपनिषद्-आख्येन शास्त्रेण उक्त-प्रकारतः ।
यत् पौष्कर-आख्यया लोके प्रथिमानं प्रयास्यति ।
पौष्करस्य तव उक्तत्वात् प्रथितं तु तथा भवेत् ।
महा-विभूतिर् इति च तद्-व्याख्ये परे युगे ।

[[P8]]

अस्मिन्न् आदौ कृत-युगे समतीते तु मानुषे ।
ततो ब्रह्मा नमश् चक्रे देवाय हरिमेधसे ।
ब्रह्मा च अङ्गं जग्राह स-निषत्-संहितान्वितम् ।
कर्मारम्भ-आदिभिर् मन्त्रैर् विद्विषट्-प्राण-समन्वितैः ।
दिव्यैः समन्वितं विप्र! द्वादश-अध्यात्म-संयुतम् ।
अनिच्छातः अधिकारीणां तत्-प्राप्य्-एक-फल-प्रदम् ।
चातुरात्मक-निष्ठं च वासुदेव-मुखोद्गतम् ।“
एवं स भगवान् देव आद्यं वेदं सनातनम् ।
उपदिश्य ततो विप्र ब्रह्मणे अमित-तेजसे ।
दत्त्वा श्रियो बलं तेजः सृष्टि-कर्म-प्रवर्तकम् ।
जगाम तमसः पारं यत्र अव्यक्तं व्यवस्थितम् ।
ततो ऽथ वरदो देवो ब्रह्मा लोक-पितामहः ।
असृजत् स तदा लोकान् कृत्स्नान् स्थावर-जङ्गमान् ।
एवं सृष्ट्वा जगत् सर्वं भूयश् चू कमलासनः ।
कदा द्रक्ष्यामि अहं देवं लोकानां हित-कारिणम् ।
वासुदेवं विमान-अन्तः शयानं पीत-वाससम् ।
इति चिन्ता-समाविष्टस् तपस् तेपे सु-दुश्चरम् ।
प्रादुरासीत् ततो दिव्यं विमानं परम-अद्भुतम् ।
प्रकाशयद् दिशः सर्वाः प्रकाशेन अमलेन च ।
उपान-जगती-युक्तं पीठ-अङ्घ्रि-प्रस्तर-आदिकैः ।
ग्रीवा-शिखर-तत्-संस्थ-वेदी-घट-शिखान्तिमः ।
दिव्यैर् अवयवैर् युक्तं दिव्याऽलङ्कार-शोभितम् ।
वृत्तायतं तु परितः शकुनासा-परिष्कृतम् ।
तं दृष्ट्वा महत्-आश्चर्यम् आनन्द-अश्रु-परिप्लुतः ।
पुलकाञ्चित-सर्वाङ्गः प्रीति-विस्फारितेक्षणः ।
स-सम्भ्रमं समुत्थाय प्रणम्य प्राञ्जलि-स्थितः ।
पीठ-आद्येषु शिखान्तेषु विमान-अवयवेषु च ।
भूराद्यं सत्य-पर्यन्तं लोकानां सप्तकं क्रमात् ।
अध्वनां भुवन-अध्वा-आदि षट्कं वर्ण-अध्व-पश्चिमम् ।
धरादि-पुरुष-अन्तं च तत्त्व-बृन्दं द्विजोत्तम ।
सत्ता-स्वरूपम् आस्थाय संस्थितं सन्ददर्श ह ।
ततस् तु देवता-बृन्दं क्रमेण समलोकयत् ।
पीठस्य आधार-भागे तु हि अनन्तो नाम नागराट् ।
चक्रं सामर्थ्य-शक्ति-आदि-शक्ति-सङ्घं तथैव च ।
ज्ञान-भास-आदिकानां तु शक्तीनाम् अष्टकं तथा ।
बल-वीर्यवती-पूर्वं अष्टकं स्थिति-पश्चिमम् ।
अकार-आदि-क्षकार-अन्त-वर्ण-चक्रं द्विजोत्तम ।
ततः पीठ-प्रदेशाच् च धर्माद्यं च द्विर्-अष्टकम् ।
चक्रं काल-अनल-ज्योतिः पद्मं धाम-त्रय-आश्रितम् ।
चिन्मयः पुरुषो मध्ये सर्वाभिः शक्तिभिर् युतः ।
दिक्-पत्रकेषु हि अनन्त-आद्यं ततश् चरण-वर्गके ।

[[P9]]

वासुदेव-आदिकं दिक्षु शाखा-मूले सुदर्शनम् ।
ज्ञान-क्रियात्मके तत्त्वे शाखयोः परमेश्वरम् ।
आद्यन्त-उम्बरे हि ऊर्ध्वे तत्-पृष्ठे धर्म एव च ।
कवाटयोस् तु काल-अग्नी वरुणं तु ततो द्विज ।
स्तम्भयोः शकुनासाया इच्छा-प्राणौ गवाक्षयोः ।
अग्नीषोमौ ततो जङ्घा-द्विषट्के अन्तर-भूमिषु ।
काल-आदि-वसुधा-अन्तं च जङ्घानां केशव-आदिकम् ।
नासिकानां तु नवके कपोतस्थे अन्तरे अपि च ।
चक्र-आद्य्-आयुध-संघातं सत्ता-रूपेण संस्थितम् ।
शकुनासा-मुखे देवं वासुदेवं जगत्-पतिम् ।
नासिका-त्रितये शिष्टे हि अचुत-आद्यं क्रमात् स्थितम् ।
स-शक्तिकं तु पत्र-आद्यैर् भूषिते वेदिका-तले ।
सुदर्शनं तु षडरं घटानां तु चतुष्टये ।
वासुदेव-आदिकान् विप्र! रथ-अङ्गानां तद्-अग्रतः ।
अमल-आद्यं चतुष्कं तु क्रमेण उदित-पश्चिमम् ।
अध्यक्ष-आद्यादि-मध्य-अन्तं शकुनासा-घटेषु वै ।
सर्व-लोकमयं विप्र सकल-अध्वमयं तथा ।
सर्व-तत्त्वमयं चैव सर्व-देवमयं तथा ।
इति क्रमेण सन्दृश्य विमानं हृष्ट-चेतनः ।
ततः प्रदक्षिणीकृत्य चतुर्धा प्रणिपत्य च ।
अभ्यन्तरं विमानस्य गर्भ-मौलौ तु मध्यतः ।
आत्म-प्रमाण-रचिते मृदु-स्पर्शे मनोहरे ।
*शुद्ध-स्फटिक-संकाशे दीप्यमाने अति-भास्वरे ।
फणा-मण्डल-मध्यस्थैर् मणिभिर् दीपिते तथा ।
अनन्त-भोग-शयने शयानं पीत-वाससम् ।
निष्केवलेन सत्त्वेन सम्पन्नं रुचिर-प्रभम् ।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ।
मुञ्चन्तम् अनिशं देहाद् आलोकं ज्ञान-लक्षणम् ।
प्रयत्नेन विना अज्ञान-नाश-कृद् अध्यायिनां महत् ।
स्रग्-वस्त्र-आभरणैर् युक्तं स्व-अनुरूपैर् अनुपमैः ।
चिन्मयैः स्व-प्रकाशैश् च अन्योन्य-रुचिर-अञ्जितैः ।
दन्त-ज्योत्स्ना-वितानेन स्तु प्रकटि-कृत्-दिग्वखम् ।
रेखोस्थितैश् च कल्हारैः पाद-पद्म-तले अङ्कितम् ।
निमग्न-जन-सन्ताप-शमन-व्यापृताननम् ।
करुणा-पूर्ण-हृदयं जगद्-उद्धारणोद्यतम् ।
स्व-देह-तेजः-सम्भूत-ज्वाला-मण्डल-मध्यगम् ।
घन-कुञ्चित-नील-आलि-गलित-अञ्जन-सन्निभैः ।
कर्पूर-धूसरैर् दिव्यैः पुष्प-संवलितान्तरैः ।
किरीट-मकुट-आक्रान्तैः शोभितं सुशिरोरुहैः ।
ईषद्-आरक्त-गो-क्षीर-शुद्ध-नीलाब्ज-लोचनम् ।
शीतलैर् दृष्टि-पातैस् तु जगद्-आप्याय-कारणम् ।
सु-भ्रू-ललाटं सु-नसं सु-स्मित-अधर-विद्रुमम् ।

[[P10]]

सौन्दर्य-चन्द्र-संकाश-विलसद्-गण्ड-मण्डलम् ।
पूर्व-कर्म-अर्ण-उल्लङ्घन-प्लवमान-अरुण-अङ्घ्रि-पङ्कजम् ।
स्व-दन्तेन्दु-चयोत्थेन ह्रादयन योग-गणेन तु ।
मुख-सौन्दर्य-निष्यन्द-चिबुक-स्थल-शोभितम् ।
स-विलास-स्मित-आधारं बिभ्राणं मुख-पङ्कजम् ।
कम्बु-ग्रीवं महा-बाहुं श्रीवत्स-अङ्कित-वक्षसम् ।
सिंह-स्कन्धं विशालाक्षं दीर्घ-बाहुं महोरसम् ।
शङ्ख-चक्र-अङ्कित-आरक्त-कर-द्वय-विभूषितम् ।
दक्षिणं भोगि-भोग-आभम् उपधाय महा-भुजम् ।
प्रसारित-उत्तर-करं कटि-देशस्य पार्श्वतः ।
कौस्तुभेन-अङ्गितोरस्कं लक्ष्मी-भूषित-वक्षसम् ।
आ-ब्रह्म-स्तम्ब-पर्यन्तं जगद्-व्यास-तनु-उदरम् ।
ईषत्-कुञ्चित-वाम-अङ्घ्रि-पङ्कजं पङ्कजेक्षणम् ।
प्रसार्य दक्षिणं पादम् ईषद्-उत्तान-शायिनम् ।
अनेक-रत्न-खचित-किरीट-मकुट-उज्ज्वलम् ।
उद्यद्-आदित्य-संकाशैर् विचित्रैर् मणिसञ्चयैः ।
विराजमानया सम्यक् स्फुरच्-चूलिकया-उज्ज्वलम् ।
रत्न-अवतंस-प्रभया दीप्त-श्रवण-शेखरम् ।
ललाट-अन्त-समालिम्बि-बाल-अलंकार-भूषितम् ।
ललाट-तिलकेन एव सुन्दरेण विराजितम् ।
अनेक-रवि-संकाश-लसन्-मकर-कुण्डलम् ।
प्रभूत-मणि-मुक्ताढ्य-ग्रैवेयक-विराजितम् ।
वज्र-वैडूर्य-माणिक्य-पद्मराग-आदि-शोभितैः ।
हारैर् अनेकैर् विविधै रूप-शोभित-वक्षसम् ।
उद्यद्-आदित्य-संकाश-कौस्तुभेन विराजितम् ।
भ्राजन्त्या जगत्-सर्वं स्व-तेजोभिर् निरन्तरम् ।
मालया वैजयन्त्या च भ्राजमान-महोरसम् ।
नाना-रत्न-विचित्रेण मुक्ता-दाम-विलम्बिना ।
स्फुरता ब्रह्म-सूत्रेण काञ्चनेन सुशोभितम् ।
द्युतिभिर् महार्ह-रत्नै राचितेन सु-वर्चसा ।
काञ्चनेन अथ सूत्रेण उदरे कृत-बन्धनम् ।
नाना-माणिक्य-विलसत्-कटि-सूत्रेण शोभितम् ।
अनेक-रत्न-सन्दृब्ध-रशना-दाम-मण्डितम् ।
अनेक-कोटि-मार्ताण्ड-विलसत्-पीत-वाससम् ।
अनेक-रत्न-सम्भिन्न-नूपुरादि-विभूषितम् ।
एवम् अन्यैश् च विविधैः केयूर-कूटक-आदिकैः ।
यथार्ह-भूषणै रम्यैर् लब्धैः परिभूषितम् ।
प्रावृट्-जलद-सङ्काशं भिन्न-अञ्जन-चय-प्रभम् ।
अभिन्न-पूर्ण-षाड्गुण्य-विभवेन उपबृंहितम् ।
योगि-ध्येयम् अजं नित्यं जगज्-जन्मादि-कारणम् ।
अनादि-निधनं देवं साक्षाल्-लक्ष्मी-पतिं प्रभुम् ।
अप्राकृत-तनुं शान्तं वासुदेवं परात्-परम् ।*

[[P11]]

जन-लोक-आगतैः सिद्धैः सनक-आद्यैर् अभिष्टुतम् ।
नेत्राभ्याम् अनिमीषाभ्यां तृषिताभ्यां पिबन्न् इव ।
उदैक्षत प्रहृष्टात्मा प्रणिपत्य मुहुर् मुहुः ।
स्तुत्वा च विविधै स्तोत्रैर् हर्ष-गद्गदया गिरा ।
तद् आदाय महत्-दिव्यं विमानं शिरसा ततः ।
जगाम भवनं विप्र स्वकीयं कमलासनः ।
तत्र सम्पूजयामास द्विषट्-ब्रह्म-विद्यया ।
महता विभवेन एव ब्रह्मा लोक-पितामहः ।
अत्रान्तरे तु विप्रेन्द्र पौष्करस्य महात्मनः ।
जिज्ञासायां तु जातायां शास्त्रे पौष्कर-संज्ञके ।
प्रादुर्भूतस् तदा विप्र! वासुदेवो जगत्-पतिः ।
महोपनिषदं शास्त्रं ग्राहयामास पद्मजम् ।
यो मूल-वेदो विख्यातस् तादृक् तस्मात् परिसृतम् ।
सिद्धि-मोक्ष-प्रदं विप्र सर्व-शास्त्र-अर्थ-गर्भितम् ।
नाना-व्यूह-समोपेतं मूर्त्यन्तर-समन्वितम् ।
नाना-विभव-संयुक्तं प्रादुर्भाव-अन्तर-अन्वितम् ।
लक्ष्म्यादि-शङ्ख-चक्र-आख्य-गारुत्म-स-दिग्-ईश्वरैः ।
स-गणैस् तैस् तनिष्ठैस् तु सम्पूर्णं द्विज-सत्तम ।
बीजैः पिण्डात्मकैश् चैव पदैः संज्ञा-मयैर् द्विज ।
मन्त्र-व्यूहस् तु विविधैर् ध्यानैश् च विविधैर् युतम् ।
तत्त्व-संख्या-समाख्यातैर् मण्डलैर् भद्रक-आदिभिः ।
तथा चतुर्दश-व्यूहैर् अनेकैर् गज-गर्भितैः ।
षट्-त्रिंशद्-अरकैर् युक्तैश् चक्र-आद्यैर् न वैस् तथा ।
द्व्य्-अरकादि-सहस्रार-पर्यन्तैश् च स-कारणैः ।
तथा अष्टादशभिर् विप्र मिश्र-चक्र-अभिधानकैः ।
आचार्य-आवरकेणैव रूपेण परिसेवितैः ।
महाख्य-नव-नाभेन बिम्ब-भेद-स्थितेन च ।
घण्टा-स्रुक्-स्रुव-पूर्वैस् तु क्रियाङ्गैर् विविधैर् अपि ।
नाना-लक्षण-संयुक्तैः कुण्डैश् च परिभूषितम् ।
वत्सरोत्सव-पर्यन्तैः स्थापन-आद्यैश् च कर्मभिः ।
नित्य-नैमित्तिकैः काम्यैः परिपूर्णं द्विजोत्तम ।
स्वयं-व्यक्त-आदि-भेदोत्थैः प्रासादैश् च समन्वितम् ।
तस्य अधिकार-वृत्त्यर्थं लोकानां हित-काम्यया ।
ततस् तद्-उक्त-मार्गेण विविधैर् भोग-सञ्चयैः ।
नित्य-नैमित्तिकैः काम्यैर् विविधैश् च महोत्सवैः ।
तत्र प्रतिदिनं कुर्वन् पूजां लोक-पितामहः ।
व्यापारान् जगतां चक्रे विविधान् लोक-पूजितः ।
ततो मन्वन्तरे विप्र प्राप्ते वैवस्वत-अभिधे ।
इक्ष्वाकु-नाम नृपतिः सूर्य-वंश-समुद्भवः ।
महात्मा सततं योगी सर्व-भूत-हिते रतः ।
द्रष्टु-कामः प्रसन्न-आत्मा वासुदेवं जगत्-पतिम् ।
ताम(प)सं वेषम् आस्थाय तपश् चर्तुं गतो वनम् ।

[[P12]]

प्रविश्य तु तपस् तेपे शाक-मूल-फल-अशनः ।
ग्रीष्मे पञ्च-अग्नि-मध्यस्थो नयन् कालं महा-तपाः ।
वार्षिके तु निरालम्बो हेमन्ते तु सरोजले ।
इन्द्रियाणि समस्तानि नियम्य हृदये पुनः ।
मनो विष्णौ समाविश्य मन्त्रं वै द्वादशाक्षरम् ।
जपतो वायु-भक्षस्य तस्य राज्ञो महात्मनः ।
आविर्बभूव भगवान् ब्रह्मा लोक-पितामहः ।
तम् आगतम् अथालोक्य पद्म-योनिं चतुर्मुखम् ।
प्रणम्य भक्ति-भावेन स्तुत्वा च परितोषयन् ।
“ नमो हिरण्य-गर्भाय जगत्-स्रष्ट्रे महात्मने ।
वेद-शास्त्र-अर्थ-विदुषे चतुर्वक्त्राय ते नमः ।“
इति स्तुतो जगत्-स्रष्टा ब्रह्मा प्राह नृपोत्तमम् ।
तपस्य्-अभिरतं शान्तं त्यक्त-राज्य-महा-सुखम् ।
“ लोक-प्रकाशको राजन् सूर्यस् तव पितामहः ।
वसूनाम् अपि सर्वेषां सदा मान्यो मनुः पिता ।
कृतवन्तौ तपः पूर्वं तीव्रं पितृ-पितामहौ ।
तावतीत्य तपस् ते अद्य वर्तते निःस्पृहस्य वै ।
किमर्थं राज्य-भोगं तु त्यक्त्वा सर्वं नृपोत्तम ।
तपः करोषि घोरं त्वम् आचक्ष्व च महा-मते ।“
इत्य् उक्तो ब्रह्मणा राजा तं प्रणम्य अब्रवीद् वचः ।
“ द्रष्टुम् इच्छंस् तपश्चर्या-बलेन मधु-सूदनम् ।
करोम्य् अत्र तपो ब्रह्मन् शङ्ख-चक्र-गदा-धरम् ।“
इत्य् उक्तः प्राह राजानं पद्म-जन्मा हसन्न् इव ।
“ न शक्यस् तपसा राजन् द्रष्टुं नारायणो विभुः ।
मादृशैश् च न दृष्यो ऽजः केशवः क्लेश-नाशनः ।
त्वादृशैः किं पुनस् त्व् ईशो माधविस् त्व् इति भावय ।
पुरातनीं पुण्य-कथां कथयामि निबोध मे ।
अहं पुरा महाराज! वासुदेवं सनातनम् ।
द्रष्टु-कामः प्रजा-सर्गे तपश्चर्यां सुदारुणाम् ।
अकार्षं तपसश् च अन्ते भगवान् भक्त-वत्सलः ।
प्रसन्नः प्रादुरासीन् मे पश्यतः पद्म-लोचनः ।
प्रणम्य पुण्डरीकाक्षम् अस्तौषं विविधैः स्तवैः ।
तत्र श्रेयो बलं तेजो दत्त्वा स्रष्टुं जगद् विभुः ।
अथोपदिष्टवान् मह्यम् आद्यं वेदं सनातनम् ।
सदागम-आख्यं मूलं तु पर-ब्रह्म-प्रकाशकम् ।
दिव्यं सिद्धि-प्रदं चैव शान्ति-कृद् विश्व-कर्मणाम् ।
सर्गस्य उत्तर-काले तु विमाने दिव्य-लक्षणे ।
अनन्त-भोग-शयने शयानः पद्म-लोचनः ।
प्रादुर्भविष्यति पुरस्तात् पूजय विशेषतः ।
द्वादशार्णेन मन्त्रेण पौष्करेण उक्त-मार्गतः ।
वक्ष्यमाणेन विधिना यथावत् कमल-उद्भव ।
इत्य् उक्त्वा अन्तर्दधे देवः परमात्मा जगत्-प्रभुः ।

[[P13]]

प्रादुरासीत् ततो दिव्यं विमानं परम-अद्भुतम् ।
शास्त्रं च अपि मया लब्धं महोपनिषद्-आख्यकम् ।
तत्रस्थं देवदेवेशं वासुदेवं जगत्-पतिम् ।
पूजयामि विधानेन तद्-उक्तेन नृपोत्तम ।
तद् अहं ते प्रयच्छामि केशव-आनन्द-मन्दिरम् ।
विसृज्य इदं तपो घोरं परं व्रज निजं नृप ।
प्रजानां पालनं धर्मस् तपश् चैव महीभृतः ।
विमानं प्रेषयिष्यामि दिवः सिद्धं नृपोत्तम ।
संयुक्तं पञ्च-कालज्ञैः सद्-ब्रह्म-निरतैर् द्विजैः ।
तत्र आराधय देवेशं बाह्य-अन्तर-खिलैः शुभैः ।
वासुदेवम् अनन्त-आभौ शयानं पुरुषोत्तमम् ।
द्विषट्-प्राणेन मन्त्रेण पौष्करोक्त-विधानतः ।
क्रतुभिर् विविधैश् चैव यजन देवं नृपोत्तम ।
निष्कामो नृप-शार्दूल! प्रजा धर्मेण पालय ।
प्रसादाद् वासुदेवस्य मुक्तिस् ते भविता नृप ।
इत्य् उक्त्वा पौष्करं शास्त्रम् उपदिश्य यथा-क्रमम् ।
तस्मै तु भूमि-पालाय विधाता अन्तर-भूत् पुनः ।
इक्ष्वाकुश् चिन्तयन्न् आस्ते पद्म-योनेर् वचो द्विज ।
आविर्बभूव पुरतो विमानं तन्-मही-भृतः ।
ब्रह्म-दत्तं द्विज-युतं माधवानन्तयो शुभम् ।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ।
ऋषीन् प्रणम्य वृद्धांश् च तद् आदाय ययौ परम् ।
पौरैर् जनैश् च नारीभिर् दृष्टं शोभा-समन्वितैः ।
लाजान् विक्षिपद्भिश् च ततो राजा स्वकं गृहम् ।
स्व-मन्दिरे विशाले तु विमानं वैष्णवं शुभम् ।
संस्थाप्य आराधयामास भवितात्मा नृपोत्तम ।
पौष्करोक्त-विधानेन तैर् द्विजैर् अर्चितं हरिम् ।
मान्द्युः शोभन-अग्रस् तु दृष्ट्वा तु हरि-चन्दनम् ।
मालः कृत्वा सुगन्धाढ्याः प्रीतिं तस्य वितेनिरे ।
पौराः कर्पूर-श्री-खण्ड-कुङ्कुम-आद्यं ददुस् तथा ।
पुष्पाणि विष्ण-योग्यानि ददुर् आनीय भूपतेः ।
तत्तत्-कर्म-अर्थ-बिम्बानि प्रतिष्ठाप्य यथा विधि ।
स्वे स्वे यथोदिते स्थाने सन्निवेश्य सुविस्तृतम् ।
ततो अष्ट-अष्ट-संख्यैस् तु भोगैः सर्वैर् अकृत्रिमैः ।
प्रधानैः स-अङ्ग-भोगैस् तु विविधैर् औपचारिकैः ।
साम्पर्शिकैस् तथा विप्र हृदयङ्गम-संज्ञितैः ।
अर्चयित्वा जगन्-नाथं वासुदेवं परात्परम् ।
त्रिसन्ध्यं परया भक्त्या जप्यैः स्तोत्रैश् च वैष्णवैः ।
कारयामास देवस्य सुचिरं वत्सरोत्सवम् ।
तथा च वत्सरियाणि नाना-नैमित्तिकानि अपि ।
प्रतिष्ठां तत्-प्रकारं च स्थान-भेदं तथैव च ।
(उत्सव-आदि-प्रकारं च वक्ष्याम्य् उपरि विस्तृतम् ।)

[[P14]]

भोगैश् च तोषयित्वा तं सर्व-देवमयं हरिम् ।
निष्कामो दान-धर्मैश् च परं ज्ञानम् अवाप्तवान् ।
यजन् यज्ञान् महीं रक्षन् स कुर्वन् केशव-अर्चनम् ।
उत्पाद्य पुत्रान् पित्रर्थं चिरात् त्यक्त्वा कलेबरम् ।
ध्यायन् निष्कल्मषं देवं प्राप्तवान् वैष्णवं पदम् ।
ततश् चैतैः क्रमाल् लेभे देवः सर्वेश्वरः स्वयम् ।
रामो राजीव-नयनो भ्रातृ-भेदैस् त्रिभिः सह ।
निहन्ता राक्षसानां यो मनुष्यो ऽहम् इति स्मरन् ।
दशेन्द्रियाननं घोरं यो मनो-रजनीचरम् ।
विवेक-शर-जालेन शमं नयति देहिनाम् ।
कृत-अत्यकृतं स्तु यो वेत्ति स्वभावं दिव्यम् उत्तमम् ।
ददौ विभीषणायासौ प्रियाय प्रिय-कारिणे ।
शास्त्र-उपदेश-पूर्वं तु विमानं दिव्य-लक्षणम् ।
सो ऽपि तच्-छिरसा गृह्य ययौ देशं स्वकं प्रति ।
रवौ मध्यन्दिने प्राप्ते कवेर-तनया-तटे ।
चन्द्र-पुष्करिणी-मध्ये अनन्त-पीठे अवतारयत् ।
दक्ष-अध्वरे च रुद्रेण परिभूतो निशा-करः ।
मूर्ध्नि तस्य कृत-आवासो यत्र तप्त्वा महत्-तपः ।
यस्मिंस् तु पुण्डरीकाक्षो देवो वामन-रूप-धृक् ।
प्राप्तवान् नय-संस्कारं यत्र तु स्वयमेव हि ।
विमान-प्रवरं दिव्यं श्रीरङ्गम् इति शब्दितम् ।
प्रतिष्ठास्यति च अत्र इति विनिश्चित्य जगत्-पतिः ।
गणेशं योग-निद्रां च रक्षा-हेतोः समादिशत् ।
तत्र अवताय तन्-मध्ये विमानं तद् विभीषणः ।
ततः सम्पूजयामास तैर् द्विजैर् अर्चितं हरिम् ।
रमणीयैस् तु विविधैर् भोगैः साम्पर्शिक-आदिकैः ।
तद्-उद्धर्तुम् असौ यत्नम् अकरोद् बलवान् अपि ।
न शशाक मनाग् अस्माद् एतच् चलयितुं तदा ।
अथापतद् धरण्य़ां वै विलपन् स च दुःखितः ।
आर्तं विभीषणं दृष्ट्वा विलपन्तम् अनाथवत् ।
उवाच भगवान् रङ्गी स्वरेण महता तदा ।

श्रीभगवान्-

“ आर्य! धर्मज्ञ! देशो ऽयं रमणीयो हि मे मतः ।
अस्मिन्न् एव शयानो ऽहं रंस्ये त्वाम् अभिवीक्ष्य च ।
एतैर् एकान्तिभिः सार्धं मद्-आराधन-तत्परैः ।
विभीषणानुजानीहि कुरुष्व च मम प्रियम् ।“
एतान् आराधकान् विप्रान् पञ्च-काल-परायणान् ।
क्षेत्र-आराम-गृह-आद्यैस् तु सु-समृद्धान् कुरुष्व च ।
मा भूस् त्वं दुर्मना याहि क्षिप्रं लङ्कां निशा-चर ।
तत्र त्वं सु-समृद्ध-अर्थः श्रियं भुङ्क्ष्व अनपायिनीम् ।
इत्य् उक्तः सु-समृद्ध-अर्थान् क्षेत्र-आराम-गृह-आदिभिः ।
कृत्वा च एकायनांस् तान्स् तु पञ्च-काल-परायणान् ।

[[P15]]

ततस् तु प्रययौ च आर्तौ लङ्काम् एव विभीषणः ।
मर्त्यानां भाग्य-वैषम्याद् ब्राह्मणानां हिताय च ।
देवानां च प्रतिष्ठायै रेमे तत्र नदी-तटे ।
रङ्ग-धामनि रङ्गेशः शयानस् तु द्विजोत्तम ।
तद्-धाम उभयतो ऽगच्छत् परिरम्य सरिद्-वरा ।
यथा पतिं चिरं प्राप्तं भुजाभ्यां प्रियम् अङ्गना ।
दिव्यं हि एतन् महत्-धाम दिव्यास् तत्र निवासिनः ।
दिव्या च इयं नदी तद्वद् दिव्य-तीर्थम् इदं सरः ।
अनन्त-शक्ति-युक्तं तद् विमानं हि स्वयम्भुवम् ।
किङ्करा विष्ण-भूतेशा बलिनः काम-रूपिणः ।
ते च रक्षन्ति तं देशं सर्वे हि अनिमिषेक्षणाः ।
ये निष्यन्दा निराहाराः सात्त्विकाश् च वसन्ति ते ।
प्रव्याहरन्तो मधुरां वाणῑं कर्ण-सुखावहाम् ।
न तत्र वसतां पीडा क्षुत्-पिपासाद्य्-उपस्थिता ।
न आध्यात्मिक-आदि-पीडा वा न जरा न अविवेकिता ।
त्रैकाल्य-ज्ञान-सम्पन्नाः सर्व-काम-विवर्जिताः ।
पदार्थ-सप्तक-ज्ञान-सम्पर्णा न अन्य-याजिनः ।
द्वादश-अध्यात्म-निरताः पञ्च-काल-परायणाः ।
तम् अर्चयन्तो अहरहः तत्रैव निवसन्ति हि ।
षट्-कर्म-निरताश् च अपि ब्राह्मण्या हित-चेतसः ।
चरन्ति तत्र विमलाः पुरुषाः संशित-व्रताः ।
देव-असुर-मुनि-इन्द्र-आद्याः सदा देव-अभिकाङ्क्षिणः ।
वसन्ति तत्र च आस्थाय चित्रां स्थावर-रूपताम् ।
अपि उन्मत्तः प्रशान्तः स्याद् बधिरो ऽपि सुबोधवान् ।
तस्य देशस्य माहात्म्यं सम्यग् ज्ञातुं न शक्यते ।
ब्रह्मणा अपि मुनि-श्रेष्ठ! किं पुनः खलु मादृशैः ।
तद् एतत् परमं धाम श्रीरङ्गम् इति शब्दितम् ।
दिव्य-लक्षण-संयुक्तं स्वयं-व्यक्तम् इति श्रुतम् ।
अत्र सन्निहितः साक्षात् भगवान् पुरुषोत्तमः ।
भक्तानां पुण्डरीकाक्षः परमात्मा अच्युतो हरिः ।
विविधेषु अपि च अन्येषु नित्यं स्थानेषु यद्यपि ।
वासुदेवस् तु मन्त्रात्मा स्थितः सन्निहितः स्वयम् ।
तथापि बलवत्त्वेन सन्निधिं भजते अत्र वै ।
ग्रीष्म-कालं समासाद्य यथा अर्कः तीक्ष्णतां व्रजेत् ।
स्वरूपम् अजहन्न् इव तथैव अत्र जगत्-पतिः ।
दोषैः स दिग्-विभाग-आद्यैस् तु अन्यथात्वं न याति च ।
नित्य-सन्निधि-माहात्म्यात् कालं कल्प-क्षयावधि ।
उत्तरोत्तरता चैव जगति अस्मिन् हि वर्तते ।
भक्त्या कान्त्या च कीर्त्या च क्रियया च अप्रमेयया ।
दुष्ट-उपशान्तिदा शक्त्या सिद्धिदा या च वै सह ।
मुक्ति-कामाश् च भविनः फल-कामाश् च सत्तम ।
यथाभिमत-सम्प्राप्तिम् इह वै आयान्ति अनश्वरीम् ।

[[P16]]

इह कर्म-पराः सर्वे सायं प्रातस् तु मध्यतः ।
कुर्वते सर्व-कर्माणि विमान-अभिमुखाः सदा ।
(103 श्लो-311 श्लोकान्तः)

इति श्री-पाञ्चरात्र-आगमे पारमेश्वर-संहितान्तर्गत-श्रीरङ्ग-क्षेत्र-श्रीरङ्ग-विमान-श्रीरङ्गनाथ-(भोगमण्डप)-माहात्म्यं नाम दशमो ऽध्यायः सम्पूर्णम् ।


[[P17]]

पुष्प-मण्डपम्

[[P18]]

श्रीः
श्रीमते रामानुजाय नमः
पाद्म-पुराणे वेङ्कटाचल-माहात्म्ये ३३ अध्यायः
श्री-श्रीनिवासस्य आविर्भाव-विषयः
(पुष्प-मण्डपम्)

प्रदक्षिणं परिक्रम्य ययुस् ते हृष्ट-मानसाः ।
इति देव-अर्चक-अमित्रस्य सर्वान्तर्यामिनो विभोः ।
आविर्भावो मयाख्यातः श्रीनिवासस्य देवल ।
शृण्वतां पठतां चैव चतुर्वर्ग-फल-प्रदः ।
एतद् वै वैष्णवं क्षेत्रं पवित्रं चित्र-वैभवम् ।
अनायासेन जगताम् अभीष्ट-फल-दायकम् ।
मुक्ति-भाजां मुमुक्षूणां लक्ष्मी-वैभव-काङ्क्षिणाम् ।
किन्नराणां नराणां च सुराणां सुख-शालिनाम् ।
भूतानां भूत-योनीनां भैरवा-भैरवात्मनाम् ।
परम-एकान्तिनां पञ्च-काल-अकलुषितात्मनाम् ।
पञ्च-शाख-अथर्वविदां पञ्च-उपनिषद्-आत्मनाम् ।
नित्यानां नियमस्थानां निवासो योगिनाम् अपि ।
माहात्म्यम् अस्य देशस्य वक्तुं वर्ष-शतैर् अपि ।
अशक्यं देवल भवान् कृत-कृत्यः शुचि-श्रवाः ।
इत्थम् आत्म-भुवः कल्पे हार्द-अम्भोज-भुवो हरेः ।
*आदौ कृत-युगे जम्बू-द्वीपे भारत-वर्षके ।
गङ्गाया दक्षिणे भागे योजनानां शत-द्वये ।
पञ्च-योजन-मात्रे तु पूर्व-अम्भोदे तु पश्चिमे ।
मासे भाद्रपदे विष्णौ तिथौ विष्णु-समन्विते ।
सिद्ध-योगे सोम-वारे गिरौ नारायण-अह्वये ।
स्वामि-पुष्करिणी-तीरे पश्चिमे भूत्य-पश्चिमे ।
बृन्दारकानां बृन्दैस् तु प्रार्थितो लोक-रक्षकः ।
आविर्बभूव भगवान् श्रीनिवासः परः पुमान् ।
श्रीनिवासाय महसे निष्कल-निष्कल-आत्मने ।
नमो ऽस्तु पद्म-नेत्राय पवित्राय आदि-वेधसे ।
इति श्री-पाद्म-पुराणे क्षेत्र-काण्डे वेङ्कटाचल-माहात्म्ये
श्री-श्रीनिवासस्य आविर्भाव-कथनं नाम-३३ अध्यायः
११९-१३१ श्लोकान्तः-


श्री-पद्मावती-त्तायार्-आविर्भाव-विषयः-२

[[P19]]

पाद्म-पुराणे-३४ अ=५५-७०

एवं तपस्यतस् तस्य द्वादश-अब्दा गता द्विज ।
ततः त्रयोदशे वर्षे कार्तिके शुक्ल-पक्षके ।
*पञ्चम्यां शुक्र-वारे च मुहूर्ते अमृत-संज्ञिके ।
वपुः पुण्याः सुखा वाता उत्तराषाढ-तारके ।
प्रसन्न-सलिलं सर्वं त्रैलोक्य-अन्तर्गतं द्विज ।
सुप्रभो भानुमान् आसीत् प्रसन्नानि मनांसि च ।
ततः पद्म-सरो-मध्ये तेजो-राशीर् महान् अभूत् ।
बाल-भानु-सहस्र-आभ-सुवर्ण-सदृश-च्छविः ।
तन्-मध्ये काञ्चनैः पद्मैर् निर्मितो रथ उत्तमः ।
पद्मिभिर् धृत-पार्श्वश् च चतुर्भिर् मद-गन्धिभिः ।
तन्-मध्ये काञ्चने पद्मे सहस्र-दल-शोभिते ।
तत्-पद्म-कर्णिका-मध्ये पद्मासन-समन्विता ।
पद्म-हस्ता पद्म-नेत्री रक्त-पद्म-पद-द्वया ।
सुवर्ण-पद्म-मुकुल-द्वय-शोभि-कुचानता ।
स्मेर-पद्म-गजोगन्धि-समुच्छ्वास-मुखाम्बुजा ।
बिम्ब-अधर-सुसंविद्ध-स्मित-शोभि-सुधारसा ।
सम्पल्-लक्ष्मी-समावास-विशाल-नयन-द्वया ।
सर्व-रत्न-समुद्भिप्त-जाम्बूनद-विभूषणा ।
कर्णिकोत्पल-ताटङ्क-मौक्तिक-अलक-बन्धना ।
आमुक्त-मुक्ता-मुकुट-कटक-अङ्गद-कङ्कणा ।
विद्युत्-पुञ्ज-प्रतीकाश-पवित्र-अम्बर-चित्रिता ।
मन्द-स्मित-मनोज्ञ-अङ्गी माधवं वीक्ष्य स-आधरम् ।
कल्हार-मालाम् आदाय यक्ष-कन्दम-लेपनाम् ।
सुगन्ध-तलुसी-दूर्वा-मधूक-कमलोत्पलाम् ।
स्थित-पद्म-रथे देवी देवं वीक्ष्य चतुर्भुजम् ।
ततो देव-गणाः सर्वे वादयन् देव-दुन्दुभिः ।
शङ्खान् आपूरयामासुः वीणाश् च मुमुचुस् स्वरान् ।
षट्-षार्धी-सम-तालेन गन्धर्वा ललितं जगुः ।
ननृतुर् दिव्या-अप्सरसः सुस्वरं गीत-लालसाः ।
तूर्य-घोषेण महता कृत्स्नयापूरितं जगत् ।
तेन घोषेण विज्ञाय श्रियः प्रत्यक्षतां विधिः ।
श्री-पद्मावती-त्तायार्-आविर्भाव-विषयः-१
श्री-वराह-पुराणे तृतीयो ऽध्याये २० श्लोकाद् आरभ्य-
आकाश-नामा तु महा-राजा अभूत् सार्वभौमकः ।
एकदा अररतो राजा धरणी-सक्त-चेतनः ।
यज्ञार्थं शोधयामास भुवम् आरणी-तीरतः ।
काञ्चनेन हतेन एव कृष्यमाणे धरातले ।
बीज-मुष्टिं विकिरता दृष्टा कन्या धरोद्गता ।
पद्म-शय्या-गता रम्या सर्व-लक्षण-लक्षिता ।
तप्त-जाम्बूनद-मयी पुत्रिकेन विराजती ।

[[P20]]

तां दृष्ट्वा स महीपालो विस्मय-उत्फुल्ल-लोचनः ।
आदाय तनया च इयं मम एव इति पुनः पुनः ।
जहर्ष मन्त्रिभिश् चैवं प्राह वाग् अशरीरिणी ।
सत्यं तव एव तनया वर्धयस्व सु-लोचनाम् ।
ततः प्रीत-मना राजा स्व-पुरं प्रविवेश ह ।
आहूय धरणीं देवीम् इदम् आह महीपतिः ।
देव-दत्ता इमां पश्य भू-तलाद् उत्थितां मम ।
सखी पद्मावती प्राह निषादं पर्वत-आलयम् ।
आकाश-राज-तनया वसुधा-तल-सम्भवा ।
अस्माकं नायकी शूर! पद्मिनी-नाम नामतः ।
श्री-पद्मावतीयुक्त-विष्णु-भक्तानां लक्षणम् आह- २७/४२-४४

श्री-वराहः-
एतच् छ्रुत्वा अथ धरणी ताम् अपृच्छत् पुनः सुताम् ।
तद्-भक्त-लक्षणं ब्रूहि यैः प्राप्यं तत्-सु-लोचने ।

पद्मालया।
भक्तानां लक्षणं मातः शृणु गुह्यं समाहिता ।
शङ्ख-चक्र-अङ्किता नित्यं भुज-युग्मे वसुन्धरे ।
ऊर्ध्व-पुण्ड्रं स-अन्तरालं तेषाम् एव विशेषतः ।
पुण्ड्राणि द्वादश पुनर् धारयन्ति तथा अपरे ।…
एवं-विधैर् गुणैर् युक्ताः पञ्च-आयुध-धरा अपि ।
पित्रा च आचार्य-रूपेण शिष्टेन अन्येन वा पुनः ।
स्वस्य गृह्योक्त-विधानेन वह्निम् आदाय वै बुधः ।
चक्र-आद्य्-आयुध-मन्त्रेण जुहुयात् षोडश-आहुतीः ।
मूल-मन्त्रेण सिक्तं न पौरुषेण ततः परम् ।
जातवेदस्-सु-मन्त्रेण पश्चाद् अष्टोत्तरं शतम् ।
हुत्वा महा-व्याहृतिभिः चक्र-आदींस् तत्र तापयेत् ।
सह्यन्त-सु-तप्तान् गुरुणा मन्त्रवद् धारयेद् बुधः ।
भुज-द्वये शङ्ख-चक्रे मूर्ध्नि शार्ङ्ग-शरौ तथा ।
ललाटे तु गदा धार्या हृदये खड्गम् एव च ।
एवं धार्याणि पञ्चैव विष्णु-भक्तैर् मुमुक्षुभिः ।
अथवा भुजयोः चक्र-शङ्खौ चैव सु-लक्षणौ ।
एवं लाञ्छन-युक्ता ये भक्तास् ते वैष्णवाः स्मृताः ।
तैर् एव लभ्यं तद् ब्रह्म सदाचार-समन्वितैः ।
तस्मिन्न् एव मम प्रीतिस् तत्-प्राप्तिं काङ्क्षते मनः ।

इति वराह-पुराणम्-६ अ-
श्री-पद्मावती-देवी-श्रीनिवास-वैवाहिकोत्सवम् ।
वराह-पुराणम्-७ अ-४३
बृहस्पत्य्-उक्त्या विवाह-लग्न-स्थिरीकरणम् ।
आहूय धिषणं लग्नं विवाहार्थं विधीयताम् ।
तथा अस्तु इति उक्त्वा आह्वयामास सुर-लोकाद् बृहस्पतिम् ।

[[P21]]

पप्रच्छ कन्या-वरयोर् विवाहार्थं नरेश्वरः ।

राजा-
कन्यया जन्म-नक्षत्रं मृगशीर्षम् इति स्मृतम् ।
देवस्य श्रवण-नक्षे तु तयोर् योगो विचार्यताम् ।
श्रुत्वा अब्रवीत् स धिषणस् तयोर् उत्तर-फल्गुनी ।
सम्मता सुख-वृद्ध्यर्थं प्रोच्यते दैव-चिन्तकैः ।
तयोर् उत्तर-फल्गुन्यां विवाहं क्रियताम् इति ।
वैशाख-मासे विधिवत् क्रियताम् इति सो ऽब्रवीत् ।
श्री वराहः-५७-६०श्लो
वद इति देवेन आज्ञप्तः शुको नत्वा तम् अब्रवीत् ।
त्वां द्रक्ष्याहं सुताभ्यां [[अमूमाम्|एतां माम्]] अङ्गी-कुरु माधव ।
वदामि तव नामानि स्मरामि तव वपुः सदा ।
श्रियन्ते तव चिह्नानि भुजाद्य्-अङ्गैर् ममापते ।
त्वद्-भक्तान् अर्चयामि इह पञ्च-संस्कार-संयुतान् ।
त्वत्-प्रीतये हि कर्माणि करोमि मधु-सूदन ।…
इति श्री-वराह-पुराणे ८ अ-१९-२८ श्लो
आलोक्य आकाश-राजो ऽपि समानीय वधू-वरौ ।
बन्धुभिः सहितस् तस्थौ देवम् आलोक्य केशवम् ।
विष्णोर् मालां स्व-कण्ठ-स्थां हस्तेन आदाय स-स्मितः ।
कमलायाः स्कन्द-देशे मुमोच सु-मनः-स्थिताम् ।
आदाय मल्लिका-मालां सा अस्य कण्ठे समार्पयत् ।
एवं त्रिवारं तौ कृत्वा वाहनाद् अवरुह्य च ।
स्थित्वा पीठे क्षणं पश्चाद् गृहं विविशतुश् शुभम् ।
ब्रह्मादि-देव-यूथैश् च सहितौ भूमिजा-हरी ।
माङ्गल्य-सूत्र-बन्धादि-स-अङ्कुरार्पणम्-अब्जजः ।
वैवाहिकं कारयित्वा लाज-होम-अन्तम् एव च ।

व्रतादेशं समाज्ञाय शायितौ कमला-हरी ।
चतुर्थे दिवसे सर्वं समाप्य चतुर्मुखः ।
अनुज्ञाप्य वियद्-राजम् आरोप्य गरुडे हरिम् ।
देवीभ्यां सहितं देवं देव-वृन्दैः प्रचक्रमे ।
दिव्य-दुन्दुभि-निर्घोषैः सम्प्राप्य वृषभाचलम् ।
तुष्टुवुर् देवदेवेशं ब्रह्माद्या देवता-गणाः ।
शुकादयो मुनि-गणाः तुष्टुवुः पुरुषोत्तमम् ।
इति श्री-वराह-पुराणे श्रीनिवास-पद्मावती-वैवाहिकोत्सवं नाम ८ अ-१९-२८ श्लो


इति पुष्प-मण्डप-वैभवः

[[P22]]

त्याग-मण्डप-वैभवः

[[P23]]

श्रीः
श्रीमते रामानुजाय नमः
त्याग-मण्डप-वैभवः
श्री-पाञ्चरात्रे जयाख्य-संहितोक्त-श्रीकाञ्ची-माहात्म्यम्

ब्रह्मा-
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
इति सर्वत्र विख्यातं भगवच्-छास्त्र-गौरवम् ।
सात्वतं पौष्करं चैव जयाख्यं तन्त्रम् उत्तमम् ।
रत्न-त्रयम् इति ख्यातं तद्-विशेष इह उच्यते ।
सारं सात्वत-शास्त्रस्य रहस्यं प्राज्ञ-संमतम् ।
रत्न-त्रयम् इदं साक्षाद् भगवद्-भक्त-निःसृतम् ।
प्रवर्तितं तथैव इदम् अन्यून-अधिकत्वतः ।
अन्यान्यानि तु तन्त्राणि भगवन्-मुख-निर्गतम् ।
सारं समुपुजीव्यैव समास-व्यास-धारणैः ।
व्याख्योपबृंहण-न्यायात् व्यापितानि तथा तथा ।
व्याख्या-मूल-नयनैर् एषां गौरवं संप्रतिष्ठितम् ।
तन्त्रे अपि अष्टोत्तर-शते पारमेश्वर-संहिता ।
पौष्कर-अर्थ-विवृत्त्यर्था व्याख्या-रूपा अवतारिता ।
सात्वतस्य विवृत्त्यर्थम् ईश्वरं तन्त्रम् उत्तमम् ।
जयाख्यस्य अस्य तन्त्रस्य व्याख्यानं पाद्मम् उच्यते ।
भगवद्-व्यक्ति-देशेषु स्वयं-व्यक्तेषु भूतले ।
अष्टोत्तर-शते मुख्यं रत्न-भूतं चतुष्टयम् ।
श्रीरङ्गं वेङ्कटाद्रिश् च हस्ति-शैलम् अतः परम् ।
ततो नारायण-अद्रिश् च दिव्य-स्थान-चतुष्टयम् ।
वेङ्कटाद्रिं विना अन्येषु देवदेवस्य धामसु ।
रत्नेषु त्रिषु रत्नानि त्रीणि तन्त्राणि उपासते ।
मूल-व्याख्यान-रूपत्वाद् उपजीव्यं परस्परम् ।
तन्त्र-त्रयम् इदं विद्याद् एक-शास्त्रं तथा बुधः ।
सात्वतं यदुशैलेन्द्रे श्रीरङ्गे पौष्करं तथा ।
हस्ति-शैले जयाख्यं च साम्राज्यम् अधितिष्ठति ।
पाद्म-तन्त्रं हस्ति-शैले श्रीरङ्गे पारमेश्वरम् ।
ईश्वरं यादव-अद्रौ च कार्य-कारि प्रचार्यते ।
श्रीरङ्ग-आद्यादव-अद्रेश् च हस्ति-शैलो विशिष्यते ।
पद्मरागाच् च वैडूर्याद् यथा वज्रं महा-गुणम् ।

[[P24]]

पुरा त्रेता-युगे ब्रह्मा साक्षात्-कृत्य रमापतिम् ।
स्वयं समर्चयित्वा अथ तद्-अर्चा-क्रमम् उत्तमम् ।
शिष्येभ्यो महनीयेभ्य उपदिश्य कृपा-वशात् ।
तैर् एव आराधनं काले कारयत्य् अब्ज-संभवः ।
इत्य् एवं नारदाच् छ्रुत्वा पुनर् एव अहम् अब्रुवम् ।
भगवन् कमला-कान्तः कथं साक्षात्-कृतः कदा ।
तद् एतत् ब्रूहि मे स्वामिन् हस्त्य्-अद्रेर् अपि वैभवम् ।
इति पृष्टो ऽस्म्य् अहं वत्स श्लाघनीयो ऽसि मे मतः ।
यद् अद्य करि-शैलस्य वक्ष्यामि तव वैभवम् ।
पुरा मया उपसन्नेन भगवान् भूत-भावनः ।
जगत्-स्रष्टा सुर-अधीशो ऽनुयुक्तश् चतुराननः ।
हस्ति-शैलस्य माहात्म्यं वरदस्य कृपा-रसम् ।
सत्य-व्रतस्य क्षेत्रस्य वैभवं च अन्ववर्णयत् ।
तत् ते अहं संप्रवक्ष्यामि संग्रहेणैव सारवत् ।
सावधानः शृणु प्रीत्या गुह्यं सारम् इदं यतः ।
भगवन्-नाभियो जातो धाता अब्ज-सम्भवः ।
सृष्ट्वा चर-अचरं विश्वं गर्वं परमम् उपायायौ ।
आभिजात्यं सदाचारो विद्या च इति मद्-त्रयम् ।
सर्वान् एव अभिभवति किम् उ सर्वाधिके पदे ।
ततो ऽसौ मत्त-चित्तः सन् देव-देवं रमापतिम् ।
साक्षाच् चिकीर्षुर् योगेन परं यत्नम् उपागमत् ।
देवदेवस्य रूप-आदि-साक्षात्कार-विरोधिना ।
अप्रमेयेण महता दुष्कृतेन एव वारितः ।
पुनः पुनः प्रयत्ने ऽपि सम्-उत्थाय अपि अनुष्ठिते ।
न स सिद्धिम् अनुप्रापत् समाधेः प्रत्यहन्यत ।
अथ चिन्ता-परो दीनश् चिन्तयित्वा मुहुर् मुहुः ।
वृथैव आचरितं कष्टम् इयता मन्द-बुद्धिना ।
देव-आवास-समारोह-अवरोह-अभिघ-केलितः ।
निर्मोचनार्थम् एको ऽपि क्षणो हन्त न यापितः ।
अथालम्ब्य धृतिं धीमान् भू-लोकं प्रत्यपद्यत ।
गङ्गा-मध्ये महत्-घोरं तपस् तप्तुम् उपाक्रमत् ।
अङ्गुष्ठ-अग्र-पदात् तिष्ठन् निरुद्ध-श्वास-चेष्टितः ।
ऊर्ध्व-बाहुर् निराहारस् तपस् तेपे सुदारुणम् ।
कोपेय-चपलं चित्तं न स्वास्थ्यं प्राप तस्य यत् ।
क्षण-मात्रम् अपि श्रीशं न ध्यातुं प्राभवत् ततः ।
अथ दीने कृशे धातरि आकाश-अशरीरिणि ।
वाणी प्रादुरभूत् पुण्या बोधयामास पद्मजम् ।
अधिकार-महानन्द-रस-मग्नस्य ते मनः ।
सहस्रेण अश्वमेधानां विना शुद्धिं न गच्छति ।
अशुद्धस्य इह मनसः स्वास्थ्यं सम्पाद्यतां कथम् ।

[[P25]]

अस्वस्थे मनसि ध्यानं साधु निष्पद्यतां कथम् ।
कर्तव्य-गौरव-काल-विलम्बाच् च बिभेषि चेत् ।
उपायं सु-करं वक्ष्ये यथावद् अवधारय ।
“ गङ्गाया दक्षिणे भागे योजनानां शत-द्वये ।
पञ्च-योजन-विस्तारं पञ्च-योजनम् आयतम् ।
तीर-अन्तं पूर्व-आशेः सर्वैः समुदितं गुणैः ।
सिद्धि-क्षेत्रं महा-पुण्यं श्रीशस्य अभिमतं परम् ।
सत्य-व्रतम् इति ख्यातं यथार्थ-आख्या-अवभासकम् ।
एकस् तत्र कृतो धर्मो वर्धते हि सहस्रधा ।
तत्र स्वम् अश्वमेधेन यजेर् एकेन चेद् धरिम् ।
सहस्रस्य अश्वमेधानां फलं प्राप्स्यसि निश्चितम् ।
तत्र [[शवतरे|श्वेतवराहे]] कल्पे दिग्गजा विष्णुम् अव्ययम् ।
कस्यचिद् धिर-वर्यस्य शिखरे पर्यपूजयन् ।
तेषाम् आविर् अभूद् देवः करुण-आवरुण-आलयः ।
कमला-कामुकः कान्त-विग्रहः कञ्ज-लोचनः ।
ततः प्रभृति शैलेन्द्रो ययौ करि-गिरि-प्रथाम् ।
तम् एव वेदिकां कृत्वा वाजिमेधेन तं यज ।
लक्ष्मी-वल्लभ-कारुण्य-वीक्षा-वैभवतो महान् ।
धन्यः कृतार्थो विमलो भविष्यसि न संशयः ।
इति वाणीं समाकर्ण्य विरिञ्चो हृष्ट-मानसः ।
क्षेत्रं सत्य-व्रतं पुण्यं त्वरितं समुपागमत् ।
त्वष्ट्रा हस्ति-गिरे शृङ्गं टङ्कैः सन्तक्ष्य शोभनाम् ।
याग-अर्हां यजमानो ऽयं याग-वेदीम् अकल्पयत् ।
यथा-शास्त्रं च लक्ष्मीशं सर्व-कारण-कारणम् ।
ईजे अजो वाजिमेधेन यागानाम् उत्तमेन सः ।
तत्र सर्वेषु मन्त्रेषु तत्तद्-देवता-नामभिः ।
पत्न्य्-अमानेषु धाता अयं देवदेवं रमापतिम् ।
हृदये समनुध्यायन् तस्मै सर्वं हविर् हुतम् ।
भक्त्या समर्पयन् न एतद् अजम् एको ऽपि वेदितुम् ।
सर्वम् एव हविर् देवः पुण्डरीकेक्षणो हरिः ।
स्वयम् एव समादाय समास्वादयद् आदरात् ।
स्वान् स्वान् भागान् अप्रीत-ऋक्-प्राज्ञ-याज्ञ्य-आलेप्य-निधि-गच्छताम् ।
उन्मुखानां वञ्चितानां देवानां क्षुभितं मनः ।
ब्रह्माणम् अथ ते सर्वे समागत्य अन्वयञ्जुत ।
किम् इदं वर्तते मोहः क्षोभिता वञ्चिता वयम् ।
ब्रह्मा तु स्मयमानस् तान् सान्त्व-पूर्वम् अबोधयत् ।
देवा मया पुरा सृष्टाः स्रष्टा अहं भवतां पिता ।
किम् एतद् यत् पिता पुत्रान् उपास्तां विनयाद् इति ।

[[P26]]

संसार-मार्गे निष्णातैस् तत्तत्-फलम् अभीप्सुभिः ।
यूयम् आराधनीया हि तद्-अर्थम् अधिकारिताः ।
सर्वान्तरात्मा सर्वेशो मम च अपि पिता हरिः ।
कमला-वल्लभो देवस् तम् एव उद्दिश्य हूयते ।
इह सर्वं हविर् यज्ञे नाम-मात्रं तु मन्त्रगम् ।
भवतां तत्तद्-अर्थस् तु भगवान् कमलापतिः ।
इयं मद्-यज्ञ-सारस्य धोरणी सार-माधुरी ।
परम-एकान्तिनां नृणाम् अपि एषैव निबोधत ।
इति सम्बोधिता देवा गत-क्षोभाः प्रजापतिम् ।
सार-अर्थ-अवगमात् तुष्टाः साधु-साधु इति अपूजयत ।
श्रेयसां किल कार्याणां प्रत्यूहानां शतं शतम् ।
तथा तत्र महा-यज्ञे विप्राणां शतम् उत्थितम् ।
देवदेवो रमानाथः कृपया परया मुदा ।
सर्वान् प्रशमयामास प्रत्यूहान् सम्-उपस्थितान् ।
अथ काले बहु-गणे वपाहोमोचिते तदा ।
आविरासन् निमि्तानि मनोहारिणि सर्वशः ।
मेष-मासे सिते पक्षे चतुर्दश-तमे तिथौ ।
शोभने हस्त-नक्षत्रे रवि-वारेण संयुते ।
प्रातः सवन-कालीने वपाहोमे समापिते ।
तां वपाम् अधरे गृह्णन्न् अग्नेर् आविर् अभूद् धरिः ।
सूर्य-कोटि-प्रतीकाशे तप्त-काञ्चन-स्वर्ण-उज्ज्वले ।
*विमाने पुण्य-कोट्य्-आख्ये श्री-भूमि-सहितः प्रभुः ।
पश्चिमाभिमुखो दीप्ति-किरीट-मकुट-उज्ज्वलः ।
ऊर्ध्व-पुण्ड्र-उल्लसत्-फाल-पट्टो राजीव-लोचनः ।
तिल-प्रसून-सौभाग्य-नासा-कल्प-लतान्वितः ।
प्रवाल-कण्ड-सुषुमा-मोष-दक्ष-अधर-ओष्ठवान् ।
कम्बु-गम्भीर-कण्ठ-अन्तर्-लम्बि-कौस्तुभ-विभ्रमः ।
श्रीवत्स-वक्षा हार-श्री-शोभमान-भुजान्तरः ।
पञ्च-आयुध-उल्लसद्-बाहु-चतुष्टय-मनोहरः ।
स-पद्मेन करेण उच्चैर् वहन्न् अभय-मुद्रिकाम् ।
गदां च आपञ्च-वामेन पाणिना परिभूषयन् ।
कटि-बन्धे धरन् दिव्यं नन्दकं खड्गम् उत्तमम् ।
पीताम्बर-लसत्-नाभि-गम्भीर-उज्ज्वल-विग्रहः । (ग्रहः?)
कामारामीय-कदली-केलि-चोरोरु-भास्वरः ।
मुकुर-आकार-जान्व्-अस्थू-लावण्य-प्रसद्-अद्भुतः ।
कलाचिका-रुचि-स्पर्धि-जङ्घा-द्वितय-सुन्दरः ।
पद्म-सौभाग्य-सर्वस्व-हारि-पाद-मनोहरः ।
करुणा-रस-पूर्णाभ्यां ईक्षणाभ्यां चतुर्मुखम् ।
आदराद् अनुगृह्णानः स्मित-आञ्चद्-अधर-अन्तिकः ।
एवं स्वयम् उदात्तेन रूप-यौवन-शोभिना ।

[[P27]]

विग्रहेण उदितं देवं रमाकान्तं जगत्-पतिम् ।
आसेव्य सर्वे संहृष्टाः कृतार्थ-नयन-उदयाः ।
अहो भाग्यम् अहो भाग्यम् इत्य् उच्चैर् उदघोषयन् ।
चतुर्मुखो ऽपि नयनैर् अष्टाभिर् देवम् अच्युतम् ।
प्रणताति-हरं नाथं वरदं समसेवत ।
स-हर्ष-संभ्रमो नाना-चेष्टास् तास् ताः स्वयं चरन् ।
क्रमेण शान्त-संरम्भो देवो नाभि-प्रचोदितः ।
वत्स सत्य-व्रत-क्षेत्र-माहात्म्यं पश्य पद्मज! ।
एकेन हयमेधेन सहस्रस्य फलं त्वया ।
अन्ते प्रतीक्षितं यत् ते फलं पूर्व-कर्म-अखिल ।
प्रथमे पर्वणि प्राप्तं मखेनैव प्रजापते ।
प्रसन्नो ऽस्मि तवानेन हयमेधेन सु-व्रत ।
वपा-रसो ऽयं मधुरो मम हृद्यो मनोऽहरत् ।
पारम-एकान्ति-सौरभ्य-सार-अमृत-मनोहरा ।
वपेयं सर्व-भक्ष्येभ्यो मम प्रीतिकरी सदा ।
वरं वरय तस्मात् त्वं यथा-अभिमतम् आत्मनः ।
सर्वं सम्पत्स्यते पुंसां मयि दृष्टि-पथं गते ।
इति देवेन संदिष्टः प्रहृष्टः परम-अर्थवित् ।
ब्रह्मा प्रणम्य बहुशः स्तुत्वा च प्रार्थयद् विभुम् ।
वैकुण्ठे तु यथा लोके यथैव क्षीर-सागरे ।
तथा सत्य-व्रत-क्षेत्रे निवासस् ते भवेद् इह ।
हस्ति-शैलस्य शिखरे सर्व-लोक-नमस्कृते ।
पुण्य-कोटि-विमाने अस्मिन् पश्यन्तु त्वां नरास् सदा ।
इति सम्प्रार्थितो देवो भगवान् भक्त-वत्सलः ।
हिताय सर्व-लोकानां तथा अस्तु इति अन्वमोदत ।
तस्मिन् कृत-युगे ब्रह्मा देवदेवम् अधोक्षजम् ।
स्वयं तेन एव रूपेण समाराधयम् अच्युतम् ।
महा-शान्त-गजेन्द्रो ऽथ त्रेतायां हरिम् अर्चयत् ।
स्व-कर-अग्रोद्धृतैः पद्मैर् रथ-ग्राहैण पीडितः ।
शरणागतिम् आधाय वरदेन विमोचितः ।
हरिणा धाम निन्ye स्वं वाहनेन गरुत्मता ।
अथ द्वापर-संज्ञे तु युगे देवगुरुः स्वयम् ।
आराध्य वरदं देवं स्वाभीष्टं सिद्धिम् आप्तु ।
ततः कलि-युगस्य आदौ ब्रह्माणं वरदो ऽब्रवीत् ।
परामृशन् जगत् सर्वं प्रहृष्टेन अन्तरात्मना ।
कालो ऽयं कलिर् आयातः सर्वे स्वार्थ-परा जनाः ।
न को ऽपि तत्त्वतो भक्तो दृश्यते काल-विप्लवात् ।
अयुते वा परार्धे वा यदि को ऽपि च तादृशः ।
सम्भाव्यते गुणोत्कृष्टं न तं लोको ऽनुमंस्यते ।
दोषान् आरोपयेत् कश्चिन् मत्सर-अत् तस्य मूर्धनि ।

[[P28]]

तं तथैव इति सर्वे अन्ये घोषयिष्यन्ति सर्वशः ।
अन्ते तस्य अपि नैराश्याच् च्युतिर् एव मनोगतेः ।
भविष्यति तथा नाम कालो ऽयं कलि-रुर्जितः ।
अतो न रोचते वत्स हस्ति-शैलस्य मूर्धनि ।
दिव्येनानेन रूपेण वस्तुं काले कलौ इह ।
प्रतिज्ञातं च कल्पान्तम् अवस्थानम् इह एव मे ।
अतो ऽत्र क्रियताम् एवमहं त्वाम् अनुमानये ।
वरदो ऽहं विधे भक्त-जनानां करुणाकरः ।
अतः स्थलम् इदं पुण्यं त्याग-मण्टपम् उच्यताम् ।
योग-मण्टप-संज्ञं तु श्रीरङ्गस्य मया कृता ।
पुष्प-मण्टपम् इत्य् आख्या वेङ्कटाद्रेर् विराजताम् ।
अन्यद् यद् उग्रि-स्थानं विद्या-मण्टपम् उच्यताम् ।
सर्वोत्तमम् इदं पुण्यं क्षेत्रं स्थानं च शोभनम् ।
मम प्रीतिकरं दिव्यं मुक्ति-क्षेत्रेषु च उत्तमम् ।
न तस्य सदृशं किञ्चित् क्षेत्रं वा तीर्थम् एव वा ।
अतो मद्-आज्ञया ब्रह्मन्न् आलयो ऽत्र विधीयताम् ।
सर्व-मन्त्र-आख्य-रूपत्वात् सर्वेभ्यो ऽभ्यधिको भुवि ।
संस्थानस्य आलयस्य अस्य स्वरूपं परम-अर्थतः ।
न वेत्तुं प्रभवेद् अन्यो मद्-ईक्षा-वीक्षितान् नरात् ।
कलि-काल-उचितां रीतिम् आश्रित्य मनसा मया ।
पाञ्चरात्र-आह्वयं तन्त्रं यथावद् अवतारितम् ।
तद्-उक्तेन प्रकारेण मूल-कर्म-उत्सव-आश्रयाः ।
तिस्रो मूर्तीः प्रतिष्ठाप्य पूजनं प्रतिपादय ।
बर्ह्यर्चा-आच-विधानेन सादरं परिकल्प्यताम् ।
रत्नेषु त्रिषु अपि श्रेष्ठं जयाख्यं तन्त्रम् उच्यते ।
तद्-उक्तेन विधानेन प्रतिष्ठादि प्रवर्तताम् ।
काण्वीं शाखाम् अधियानः औपगायन-कौशिकौ ।
प्रपत्ति-शास्त्र-निष्णातौ स्व-निष्ठा-निष्ठितौ उभौ ।
जयाख्य-तन्त्र-मार्गेण दीक्षयित्वा अब्ज-मण्डले ।
आचार्यके च अभिषिच्य ताभ्यां पूजां प्रकल्पय ।
तद्-गोत्र-सम्भवा एव कल्पान्तं पूजयन्तु माम् ।
जयाख्येनाथ पाद्मेन तन्त्रेण सहितेन वै ।
मूल-व्याख्यान-रूपाभ्यां समर्चयन्तु मां सदा ।
न तन्त्र-सङ्करो दोषस् तन्त्रयोर् अनयोर् इह ।
आचार्यके तथासिच्ये पूजने वा मम अब्ज-ज ।
ताव् एतौ गोत्रिणौ मुख्यौ मम प्रीति-करौ मतौ ।
परिचर्यासु तत्तासु योग्यान् निर्णीय चेतसा ।
दीक्षयित्वा च ते तत्र नियुज्यन्तां यथा-विधि ।
अत्र अधिकार उभयोस् तयोर् एव कुलीनयोः ।
शाण्डिल्यश् च भरद्वाजो मुनिर्मौद्गलायनस् तथा ।

[[P29]]

इमौ च पञ्च-गोत्रस्था मुख्याः काण्वीम् उपाश्रिताः ।
श्री-पाञ्चरात्र-तन्त्रीये सर्वे अस्मिन् मम कर्मणि ।
इह ताभ्यां चिरं वत्स तोषितो ऽस्मि तपो-बलात् ।
तयोर् एव वरः प्रीत्या प्रादायि प्रार्थितो मया ।
मन्त्रैः कातीय-सूत्रेण निर्दिष्टैर् वैदिकैः सह ।
भगवच्-छास्त्र-सिद्धैर् दिव्यैर् मन्त्रैर् विमिश्रितैः ।
गर्भाधान-आदिकाः सर्वे संस्कारा नित्य-कर्म च ।
नैमित्तिकं च श्राद्धादि कर्तव्यं तैर् अतन्द्रितैः ।
आचारेणैव आमनुवैर् अहं भवामि प्रीति-मानसः ।
शर्कर-सहितेन एव क्षीरेण कमलासन ।
प्रत्यब्दं चैत्र-मासे तु स्वेन रूपेण मां विभुम् ।
पूर्णिमायां इहागत्य त्वं माम् आराधयानघ ।
प्रत्यहं रात्रिकाले तु शेषः फण-भृतां वरः ।
अप्राकृतेन रूपेण मां समाराधयिष्यति ।

इति देवेन संदिष्टः पर-तन्त्र-मना विधिः ।
तथैव तत् स्वयं प्रीत्या निरवर्तयद् आदरात् ।
देव-अवतार-समये विमानम् अतुल-प्रभम् ।
सर्व-देवमयं दिव्यम् अग्नि-मध्यात् समुत्थितम् ।
तत्रैव देवदेवस्य वरदस्य निदेशतः ।
भूतले वास्तु-विधिना प्रतिष्ठां मध्यगम्यत ।
दिव्य-आलयस्य निर्माण-प्रकारो विश्व-कर्मणे ।
देव-आदेशाद् विरिञ्चेन स्फुटम् एव अत्यदिश्यत ।
स तस्य आज्ञां वहन् मूर्ध्ना तद्-आदिष्टेन वर्त्मना ।
आलयं निर्ममे दिव्यं तेन एव प्रत्यवेक्षितः ।
मूल-मन्त्र-त्रय-आत्मत्वात् देवदेवस्य सन्निधौ ।
प्रणवेन समं पूर्वं सोपान-त्रयम् आस ततः ।
षडक्षरस्य मन्त्रस्य स्मारणाय रमापतेः ।
अध-मण्डप-भागे षट्-सोपानानि चकार सः ।
चतुर्विंशति-तत्त्वात्मा चतुर्विंशति-संख्यका ।
गायत्री-समिता पश्चात् सोपान-आवलिर् आबभौ ।
अथ द्वय-आख्यं परमं मन्त्र-राजम् अनुस्मरन् ।
सोपानयोर् द्वयं दीप्रं निर्ममे निर्मम-अन्तरः ।
प्रणतार्ति-हृतो मन्त्रे दिव्ये देवस्य तोषणे ।
दश-वर्णा इति व्यक्तीकुर्वन् दश ततो ऽकरोत् ।
बहुना अत्र किम् उक्तेन देवदेव-आलयो महान् ।
उक्तानां भगवच्-छास्त्रे लक्षणानां लक्ष्यतां ययौ ।
करीशः कमला-कान्तः काले कमल-सम्भवम् ।
स्वच्छन्दः सन्दिशन् तेन स्वम् आलयम् अकारयत् ।
अथ देवेन निर्दिष्टे काले कमल-सम्भवः ।
जयाख्य-तन्त्र-मार्गेण प्रतिष्ठा-विधिम् आदिशत् ।

[[P30]]

दारुणा मूल-भेरे तु कर्माचार्येन रजतेन वै ।
औत्सवं चैव ताम्रेण-अकारयद् विश्व-कर्मणा ।
तथैव च अथ बर्ह्यर्चा-विधिना अकारयद् विधिः ।
औपगायनम् आचार्यं कौशिकं च तपस्विनम् ।
तत्-पुत्रांश् च महा-भागौ द्वौ द्वौ देव-सुतोपमौ ।
दीक्षयित्वा यथा-न्यायं चक्र-वारिज-मण्डले ।
तैः प्रतिष्ठा-अन्तिकं सर्वं कर्षणाद्यम् अकारयत् ।
*वैशाखे श्रवण-नक्षे तु सङ्कल्प्य अवभृतं पुरा ।
नवमे अह्नि ध्वज-आरोहं विधिना अकारयद् विधिः ।
प्रथमे अहनि देवेशं मण्डपेन विभासिना ।
वीथिः सञ्चारयामास प्रातर् भक्त-अनुकम्पया ।
रात्रौ मृगेन्द्र-वाहेन देवस्य उत्सवम् आचरत् ।
द्वितीये दिवसे प्रातः हंस-वाहनम् आचरत् ।
रात्रौ मार्ताण्ड-बिम्बेन महोत्सवम् अकारयत् ।
तृतीये दिवसे प्रातः गरुड-उत्सवम् आचरत् ।
अवतार-अत् परं देवस्य उत्सवे प्रथमे पुरा ।
देवो रमापतिः दिव्यं वैनतेयम् अधाश्रितः ।
प्रथमं दर्शयामास निजम् अप्राकृतं वपुः ।
मध्ये गोपुर-मुख्यस्य ततो गरुड-वाहने ।
गोपुर-अग्रीम-मध्ये तु देव-सेवा विशिष्यते ।
सर्व-पाप-हरी पुण्या मुक्ति-मार्ग उदीरितः ।
रात्रौ हनुमता चैव देवदेवम् अचारयत् ।
चतुर्थे दिवसे प्रातः शेष-आसन-तले हरिः ।
पर-व्योम्न इव भक्तानां स्वं रूपं समदर्शयत् ।
रात्रौ चन्द्रमसं बिम्बम् आस्थितस्य उत्सओ ऽभवत् ।
मोहिनी-रूपम् आस्थाय प्रातर् आन्दोलिकां गतः ।
पञ्चमे अहनि देवेशो भक्त-आनन्द-वान् अनन्दयत् ।
रात्रौ तु याल-वाहेन देवस्य उत्सवम् आचरत् ।
षष्ठे प्रातः कल्प-तरौ वेणु-गान-उत्सवो ऽभवत् ।
रात्रौ गजेन्द्रम् आस्थाय दिव्यं रूपम् अदर्शयत् ।
सप्तमे स्यन्दनं दिव्यम् आस्थाप्य उत्सवम् आचरत् ।
अष्टमे तु जल-द्रोण्याम् अवगाह्य दिवा हरिः ।
रात्रौ तुरङ्गम् आस्थाय सर्व-लोकान् अपावयत् ।
नवमे शिबिका-यात्रां आरचय्य रमापतिः ।
लीलां प्रणय-कोपस्य प्रदर्श्य कमला-भुवोः ।
अनन्त-सरसी-वर्य्ये अवभृतं महिमास्थितः ।
रात्रौ तु पुण्य-कोट्य्-आख्ये विमाने निष्ठितः प्रभुः ।
सर्वं पुरं परिभ्रम्य सर्व-लोकान् अपावयत् ।
दशमे अहनि मध्याह्ने पुष्प-याग-महो ऽभवत् ।
रात्रौ महा-विमानेन पुर-यात्रा प्रकल्पिता ।

[[P31]]

सर्व-आवरण-निष्कामात् परं विहग-राट्-ध्वजम् ।
अवरोप्य विधिवत् पूजको बहु-मानितः ।
एवं संरभ्य योगेन महोत्सवम् अकारयत् ।*
प्रतिवत्सरम् एवं वै महोत्सव-विधिः कृतः ।
पक्ष-मास-अयनाब्द-आद्या उत्सवश् च अभवन् क्रमात् ।
महर्षी दीक्षितौ तौ द्वाव् औपगायन-कौशिकौ ।
पर्यायेणैव देवेशम् आनर्चतुर् इहादरात् ।
तद् एतन् महितं धाम हस्ति-शैल-प्रपां गतम् ।
प्रणत-आर्ति-हरो देवो वरदो यत्र पूज्यते ।
पूजकास् तस्य तद्-वंश्याः महात्मानो गुणोज्ज्वलाः ।
पाञ्चरात्रिक-मुखेभ्यः सर्वेभ्यो ऽभ्यधिका भुवि ।
एवम् एतत् समाख्यातं हस्ति-शैलस्य वैभवम् ।
देवस्य तन्त्र-सारस्य पूजकस्य तु संग्रहात् ।
यथा वै नारद-मुनेः मुखात् पूर्वं श्रुतं मया ।
तथैव सर्वम् आख्यातं प्रसङ्गात् प्रीति-पूर्वकम् ।
अथ प्रकृतम् एवाद्य तन्त्रम् आरभ्यते मया ।
श्रूयताम् अवधानेन श्रद्धा-भक्ति-महीयसा । (१६३)

इति श्री-पाञ्चरात्रे जयाख्य-संहितायां शाण्डिल्य-नारद-संवादे
(काञ्ची-क्षेत्र-महिमानुवर्णनं त्याग-मण्डप-वैभवः नाम) प्रथमः पटलः


[[P32]]

ज्ञान-मण्डप-वैभवः

[[P33]]

श्रीः
श्रीमते रामानुजाय नमः
श्री-पाञ्चरात्रे ईश्वर-संहितोक्त (२० अध्याये)
(ज्ञान-मण्डप-वैभवः)
श्री-यादवाचल-माहात्म्यम्

मुनयः
भगवन् मुनि-शार्दूल सर्वज्ञ वदतां वर । १-(१२५)
श्रीरङ्गं वेङ्कटाद्रिश् च हस्ति-शैलस् त्व् अनन्तरम् ।
ततो नारायण-अद्रिश् च मम धाम चतुष्टयम् ।
एवम् उक्तं भगवता साक्षान् नारायणेन हि ।
अस्मिन् क्षेत्र-चतुष्केषु संस्थितं पुरुषोत्तमम् ।
महा-भक्ति-समायुक्ताः सेवन्ते ये नरोत्तमाः ।
सर्व-क्षेत्र-स्थिता देवासू-सेवितास् तैर् न संशयः ।
नारायण-अद्रि-माहात्म्यं श्रोतुम् इच्छामहे वयम् ।
इह नारायणस्यैव ध्यानम् आराधन-आदिकम् ।
कथितं हि त्वया पूर्वं न तु नारायणो हरिः ।
कथं प्राप्तो गिरि-वरं महत्ता तस्य कीदृशी ।
तत् सर्वं विस्तरेणैव वदस्व वदतां वर ।

नारदः-
साधु पृष्टं महा-भागाः भवद्भिर् मुनि-पुङ्गवाः ।
नारायण-अचलस्थस्य हरेर् माहात्म्यम् उत्तमम् ।
सङ्क्षेपेण प्रवक्ष्यामि शृणुध्वम् अवधानतः ।
आदौ नारायणः श्रीमान् स्वस्य नाभी-सरोरुहात् ।
चतुर्मुखं समुत्पाद्य सर्व-संस्कार-संस्कृतम् ।
वेद-शास्त्र-अर्थ-तत्त्वज्ञं कृत्वा तं पुरुषोत्तमः ।
सृष्टौ नियोज्य ब्रह्माणं तत्-सत्त्वे अन्तर्हितो ऽभवत् ।
इति कर्तव्यता-मूढो बभूवोद्विग्न-मानसः ।
तदा असौ तप आतिष्ठद् द्रष्टु-कामो जगत्-पतिम् ।
बहु-कालेषु अतीतेषु तप्यमाने पितामहे ।
आविरास जगन्-नाथो ब्रह्मणः पुरतो द्विजाः ।
तं दृष्ट्वा कमला-कान्तं परम-आश्चर्य-संयुतः ।
तुष्टाव विविधैः स्तोत्रैः श्रुति-सिद्धैश् चतुर्मुखः ।
तेन स्तुतो जगद्-धाता करुणा-पूर्ण-मानसः ।

[[P34]]

ब्रह्माणं समुवाच इदं मेघ-गम्भीरया गिरा ।
त्वया वत्स कुतस् त्वं वै तपस् तप्तं सु-दुस्तरम् ।
तुष्टो ऽहं तपसा ते अद्य किं तव अभीप्सितं वद ।

ब्रह्मा-
न अन्यद् अस्ति फलं देव भवतो दर्शनाद् ऋते ।
त्वया नियोजितो ऽहं हि जगत्-सृष्टौ पुरा विभो ।
स्रष्टुं जगद् इदं सर्वं का शक्तिर् मम माधव ।
अत्र उपायं समाचक्ष्व करुणा-अमृत-वारिधे ।
इत्य् उक्तो ब्रह्मणा देवो मन्त्रम् अष्टाक्षरं परम् ।
“तस्योपदिश्य भगवान् तद्-अर्थांश् च विशेषतः ।
अष्ट-अक्षरम् इमं मन्त्रं सन्ततं हृदि चिन्तयन् ।
मन्त्रस्य अस्य प्रभावेण जगत्-स्रष्टुं त्वम् अर्हसि ।
सर्ग-कर्मणि सम्पन्ने एतत्-मन्त्र-प्रभावतः ।
आविर्भविष्यति परुः साक्षान् नारायणो विभुः ।
तम् अभ्यर्च्य देवेशं मन्त्रेण अनेन पद्मज ।
ततस् त्वद्-अधिकार-अन्ते मत्-पदं प्राप्स्यसि ध्रुवम् ।
इत्य् उक्त्वा अन्तर्दधे देवः ततस् तुष्टश् चतुर्मुखः ।
जपमानो मूल-मन्त्रं चेतन-अचेतनात्मकम् ।
सृष्ट्वा जगद् इदं सर्वं विरिञ्चिर् मुनि-पुङ्गवाः ।
नारायणं द्रष्टु-कामस् तपस् तेपे सु-दुस्तरम् ।
आविरासीत् ततो दिव्यं विमानं शुभ-लक्षणम् ।
श्री-वैकुण्ठाच् चतुर्वक्त्र-तपः-फलम् इव अद्भुतम् ।
अनेक-कोटि-मार्ताण्ड-विलसत्-तेजसावृतम् ।
अनन्त-विहग-ईशेन विष्वक्सेनेन पुरोगमम् ।
श्रिया सुदर्शनेन अपि पार्श्वयोः समनुद्रुतम् ।
कुमुद-आद्यैः परिवृतं सर्व-अवयव-शोभितम् ।
वृत्ताकारं शुभ-करं सर्व-अलङ्कार-शोभितम् ।
तं दृष्ट्वा सहस-उत्थाय सन्तुष्टः कमलासनः ।
पुलक-अञ्चित-सर्वाङ्गः सन्तोष-अद्-भ्रान्त-लोचनः ।
प्रणम्यः प्राञ्जलिः स्थित्वा विमानम् अवलोकयत् ।
पीठ-आद्येषु शिखान्तेषु विमान-अवयवेषु च ।
भूराद्यं सत्य-पर्यन्तं लोकानां सप्तकं क्रमात् ।
अध्वनां भुवन-अध्वा-आदि षट्कं वर्ण-अध्व-पश्चिमम् ।
धरादि-पुरुष-अन्तं च तत्त्व-बृन्दं मुनीश्वराः ।
सत्ता-रूपम् अवस्थाप्य संस्थितं सन्ददर्श ह ।
ततस् तु देवता-बृन्दं क्रमेण समलोकयत् ।
घट-आधार-शिलाधस्तात् अनन्तम् अमित-द्युतिम् ।
चक्रं तद्-ऊर्ध्वे सामर्थ्यं शक्तिं च अपि शिला-अन्तरे ।
मन्त्र-नाथं मध्य-कुम्भे प्राग्-आदि-कलश-अष्टके ।
वासुदेव-आदिकांश् चैव प्रभव-अप्यय-योगतः ।

[[P35]]

संस्थितान् तत्-प्रधान-ईश-मध्य-आदि-ईश-दिग्-अन्तिमम् ।
ज्ञान-भास-आदिकानां च शक्तीनां नवकं क्रमात् ।
धर्मादीनाम् अष्टकं च तथा पाद-शिलाष्टके ।
अकार-आदि-क्षकार-अन्तं वर्ण-चक्रं तद्-अन्तरे ।
सर्व-आधार-मयं चक्रं शाखा-मूलं समाश्रितम् ।
ज्ञान-क्रियात्मके तत्त्वे शाखयोः परमेश्वरम् ।
आद्यं हि उदुम्बरस्य ऊर्ध्वे तत्-पृष्ठे धर्मम् एव च ।
कवाटयोस् तु काल-अग्निं वरुणं च मुनीश्वराः ।
शङ्ख-पद्म-निधी चैव तद्-अग्र-द्वार-पार्श्वयोः ।
ततो जङ्घा-समूहे तु तथैव अन्तर-भूमिषु ।
काल-आदि-वसुधा-अन्तांश् च भावोपकरण-अमरान् ।
जंघ-अग्रे केशव-आदीनां द्विषट्कं प्रस्तर-स्थले ।
चक्र-आद्य्-आयुध-संघं च सत्ता-रूपेण संस्थितम् ।
नासा-चतुष्क-स्थानेषु वराह-आदि-चतुष्टयम् ।
स-शक्तिकं पत्र-आद्यैः भूषिते वेदिका-तले ।
सुदर्शनं शिखा-कुम्भे वासुदेवं परात्परम् ।
तद्-अग्र-देशे हेतीशं सूर्य-कोटि-सम-प्रभम् ।
सर्व-लोकमयं विप्राः! सकल-अध्वमयं तथा ।
सर्व-तत्त्वमयं चैव सर्व-देवमयं तथा ।
आनन्दमय-संज्ञं तद् विमानं कमलासनः ।
एवं क्रमेण अवलोक्य प्रणिपत्य पुनः पुनः ।
तथा प्रदक्षिणीकृत्य विष्वक्सेनेन अभ्यनुज्ञया ।
विमान-अन्तः संप्रविश्य जपन्न् अष्टाक्षरं मनुम् ।
अभ्यन्तरे विमानस्य गर्भ-मौलौ तु मध्यतः ।
सरसीरुहम् आस्थाय संस्थितं पुरुषोत्तमम् ।
“प्रावृड्-जलद-सन्दोह-विलसद्-दिव्य-विग्रहम् ।
सर्व-देवमयं देवं सर्वेषां तेजसां निधिम् ।
सर्व-लक्षण-सम्पन्नं स-आवर्त-आदि-गुणैर् युतम् ।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ।
मुञ्चन्तम् अनिशं देहाद् आलोकं ज्ञान-लक्षणम् ।
प्रयत्नेन विना अज्ञान-नाश-कृद् ध्यायिनां महत् ।
घन-कुञ्चित-नील-आलि-दलित-अञ्जन-सन्निभैः ।
कर्पूर-धूसरैर् दिव्यैः पुष्प-संवलितान्तरैः ।
किरीट-मकुट-आक्रान्तैः शोभितं स्व-शिरोरुहैः ।
बाल-चन्द्र-प्रतीकाश-फालोद्यत्-तिलकोज्ज्वलम् ।
सु-भ्रुवं सु-नसं शान्तं स-विलास-स्मित-अधरम् ।
किञ्चिद्-आरक्त-गो-क्षीर-शुद्ध-नीलाब्ज-लोचनम् ।
शीतलैर् दृष्टि-पातैस् तु जगद्-आप्याय-कारिणम् ।
विलसद्-गण्ड-फलकं श्रवण-उज्ज्वल-कुण्डलम् ।
मुख-सौन्दर्य-निष्यन्द-चुबुक-स्थल-शोभितम् ।
विकलङ्क-शरच्-चन्द्र-विलसन्-मुख-मण्डलम् ।

[[P36]]

कम्बु-ग्रीवं पीवर-अंसं दीर्घ-बाहुं महोरसम् ।
चतुर्भुजम् उदार-अङ्गं विलसत्-पाणि-पङ्कजम् ।
पीत-कौशेय-वसनं निम्न-नाभिं तनूदरम् ।
चारूरु-युगलं चारु-जंघा-द्वितयम् उज्ज्वलः ।
मणि-नूपुर-भूषाढ्यैर् विलसत्-पाद-पङ्कजम् ।
दिव्य-गन्ध-अनुलिप्ताङ्गं दिव्य-अम्बर-धरं तथा ।
दिव्य-स्रग्-वेष्टन-उपेतं दिव्य-अलङ्कार-मण्डितम् ।
अनेक-रत्न-खचित-किरीट-मकुट-उज्ज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेन अपि अलङ्कृतम् ।
रक्त-काञ्चन-संमुक्त-युक्तया वनमालया ।
स-ब्रह्म-सूत्रया चैव शोभितं परमेश्वरम् ।
मुख्य-दक्षिण-हस्तेन भीतानाम् अभय-प्रदम् ।
श्रोणी-तट-निविष्टेन वाम-हस्तेन लीलया ।
श्रियमाणं गदां गुर्वीं निषण्णां धरणी-तले ।
पश्चाद्-दक्षिण-हस्तेन चक्रं काल-अनल-द्युति ।
प्रणव-ध्वनि-गर्भं तु हिमाद्रि-शत-शोभितम् ।
शङ्खं वाम-करेण अपि दधानम् अतुल-प्रभम् ।
स्व-देह-तेजस्-सम्भूत-ज्वाला-मण्डल-मध्यगम् ।
करुणा-पूर्ण-हृदयं जगद्-उद्धारणोद्यतम् ।
अभिन्न-पूर्ण-षाड्गुण्य-विभवेन उपबृंहितम् ।
योगि-ध्येयम् अजं नित्यं जगज्-जन्म-आदि-कारणम् ।
साक्षाल्-लक्ष्मी-पतिं देवं नारायणम् अनामयम् ।
दृष्ट्वा प्रहृष्ट-हृदयः प्रणिपत्य मुहुर् मुहुः ।
तुष्टाव कमला-कान्तं स्तोत्रैर् नाना-विधैर् विधिः ।
ततस् तु स्तोत्र-सन्तुष्टो नारायण उदार-धीः ।
पितामहम् उवाच इदं मेघ-गम्भीरया गिरा ।
सन्तुष्टस् तपसा ते अहम् अष्टाक्षर-परायण!
समभ्यर्च्य माम् अत्र युगानाम् अयुतं विधे ।
ततो भुवं गमिष्यामि केनचित् कारणेन तु ।
इत्य् उक्तश् चतुर्वक्त्रो हर्षेण महतान्वितः ।
विमानं तत् समादाय स्थापयित्वा निजे गृहे ।
सात्वतोक्त-विधानेन मनन-अष्टाक्षरेण तु ।
पूजयामास विधिवद् भोगैर् नाना-विधैर् विभुम् ।
एवं बहुषु कालेषु व्यतीतेषु मुनीश्वराः ।
सनत्-कुमारो योगीन्द्रः कदाचित् क्षीर-सागरात् ।
सत्य-लोकं समासाद्य तव नारायणं प्रभुम् ।
दृष्ट्वा श्रिया समोपेतं सर्व-चित्त-अपहारिणम् ।
प्रणम्य प्राञ्जलिर् भूत्वा तुष्टुवन्न् उवाच इदं चतुर्मुखम् ।
भवान् गुरुः पिता च अपि मम वात्सल्य-वारिधे ।
त्वत्तो अन्यो नास्ति मे लोके गतिः सर्व-अर्थ-दायक! ।
इयन्तं कालम् ईशो ऽयं श्रीमन्-नारायणो विभुः ।

[[P37]]

भवता आराधितः सम्यग् भोगैर् नाना-विधैर् अपि ।
अद्य अहं यष्टुम् इच्छामि भवद्-धाराधितं विभुम् ।
नारायणं जगन्-नाथं दातुम् अर्हसि मे पितः ।
इति सम्प्रार्थितो ब्रह्मा पुत्र-वात्सल्यवान् अपि ।
विप्रयोग-भयाद् विष्णोश् चिन्ता-परवशो ऽभवत् ।
तदा नारायणः श्रीमान् चिन्ता-व्याकुल-मानसम् ।
दृष्ट्वा अब्ज-सम्भवं प्रीत्या वाक्यम् एतद् उवाच ह ।
चिन्तां जहि महा-बुद्धे! विश्लेषान् मम पद्मज ।
अर्चा-अन्तरम् इदं मे ऽपि ददामि तव सम्प्रति ।
माम् आदाय मुनीन्द्रो ऽयं सम्प्राप्य धरणी-तलम् ।
संस्थाप्य पूजयेन् नित्यं पद्म-कूट-अभिधे गिरौ ।
यत्र मां द्रष्टुम् अनिशं तपस्यन्ति मुनीश्वराः ।
इत्य् उक्त्वा भगवान् देवो रूपं स्वं हृदयोद्भवम् ।
श्रिया पुष्ट्या च सहितं प्रायच्छद् ब्रह्मणे तदा ।
पितामहस् तद् आदाय रूपं श्री-पुष्टि-संयुतम् ।
अभ्यर्च्य विशेषेण भोगैर् विस्मित-मानसः ।
ततः सनत्-कुमारं तम् आहूय कमल-उद्भव ।
सन्तोष-उत्फुल्ल-नयनः प्रोवाच इत्थं मुनीश्वराः ।
सनत्-कुमार हे वत्स! सु-पुत्रो ऽसि भवान् मम ।
साक्षान् नारायणो देवो यतः सा-निग्रह-क्षयि ।
इत्य् उक्त्वा अथ मुनीन्द्राय दिव्यम् अष्टाक्षरं मनुम् ।
उपदिश्य तद्-अर्थांश् च तथा सात्वत-संज्ञकम् ।
महोपनिषदं तन्त्रं ग्राहयामास योगिनम् ।
यो मूल-वेदो विख्यातास् तादृक् तस्मात् परिसृतम् ।
सिद्धि-मोक्ष-प्रदं विप्राः! सर्व-शास्त्र-अर्थ-गर्भितम् ।
यत्र शान्ततरं व्यूहं शान्त-उदितम् अनन्तरम् ।
सुषुप्ति-संज्ञं स्वप्न-आख्यं जाग्रद्-व्यूहं यथोदितम् ।
मूर्त्यन्तरं केशव-आद्यं प्रादुर्भाव-अन्तरं तथा ।
हृत्-पद्म-पद्म-पीठादौ लक्ष्मी-पुष्ट्यादि-शक्तिभिः ।
लाञ्छनैः शङ्ख-चक्राद्यैर् गरुड-प्रमुखैर् अपि ।
भूत-सिद्धादिभिः शास्त्र-पर्यन्तैः पूजनं हितम् ।
विश्व-भ्रातृ-नृसिंहस्य दीक्षा-पूर्वं तथा परम् । (२०१)
विभव-व्यूह-सूक्ष्म-आख्यम् अधिकारं यथा-क्रमम् ।
समयी-पुत्रक-आदीनां चतुर्णाम् अभिषेचनम् ।
तथैव समय-आचारं मूर्तीनां स्थापन-क्रमः ।
मन्त्र-मण्डल-मुद्राणां कुण्ड-आदीनां च लक्षणम् ।
यत्र प्रोक्तं भगवता लोक-उज्जीवन-हेतुना ।
तद्-अर्थांश् चोपदिश्य अथ तत्-प्राप्तिं च व्यवरर्णयत् ।
इदं हि सात्वतं तन्त्रं वासुदेवाज् जगत्-प्रभोः ।

[[P38]]

सङ्कर्षनेन संप्राप्तं तस्मात् सङ्कर्षणात्मनः ।
प्रद्युम्नेन संप्राप्तं अनिरुद्धेन वै ततः ।
अनिरुद्धान् मया प्राप्तं मत्तो रुद्रादिभिस् तथा ।
सर्वेषु दिव्य-शास्त्रेषु नास्ति अस्माद् अधिकं मुने! ।
यथा सर्वेषु मन्त्रेषु नास्ति च अष्टाक्षरात् परम् ।
एतद्-उक्त-विधानेन नारायणं मनुं मुने ।
समभ्यर्च्य लोकेशं भोगैः साम्पर्शिक-आदिभिः ।
वैकुण्ठ-वर्धनं नाम क्षेत्रम् अस्ति मही-तले ।
तत्र अस्ति पद्म-कूट-आख्यः कश्चिद् गिरि-वरो महान् ।
कावेर्या उत्तरे भागे मुने योजन-मात्रतः ।
अप्राकृतं हि तत् स्थानं भू-वैकुण्ठम् इति श्रुतम् ।
पुरा भगवताज्ञप्तः साक्षाच् छेषो हि शैलताम् ।
सम्प्राप्य आगमने ऽन्ते विष्णोः प्रतीक्षन् वर्तते अधुना ।
विरजा अपि अंश-भागेन तद्-गिरेर् उत्तरे तटे ।
प्रहत्य् अमला नित्यं सर्व-दोष-प्रणाशिनी ।
तथैव अनेक-तीर्थानि क्षेत्राणि विविधानि च ।
सन्ति तत्र गिरे श्रेष्ठे सेव्यानि विबुधोत्तमैः ।
कलौ युगे अपि तत्र अद्या न दूष्यन्ति कदाचन ।
तस्य प्रलय-काले ऽपि नाशो नास्ति गिरेर् मुने! ।
ततस् तत्-सदृशं स्थानं ब्रह्माण्ड-अन्तर् न किञ्चन ।
तस्मिन् गिरौ मुनि-वरा बहवः संशित-व्रताः ।
नारायणम् अमुं द्रष्टुं तपस्यन्ति अमला-आशयाः ।
तेषु अपि अनुग्रहो जातो देवस्य अस्य कृपा-निधेः ।
तस्माद् विमानम् एतत् त्वं समदाय समाहितः ।
तस्मिन् गिरि-वरे स्थाप्य यज नारायणं प्रभुम् ।
फाल्गुण्यां पौर्णमास्यां हि हस्त-नक्षे मुनि-सत्तमाः ।
तम् आनीय गिरि-श्रेष्ठे तन्-मूर्ध्नि मुनि-सेविते ।
तीरे तत्-तीर्थ-वर्यस्य तद् विमानम् अमित-प्रभम् ।
संस्थापयामास तदा तत्रत्या मुनि-पुङ्गवाः ।
दृष्ट्वा नारायणं देवं हर्षेण महतान्विताः ।
अस्माकम् इह कल्याणं कल्याणम् इति चोचिरे ।
ततः कल्याण-तीर्थं तत् प्रवदन्ति मनीषिणः ।
ततः सनत्-कुमारस् तु सात्वतोक्त-विधानतः ।
समर्चयन् जगन्-नाथं सन्तुष्ट-हृदयो ऽभवत् ।
अतो नारायणस् तत्र गिरौ वसति सन्ततं ।
नारायण-अचल इति ततः प्रभृति कथ्यते ।
तत्र नारायणस्यैव अवतारः समीरितः ।
अर्चा-अन्तरस् तु यत् प्रोक्तं नारायण-हृद्-उद्भवम् ।
तच् च अपि तं गिरिम् प्राप्य कुतश्चित् कारणात् पुरा ।
तद्-वृत्तम् इह वक्ष्यामि शृणुध्वं मुनि-पुङ्गवाः ।
पुरा नारायणः श्रीमान् लोक-रक्षण-हेतुना ।

[[P39]]

अवतीर्य रघोर् वंशे रामो रक्षः कुलान्तकः ।
पितृ-वाक्य-अपदेशेन दण्डक-अरण्य-वासिनाम् ।
मुनीनां रक्षणार्थाय तत्र तत्र आश्रमे वसन् ।
लक्ष्मणेन च लावण्य-पूर्णया सीतयान्वितः ।
नारायण-गिरिं प्राप्य कदाचिन् मुनि-सेवितम् ।
कृत-आतिथ्यो मुनि-गणैः कौतूहल-समन्वितैः ।
अधित्यकायां तस्य अद्रेस् तुङ्ग-शृङ्गे अति-मञ्जुले ।
सीता-वारि-विहारार्थं सुमित्रा-सूनुना क्षणात् ।
धनुष्कोट्या कृते खाते सद्यस् सज्जात-वारिणि ।
विहृत्य सीतया सार्धं निमज्य अन्तर्-जले जपन् ।
ऋचो ऽघमर्षणीस् तत्र ददर्श परम-अद्भुतम् ।
रूपं भगवतः पश्चाद् उन्मज्य आलोच्य राघवः ।
पर्यटन् परितश् शैलं विस्मय-आविष्ट-मानसः ।
पारे कल्याण-तीर्थस्य पद्म-पत्र-आयतेक्षणम् ।
पश्यन् नारायणं देवं प्रणम्य शिरसा सकृत् ।
पूजयन् कतिचिन् मासान् उवास तद्-अनन्तरम् ।
उवाच भगवान् रामं परितुष्टो ऽस्मि पूजया ।
दत्त-अभयो मुनीनां त्वं जित्वा राक्षस-पुङ्गवान् ।
सर्वैः परिजनैः सार्धं साकेत-पुरम् आविश ।
तत्र अंशेन आगमिष्यामि तदा मां यष्टुम् अर्हसि ।
इत्य् उक्तो रघु-शार्दूल इन्दिर-रमणाज्ञया ।
कृत्वा निष्कण्टकां पृथ्वीं साकेत-नगरे वरे ।
अभिषिक्तः स्व-भक्ताय राक्षस-इन्द्राय धीमते ।
स्व-वंश-आराधितं देवं दत्त्वा रङ्गेश्वरं विभुम् ।
नीते रङ्ग-अधिपे तेन चिन्ताविष्टो ऽभवत् तदा ।
तद् विदित्वा चतुर्वक्त्रः श्री-भू-सहितं विभुम् ।
नारायण-अंशम् आदाय साकेत-नगरी जवात् ।
समभ्येत्य च रामाय ददौ स्वाराधितं हरिम् ।
ततो रामः संप्रहृष्टः श्री-भूमि-सहितं विभुम् ।
अर्चयामास विधिवच् चिरं निज-गृहे द्विजाः ।
अतो राम-प्रिय इति तस्य नाम अभवद् द्विजाः ।
ततः कुशो राम-पुत्रः स्व-पित्राराधितं विभुम् ।
पूजयन् स्वस् तुतां काञ्चिद् यदु-वंश्याय भूभृते ।
दत्त्वा तथा प्रार्थितः सन्न् प्रादात् तस्मै तम् अच्युतम् ।
लब्ध्वा कन्यां च तं देवं यदु-शेखर-संज्ञकः ।
मधुरां नगरीम् एत्य तत्रैव निज-मन्दिरे ।
संस्थाप्य कमला-कान्तं समभ्यर्च्य आदरात् ।
ततस् तु तत्-क्रमाल् लब्ध्वा यदु-वंश-समुद्भवः ।
कृष्णः श्रियः पतिं देवं पूजयन् विनता-सुतात् ।
प्राप्तं किरीटम् अतुलं कलश-अर्णव-शायिनः ।
समर्प्य तस्मै देवाय विविध-उत्सवम् आतनोत् ।

[[P40]]

ततः कदाचिन् वसुली तीर्थ-यात्रा-निमित्ततः ।
गत्वा नारायण-गिरिं तत्र कल्याण-नामके ।
तीर्थे तथा अष्ट-तीर्थेषु स्नात्वा तच्-छैल-मूर्धनि ।
“ योगासन-समासीनं योग-आनन्दं जगत्-प्रभुम् ।
सर्व-देवमयं देवं सर्वेषां तेजसां निधिम् ।
सर्व-लक्षण-सम्पन्नं स-आवज्ञादि-गुणैर् युतम् ।
निष्टप्त-कनक-आभं च सम्पूर्ण-अङ्गं महत्-तनुम् ।
घोर-शार्दूल-वदनं चण्ड-मार्ताण्ड-लोचनम् ।
सौदामी-निचय-प्रख्यैर् लोमभिः परिपूरितम् ।
अरुण-अम्भोज-पत्र-आभ-वज्र-अधिक-करोरुहम् ।
चलत्-फणीश्वर-सटं चन्द्र-कोटि-तटित्-द्युतिम् ।
प्रलय-अम्बुधि-निर्घोषम् उद्गिरन्तं स्व-वाचकम् ।
युगान्त-हुत-भुग्-ज्वाला-मण्डल-अन्तर्-व्यवस्थितम् ।
जान्व्-आसक्त-भुज-द्वन्द्वं योग-पट्ट-विभूषितम् ।
रथ-अङ्ग-शङ्ख-धर्तारं पश्चाद्-बाहु-द्वयेन च ।
मार्ताण्ड-कोटि-सदृश-किरीट-मकुट-उज्ज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेन अपि अलंकृतम् ।
रत्न-काञ्चन-संमुक्त-युक्तया वनमालया ।
स-ब्रह्म-सूत्रया चैव शोभितं परमेश्वरम् ।
दिव्य-गन्ध-अनुलिप्ताङ्गं दिव्य-अम्बर-धरं तथा ।
दिव्य-स्रग्-वेष्टन-उपेतं दिव्य-अलङ्कार-मण्डितम् ।
सुभीषणं सौम्य-रूपं स्व-आश्रित-अभीष्ट-सिद्धिदम् ।
देवं नरहरिं दृष्ट्वा नत्वा तत्-पाद-पङ्कजे ।
स्तोत्रैर् नाना-विधैः स्तुत्वा सन्तुष्ट-हृदयो हली ।
तस्मिन् गिरि-वरे विप्रास् तत्र तत्र च संचरन् ।
आनन्दमय-मध्यस्थं सौन्दर्य-अमृत-वारिधिम् ।
दृष्ट्वा नारायणं देवं निमग्नो विस्मय-अम्बुधौ ।
नत्वा तत्-पाद-कमले तुष्टाव इत्थं जगत्-पतिम् ।
“ जितं ते पुण्डरीकाक्ष जितं ते भक्त-वत्सल ।
जितं ते कमला-कान्त जितं ते पुरुषोत्तम ।
नारायण नमस् ते अस्तु वासुदेव नमो ऽस्तु ते ।
नमो ऽस्तु विष्णवे तुभ्यं नमस् ते सर्व-दर्शिणे ।
नमस्ते पर-रूपाय नमस् ते व्यूह-रूपिणे ।
नमो विभव-रूपाय नमस् ते त्व्-अन्तरात्मने ।
नद्यक् ते ऽर्चावताराय नाना-काराय ते नमः ।
भवान् हि लोक-रक्षार्थं लक्ष्म्या कारुण्य-रूपया ।
सुदर्शनेन अपि युक्तो विहरसि अत्र भूधरे ।
अद्य मे सफला दृष्टिः सौन्दर्य-अमृत-वारिधिः ।
यद् भवान् सर्व-लोकेशो मम दृष्टि-पथं गतः ।
पुण्य-क्षेत्रेषु सर्वेषु सर्वेषु आयतनेषु च ।
न पश्यामि जगन्-नाथ भगवन्तं भवादृशम् ।

[[P41]]

शरणं त्वां प्रपन्नो ऽस्मि शरणागत-वत्सल ।
कटाक्षैः करुणा-पूर्णैः समालोकय मां विभो ।
एवं नाना-विधैः स्तोत्रैः स्तुतो नारायणो हरिः ।
उवाच बलभद्रं तं करुणा-पूर्ण-मानसः ।
“ बलभद्र भवान् भक्तः शेषो ऽसि मम किङ्करः ।
अभीप्सितं किं भवतो ब्रूहि तत् प्रददामि ते” ।
इत्य् उक्तो बलभद्रो ऽयं प्रत्युवाच जगत्-प्रभुम् ।
नारायण दयाम्भोदे तव कैङ्कर्यतो विना ।
किम् अस्ति अभीप्सितं नाथ त्वाम् इह अर्चयितुं विभो ।
अभीप्सामि रमाकान्त पूरयाशु मनोरथम् ।
इति सम्प्रार्थितो देवः प्रत्युवाच बलं तदा ।

श्री नारायणः
अस्ति ते विमला भक्तिः मयि यादव-नन्दन ।
प्रथमं शेष-रूपो मे कैङ्कर्यम् अकरोद् भवान् ।
ततस् तु लक्ष्मणो भूत्वा माम् आराधितवान् इह ।
इदानीम् अपि मां यष्टुं बलभद्र त्वम् अर्हसि ।
कलाव् अपि युगे भूयः कश्चिद् भूत्वा द्विजोत्तमः ।
नाना-विधैर् भोग-जालैर् अर्चनं मे करिष्यसि ।
इत्य् उक्तो देवदेवेन बलभद्रः प्रहृष्ट-धीः ।
पूजयामास विधिवद् भोगैर् नाना-विधैर् हरिम् ।
तद्-अर्चनेन अति-तुष्टः श्रीमान् नारायणो विभुः ।
उत्सवादीन् कर्तु-कामं बलम् एवम् उवाच ह ।
श्रिया भूम्या च सहितं रूपं मम हृद्-उद्भवम् ।
मधुरायां भवद्-गेहे पूज्यते किल यादव!
तद् आनीत-उत्सवार्चां मे कृत्वा नाना-विध-उत्सवन् ।
कर्तुम् अर्हसि भक्त्या त्वं तेन तुष्यामि अहं हलिन् ।
एवम् उक्तो रोहिणेयः त्वरया मथुरां पुरीम् ।
एत्य कृष्णाय तद्-वृत्तं विस्तरेण न्यवेदयत् ।
तच् छ्रुत्वा भगवान् कृष्णो बभूव अतीव विस्मितः ।
ततो यदूद्वहौ कृष्ण-बलरामौ श्रियः पतिम् ।
शिबिकायां समारोप्य सर्व-आभरण-भूषितम् ।
यात्रोपकरणैः सर्वैश् चतुरङ्ग-बलैः सह ।
माघ-मासे तु चित्र-नक्षे मुहूर्ते मनोहरे ।
नीत्वा गिरि-वरं तत्र नारायण-पुरो भुवि ।
संस्थाप्य च महानन्दात् पूजयामास तु हरिम् ।
ततस् तु देवदेवस्य कर्तु-कामौ महोत्सवम् ।
बर्ह्यर्चा-स्वपन-आर्चां च प्रतिष्ठाप्य आज्ञया हरेः ।
महोत्सवं तु विधिवत् कृत्वा देवस्य शार्ङ्गिणः ।
फाल्गुणे मासि हस्त-नक्षे सर्व-तीर्थ-समाश्रिते ।

[[P42]]

तस्मिन् कल्याण-सरसि चक्राते अवभृतोत्सवम् ।
यतस् तत्र अर्चितो देवो यादवाभ्यां रमा-सखः ।
तदा प्रभृति तच्-छैलो यादवाद्रिर् इतीयते ।
इति नारायणस्य अस्य माहात्म्यं कीर्तितं मया ।
इतः परं यच् छ्रोतव्यं कथ्यतां तन् मुनीश्वराः ॥

मुनयः-
सर्वज्ञ मुनि-शार्दूल तत्र यादव-भूधरे ।
अस्ति कल्याण-तीर्थं माहात्म्यं यत् तद्-उत्पत्तिं तथैव हि ।
तच्-छैलाग्रे संस्थितस्य नृहरेर् वैभवं वयम् ।
आकर्णयितुम् इच्छामस् तद् अपि त्वं प्रकाशय ।

नारदः-
साधु पृष्टं महा-भाग भवद्भिः सार-वेदिभिः ।
कल्याण-तीर्थ-माहात्म्यं वक्ष्यामि शृणुताधुना ।
पुरा वराहो भगवान् मग्न-मज्जौ वसुन्धराम् ।
समुद्धृत्य यथा-पूर्वं संस्थाप्य अथ महीधरे ।
तस्मिन् शेष-आत्मके देव्या भूम्या सह समास्थितः ।
तदा देव-अङ्ग-संलग्नाः समुद्र-जल-बिन्दवः ।
गालितास् तत्र तत्-तीर्थं कल्याणम् अभवद् द्विजा ।
तदा देवाः पुष्प-वर्षैः समाकीर्य जगत्-पतिम् ।
तुष्टुवुर् विविधैः स्तोत्रैर् ननृतुश् च अप्सरोगणाः ।
दिव्य-दुन्दुभयो नेदुर् बभूव मुदितं जगत् ।
ततो ब्रह्म-आदयो देवाः सर्वे देवर्षि-पुङ्गवाः ।
तत्र आगत्य वराह-अन्तं प्रार्थयामासुर् अच्युतम् ।

देवाः
देवदेव जगन्-नाथ सर्व-लोकैक-रक्षक ।
त्वया हतो महा-दैत्यो वसुधा अपि समुद्धृता ।
वयं च रक्षिता देव करुणा-अमृत-वारिधे ।
इह अनेन एव रूपेण भवान् भूम्या समन्वितः ।
स्थातुम् अर्हसि लोकेश भक्त-अनुग्रह-काम्यया ।
इति देवैः प्रार्थितो ऽहं वराहो भगवान् हरिः ।
स्व-अङ्गे वसुन्धरां न्यस्य तस्यै उपदिशन् मनुम् ।
प्राग्-भागे तस्य तीर्थस्य हि अद्यापि आस्ते मुनीश्वराः ।
तत्र तेन वराहेण स्व-आज्ञप्तः पतगेश्वरः ।
श्वेत-द्वीपाद् शुद्ध-मृदं समाहृत्य सरस्-तटे ।
पुरा निक्षिप्तवान् सा हि मृत्तिका लोक-पूजिता ।
फाल्गुणे मासि कल्याण-संज्ञे तस्मिन् सरोवर ।
गङ्गाद्याः सकला नद्यो भजन्ते सन्निधिं द्विजाः ।
तन्-मासि पौर्णमास्यां हि ब्रह्माद्या देवतोत्तमाः ।

[[P43]]

स्थातुं कल्याण-सरसि समागच्छन्ति भक्तितः ।
दिव्यं कल्याण-तीर्थं तद् ये पश्यन्ति स्मरन्ति वा ।
प्रदक्षिणं वा कुर्वन्ति प्रणमन्ति भजन्ति वा ।
ये वा तत्-तीर्थ-माहात्म्यं भक्त्या शृण्वन्ति मानवाः ।
स्नानं वा तत्र कुर्वन्ति तत्-तीर्थं तु पिबन्ति वा ।
ये वा अर्चयन्ति पुष्प-आद्यैस् ते जना लोक-पावनाः ।
आयुर्-आरोग्यम्-ऐश्वर्यं विद्या तेजो जयं यशः ।
सत्-सुतांश् च अपि सन्तोषं यद् यद् इष्टम् इह द्विजाः ।
तत् सर्वम् अचिराद् एव लभन्ते नात्र संशयः ।
तस्य तीर्थस्य माहात्म्यं ब्रह्म-आद्यैर् अपि दैवतैः ।
सम्यङ् न शक्यते ज्ञातुं किं पुनः खलु मादृशैः ।
इत्य् उक्तं लेशतस् तीर्थ-माहात्म्यं मुनि-पुङ्गवाः ।
अथ श्री-नारसिंहस्य माहात्म्यं वक्ष्यते द्विजाः ।
प्रह्लादो नृहरेर् भक्तः पुरा वैष्णव-सत्तमः ।
तपसा आराधितुं देवं नृसिंहं भक्ति-संयुतः ।
अन्वेषमाणो विमलं तपः-स्थानं धरातले ।
नारायण-अचलं प्राप्य दृष्ट्वा तद्-रमणीयम् ।
नास्ति अस्माद् अधिकं स्थानं भुवीति कृत-निश्चयः ।
तत्र कल्याण-सरसि स्नात्वा तत्-तीर-गां शुभाम् ।
श्वेत-मृदां समादाय धृत्वा चोर्ध्व-पुण्ड्रकान् ।
तच्-छैल-शिखरं प्राप्य विविक्तम् अति-निर्मलम् ।
यम-आदि-नियमैर् युक्तो नृसिंह-एक-अक्षरं शुभम् ।
तथैव अनुष्टुभं मन्त्रं जपमानस् तद्-एक-धीः ।
द्रष्टुं नरहरिं भूयस् तपस् तेपे सु-दुस्तपम् ।
ततस् तत्-तपसा तुष्टो नृहरिर् भक्त-वत्सलः ।
प्रादुरासीज् जगन्-नाथः तस्य शैलस्य मूर्धनि ।
प्रह्लादः स्व-तपः-फलं नरहरिं वात्सल्य-वारा-निधिम् ।
श्रीवत्स-अङ्कित-वक्षसं शुभ-गुणं चक्र-अब्ज-भास्वत्-करम् ।
तच्-छैलाग्र-शिला-तले शुभ-तरे योगासनस्थं परम् ।
दृष्ट्वा हृष्ट-तनूरुहो मुनि-वरा वन्द्यं ननतादरात् ।

तुष्टाव च इत्थं नृहरिं विस्मय-आविष्ट-मानसः ।
नमस्ते श्री-नृसिंहाज नमस्ते दैत्य-सूदन ।
नमस्ते जगतां नाथ नमस्ते भक्त-वत्सल ।
रक्षकस् त्वं हि लोकस्य त्वद्-आत्मकम् इदं जगत् ।
ब्रह्माद्याः सकला देवा भवत्-पाद-अब्ज-सेवकाः ।

[[P44]]

नास्ति त्वत्तो अधिका लोके देवता पुरुषोत्तम ।
वेदान्तेषु विचिन्वन्ति त्वां मुनीन्द्राः सनातनम् ।
स भवान् करुणा-अम्भोधे मम दृष्टि-पथं गतः ।
शरणं मां प्रपन्नो ऽस्मि आत्म-सात् कुरु मां विभो ।
इति नाना-विध-स्तोत्रैः स स्तुतो नर-केसरी ।
उवाच अमृत-वर्षिण्या गिरा प्रह्लाद-संज्ञकम् ।
“ प्रह्लाद ते च तपसा तुष्टो ऽहं वरम् ईप्सितम् ।
वृणीष्व तत् प्रदास्यामि इत्य् उक्तः प्रह्लाद-नामकः ।
बद्धाञ्जलि-पुटो भूत्वा प्रत्युवाच महामतिः ।
भवान् गुरुः पिता माता सुहृद्-बन्धुश् च मे विभो ।
विद्या धनं च सकलं नास्ति त्वत्तो परं यतः ।
त्वां विनाहं क्षणम् अपि वस्तुं न इच्छे भुवीश्वर ।
तस्मान् निरन्तरं देव भवत्-पाद-अब्ज-सेवनाम् ।
दातुम् अर्हसि देवेश इति सम्प्रार्थितो विभुः ।
प्रह्लाद-अनुग्रहार्थाय तस्मिन्न् एव महीधरे ।
कृत-आवासो नरहरिस् तेन सम्पूजितो भृशम् ।
अद्यापि राजते तत्र स्व-आश्रित-अभीष्ट-सिद्धिकृत् ।
एवं नारायण-गिरेर् माहात्म्यं लेशतो मया ।
सङ्कीर्तितं मुनि-वराः किम् अन्यच् छ्रोतुम् इच्छथ ।

इति ईश्वर-संहितायां विंशो ऽध्याये वर्तमान-यादवाचल (मेल्कोटै) माहात्म्यं सम्पूर्णम् ।

*ज्ञान-मण्डप-वैभवः

[[P45]]

तिरुमामाणि-मण्डप-वैभवः

[[P46]]

श्रीः
श्रीमते रामानुजाय नमः
श्री-भविष्योत्तर-पुराणे श्री-कुम्भघोण-माहात्म्ये
तिरुमामाणि-मण्डप-वैभवः
श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - १
प्रथमो ऽध्यायः
क्षेत्र-वैभवानुवर्णनम्

त्रिंशत्-त्रिकोटि-वसु-रुद्र-दिवाकर-आदि-देव-आदि-देव-गण-सन्ततः सेव्यमानम् ।
अम्बोज-सम्भव-चतुर्मुख-गीयमानम्
वन्दे शयानम् इह भोगिनि शार्ङ्गपाणिम् ॥
नारद उवाच-
पितामह सुर-श्रेष्ठ दया-सार जगत्-पते ।
कुम्भेश्वरस्य विभवं कृत्स्न-शस् श्रुतं मया ।
कुम्भघोण-आह्वयं क्षेत्रं शिव-विष्णोर् अति-प्रियम् ।
इत्य् उक्तं यत् त्वया पूर्वं विष्णोः प्रीति-करं कथम् ।
शिव-प्रीति-करं प्रोक्तं प्रायशो न अत्र संशयः ।
तत्र विष्णोर् आगमनं कथं च आसीत् पितामह ।
शार्ङ्गपाणिः परं ज्योतिः चिद्-आनन्दैक-विग्रहः ।
परा-अपरतः श्रीमान् पूर्ण-षाड्गुण्य-विग्रहः ।
नील-जीमूत-संकाशः पद्मज-आनन्द-दायकः ।
शङ्ख-चक्र-गदा-पद्म-शार्ङ्ग-आद्य्-आयुध-सेवितः ।
समस्त-गुण-सौन्दर्य-परम-आनन्द-विग्रहः ।
कस्य प्रत्यक्षताम् आप कदा कस्मिन् दिने शुभे ।
पद्मालया पद्म-हस्ता पद्माक्षी पद्म-सम्भवा ।
पद्म-मध्ये कुतस् तत्र हेम-अब्ज-सरस-अन्तरे ।
किमर्थम् अकरोद् देवी तपः परम-दारुणम् ।
हेम-नाम्ना मुनिस् तत्र किमर्थं तप आचरत् ।
सदा चक्र-धरः श्रीमान् सदा ज्योतिर्मयः प्रभुः ।
अभीष्ट-दान-निरतः कस्य प्रत्यक्षतां गतः ।
पाताल-बीज-नाथस्य नागेशत्वं कथं वद ।
तथैव सोम-लिङ्ग-आख्यः कस्य प्रत्यक्षतां गतः ।
फलेश्वरस् सदा नृणां सर्व-अभीष्ट-प्रदायकः ।
कस्य प्रत्यक्षताम् एत्य आस्ते तत्र महेश्वरः ।
उपवीतेश्वर श्रीमान् कस्य वै फलदो ऽभवत् ।
प्रतीच्यां तु कथं शम्भुः कन्या-तीर्थ-तटे स्थितः ।

[[P47]]

फलःप्रदः कस्य च आसीद् वाराणस्यास् समागतः ।
साक्षाद्-विश्वेश्वरो देवः काशीशो वृषभ-ध्वजः ।
लक्ष्मीनारायणो देवः कस्य प्रत्यक्षतां गतः ।
प्राङ्-मुखो विश्वनाथ-आख्यः कस्य वै वरदो ऽभवत् ।
प्रणम्य हृष्ट-पृष्टाङ्गः कृत-अञ्जलि-पुटो ऽब्रवीत् ।

ब्रह्मोवाच
साधु साधु महा-प्राज्ञ मतिस् ते विमला शुभा ।
यज् जाता क्षेत्र-माहात्म्ये श्रवणे नैष्ठिकी परा ।
पुरा तु देव-गन्धर्वास् सिद्ध-चारण-किन्नराः ।
असुरा-अमल-भूताश् च मुनयः पन्नगेश्वराः ।
सम्भय मन्त्रयामासुः सर्वे भागीरथी-तटे ।
सर्वेषाम् अपि क्षेत्राणां भूमिस्थानां विशेषतः ।
उत्तमं कुम्भघोण-आख्यम् इति यत् प्रवदन्ति हि ।
तद् वक्ष्यामः कथं श्रेष्ठं क्षेत्रेषु इति मुनीश्वर ।
तुलाम् आरोपितं सर्व-क्षेत्र-यात्रा-फलं परम् ।
सकलं च अन्यत्-अच्-चैव कुम्भघोण-आह्वयं शुभम् ।
तुलिते सत्-कुम्भघोण-क्षेत्र-यात्रा-फलं परम् ।
महा-धनं तथा च आसीत् पुष्प-वृष्टिश् च खाच् च्युत ।
देव-दुन्दुभयो नेदुस् तं दृष्ट्वा ते सुविस्मिताः ।
तदा प्रभृति देवेशः बभूवस् तुष्ट-मानसाः ।
कुम्भघोण-महा-क्षेत्रे वासं कुर्वन्ति सन्ततम् ।
परितो योजन-अन्तं च तिर्यग्-ऊर्ध्व-अपुर-अधराः ।
संशयं ये प्रकुर्वन्ति ते वै निरय-गामिनः ।
उत्पत्तौ वा अथ साङ्कर्यं मन्महे यन् मनीषिभिः ।
तस्मात् तच्-छेत्र-सदृशं न भूतं न भविष्यति ।
वैकुण्ठं कुम्भघोण-आख्यं श्रुति-शीर्षे पठन्ति अहो ।
को वा वर्णयितुं शक्तः शार्ङ्गपाणिं विना प्रभुम् ।
तच्-छेत्र-वैभवं पुण्यं युग-कोटि-शतैर् अपि ।
तस्मात् तच्-छेत्र-माहात्म्यं लेशतो वर्णयामि ते ।
सृष्ट्य्-आदौ यद् रमा-प्रोक्तं कुम्भघोणस्य वैभवम् ।
मम तत् ते प्रवक्ष्यामि तत्-प्रसादेन न अन्यथा ।
परा-शक्तिः परानन्दा पर-तेजो-अधिका रमा ।
परात्-परतरा देवी परम-आनन्द-विग्रहा ।
मम माता जगन्-माता विष्णोर् आनन्द-दायिनी ।
मङ्गल-आनन्द-रूपाढ्य सदा जयति मङ्गला ।
इति देवीं प्रसाद्यैव वाङ्-मनो-ग्राह-कारिणीम् ।
प्रणम्य कोमलां-बां तां शार्ङ्गपाणेर् अति-प्रियाम् ।
शृणु नारद वक्ष्यामि श्रीमच्-छार्ङ्गधर-प्रभोः ।
तच्-छेत्र-आगमनं पुण्यं भुक्ति-मुक्ति-एक-साधनम् ।
श्रोतॄणाम् अथ वक्तॄणां पाप-उन्मूलन-कारणम् ।

[[P48]]

ज्ञान-वैराग्य-सत्-कीर्तिं वंश-वृद्धि-प्रदायकम् ।
तेजो-वृद्धि-प्रदं नॄणां शार्ङ्गपाणीव-पद-प्रदम् ।
श्री-शार्ङ्गपाणेर् विभवं वंश-भास्पदं
ये श्रावयन्ति इह कलौ युगे परम् ।
शृण्वन्ति तेषाम् अखिल-इष्ट-दायी
भवत्य् अहो शार्ङ्गधरः प्रिया-युतः ।
इति श्री-भविष्योत्तर-पुराणे (४१) क्षेत्र-वैभवानुवर्णनं नाम एक-चत्वारिंशो ऽध्यायः ।


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - २

ब्रह्मोवाच-
हिताय सर्व-लोकानां जगद्-आनन्द-कारणम् ।
शार्ङ्गपाणेर् च विभवं वक्ष्यामि शृणु नारद ।
गोप्याद्-गोप्यतरं पुण्यं न कस्यापि प्रकाशितम् ।
पुत्रत्वात् ते प्रवक्ष्यामि स-अवधान-मना शृणु ।
सरस्वत्यास् तटे पूर्वं ऋषयश् शौनकादयः ।
सत्र-यागार्थम् उद्युक्ता नाना-शास्त्र-विशारदाः ।
ज्ञान-विज्ञान-सम्पन्ना वेद-वेदाङ्ग-वेदिनः ।
शान्ता-दान्ता-जित-क्रोधाः क्षमादि-सगुणान्विताः ।
सरस्वत्यास् तटं प्राप्य याग-शालां विधाय च ।
याग-आरम्भं कर्तु-कामाः साम-ग्राह-आपादने रताः ।
शुभ-नक्षे सु-दिवसे शुभ-लग्ने शुभोदये ।
कर्तव्यत्वे निश्चितार्था बभूवुः प्रीत-मानसाः ।
एतस्मिन्न् अन्तरे काले ऋषीणां भावितात्मनाम् ।
पर-ब्रह्म-पर-आनन्द-भोगिनां ज्ञान-शालिनाम् ।
परस्परं हठात्कारं विवादस् सु-महान् अभूत् ।
एतद्-यज्ञ-समारम्भं कम् उद्दिश्य आचरेत् परम् ।
कस्मै समर्पयेद् यज्ञं तद् वदध्वं शुभ-व्रताः ।
इति संवदतां तेषां केचित् तत्र मुनीश्वराः ।
सृष्टिकर्ता समस्तानां सर्व-लोक-हितङ्करः ।
ज्ञान-वैराग्य-सम्पन्नः सुराणाम् उपरि स्थितः ।
यद्-अभावान् न लोको ऽस्ति यत्-सत्त्वे विश्व-संस्थितिः ।
यस्य च अग्र-जनिः प्रोक्तः सुराणां सर्व-सम्मतः ।
यज्ञ-दान-तपः-कर्म-कालेषु य उदीयते ।
यद्-अभावात् क्रतुर् हीनो भविष्यति च सर्वतः ।
यज्ञस्य पूर्ण-काले तु यज्ञात्मनां विना भवेत् ।
सर्वत्र सर्व-कालेषु कीर्तनीयः परः पुमान् ।
यो ऽयं वाणी-पतिः श्रेष्ठश् चतुर्मुख इतीरितः ।
तम् आत्म-भवम् उद्दिश्य कर्तव्यः क्रतुर्-उत्तमः ।

[[P49]]

इत्य् ऊचुर् द्विमिशार-अरण्ये संस्थिताश् च मुनीश्वराः ।
अपरे ऋषयः प्रोचुः सर्व-शास्त्र-परायणाः ।
स-सुर-असुर-गन्धर्व-यक्ष-पन्नग-किन्नराः ।
अखिला मुनयश् चैव भूमि-दिक्-पतयस् तथा ।
दिवाकरो ऽडुपः श्रीमान् यम् उपासन्ति सर्वतः ।
तत्-तत्-काले सुरास् सर्वे येन सम्पालिताः पराः ।
यस्य क्रोध-अंश-लेशेन समुद्रो ऽपि विशिष्यते ।
भूमि-भृद्-भूरुह-मुख्याश् च कम्पयन्तो भवन्ति हि ।
सर्वागमागमो यस् साक्षात् षडानन इतीरितः ।
लय-कर्ता जगद्-योनिः पशूनाम् अपि नायकः ।
यस्य शीर्षे कला-नाथो वर्तते जाह्नवी स्वयम् ।
कोटीराग्र-प्राण-पतिः यस्य अग्निः फाल-लोचनम् ।
यस्य हंसोडुपौ नेत्रे यस्य अर्धाङ्गे शिवा भवेत् ।
यज्-जटा-गलिता देवी सागराणां विमुक्तिदा ।
चक्रिणस् य आलोको यस् तु सर्व-लोक-महेश्वरः ।
मेष-वाह-मुखैस् सेव्यस् सदा वृषभ-वाहनः ।
येन नक्षत्राणि सर्वाणि शैवानि फलदानि च ।
कल्पितानि विमुक्त्यर्थं ज्ञान-वैराग्यदानि च ।
तम् उद्दिश्यैव कर्तव्यो युष्माभिः क्रतुर् उत्तमः ।
प्रोचुर् अन्ये तु ऋषयः सच्-छास्त्रेषु सुनिष्टिताः ।
कर्ता कारयिता विष्णुः प्रेरको ऽन्तरगस् तथा ।
वेद-शास्त्र-पुराणानि स-इतिहास-आदिकानि च ।
यं वदन्ति उत्तमं सर्वान् सृजत्य् अवति हन्ति च ।
सार-असार-विवेकज्ञः शुभ-अशुभ-विवेकवान् ।
यत्-कटाक्ष-लव-अंशेन श्री-कञ्ज-सर-पूर्वकाः ।
स्थितिम् आसाद्य वर्तन्ते नाना-योनि-गतान् अपि ।
वर्तन्ते यद्-वशे द्वीपास् सागरास् सप्त-पर्वताः ।
मनसश् चन्द्रमा जज्ञे सूर्यो जज्ञे च चक्षुषः ।
यस्य आननात्-ततो जाताव्-अद्र-अग्नी लोक-रक्षकौ ।
श्रवणाभ्यां दिशो यस्य जज्ञिरे नाभि-मध्यतः ।
अन्तरिक्षं कञ्जजो ऽपि ब्राह्मणाः क्षत्रिया अपि ।
वैश्याः शूद्राः क्रमेणैव मुख-बाहूरु-पादतः ।
सप्तानां च युगानां च यन्-नाभि-सरसीरुहम् ।
नियामकम् इति प्रोक्तं लोकानां चैव पण्डितैः ।
त्रिगुणैर् दूरतो यो ऽसौ ज्ञान-आनन्द-गुणात्मकः ।
तत्-तत्-कालानुसारेण तत्-तद्-देशानुसारतः ।
सर्वेषाम् अन्तरस्थो ऽसौ प्रेरको भवति ध्रुवम् ।
शमादि-गुण-सम्पन्नो यद्-आधारम् इदं जगत् ।
नील-जीमूत-सङ्काश-सूर्य-कोटि-सम-च्छविः ।
भक्तानां रक्षणार्थाय दारु-लोह-शिला-मयः ।
स्वयम्भूत्वा रक्षति स्म भक्त-अधीनो यतो हरिः ।
परम-आनन्द-सन्दोह-दायको गरुड-ध्वजः ।

[[P50]]

नारायणो नीरजाक्षो परात्परतरः प्रभुः ।
तम् उद्दिश्यैव कर्तव्यो युष्माभिः क्रतुर् उत्तमः ।
इति संवदतां तेषां मतं विज्ञाय शौनकः ।
कुल-आचार्यो महा-तेजा ज्ञान-विज्ञान-पूर्णधीः ।
ध्यात्वा मुहूर्त-मात्रं तु प्रहसन् वाक्यम् अब्रवीत् ।
युक्तम् उक्तं तु युष्माभिः सर्व-शास्त्र-अर्थ-पारगैः ।
चतुर्मुखं समुद्दिश्य यत् कुर्मो यज्ञम् उत्तमम् ।
तदा शिव-पराणां च महा-क्रोधो ऽभि जायते ।
क्रतुं चेत् तं समुद्दिश्य वैष्णवानां तथा भवेत् ।
यज्ञं तं हरिम् उद्दिश्य यदि कुर्मस् तयोर् अपि ।
क्रोधौ भविष्यतस् तस्मात् किं कर्तव्यं हि साम्प्रतम् ।
तस्मात् त्रिषु सुरेषु को ऽधिकस् तत् परीक्ष्य च ।
ततो निश्चित्य सर्वे ऽपि यज्ञम् एतद् विधीयताम् ।
इति शौनक-सिद्धान्तं श्रुत्वा सर्वे मुनीश्वराः ।
कुल-आचार्यं पूजयन्तः कम्पयित्वा शिरांसि च ।
ओम् इत्य् ऊचुः सरस्वत्यास् तटे क्रतु-परायणाः ।
मिलितश् च ततस् सर्वे प्रेषयामो वयं च किम् ।
ऋत-वादी च धर्मात्मा सदा च अस्मद्-हिते रतः ।
आभिजात्यो ज्ञानवांश् च भक्ति-वैराग्य-संयुतः ।
त्रि-स्थानानां गतिर् यस्य भवत्य् अनिशम् अञ्जसा ।
इत्य् आलोच्य तदा सर्वे शौनक-आद्या महर्षयः ।
भृगुं परम-धर्मज्ञं विधिष्मश्रु-समुद्भवम् ।
ज्ञान-भक्ति-मतां श्रेष्ठं प्रेषयामासुर् अञ्जसा ।
विज्ञान-घन-तत्त्वज्ञ सर्व-शास्त्रज्ञ सर्वग ।
स्थान-त्रय-विवेकज्ञ युक्त-अयुक्त-विदां वर ।
त्वम् एव गतिर् अस्माकं समयो वर्तते महान् ।
शाला-निर्माण-पूर्वाणि साधनानि कृतानि तु ।
यज्ञस्य आरम्भ-काले तु कम् उद्दिश्य चरेत् क्रतुम् ।
वदन्ति केचित् ब्रह्माणम् अपरे शङ्करम् प्रभुम् ।
नारायणं सुर-अधीशं केचित् तत्र वदन्ति हि ।
तस्माद् उद्देश्य-विषयः को वा भवितुम् अर्हति ।
तं त्वं विज्ञाय वेगेन आगन्तव्यं मुनीश्वर ।
ततः परं भवेद् यज्ञ इति सर्वैर् विनिश्चितः ।
इति सम्प्रार्थितस् तैश् च भृगुर् ब्रह्म-सुतो द्विजः ।
ओम् इत्य् उक्त्वा मुनीन् सर्वान् ततो गन्तुं समुद्यतः ।
विज्ञान-वैराग्य-सुभक्ति-शीलः
संप्रेषितस् तैश् च मुनीन्द्र-वर्यैः ।
स्वयं-भु-लोकं प्रजगाम वेगात्
सभां विधोनेर् धिक-वर्चसैर् मुण्डिताम् ।

[[P51]]

[[P51]] इति भविष्योत्तरे (42 द्विचत्वारिंशोऽध्यायः)


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - ३

ब्रह्मोवाच- सभा-स्थानं प्रविश्य अथ विधेर् विधि-सुतस् तदा ।
सुर-असुरेन्द्र-गन्धर्व-किन्नर-उरग-सेवितम् ।
चित्र-गीत-समायुक्तम् अप्सरोगण-सेवितम् ।
प्रणनाम भृगुस् तं च दण्डवत् पितरं स्वकम् ।
कृत-अञ्जलि-पुटो भूत्वा स्व-पितुश् च अग्रतः स्थितः ।
स्वागतं स्वस्ति-वचनं किञ्चिन् न उवाच वै विधिः ।
ऐश्वर्योन्मत्त-तच्-चैव जन-कोलाहलेन च ।
मोह-युक्तश् च गीतेन किञ्चिन् न उवाच तं सुतम् ।
तत्रत्याश् च सुरास् सर्वे हि उपास्यन्ते हि तन्-मुखाः ।
मुहूर्त-मात्रं स्थित्वा तु भृगुर् ज्ञान-वतां वरः ।
न अदृतो ऽहं दरिद्रश् च न सौन्दर्य-वपुर्-धरः ।
बल-वाहन-कोशाद्यैर् बान्धवैस् स-धनैर् अपि ।
संयुक्तो ऽयं प्रमत्तश् च तस्मान् मां न अभिभाषते ।
क्वागतो ऽसि कुतस् ते अद्य गमनं कुशलं तव ।
नोवाच माम् समुद्दिश्य किं मेनेन भवेद् इति ।
पुत्रत्वं मे कथं त्व् अद्य भवेद् इति मुनीश्वर ।
इति ध्यात्वा मुहूर्तं तु मत्तं दृष्ट्वा स्वयम्भुवम् ।
धिग् जन्म अस्य प्रमत्तस्य किं कार्यं मे स्थितस्य च ।
तस्माद् गच्छामि च अन्यत्र ध्यात्वैवं शङ्करं ययौ ।
कैलासे सकल-आश्चर्य-मण्डिते मुक्ति-मण्टपे ।
मनो-ह्राद-करे स्थाने हि अदृष्ट्वा साम्बम् अव्ययम् ।
क्वास्ते इति परिपप्रच्छ चण्डेशं प्रतिहारकम् ।
मुनिं चण्डेश्वरस् तत्र प्रोवाच रहसि स्थितम् ।
देव्या सह अनपायिन्या च अर्धाङ्घ्र्या संगतश् शिवः ।
आस्ते च अत्र ऋषि-श्रेष्ठे प्रतिहारो ऽस्मि साम्प्रतम् ।
चण्डेशेन एवम् उक्तस् तु भृगुस् तत्र जगाम सः ।
केली-गृहे सोमया च चित्र-पर्यङ्क-मण्डिते ।
शयानं वृषभ-आदीशं वाहनं च अग्रतः स्थितम् ।
ब्रह्म-आत्मजं भृगुं दृष्ट्वा क्रोध-संरक्त-लोचनः ।
दन्तान् कट्कटाप्य आशु गृहीत्वा शूलम् उत्तमम् ।
हन्तुं तं प्राद्रवद् वेगात् शम्भुं तं भय-विह्वलः ।
भृगुर् ब्रह्म-सुतो धैर्यात् तस्य प्राण-परीप्सया ।
पलायन-परश् च आसीत् पृष्ठतो ऽनुययौ शिवः ।

[[P52]] षष्टि-योजन-पर्यन्तं ततो ऽयं मुनि-सत्तमः ।
विश्य गहन-स्थानं लता-गुल्म-परिष्कृतम् ।
अगम्य-स्थानम् आसाद्य तूष्णीं तत्र स्थितो ऽभवत् ।
सर्वज्ञो ऽपि शिवस् साक्षात् जहार क्रोधम् आत्मनः ।
पुनर् निवर्तयामास कैलासं प्रति नारद ।
मुनिस् तत्र त्रिरात्रं तु स्थित्वा चैव ततः परम् ।
द्रुतं जगाम धर्मात्मा भय-विह्वल-चेतनः ।
पृष्ठतः परिपश्यंश् च मुनीशो ऽसौ पुनः पुनः ।
वेगात् वैकुण्ठम् अगमद् यद् गत्वा न एव शोचति ।
सर्वतोद्धृतं मत्वा तु सम्पदां अधिकारिणम् ।
लक्ष्मी-विलास-सन्दोह-परिपूर्णं शुभ-स्थलम् ।
मुक्ता-अमुक्त-जनैर् वन्द्यं वेद-शास्त्रैर् अधिष्ठितम् ।
अनाहत-वैद्य-घोषैः श्रुति-सन्तोष-कारणैः ।
दर्शनान्-नमनाद्-ध्यानात् न पुनर् जन्म-दायकम् ।
चित्र-मण्टप-सन्दोह-रत्न-काञ्चन-तोरणम् ।
सेव्यमानं खगेन्द्रेण विष्वक्सेनेन नारद ।
तत्-स्थानं प्रविवेश आदौ ऋषि-नारद-निर्भरः ।
यत्र श्वेत-पुर-श्रीमान् लक्ष्म्या अमृत-संस्तरे ।
तत्र गत्वा जगन्नाथं सृष्टि-स्थित्य्-अन्त-कारणम् ।
उत्तान-शायिनम् अजं लोक-नाथं महा-प्रभुम् ।
यस्य पाङ्गल-वंशेन जगद् एतच् चराचरम् ।
वर्धति अनिशम् एव अथ सर्वेषाम् अन्तर-स्थितम् ।
दृष्ट्वा ब्रह्म-सुतान् विद्वान् अपि जानन् परात्परम् ।
शम-आदि-गुण-संयुक्तं लोक-नाथं महा-प्रभुम् ।
वृद्धत्वाच् च अन्ध-सत्त्वाच् च सर्वत्र आटनो ऽपि च ।
भाविकाधार-रूपेण हरिणा प्रेरितो मुनिः ।
क्रोध-आनन-परीताङ्ग आसुरं भावम् आश्रितः ।
दन्तान् कट्कटाप्य आशु हरिं सर्वोत्तमं विभुम् ।
पादेन ताडयामास वामेन क्रोध-मूर्च्छितः ।
लक्ष्मी-स्थानं समस्त-अघ-भेद्यं परम-सुन्दरम् ।
दृष्ट्वा मद्-आगमं त्वद्य कथं शेते इति मूढवत् ।
दूरात् दृष्ट्वा द्विजं शान्तं यो ऽवमन्येत मूढ-धीः ।
न वर्धते तत्-कुटुम्बम् इति वेद-विदां मतम् ।
शयने यस् तु वा शेते दृष्ट्वा ब्राह्मणम् आगतम् ।
ब्रह्म-ज्ञान-विदां श्रेष्ठं वज्र-वृक्षो भवेद् ध्रुवम् ।
मातरं पितरं चैव गुरुं मातुलम् एव वा ।
शास्त्र-वृद्धं समायान्तं यश् शेते मूढ-धीः स-कृत् ।
पर्यङ्के वा भूतले वा स-कूष्माण्डो भवेद् ध्रुवम् ।
तस्माद् अद्य-कुले जातं भवद्-दूरं समागतम् ।
दृष्ट्वा अपि शेषे पद्मायां च अङ्के भीति-विवर्जितः ।
निर्भर्त्स्य एव संस्थितस् तु मुनौ मोह-वश-स्थिते ।
तत उत्थाय वेगेन त्यक्त्वा दूरं रमाम् अपि ।

[[P53]] प्रणम्य च परिक्रम्य भृगुं ब्रह्म-सुतं तदा ।
अर्घ्य-पाद्य-आदिभिस् तं वै रमया सह पूजयत् ।
तत्-पाद-शौच-दिव्य-अम्बः रमा-शिरसि प्रोक्षयत् ।
आत्मानं प्रोक्षयित्वा तु मृदु-वाक्यम् अवोचत ।
मुनि-श्रेष्ठ महा-भाग [[कृतातसमलं|कृतागसमलं]] द्विज ।
मैत्रेण चक्षुषा पश्य क्षमस्व आगच्छ साम्प्रतम् ।

अच्छेद्यो ऽहम् अभेद्यो ऽहम् अशोष्यो ऽहं महा-मुने ।
तथाभूतस्य हृदये कृतवान् असि ताडनम् ।
पादतो ऽद्य महान् क्लेशः जातस् ते न अत्र संशयः ।
किं करोमि महा-भाग ज्ञान-विज्ञानिनां वर ।
इत्य् उक्त्वा तत्-पदं स्वस्य हस्ताभ्यां परिमृश्य च ।
किमर्थम् आगतो ऽसि त्वं अचिन्त्यं स्थानम् उत्तमम् ।
मम अद्य वद तत्-कार्यं करिष्ये न अत्र संशयः ।
इत्य् उक्तस् त्रपयाविष्टो हरिणा मुनि-सत्तमः ।
किञ्चिद् अस्ति मम स्वान्तं तद् वक्ष्यामि खग-ध्वज ।
बहिर् गत्वा समागत्य पुनस् ते प्रवदामि अहम् ।
इत्य् उक्त्वा तं प्रणम्य आशु प्रययौ यज्ञ-वाटिकाम् ।
तान् नमस्कृत्य च मुनीन् सरस्वत्यास् तटं श्रितान् ।
शौनक-आदीन् महा-भागान् गमन-आगमनं तथा ।
वर्णयामास कात्स्न्येन भृगुः पङ्कज-भू-सुतः ।
श्रुत्वा हि ते कञ्ज-ज-पुत्र-वाक्यं
विमर्शयामासुर् अदीन-सत्त्वाः ।
देव-त्रयेषु अभ्यधिकश् च को
भवेद् इति इव संचिन्त्य हरिर् वरं जगुः ।

इति भविष्योत्तरे (43) त्रि-चत्वारिंशो ऽध्यायः ।


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - 4

ब्रह्मोवाच-
शौनक-आद्या मुनि-श्रेष्ठा यज्ञ-शीलास् सुकर्मिणः ।
ज्ञात्वा मत्तं विधिं त्यक्त्वा क्रोध-आत्मानं शिवं तथा ।
शम-आदि-गुण-सम्पन्नं सु-उपाय-कुशलं परम् ।
हरिं लक्ष्मी-पतिं श्रेष्ठं मन्यमानाः क्रतु-उत्तमे ।
शास्त्र-अर्थैर् अपि निश्चित्य साक्षाद् वैकुण्ठ-वल्लभम् ।
समुद्दिश्य क्रतुर् चक्रुस् ते मुनि-सत्तमाः ।
प्रान्ते समर्पयामासस् तस्य लक्ष्मी-पतेः प्रभोः ।
यज्ञं कृत्वा द्वादश-अब्दं कृत्वा च अवभृतं स्फुटम् ।
तम् एव सस्मरन्तश् च बभूवुः स्वस्थ-चेतसः ।

[[P54]] ततो भृगुर् मुनीन्द्रो ऽसौ सूक्ष्म-धर्म-विदां वरः ।
चिन्तयामास धर्मात्मा युक्त-अयुक्त-विवेकवान् ।
धिग्-धिग् जन्म विनष्टं स्याद् धिक्-तपः धिक्-श्रुतं मम ।
कुल-नाश-करं पापं किं मया चरितं त्व् इदम् ।
मम दुर्बुद्धिर् एव तु केन दुष्कृत-कर्मणा ।
एतज्-जन्मनि वा पूर्व-जन्मनि अपि अथवा भवेत् ।
धिक्-कुलं नाशितं सर्वं मया पाप-क-बुद्धिना ।
सर्वैर् निन्दितं जन्म ममासीत् सर्वतस्स्था ।
देवानां च सुराणां च तृण-तुल्यो भवामि अहम् ।
सात्त्विकानां वर इति प्रसिद्धो ऽयं जगत्-त्रये ।
इतः परं तामसानां वरो ऽहं न अत्र संशयः ।
किम् आसीन् मे किम् आसीन् मे दुर्ज्ञानं धिग्-जनिर् मम ।
मत्तः परतर-नास्ति पापिनाम् अग्रणीर् भुवि ।
वृथा परिश्रम-जातः धिक्-श्रुतं सर्वम् एव तु ।
पृथक्-नरकम् एवं स्यान् मम शौरिर् ददानि च ।
निरयाणां पूर्व-गाणां न पात्रो ऽहं ततो ऽधिकः ।
तस्मात् पृथक्-कल्पनं स्यान् निरयं मे न संशयः ।
पृथग्-जनानां सर्वेषाम् उपरिष्ठो ऽस्मि न अन्यथा ।
किं करोमि कथं कुर्वे कथं श्रेयो भवेन् मम ।
रमानाथः परानन्द-गुण-सान्द्रात्मको हरिः ।
त्रि-स्थानाधिपति श्रीमान् सर्व-क्षेत्र-गतः प्रभुः ।
सर्वेषाम् अन्तरात्मा च सर्ग-स्थिति-विधायकः ।
जन्तवो येन जीवन्ति जायन्ते जन्तवो यतः ।
यं विशन्ति च भूतानि परं ब्रह्म इति यं विदुः ।
सर्व-आगम-पुराणेषु यं वदन्ति अधिकं प्रभुम् ।
वेदेषु सर्व-शाखासु यद्-गुणाढ्यं वदन्ति वै ।
कृत्वा द्रोहम् अहं तस्य कुत्र गच्छामि साम्प्रतम् ।
परम् एकम् अहं मन्ये कर्ता-कारयिता प्रभुः ।
प्रेरकस् सर्व-भूतानां साक्षि-भूतो न संशयः ।
तं विना सर्व-लोकेषु तृणं वा न चलत्य् अहो ।
तत्-तत्-कालानुसारेण तत्-तत्-कर्मानुसारतः ।
अन्तः प्रविश्य लक्ष्मीशः कारयत्य् एव न अन्यथा ।
मम कर्मानुसारेण कारितं हरिणैव तु ।
माता पिता सखा बन्धुः सुहृद्-भ्राता गुरुर् मम ।
सर्वं लक्ष्मीपतिः श्रीमान् न अन्यथा मे गतिर् भवेत् ।
इत्थं सञ्चिन्तयन् कृष्णम् अप्रमेयं परात्परम् ।
किञ्चित्-कालं निनाय अथ भृगुः परम-धार्मिकः ।
पश्चात्ताप-समायुक्तो विनिन्द्यात्मानम् अन्वहम् ।
उपवास-परो दान्तस् तृण-तुल्य-कृशो ह्य् अभूत् ।
काल-धर्मम् अवाप्य आशु विष्णोर् एव प्रसादातः ।

[[P55]] शृङ्गि-बेर-पुराधीशो बभूव च सदा शुचिः ।
सदा राम-कथासक्तः सदा राम-परायणः ।
सदा श्री-राम-सेवी च श्री-रामस्य प्रसादातः ।
पुनर्जातो भूतले अस्मिन् सुमेरोर् उत्तरे शुभे ।
हरेर् वेत्रांश-संभूतः काञ्चनो नाम वै मुनिः ।
तत्-पुत्रो हेम-नामा असौ बभूव भृगुर् एव सः ।
सदा शान्तामना भूत्वा हरि-भक्त-अग्रणीर् अभूत् ।
कृत-आगसो ऽपि अनिवार्यास् तत्-प्रसादेन पूर्णधीः ।
बभूव न अत्र सन्देहः घृणा-पूर्णो यतो हरिः ।
करोति अनागसां तु कृपां किम् उ मुनीश्वर ।
स हि हेमो मुनि-नाम्ना विष्णु-भक्ति-विवर्धनः ।
शान्तो दान्तस् तपस्वी च मन्त्र-यन्त्र-परस् सदा ।
वेद-शास्त्र-अर्थ-तत्त्वज्ञस् सर्व-आगम-विशारदः ।
सत्-कर्म-निरतो धीमन् विष्णु-व्रत-परायणः ।
भव-भार-परित्यक्तो भवस्थो ऽपि सदैवत ।
हरि-तत्त्व-विचारज्ञः सर्वेषाम् उपदेशकः ।
समरैस्य मुनि-श्रेष्ठैः चतुर्दश-सहस्रकैः ।
शिष्य-संघैस् समायुक्तो जित-क्रोधो जित-श्रमः ।
जित-षड्-वर्ग-वान् नित्यं पूर्ण-षाड्गुण्य-विग्रहः ।
ध्यायन् सञ्चिन्तयन् देवं मेरु-मूर्धनि शुभ-स्थले ।
पारिजातस्य मूले तु तपः परम-दुष्करम् ।
पूर्व-जन्म-कृतं सर्वं शुभाशुभ-फलं मुनिः ।
जानाति योगाभ्यासेन लक्ष्मीशस्य प्रसादातः ।
तत्-पाप-शेष-मुग्ध्यर्थम् असाध्यं तप आचरत् ।
अयुतान्ते मुनि-श्रेष्ठः पुनः संकल्प्य भक्तितः ।
साक्षाल्-लक्ष्मी-परानन्दा चिद्-घना-पूर्ण-विग्रहा ।
वाग्-भनो-देवता-शुद्धा परात्-परतरा सदा ।
यस्याः कटाक्ष-लेशेन द्वि-युग-आनन-पूर्वकाः ।
स्वीय-स्थानानि सम्प्राप्य तस्य द्रोहं समाचरम् ।
तद्-गृहं पापिनां पूर्वं ताडितं पादतस् सकृत् ।
तद्-दोष-शान्तये पूर्वं तप आचरितं मया ।
शुद्ध-अन्तःकरणश् च अहम् अस्मिन् न अत्र विचारणा ।
तस्य तस्याः प्रसादाअर्थं तद्-ईशस्य अपि चैव हि ।
करिष्ये अत्रैव संकल्पं साक्षिणस् सर्व-देवताः ।
भवन्तु मेरु-संस्थाश् च हि अन्तरात्मा तथा भवेत् ।
यावल्-लक्ष्मीपतिः श्रीमान् प्रसीदति खग-ध्वजः ।
तावद् अत्र तपस्येहं नियमेन समाधिना ।
ततः परं रमानाथं वरयामि वर-त्रयम् ।
मम लक्ष्मी-सुता भूयात् जामाता हरिर् एव तु ।
ततो मे तव सायुज्यं योगिनां च अति-दुर्लभम् ।
एतत्-त्रयान्तं मम अद्य त्वं देहि इति प्रार्थयामि अहम् ।
इत्थं सञ्चिन्तयन् हेम-मुनिः परम-धार्मिकः ।

[[P56]] तताप मेरु-शिखरे शिष्य-संघ-समन्वितः ।
स मौनम् आश्रित्य सहस्र-वर्षं
तताप धर्मेण महानुभावः ।
हेमो मुनीन्द्रो वर-मङ्गलाय
स्वस्य अपि शान्त्यर्थम् अजं स्मरंस् तदा ।*

इति भविष्योत्तरे (44) चतुश्चत्वारिंशो ऽध्यायः ।


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - 5

ब्रह्मोवाच-
गतो भृगौ रमादेवी लोक-अनुग्रह-कांक्षया ।
सर्वज्ञा अपि जगद्-धात्री सर्व-लोकैक-मङ्गला ।
पृथक्-स्त्री-जन-लीलां च कुर्वती मोहनाय च ।
अज्ञानां स्त्री-जनानां च कामदा च सदा नृणाम् ।
जगद्-रक्षण-हेतोश् च कर-वीर-अधिपस्य च ।
तत्रत्यानां रक्षणाय अनन्त-शयनं प्रभुम् ।
प्रोवाच कुपिता लक्ष्मीः प्रणयेन एव न अन्यथा ।
मोहनाय च लोकानां भक्त-संरक्षणाय च ।
खग-ध्वज परानन्द-पूर्ण-षाड्गुण्य-विग्रह ।
पद्म-नाभ अपरिच्छेद्य-गुण-सान्द्रैक-विग्रह ।
माया-पते महा-मायिन् सर्ग-स्थिति-विधायक ।
अशेष-जगद्-आधार-शङ्ख-चक्र-गदाधर ।
देहि अनुज्ञां मम विभो गच्छन्त्या जगदीशवर ।
त्वत्-सन्निधिम् अलङ्कान्त-वृद्धासीन् मत्-परिश्रमः ।
त्वद्-एक-चित्ता त्वद्-भक्ता सदा त्वत्-पादम् आश्रिता ।
सदा अनपायिनी भूत्वा स्थिता त्वद्-धृदये शुभे ।
त्वद्-दत्त-स्थानम् आश्रित्य त्वद्-अर्चन-परा सदा ।
सदा त्वद्-गोष्ठि-निरता त्वन्-मुखाम्बुज-मधु-व्रता ।
हस्त-ग-आदर्शवन् नित्यं त्वया च अपि सुलालिता ।
स्थिताहं बहु-कालेन त्वद्-आज्ञाम् अनुपालिका ।
द्विजेन भृगुना च अद्य तृण-तुल्येन सर्वतः ।
प्रसिद्ध-स्थान-विभवं नाशितं पाद-ताडनात् ।
किम् अनेन प्राण-पते तव च अस्ति प्रयोजनम् ।
समो वा हि अधिको वा अपि गुणैर् वा रूपतो ऽपि वा ।
कर्मणा वा न किम् अपि तृण-तुल्यस् तव अयम् ।
तदा भूतेन पादेन ताडितो ऽपि सु-पूजितः ।
अजानता लोक-भावं पुनः पूजा कृता त्वया ।
तत्-काले कं पिता च अहं तस्य पाद-प्रहारतः ।
किम् अरे इति तम् उद्दिश्य न उक्तवान् असि दुर्मदम् ।

[[P57]] अन्यो ऽपि अत्येत्य इतो देव माम् एव प्रगृहिष्यति ।
पूजां करोषि तं च अपि तस्मान् मे किं प्रयोजनम् ।
केवलं प्राकृतो वा अपि भार्या-स्थानं समागतम् ।
तर्जयित्वा भर्त्सयित्वा प्राणान्तं ताडयिष्यति ।
तस्माद् अपि अवरस् त्वं च तस्मान् मे किं प्रयोजनम् ।
मातरं पितरं चैव गुरुं मित्र-जनं तु वा ।
भ्रातरं त्व् अनुजं वा अपि बन्धून् अपि विशेषतः ।
त्यजन्ति भार्या-हेतोश् च पामरा अपि भूतले ।
न तेषाम् अपि तुल्यो ऽसि तस्मान् मे किं प्रयोजनम् ।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डक-आवनम् ।
चीर-कृष्ण-अजिन-धरः जटा-वल्कल-संव्रतः ।
सीता-हेतोश् च तद्-वाक्यात् काञ्चनं मृगम् अन्वगात् ।
तथा पक्षि-पतिं मुखं हत्वा नाना-यत्न-समन्वितः ।
क्षुद्रैर् वानर-चरैस् साकं सीतया सङ्गतो ऽभवत् ।
यादवेन्द्रो ऽपि देवेशो नीलार्थे वृषभान् अपि ।
बन्धयामास तत्-काले तेषां पादैस् तु ताडितः ।
तच् छृङ्गैश् च तद् उद्व्यापि तद् वालैस् ताडितो ऽपि च ।
ततो नीलां समुद्वाह्य तया रेमे मनः-सुखम् ।
भीष्मकस्य सुतां देवीम् एक एव महा-प्रभुः ।
कुल-देव-महा-यात्रां कुर्वतीम् अग्रहीद् द्रुतम् ।
तया संप्रेषितो विप्रः क्षुद्रस् तृण-समो भुवि ।
तस्य वाक्यं समाकर्ण्य गृह्णीत्वा तां च रुक्मिणीम् ।
तद्-अर्थे च आगतैस् सर्वैर् शिशुपाल-आदिभिस् सह ।
कृत्वा च आयुधनं सम्यक् ताडितो ऽपि च तैर् अपि ।
निर्जित्य तान् क्षणेन एव तद्-भ्रातृ-प्रमुखान् अपि ।
तया साकं यदु-पुरीं चोद्यैर् चोद्वाह्य सङ्गतः ।
ऋक्ष-राज-सुतां देवीं मणि-हेतोस् स वृष्णिपः ।
ऋक्ष-राजेन कदनम् अष्टा-विंश-अहम् अद्भुतम् ।
कृत्वा स-रत्न-कान्तां च अग्रहीद् इति मे श्रुतम् ।
चौर्य-कर्म-रतः कृष्णः [[भ्रातत्वं|भ्रातृ-त्वं]] वद ईन् मम ।
सत्राजिता यादवेन निन्दितो ऽपि पुनः पुनः ।
सत्यार्थं सह्यमानस् सन् क्रमेण जगृहे च ताम् ।
त्वयैव च कृतं सर्वं लोक-लीलां मम प्रभो ।
तत् सर्वं विस्मृतं त्व् अद्य मम भाग्य-वशाद् धरे ।
तस्माद् दूरम् अहं वेगात् गच्छामि इति पुनः पुनः ।
प्रोक्त्व आपतिं हृषीकेशं भक्त-वत्सलम् अव्ययम् ।
कर-वीरस्य हेतोश् च तपसा तस्य तोषिता ।
अनावृष्टि-निमित्तेन षष्टि-वर्षाधिकेन च ।
जन-क्षोभेन महता प्रतप्तेन च भू-भुजा ।
सर्वेषाम् इष्टदाने एक-निरतां नीरज-उद्भवा ।
सुवृष्टि-दायिनी भूमिर् इति प्रोक्ते द्विजादिभिः ।
सन्तप्त-मनसा तस्य तुष्ट्यर्थं पद्मजा शुभा ।

[[P58]] सुवृष्ट्यर्थं तस्य राज्ये सस्य-वृद्ध्यर्थम् एव च ।
तस्य अपि अनुग्रहार्थाय तत्रत्यानं हिताय च ।
पयोदधि-स्वरूपाय भूपतीन्द्राय नारद ।
क्रमेण दाक्षिणात्यानां विशेष-अनुग्रहतः ।
कवेर-ज-तट-स्थानां पूर्ण-अनुग्रह-हेतवे ।
कुपितेव महा-लक्ष्मीस् सदा तस्य अनपायिनी ।
त्यक्त्वा वैकुण्ठ-संस्थानं कोल्हापुर-वरं ययौ ।
सद्यस् सुवृष्टिः संजाता तत्-पुरे परितो ऽपि च ।
स भूपतिः परानन्द-शाली सम्पूज्य द्रमाम् ।
तस्मिन्न् एव हि काले तु शेषाचलपतिः स्वयम् ।
वियद्-राज-सुतां देवीं साक्षान् नील-अंशजां शुभाम् ।
पद्मावतीम् इति ख्यातां त्रिलोक-जननीं पराम् ।
पुष्प-अपचयं तन्वन्तीं दृष्ट्वा मोह-वशं गतः ।
त्यक्त-मोहं क्रमेणैव साक्षाद् वकुल-मालया ।
पद्मावती-समायोगम् आसीन् मूलम् अव्ययम् ।
कृत्वा वैवाहिकं श्रीमान् वेङ्कटाद्रिपतिः स्वयम् ।
गम्यमाने वेङ्कटाद्रि देव-कार्य-दुरन्तरः ।
विशेषाद् दाक्षिणात्यानां कावेरी-कूल-वासिनाम् ।
अनुग्रहाय सर्वेषां नारदो धर्म-विग्रहः ।
जगाम क्षण-मात्रेण कोल्हापुर-वरे स्थिताम् ।
रमां प्रणम्य भक्त्या तु कृत-अञ्जलि-पुटो ऽब्रवीत् ।
पद्मानने पद्म-जाक्षि पद्म-नाभ-प्रिये शुभे ।
पद्मावतीम् इति ख्यातां दृष्ट्वा भुवन-सुन्दरीम् ।
नाना-यत्नेन देवेशस् साक्षाद् वैकुण्ठतः प्रभुः ।
त्यक्त्वा वैकुण्ठ-संस्थानं वेङ्कटेश इतीरितः ।
त्वद्-वियोगेन दुःखेन विचिन्वन् सर्वतो ऽपि च ।
तां दृष्ट्वा लोक-जननीं त्वत्तो रूप-अधिकां पराम् ।
समुद्वाह्य तया साकम् अचल-इन्द्रं प्रगच्छति ।
शेष-अचल-अभिधं देवो भक्त-रक्षण-दीक्षितः ।
स्मरणाद्-मननाद्-ध्यानात् दर्शनाद् ईप्सित-प्रदम् ।
वैकुण्ठ-सदृश-स्थानं कृत्वा गच्छति वेङ्कटः ।
त्यक्ष्यति त्वां विशेषेण न च संस्मरति क्वचित् ।
तस्मात् क्षणेन भो देवि गच्छ त्व् इति उक्ति-मात्रतः ।
तं पूजयित्वा सा देवी क्रोधेन महतावृता ।
हंस-वाहं समास्थाय गरुड-ध्वजम् अन्वगात् ।
ततो ऽपि द्रुतम् एत्य असौ प्रणम्य हरिम् अव्ययम् ।
वेङ्कटाचल-नामानं कृत-अञ्जलि-पुटो ऽब्रवीत् ।
स्वामिन्न् आयाति सा लक्ष्मीर् इति कोशान्तर-स्थले ।
या त्वां त्यक्त्वा गता पूर्वं सैव न अत्र संशयः ।
श्रुत्वा च उद्वाहितं त्वां च वियद्-राज-सुताम् अपि ।
शिक्षितुं कोश-संयुक्ता समायाति न संशयः ।
क्वास्ते स वेङ्कटाधीशः क्वास्ते क्वास्ते इति भाषते ।

[[P59]] दन्तान् कट्कटाप्य आशु मार्गे चैव पदे पदे ।
केन दत्ता सुतां तस्य तां च तं च क्षणेन तु ।
हनिष्यामि इति वदनी क्रोध-आनन-समाकुला ।
तस्मात् त्वं देवदेवेश काल-योग्यं समाचर ।
पलायनं कुरुष्व त्वं निक्षिप्य तां लतावृते ।
वेङ्कटाद्रेर् अधो-भागे रह-स्थाने महा-प्रभो ।
दक्षिणां दिशम् उद्दिश्य पलायन-परो भव ।
दण्डक-अरण्य-मध्ये तु कावेर्या दक्षिणे तटे ।
कुम्भघोण-अभिधं क्षेत्रम् आदि-सिद्धं शुभावहम् ।
तच्-छेत्रे कल्प-भेदेन शिथिले गुल्म-संयुते ।
कृत्वा बिलं च पाताले क्वचित्-कालं वस प्रभो ।
मम रोचति चेत्थं वै तव यद् रोचते कुरु ।
इत्य् उक्त्वा सुर-कार्यार्थी नभः-स्थानं ययौ द्रुतम् ।
तच् छ्रुत्वा अत्यन्त-भीतो ऽसौ वेङ्कटेशो रमापतिः ।
लोक-संग्रहणार्थाय किं करोमि इति चिन्तयन् ।
संयज्ञो ऽपि रमाकान्तः क्रीडयिष्यन् गुणानिधिः ।
कावेरी-तीर-जानां तु हिताय जगदीशवरः ।
पद्मावतीं वियद्-राज-सुतां लोक-उत्तरां शुभाम् ।
लता-गुल्म-आवृत-स्थाने पूर्ण-कण्ठक-संवृते ।
वेङ्कटाद्रेर् अध-स्थाने कारयित्वालयं दृढम् ।
निमेषान्तर-मात्रेण तत्र संस्थाप्य शुभाम् ।
किञ्चिद् धेतुं समुद्दिश्य स्वयं च एकांशतो हरिः ।
वेङ्कटाद्रेर् कामितार्थ-प्रदे स्थितिम् अकारयत् ।
दर्शयन् लोक-लीलां च अपरेणांशतो हरिः ।
दक्षिणां दिशम् उद्दिश्य प्रययौ द्रुतम् एव तु ।
कर-वीराधिपा देवी पृष्ठतो ऽनुययौ धृतम् ।
भार्याया भीति-संयुक्तो लौकिक-आचारम् आश्रितः ।
वेगात् कावेरजा-तीर-स्थितं क्षेत्रं पुरातनम् ।
कुम्भघोण-अभिधं पुण्यं दण्डक-अरण्य-मध्यगम् ।
लता-गुल्म-आवृतं देशं पश्यन् कुहरम् आश्रितः ।
पृष्ठतस्था अपि वेगेन समायाता रमा परा ।
सृष्टि-बीज-वट-उद्भूत-सुधा-पूर-विनिर्मितम् ।
स्थानं प्रविष्ट-मात्रे तु योजन-अन्ते विशेषतः ।
सात्त्विकं भावम् आयाता पद्मायां मुनि-सत्तम ।
कावेर्या दक्षिणं तीरं कुम्भघोण-अभिधं शुभम् ।
सात्त्विकेनैव भावेन समायात-अन्ततः परम् ।
सदा सात्त्विक-भावा सा हरेर् नित्य-अनपायिनी ।
लीलां यथा हरिः कुर्यात् तथैव एषा करिष्यति ।
सर्व-लोकैक-शरणा सर्व-लोकैक-सुन्दरी ।
सर्व-लोकैक-जननी सर्व-लोकैक-वन्दिनी ।
समाश्रित्य पृथग्-लीलां कुर्वन्तीं मोहनाय च ।

[[P60]] क्षेत्र-प्रवेश-मात्रेण तुष्टा पूर्ण-मनोरथा ।
आनन्द-पूर्ण-सन्दोह-निबिढी-कृत-विग्रहा ।
बभूव लक्ष्मीः पद्माक्षी पद्म-नाभ-प्रिया सती ।
पूर्ण-ज्ञान-आत्मिका नित्यं पूर्ण-आनन्द-पद-अर्चिका ।
अत्रैव मम सिद्धिस् स्यान् न अत्र कार्य-विचारणा ।
इदं मत्-प्रिय-सद्-स्थानं तीर्थम् अपि उत्तमं शुभम् ।
विष्णोर् वक्ष-स्थलं रोढुं पूर्ववन् नित्यम् अव्ययम् ।
तपः करोमि सरसि स्वर्ण-पङ्कज-मध्यगे ।
इत्य् आलोच्य तदा देवी जित-क्रोधा जित-श्रमा ।
सूर्य-कोटि-सम-आभासा चन्द्र-अनन्त-सुशीतला ।
मनसा निर्मिते तत्र तीर्थे परम-पावने ।
स्वर्ण-पङ्कजम् आनन्द-देहात् तन्-मध्ये संस्थिता ।
नियमेन महा-लक्ष्मीः यावद् आयाति मे पतिः ।
तावद् अत्रैव तप्स्यामि साक्षाद् वैकुण्ठ-नायकः ।
मद्-आगमन-काले तु भोगीन्द्र-शयने स्थितः ।
सुरेन्द्र-मण्डिते दिव्य-विमाने च सु-सुन्दरे ।
शृङ्ग-त्रय-आत्मके सर्व-तेजोमय-विराजिते ।
उत्तान-शायी भगवान् संस्थितश् च यथा पुरा ।
तथैव तद्-विमानेन परिच्छेद्यतेन च ।
मम दृष्टि-पथो देवः परम-आनन्द-विग्रहः ।
तपसा मम सन्तुष्टः भूयात् प्रत्यक्ष-गोचरः ।
तावद् अत्रैव तप्स्यामि निश्चित्य एवं तपश् चरत् ।

परात्परा चारुतरानपायिनी सुमङ्गला सा गरुड-ध्वजस्य ।
तपश्चकार अथ हेम-पङ्कजे तटित्-प्रभा शारद-सोम-वक्त्रा ।
इति भविष्योत्तरे (४५) पञ्च-चत्वारिंशो ऽध्यायः ।


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - ६

ब्रह्मोवाच-
कुम्भघोणस्य माहात्म्यं कल्प-कोटि-शतैर् अपि ।
न शक्यते वर्णयितुं मया साकल्यतो मुने ।
तथापि तव भक्तस्य वक्ष्ये ऽहं लेश-मात्रतः ।
पुरा मुने कृत-युगे हेमो नाम्ना मुनीश्वरः ।
सहस्रं शरद-अन्ते पे स्मरन् विष्णुं महत्-तपः ।
तपसा तोषितस् तस्य भाव-शुद्ध्या विशेषतः ।
प्रादुरासीन् महा-विष्णुर् विनता-तनय-अंसगः ।
नील-जीमूत-संकाशं पीत-कौशेय-वाससम् ।
शङ्ख-चक्र-गदा-पद्म-शर-चाप-असि-धारिणम् ।

[[P61]] कनक-अम्बर-धारिण्या कनक-उज्ज्वल-रूपया ।
भगवत्या श्रियाश्लिष्ट-परम-अङ्गं सु-यौवनम् ।
सुप्रसन्नम् उदार-अङ्गम् इन्दु-निद्र-कमलेक्षणम् ।
दया-रस-आर्द्र-नयनं हार-केयूर-मण्डितम् ।
कमनीय-गुणादारं रमणीय-भुजान्वितम् ।
धरणी-रमणं साक्षान् मुनिर् आलोक्य शार्ङ्गिणम् ।
अष्ट-अङ्ग-अश्लिष्ट-वसुधः प्रणिपत्य प्रसन्न-धीः ।
विस्मय-उत्फुल्ल-नयनस् तस्थौ प्राञ्जलिर् अग्रतः ।
न किं चिद् अपि वा स्तोतुं शशाकानन्द-निर्भरः ।
तं प्राह भगवान् विष्णुस् त्रैलोक्यैक-समाश्रयः ।
सुधा-धारा-मधुरया मेघ-गंभीरया गिरा ।

श्री भगवान्-
सन्तुष्टो भवता विप्र! तपसा उग्रणे पूजितः ।
अभीष्ट-अर्थ-प्रदानाय साक्षाद् अहम् उपागतः ।
दुर्लभं दर्शनं पुंसां सर्वत्र वसतो ऽपि मे ।
वृणीष्व तावद् भवतो वर्तते हृदये हि यत् ।
तत् दातुं संप्रवृत्तो ऽहं न कार्या संशये मतिः ।
इत्य् उक्तस् स महा-प्राज्ञः मुकुन्दं मुनि-सत्तमः ।
प्रोवाच यदि तुष्टो ऽसि चतुर्भुज-महा-प्रभो ।
त्वत्-प्राण-वल्लभा लक्ष्मीर् मम पुत्री भविष्यतु ।
जामाता त्वं भव स्वामिन् न ईतं मुख्यतमं वरम् ।
ततो ऽन्यं वरये देव तव सायुज्यम् एव मे ।
एतद्-वर-त्रयं देव ददस्व गरुड-ध्वज ।
उपाकण्य तद् उवाच भगवान् भक्त-वत्सलः ।

श्री भगवान्-
मुने मेरु-गिरे शृङ्गम् इदं भक्ति-फल-प्रदम् ।
कर्म-बन्ध-विनिर्मुक्तैर् मत्-क्षेत्राणि चिरं भज ।
इतो ऽवतीर्य सहसा पुण्ये भागीरथी-तटे ।
क्षेत्रं काशीति विख्यातं पञ्च-क्रोशम् अभीष्टदम् ।
आराध्य तत्र माम् एव तपसा संयतेन्द्रियः ।
भोगीन्द्र-शयनं विष्णुं क्षेत्र-अधीशं महा-प्रभुम् ।
अज्ञान-तिमिर-ध्वंस-प्रद्योतन-परां रुचम् ।
विद्यां प्राप्स्यसि मत्-तस् त्वम् अविद्या-उपाधि-भेदिनीम् ।
तत्-तत्-क्षेत्राणि क्रमशो मदीयानि महा-मुने ।
मद्-आराधन-शुद्धात्मा संचरान् धरणी-तले ।
कवेर-तनया-तीरे कानन-अन्तर-भूतले ।
माम् अयष्ट पुरा ब्रह्मा महद्भिः सप्त-तन्तुभिः ।
सा याग-भूमिर् विश्व-सृज स समस्त-सुकृत-उदया ।
पुण्या पुष्करिणी तत्र भव-बन्ध-विमोचिनी ।
कुमुद-उत्पल-कल्हार-शत-पत्र-विराजिता ।
दिव्य-कोकणद-आकीर्णा स्वर्ण-पङ्केरुहान्विता ।
हंस-कारण्डव-आकीर्णा चक्रवाक-उपशोभिता ।

[[P62]] नित्यं पुष्कर-सम्मत्त-षट्-पदैर् उपशोभिता ।
मत्स्य-कच्छप-सञ्चारा जल-कुक्कुट-कूजिता ।
दात्यूह-कोयष्टि-युता स्वच्छ-उदक-सुपूजिता ।
जीर्ण-पुष्करिणी सा च समुद्धुरति मत्-प्रिया ।
पद्माय अत्र तपस् तीव्रं करोमि स्वर्ण-पङ्कजे ।
स्नातस् तस्यां समुच्छिन्न-गुण-कर्म-निबन्धनः ।
मां पूजय विधानेन हृत्-पङ्केरुह-संस्थितम् ।
नित्यं त्रिषवण-स्नानं कृत्वा तत्-तीर्थ-वर्यके ।
तद्-उत्तर-तटे स्थित्वा पारिजात-द्रुम-अन्तिके ।
कृत्वा तु मानसीं पूजां षोडशैर् उपचारकैः ।
स्मरन् विष्णु-पद-द्वन्द्वं न अन्य-चित्तो महा-मुने ।
तत्-तीर्थगा महा-लक्ष्मीस् तव पुत्री भविष्यति ।
तां च पालय सौहार्दाद् विनयेन समन्वितः ।
दमेन तपसा चैव शमेन च मुनीश्वर ।
तया सम्भाषणेन अपि पुत्रीत्वेन अपि चैव हि ।
मम प्रीत्य्-अधिकं त्वं च भविष्यसि न संशयः ।
तस्याः वक्ष-स्थलं दातुम् आरोढुं प्रीतिशो मुने ।
त्वत्-कृते च आगमिष्यामि न अत्र संशयम् अस्ति हि ।
अचिराद् एव मां तत्र द्रक्ष्यसि त्वं विमानगम् ।
सा च अपि मत्-प्रिया देवी नित्य-सेवा-परायणा ।
अर्चयन्ती विधानेन मच्छीराभागम् [[आस्थिता|आश्रिता]] ।
सर्व-लोकेषु सा देवी प्रथिता च भविष्यति ।
नाम्ना कोमल-वल्लीति सर्व-दानैक-दीक्षिता ।
कोमल-स्वर्ण-वल्ली इव दृश्यते मनुजैर् अपि ।
तस्मात् कोमल-वल्लीति सर्व-लोकेषु विश्रुता ।
वल्ली तटित्-प्रभा प्रोक्ता तद्वत् कोमल-रूपतः ।
नाम्ना कोमल-वल्लीति प्रसिद्धा भुवन-त्रये ।
यस्मिन् सरोवरे रम्ये हेम-पुष्कर-मण्डिते ।
पद्मजायाः स्थान-भूते सर्व-पाप-अपनोंदने ।
ये स्नान्ति मनुजा भक्त्या सदा दुष्कर्म-यन्त्रिताः ।
शुद्धाङ्गास् ते भविष्यन्ति तस्याश् चैव कटाक्षतः ।
हेम-पद्मा-करत्वाच् च हेम-पुष्करिणीं विदुः ।
लक्ष्म्याश् च आवास-भूतत्वात् लक्ष्मी-तीर्थं विदुर् बुधाः ।
तस्मात् त्वं तत्र गत्वा तु तपः कुरु विधानतः ।
लक्ष्म्याख्यया च पुत्र्या च मां पूजय हृदम्बुगम् ।
इत्य् एवम् उज्ज्वल-मणि-द्युति-मञ्जरी-
भीर् उत्फुल्ल-रत्न-नलिनोदर-हेम-भूमेः ।
मेरोस् तटाद् अवततार स योगिवर्यः
पाथोद-नील-तनुर् अन्तरधाद् अनन्तः ।

इति भविष्योत्तरे षट्-पञ्चत्वारिंशो ऽध्यायः ***********************************

[[P63]]

श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - ७

ब्रह्मोवाच-
अन्तर्हिते भगवति हेमो-नाम-मुनीश्वरः ।
अवातरन् मेरु-शृङ्गात् ययौ वाराणसीं पुरीम् ।
आराध्य सुचिरं कालं जाह्नव्यां च निमज्य वै ।
उपास्य पुण्डरीकाक्षं तपसा महता मुनिः ।
क्षेत्रं दिदृक्षुः क्षीणाघः प्रययौ पुष्करं प्रति ।
परमं पुरुषं भक्त्या सनकादि-मुनि-स्तुतम् ।
प्रणिपत्य मुनिः प्रागाद् अगस्त्य-उषितां दिशम् ।
क्षेत्राणि पुण्य-तीर्थानि सर-आदीनि सरितो नदीः ।
सुपुण्य-आयनानि इह विष्णोर् अमित-तेजसः ।
श्रीमद्-आमलकं क्षेत्रं सह्य-भ्रूध-रसंस्थितम् ।
दत्तात्रेयं तु तत्रस्थं समुपास्य ततः परम् ।
श्रीमद्-यदु-गिरिं प्राप्य नत्वा कृष्णं किरीटिनम् ।
क्षेत्राणि अनन्त-संख्यानि वैष्णवानि विलोकयन् ।
शिव-क्षेत्राणि सम्पश्यन् स्नात्वा स्तुत्वा हि अनेकशः ।
महेन्द्र-शैल-पर्यन्तं विषयेषु अपि शुद्ध-धीः ।
प्रस्तुवन् प्रणमन् स्थास्यन् कीर्तयन् प्रजपन्न् अपि ।
मन्त्रान् वेदान् पठन् विप्रो व्यचरद् वीत-मोह-धीः ।
दक्षिणस्य उदधेस् तीरे पश्यन् क्षेत्राणि सर्वशः ।
स्तुत्वा तं पार्वती-नाथं नारायण-परं प्रभुम् ।
अनु-गोकर्ण-मुख्यानि पश्यन् क्षेत्राणि स द्विजः ।
अनन्त-महिम-उपेतम् अनन्त-क्षेत्रम् आसात् ।
दश-योजन-विस्तारम् अनन्त-अरण्यम् आश्रितम् ।
सर्व-तेजसां राशिं त्रिलोक-तिमिर-अपहम् ।
विस्मयेन प्रेक्षमाणो विचचार समन्ततः ।
पुरुषस्य पुराणस्य पद्मनाभ-अभिधो हरिः ।
स्थानं दूर-समात्रानं धाम तत्र वन-अन्तरे ।
प्रेक्षमाणः प्रकृष्टेन प्रमोदेन आकुलीकृताः ।
ब्राह्मणं च वैष्णवं चैव शाङ्करं दौर्गम् एव च ।
साप्तर्षिकं नारसिंहं काण्वं च अगस्त्यम् एव च ।
वैश्वामित्रं जामदग्न्यं वासिष्ठं वारुणं तथा ।
सौरं चान्द्रमसं चैव वायव्यं यांयम् एव च ।
आश्विनं चैव माग्नेयं कौबेरं नैर्ऋतं तथा ।
वैनायकं च कौमारं गान्धर्वं वैश्वदेवकम् ।
तीर्थानि एतानि च अन्यानि शतशो ऽथ सहस्रशः ।
सम्प्राप्य क्षेत्र-मध्यस्थानि अवनाह्य महा-मुनिः ।

[[P64]] अनन्त-अरण्य-मध्यस्थं भुज-शयनं हरिम् ।
दिदृक्षु-ध्यान-योगेन चिरं तस्थौ महा-मुनिः ।

अनन्त-शयनं देवं शङ्ख-चक्र-गदाधरम् ।
कल्याण-गुण-सौन्दर्य-निधिम् आनन्द-सुन्दरम् ।
तेजोमयं धाम परं तन्-मध्ये अनन्त-शायिनम् ।
सहस्र-फण-माणिक्य-समुद्योदित-दिग्वखम् ।
शत-यज्ञ-मुख-अशेष-सुर-सत्तम-सेवितम् ।
विनता-तनयेन अपि वीक्ष्यमाण-पदाम्बुजम् ।
निज-नाभि-सरः-पद्म-निलयेन अपि वेधसा ।
आद्यैर् चोर् अभिर् आद्येन व्याकृत-अशेष-वैभवम् ।
श्रियाश्रित-विशाल-उरस्-स्फुरत्-कौस्तुभ-कोमलम् ।
भुवा संवाह्यमानांघ्रिं पुण्य-राशिम् इव आत्मनाम् ।
अशेष-भुवन-आधारम् अपृथक्-स्वरूपिणम् ।
दिवाकर-महा-योगि-यतीन्द्र-अर्चित-विग्रहम् ।
दुर्गा-गायत्रि-सावित्रि-द्वार-त्रय-निषेवितम् ।
सरस्वती-रूप-अलाप-सेवितं त्रि-जगत्-पतिम् ।
अपश्यन् न्-अन्तरात्मानं परमात्मा-स्वरूपिणम् ।

आनन्द-निर्भर-मना दण्डवत् पतितो भुवि ।
प्रदक्षिणं परिक्रम्य प्राचीं दिशम् उपागतः ।
अगस्त्य-अचल-शृङ्ग-अन्ताद् अचलांल् मलयाह्वयात् ।
उद्भूतां ताम्रपर्ण्याख्यां नदीं निर्धूत-कल्मषाम् ।
भविष्यज्-जाह्नवी-रूपां कलि-कल्मष-नाशिनीम् ।
ताम् आसाद्य अभ्य्-अद्भुतस् सद्य शुद्धान्तः करणो मुनिः ।
आसाद्य अगस्त्य-मुख्यानि पुष्करिण्यश् च सर्वशः ।
गत्वा नीलोत्पल-वनं महा-पातक-भेदकम् ।
द्वादशे द्वादशे वर्षे एकं नीलोत्पलं यतः ।
सरसस् सम्यग् उद्भूतं यच् च इर्षे च अपि अर्चिष्यति ।
दृष्ट्वा तन्-महद्-आश्चर्यं प्रणम्य च परिक्रमन् ।
इषित्व् एकान् तिथौ तत्र ततो ऽन्यत्र ययौ मुनिः ।
वल्कल-क्षेत्रम् आगत्य नारदेन-अर्चितं विभुम् ।
जनार्दनं जगद्-योनिं विधि-क्रतु-सुशोभितम् ।
तद्-दत्त-अन्न-आदि-तृप्तं च तच्-चिष्ट-जन-पूजितम् ।
यो भुङ्क्ते अद्य अपि लोकेषु पितृ-श्राद्ध-क्रियाम् अपि ।
प्रणम्य तं रम-हस्त-लालित-अङ्घ्रिम् अजं प्रभुम् ।
ततः परं महा-स्थानं नगरी-क्षेत्रम् उत्तमम् ।
निलयं वेद-विदुषां शास्त्र-आचार-रतात्मनाम् ।
तस्मिन् स्थाने महा-तेजाः पूर्ण-स्थिति-समाह्वयः ।
विराजते विशालाक्षो भगवान् भक्त-वत्सलः ।
तस्य स्थानस्य महतः प्राच्यां दिशि महत्तरामम् ।

[[P65]] श्री-राम-धनुषः कोटिं महादेव-कृत-आलयाम् ।
तस्मिन् क्षेत्रे निवस्तां जनानाम् ईश्वरः प्रभुः ।
ददाति वाञ्छितां नित्यम् अपवर्ग-आदिकं शुभम् ।
तत्र स्नात्वा धनुष्कोटौ महा-पातक-नाशने ।
तस्य क्षेत्रस्य महतश् चोत्तरे नातिदूरतः ।
गोष्ठी-क्षेत्रं महा-पुण्यं सुराणाम् अपि वन्दितम् ।
तस्मिन् गोष्ठी-पुरे रम्ये सर्वेषां मुक्ति-दायकम् ।
सौम्य-नारायणो नाम्ना वसति प्रभुर् अव्ययम् ।
प्रह्लाद-रक्षको देवो भक्तानाम् इष्ट-दायकः ।
तत्रोषित्वा च एक-रात्रं तयोस् सेवा-परायणः ।
तस्य स्थानस्य महतः पश्चिमे योजन-द्वये ।
सुस्थितं वृष-शैलेन्द्रं प्रययौ स मुनीश्वरः ।
अजो नारायणः श्रीमान् यत्र आस्ते वेङ्कटेश्वरः ।
तत्र नूपुर-गङ्गा-आख्या पापहा पतितानगा ।
दृश्यते अद्य अपि सर्वेषां पाप-उन्मूलन-कारिणी ।
तत्र स्नात्वा तु जाह्नव्यां तर्पयित्वा सुरान् पितॄन् ।
मण्डूक-वरदं शान्तं पूजयित्वा विधानतः ।
तत्रोषित्वा त्रिरात्रं तु भक्त्यावनत-कन्धरः ।
गिरि-प्रदक्षिणं कृत्वा ततो ऽन्यत्र ययौ मुनिः ।
क्षेत्राणि विष्णोः स्थानानि शैवानि सु-मुनीश्वरः ।
तत्र तत्र च तीर्थानि क्रमशह् परिवर्त्ययन् ।
श्रीमत्-सत्य-गिरि-क्षेत्रं पूज्य सत्य-गिरीश्वरम् ।
स्नात्वा सत्य-आह्वये तीर्थे ततो ऽन्यत्र ययौ मुनिः ।
श्रीमन्-नारायण-पुरं गत्वा वै यादवाचलम् ।
कोटीर-आधिपतिं विष्णुं स्नात्वा कल्याण-तीर्थके ।
पूजयामास विधिवत् गर्गेश्वरम् अनुत्तमम् ।
संसेव्य भीम-नाथं च श्री-कण्ठेश्वरम् आप्य च ।
रत्नाचलम् अनुप्राप्य श्रीमद्-घ्नगिरिं ययौ ।
नृसिंहं रङ्ग-वदनं साक्षाद् वैकुण्ठ-सन्निभम् ।
धर्मानुजाचितं पुण्यं सालग्राम-अचल-उपमम् ।
प्रणम्य चैव सम्पूज्य आदित्येश्वरम् आप्य च ।
कदली-वनम् आसाद्य प्रागात् कुश-लव-स्थलम् ।
दृष्ट्वा तं पुण्डरीकाक्षं सूत्र-अध्य्-अस्थानम् आययौ ।
प्रणम्य तं परिक्रम्य सिद्धि-क्षेत्रम् अगात् पुरः ।
सङ्गम-स्थानम् आसाद्य असङ्गं पूज्य भक्तितः ।
भूत-स्थानं समासाद्य पूज्य भूत-पतीश्वरम् ।
गजातिघ्नं केशवं च कावेरी-तटम् आश्रितम् ।
सम्पूज्य भक्ति-भावेन हेमो नाम मुनीश्वरः ।
कुम्भघोणं महा-क्षेत्रं कुत्र आस्ते? तपसः फलम् ।
न जाने ऽहं कथं कुर्मी कथं गच्छामि तत्-थलम् ।
इति चिन्तयतस् तस्य बुद्धिर् आसीन् महात्मनः ।

[[P66]]

‘प्राप्तश् च आधोदयः पुण्यो महा-पातक-नाशनः ।
समस्त-पुण्य-कालानाम् उत्तमः परिकीर्तितः ।
अमालक्ष-सहस्राणि गज-च्छायायुतानि च ।
व्यतीपातानि अनेकानि धृति-कोटि-शतानि च ।
अयनानि हि अनेकानि स्नानस्य च फलानि तु ।
स्नातस्य आधोदये पुण्ये कावेर्य्-उदधि-सङ्गमे ।
श्वेत-अरण्य-भुवो भागे कुलान् नाहति षोडशीम् ।
तस्मात् सङ्गमखं प्राप्य विचिनोमि ततः परम् ।*
देवाधिराजं सम्प्राप्य स्थानं पूज्य च भक्तितः ।
क नु व्याघ्र-पुरी-नाथं दृष्ट्वा सम्पूज्य भक्तितः ।
ततः सङ्गमखं प्राप्य स्नात्वा च आधोदये शुभे ।
श्वेत-अरण्य-पतिं दृष्ट्वा त्रिषु तीर्थेषु च अद्भुत ।
षट्-पञ्च-स्थान-पुण्यानि सम्पूज्य अभिप्रणम्य च ।
चित्रकूटम् अनुप्राप्य भक्त्या सम्पूज्य सो मुनिः ।
गोविन्दराजं देवेशं श्रीमन्-मुष्ण-अरण्यम् मेयिवान् ।
हिरण्याक्ष-वधोद्युक्त-रूपिणं किटि-नायकम् ।
कृतार्थः पूजयामास गौतम-स्थानम् एयिवान् ।
ततः क्रमेण धर्मात्मा विचिन्वन् सर्वतो ऽपि च ।
ज्ञात्वा क्षेत्रोत्तमं पुण्यं पञ्च-कोश-आत्मकं शुभम् ।
अष्टादश-महा-स्थान-संवृतं क्षेत्रम् उत्तमम् ।
कुम्भघोण-आह्वयं पुण्यं पाप-अचल-विभेदकम् ।
कावेर्या दक्षिण-तीरे तेजोमयम् अनुत्तमम् ।
समस्त-सच्-छेत्र-वरं सुपुण्यदं
समस्त-तेजोभिर् अलङ्कृतं मुनिः ।
दृष्ट्वा सुसन्तुष्ट-मनास् समेत्य
कञ्ज-उद्भवां पङ्कज-मध्य-संस्थाम् ।

इति भविष्योत्तरे (४७) सप्त-चत्वारिंशो ऽध्यायः ।


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - ८

ब्रह्मोवाच-
हेम-नामा मुनि-श्रेष्ठः स्वस्य वै तपसः स्थलम् ।
सम्प्राप्य सर्वतः पश्यन् परमानन्दम् आययौ ।
लक्ष्मी-सरोवरे पुण्ये सर्व-पाप-भय-अपहे ।
स्वर्ण-पङ्कज-मध्यस्थां दृष्ट्वा पङ्केरुह-उद्भवाम् ।
गत्वा तस्यास् समीपे तु हेमो वचनम् अब्रवीत् ।

[[P67]] ‘भद्रे वत्से तस्य पुत्री का त्वम् अत्र समागता ।
विजने दण्डक-अरण्ये सिंह-व्याघ्र-निषेविते ।
एका त्वं बाल-भावेन यौवनं कुरु-शालिनी ।
किमर्थं तप्यसे पद्मे किं ते व्यर्थितं शुभे ।
इत्य् उक्ता सा अपि सर्वज्ञा सर्व-लोक-विमोहिनी ।
अज्ञातान् मोहनाथाय अप्रगल्भेव साब्रवीत् ।

लक्ष्मीः-
मुनीन्द्र वयनो जाने पितरं मातरं स्वकम् ।
भ्रातॄन् वा बन्धु-वर्गान् वा न जाने जन्म-कर्म च ।
स्वेच्छया अपि आगता च अहं दृष्ट्वा चैतत् सरो-वरम् ।
स्वर्ण-पङ्केरुहं दृष्ट्वा तपस् तप्स्यामि भक्तितः ।
मद्-योग्य-वर-लाभाय पितरं प्राप्तुम् अञ्जसा ।
मम भाग्य-वशाद् एव एतत्-तीर्थ-निषेवणात् ।
पुण्य-क्षेत्रे तु तपसा ममासीत् तव दर्शनम् ।
त्वाम् एव पितरं कृत्वा मातरं भ्रातरं तथा ।
सर्वं त्वाम् एव मन्याना तपस् तप्स्यामि अतः परम् ।
ममाभीष्ट-पतिर् विष्णुर् विनता-नन्दन-ध्वजः ।
शत-क्रतु-मुखैर् देवैश् शतानन्द-आदिकैर् अपि ।
सर्व-तेजोमयः श्रीमान् शेष-पर्यङ्क-शोभितः ।
यदा याति च तावद् वै तप्स्यामि अत्रैव न अन्यथा ।
पृष्ट्वा त्वां देहि मे कन्या इति प्रार्थनया हरेः ।
ददस्व त्वं समुद्दिश्य तेन श्रेयो भवेत् तव ।
तपः कुरु मुने त्वं च एतत्-तीर्थ-तट-उत्तरे ।
पारिजात-द्रु-मूले तु क्षेत्राणाम् उत्तमोत्तमे ।
त्वं हि मद्-बलम् आश्रित्य त्वद्-बलाद् अपि अहं तथा ।
उभाव् अपि अत्र तप्स्यावो यावद् आगमनं हरेः ।
इत्य् उक्तश् च तया तत्र आसीन् मे अभीष्टम् उत्तमम् ।
हरेर् अनुग्रहेणैव न अन्यथा तद् भवेन् मम ।
इदम् एव हि मे पूर्णं तत् न अत्र विचारणा ।
इति निश्चित्य मनसा आनन्द-अनन्त-संयुतः ।
अद्य प्रभृति भू-लोके मत्-समो नास्ति वै क्वचित् ।
दिवि सत्य-लोके वा जितो मे भव-सागरः ।
इति कृत्वा मतिं तां च स्नेहोत्स्पर्श-पाणिना ।
तथा स्यात् कोमले देवि चिरं हि अभिमतं हि मे ।
धारितो ऽहं त्वया भद्रे पूर्ण-आनन्दो भवामि अहम् ।
इत्य् उक्त्वा हेम-नामा असौ पुत्री-स्नेह-वशं गतः ।
रमायां सन्ततं चैव दृष्ट्वा चैव पदे पदे ।
कोमला असि क्वासि इति पृच्छन् मुनि-वरस् ततः ।
सा अपि च अत्रैव वत्स्यामि मा भीतिं कुरु वै पितः ।
इत्य् उक्तश् च तथा हेमः हेम-पुष्करिणी-तटे ।
उत्तरे पारिजातस्य मूले तप्तुं मनो दधे ।
स्नात्वा हेम-अब्ज-सरसि देव-द्रोह-भय-च्छिदे ।

[[P68]] कोटि-जन्म-अघ-काष्ठानां साक्षाद् वैश्वानरोपमे ।
अचिराद्-मनसो ऽभीष्ट-दायके शुभदे नृणाम् ।
पौण्डरीक-अश्वमेधादि-यज्ञ-आयुत-फल-प्रदे ।
दुर्भाग्या-दुष्ट-पटल-भेदन-क्षुरिकोपमे ।
अज्ञान-तिमिर-च्छेद-प्रभाकर इव स्थिते ।
ताप-त्रय-महा-वह्नि-शमने वरुणोपमे ।
कल्याण-गुण-सान्द्रैक-दायके मज्जतां सदा ।
षड्-गङ्ग-उन्मूल-करणे षाड्गुण्य-वपुस्-दर्शके ।
भव-दावाग्नि-सन्तप्त-हृदयानां नृणां सदा ।
मृगाङ्क इव संस्थे तु मृगाङ्क-पद-दायके ।
भव-अब्धि-नावे संशुद्धि-दायके पूर्ण-तोषदे ।
तीर्थस्य उत्तर-दिग्-भागे पारिजात-द्रु-मूलके ।
धृत्वा पुण्ड्राणि विधिना नत्वा वै पुण्ड्र-देवताः ।
पद्माक्ष-तुलसी-दाम-तुलसी-मणि-मालिकाः ।
दृत्वा वै स्वगले विष्णुं स्मरंश् चैव पदे पदे ।
व्याघ्र-अजिनम् अखण्डं तु प्रसार्य विधिना ततः ।
शिर-स्थाने स्वयं स्थित्वा पद्मासन-विधानतः ।
संकल्प्य मुनि-वर्यो ऽस्तु हेमः स्वाभीष्ट-सिद्धये ।
प्राणायाम-शतं कृत्वा द्विर् आचम्य यथा-विधि ।
स-पवित्र-करो योगी एवं सञ्चिन्तयन् सदा ।
विकस्य हृदय-अम्बोजं तथा अष्ट-दलं संयुतम् ।
भोद-नाल-समुद्भूतं लक्ष्मी-कर्णिकयान्वितम् ।
स-तत्त्व-केसर-उपेतं भावयन् हृदय-अम्बुजम् ।
तस्योपरि विचिन्त्याथ वह्नि-पीठं सु-उज्ज्वलम् ।
तस्योपरिष्टात् पीठं तु सोम-पीठं ततः परम् ।
ज्ञान-रत्न-सुचित्राढ्यं भक्ति-कान्ति-समन्वितम् ।
गुण-मौक्तिक-सन्दोह-माला-शत-समन्वितम् ।
एतादृशे शुभे पीठे संस्थितं च रमापतिम् ।
चिद्-आनन्दैक-देहाढ्यं ब्रह्मादि-सुर-वन्दितम् ।
ध्यायन् नमस्यन् देवेशं मनसा परिकल्पितैः ।
षोडशैर् उपचारैश् च पूजयित्वा सुभक्तितः ।
तम् एव दर्शयन् नित्यं तताप परमं तपः ।
मध्ये मध्ये समुत्थाय प्राणायाम-पुरस्सरम् ।
कोमले क्वासि? क्वासि? इति सुता-स्नेहेन यन्त्रितः ।
स्थास्ये अत्रैव च मुने मा भीतिं कुरु सर्वदा ।
पुनस् समाधि-योगेन तपः कृत्वा पुनः पुनः ।
एवं वर्ष-सहस्र-अन्तं उपवास-परो मुनिः ।
सुता-स्नेह-सुधा-पानम् अतृप्तस् सन् कुरुते तपः ।
अस्माद् अवसरात् पूर्वं विवस्वान् तप आचरत् ।
वैकुण्ठ-पतिम् उद्दिश्य यमैश् च नियमैर् युतः ।
उपवास-परो दीनो ग्रीष्मे पञ्च-अग्नि-मध्यतः ।

[[P69]] शैशिरे जल-मध्यस्थो वर्ष-काले वृष्टिमान् ।
बाह्य-व्यापार-दूरो ऽसौ वैकुण्ठ-स्थानत-उत्तरे ।
तथा तत्रैव संस्थाने ब्रह्म-लोक-पितामहः ।
उग्रतपं समकरोद् उभाव् अपि मुनीश्वरा ।
ग्रहीतुं पद्मजा-नाथं नित्यं पूजार्थम् एव च ।
भगवद्-विग्रहं पूर्णं संस्थितं स-परिच्छदे ।
विमाने सुर-सङ्घाढ्ये सर्व-तेजो-मयान्विते ।
केवलं मौनम् आश्रित्य तताप तरुण-अरिन्दमौ ।
दिव्य-वर्ष-सहस्र-अन्ते भक्त-अधीनो रमापतिः ।
अनन्त-शयनो देवः पुराणः पुरुषोत्तमः ।
तपसा तोषितस् ताभ्यां सच्-चिद्-आनन्दम् अद्भुतम् ।
मनसा निर्मितं दिव्यं अनर्घ-मणिभिश् चितम् ।
तप्त-जाम्बूनद-कृतं कोटि-चन्द्र-अर्क-दीधितिम् ।
गरुड-अनन्त-सेनेश-पार्षदै-रूप-शोभितम् ।
त्रयस्-त्रिंशत्-कोटि-देवैस् सदैव परिसेवितम् ।
दर्शन-ध्यान-नमन-अर्चन-अत् सर्व-सिद्धिदम् ।
परानन्द-परं धाम युगलं सम-कालजम् ।
सोम-च्छन्द-आह्वयं त्व् एकं श्रीरङ्ग-आख्यं परं शुभम् ।
प्रणव-आकृति-शोभाढ्यं वेद-शृङ्गमयं शुभम् ।
सोम-छन्द-विमानं तु शृङ्ग-त्रय-विराजितम् ।
ब्रह्म-तेजोमयं पूर्णं वेद-तेजोमयं तथा ।
क्षेत्र-तेजोमयं चैव मन्त्र-तेजोमयं तथा ।
अप्राकृतं प्राकृतानां परम-आनन्द-दायकम् ।
तद्-अन्तरे स्व-तुल्यं च रूप-द्वय-विराजितम् ।
शेष-पर्यङ्क-शोभाढ्यम् उत्तान-शयम् अच्युतम् ।
श्रीमहीभ्यां समायुक्तं विमानं सर्वतः शुभम् ।
त्रिधा स्वयम् तदा भूत्वा विमान-त्रयम् आस्थितः ।
एकं वैकुण्ठ-संस्थं च ह्य् अकरोद् गरुड-ध्वजा ।
वितान-द्वयम् आदाय हस्ताभ्यां स्वयम् एव तु ।
विमानं परमं दिव्यं श्रीरङ्ग-आख्यं विधे ददौ ।
श्रीमत्य्-अमल-संस्थान-विमानं पूर्ण-सुन्दरम् ।
विवस्वते ददौ श्रीमान् स्वमकाले रमापतिः ।
श्रीरङ्ग-आख्यं विमानं त्वं संगृह्य चतुरानन ।
गच्छस्व सत्य-लोके तु किञ्चित्-कालं प्रपूजय ।
ततो ऽस्य पौत्रश् च इक्ष्वाकुर् इति नाम्ना भविष्यति ।
स हि त्वां याचते भक्त्या विमानं त्व् इदम् उत्तमम् ।
दापय त्वन् महा-भागो सरय्वाश् च उत्तरे तटे ।
स्थापयित्वा पूजितस्मिन् रङ्गं रङ्ग-विमानगम् ।
तत्-कुले राम-नामा अहं भविष्यति पितामह!
पङ्क्ति-वक्त्रं निहत्य आजौ अयोध्यां पुनर् आगतः ।
विभीषणाय दास्यामि धनम् एतद् अनुत्तमम् ।
स कावेर्य-आ मध्य-भागे चन्द्र-पुष्करिणी-तटे ।

[[P70]] किञ्चित्-कारणम् उद्दिश्य स्थापयिष्यति राक्षसः ।
तद्-ग्राहीतुं च आप्रयत्नो बभूव च यथा तथा ।
रङ्ग-राजाज्ञया वेगात् गच्छति स्म स्वकां पुरीम् ।
अपरं वैष्णवं धाम विवस्वान् स्व-पुरे शुभे ।
तेजोमय-स्थापयित्वा अर्चयित्वा च भक्तितः ।
दिव्य-वर्ष-सहस्र-अन्तं विवस्वान् पूजयिष्यति ।
ततश् च अस्य सुतो धीमान् मनुर् वैवस्वतो ऽर्चित ।
सरय्वाश् च उत्तरे तीरे आदौ संस्थाप्य पूजति ।
सहस्र-वर्ष-पर्यन्तं शार्ङ्गपाणिम् अधोक्षजम् ।
ततस् तस्य सुतो धीमान् इक्ष्वाकुर् नृपतीश्वरः ।
श्रुत्वैतत् सर्वम् अपि पितुः स्वयं सम्पाद्य वै पृथक् ।
एतत् पितृ-धनेन अपि सह सम्पूजयामि अहम् ।
इति निश्चित्य मनसा पित्रा सम्पादितं धनम् ।
संस्थाप्य पूजितं कृत्वा देवदेवं जनार्दनम् ।
सह-काल-उद्भवं श्रीमान् विमानं रङ्ग-संज्ञकम् ।
इति निश्चित्य मनसा तपस् तप्यति दुष्करम् ।
मद्-आज्ञया दापयस्व श्रीरङ्गं प्रणव-आकृतिम् ।
संगृह्य तद्-विमानं तु स्थापनं सरयू-तटे ।
श्रीमत्य्-अमल-संस्थानं विमानं रङ्ग-संज्ञकम् ।
मद्-आज्ञया मिलित्वा तु एक-रूपं भविष्यति ।
तद्-एक-रूपं पूर्णं तु विमानं रङ्ग-संज्ञकम् ।
स्थापयिष्यति तत्रैव किञ्चित्-कारण-हेतवे ।
भविष्यति द्वि-रूपं च चन्द्र-पुष्करिणी-तटे ।
मद्-आज्ञया च तत्रैव स्थिरो भवति न अन्यथा ।
श्रीरङ्ग-आख्यं विमानं तु तत्रैव स्थितिम् एष्यति ।
तद्-विमानं पृथग्-भागं भूत्वा परम-सुन्दरम् ।
श्रीमत्य्-अमल-सद्-स्थानं विमानं तेजसां निधिम् ।
पद्मा-हेतोर् मुनेर् हेतोः कुम्भघोणं गमिष्यति ।
यावद् आवर्तते चक्रं यावद् वर्तति मेदिनी ।
तावत्-क्षेत्रे कुम्भघोणे लोक-अनुग्रह-काम्यया ।
स्थितिम् एष्यत्य् असन्देहः विमानम् अति-सुन्दरम् ।
श्रीमत्य्-अमल-संस्थानं यावच्-चन्द्र-दिवाकरम् ।
इति रीत असौ हरिणा दयालुना
विमानम् आदाय रङ्ग-संज्ञकम् ।
स्व-लोकम् आप्य आशु स-रङ्गनाथं
सम्पूजयामास विधानतो विधिः ।
विमानम् अन्यं भगवत्-प्रदत्तं वेगात्
गृहीत्वा परिपूर्ण-मानसः ।
स सूर्य-लोके भगवान् विवस्वान्
सम्पूजयामास स शार्ङ्गपाणिम् ।

[[P71]] इति भविष्योत्तरे (४८) अष्ट-चत्वारिंशो ऽध्यायः ।


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - ९

ब्रह्मोवाच-
ततस् सहस्र-वर्षान्ते शार्ङ्गपाणिं स्व-पूजयत् ।
ततो विवस्वान् मनवे हरि-वाक्य-अनुसारतः ।
विमानं प्रददौ धीमान् पित्रा संगृह्य वै मनुः ।
सरय्वाश् च उत्तरे तीरे स्थापयित्वा स्व-पूजयत् ।
ततस् तस्य सुतो धीमान् इक्ष्वाकुर् इति विश्रुतः ।
सम्पाद्य च परं धाम एतत् सहजम् उत्तमम् ।
श्रीरङ्ग-आख्यं महद्-धाम आनयित्वा चमत्-परम् ।
स्थापयित्वा अर्चयिष्यामि सरय्वाश् च उत्तरे तटे ।
विमानम् एतद् द्वितयं सुन्दरं पूजयामि अहम् ।
इत्य् आलोच्य ततः श्रीमान् तपसा तोषितो विधिः ।
हरेर् आज्ञानुसारेण श्रीरङ्ग-आख्यं ददौ तदा ।
तद् गृहीत्वा आनन्द-पूर्ण इक्ष्वाकुर् नृपतीश्वरः ।
स्व-पुरीम् आनयित्वा तु सरय्वाश् च उत्तरे तटे ।
श्रीरङ्गं स्थापितुं यत्नम् अकरोच् च यदा तदा ।
अप्रयत्नेन मिषतां सर्वेषाम् अपि तत्र च ।
विमान-द्वयम् अपि आशु एकीभूतं गतं क्षणात् ।
गरुड-ध्वज-संकल्पाद् अघटं सङ्घटं त्व् अभूत् ।
यथा यथा हि भगवान् संकल्पं कुरुते प्रभुः ।
तथा तथा भवेच् चैव सत्य-संकल्पवान् यतः ।
परस्पर-निमिलितं विमान-द्वयम् उत्तमम् ।
दृष्ट्वा देवास् स-गन्धर्वास् सिद्ध-चारण-पन्नगाः ।
दिवि दुन्दुभयो नेदुर् याम-मात्रं हि नारद ।
तद्-विमाने तच्-छणेन सु-वृष्टिर् अभवच् छुभा ।
एतद् दृष्ट्वा महाश्चर्यं स्तम्भ-वत् संस्थितो नृपः ।
तदा अन्तरिक्षे राजानं वाग् उवाच अशरीरिणी ।
विमान-द्वयम् एतत् तु मिलितं पूजय प्रभो ।
किञ्चित् कारणम् उद्दिश्य हरिर् एव चकार सः ।
इदम् एव हि वैकुण्ठं श्वेत-द्वीपं तथैव च ।
अनन्त-आसनम् एतत् तु जानीहि न च संशयः ।
वैकुण्ठ-नाथः शार्ङ्गेशः रङ्गनाथो महा-प्रभुः ।
एक एव त्रि-रूपो ऽसौ लोक-रक्षण-हेतवे ।
तस्माद् द्वि-रूपम् एकं मन्यस्व सनातनः ।
पूजयस्व जगन्नाथं पाञ्चरात्र-विधानतः ।

[[P72]] दास्यति स्म महाराज सर्व-अभीष्टान् च रङ्ग-राट् ।
ख-वाणीं नृपति-श्रेष्ठः श्रुत्वा सन्तुष्ट-मानसः ।
आनन्द-निर्भरो भूत्वा विमानस्थं प्रणम्य च ।
तम् अनुज्ञाप्य देवेशं भोगि-पर्यङ्क-शायिनम् ।
पूजयामास विधिना महा-विभव-विस्तरैः ।
नित्य-उत्सवं चकार असौ महोत्सवम् अतन्द्रितः ।
बहु-कालं पूजयित्वा तन्-मयत्वम् अवाप सः ।
तद्-वंशजास् तथा सर्वे पूजयामासुर् आदरात् ।
ततः क्रमेण देवेशः पूजितो भू-चरैर् अपि ।
दत्त्वा फलानि तेषां तु ररक्ष असौ रङ्ग-राट् ।
ततो दशरथो राजा महा-भक्ति-समन्वितः ।
विधिना पूजयामास रङ्ग-राजं महा-प्रभुम् ।
प्रीतस् तेन रङ्गेशस् तस्य पुत्रत्वम् आगतः ।
रामो नाम महा-विष्णुः सुराणां प्रीति-हेतवे ।
पौलस्त्य-कुल-सम्भूतं पङ्क्ति-वक्त्रं ततो ऽवधीत् ।
तस्य अनुजं भक्त-वरं विभीषणम् अतः परम् ।
तद्-राज्ये स्थापयित्वा तु तेन वानर-यूथपैः ।
सीतया सहितः श्रीमान् लक्ष्मणेन समन्वितः ।
पुष्पकेण विमानेन अयोध्यां प्राविशत् पुरीम् ।
पितृ-पैतामहं राज्यम् आप्तवान् मन्त्रिभिस् सह ।
सम्मान्य च आगतान् सर्वान् विभीषणम् अतः परम् ।
तेन सम्प्रार्थितो रामः प्रीत्याकुल-धनं शुभम् ।
दत्त्वा सम्प्रापयामास लोक-उद्धारण-हेतवे ।
अपरं तच्-छणेन एव तद्-विमान-उपमं शुभम् ।
विनिर्माय स्वयं रामश् शेष-शायिनम् आदरात् ।
पूजयामास धर्मात्मा मन्त्रिभिश् च अनुजैस् सह ।
अदितिर् देवमाता च निशा-नाथ-मुख-असुराः ।
निचुल-अधिपतिः श्रीमान् भोगि-पर्यङ्क-शायिनम् ।
समागतं पूजयितुं तन्-मुख-अस्तं तं च ते ।
प्रार्थयित्वा जगन्नाथं व्रतेन अनशनेन च ।
यावद् आगच्छति श्रीमान् रङ्ग-राजः श्रिया सह ।
तावद् अत्रैव तप्स्यामि इति निश्चित-मानसाः ।
पुन्नाग-वृक्ष-च्छायायां चन्द्र-पुष्करिणी-तटे ।
अयुतं वत्सर-अन्तं च तेपस् तीव्रं च नारद ।
तेषां सम्प्रीतये चैव लोक-अनुग्रह-काम्यया ।
चतुर्योजन-मात्रेण कावेर्या दक्षिणे तटे ।
यत्र लक्ष्मीः प्र तप्यति स्वर्ण-पङ्कज-कानने ।
हरेर् वक्ष-स्थलं रोढुं तस्यास् सम्प्रीति-हेतवे ।
हेम-नाम्नो मुनेस् तस्य भक्त-वर्यस्य हेतवे ।
जगद्-उद्धारणार्थाय ददौ रामो महा-यशाः ।
तद्-विमानं च संगृह्य पूर्ण-आनन्द-भरान्वितः ।
भक्त्या त्व् अनन्यया भक्त-वरो नाम्ना विभीषणः ।

[[P73]] पूजयत् तद्-विमानं तु स-परिच्छदम् अव्ययम् ।
हेम-रत्न-समाकीर्णं वहन् स्व-शिरसा मुदा ।
वेगेन च आगतस् तत्र चन्द्र-पुष्करिणी-तटे ।
किञ्चित् कारणम् उद्दिश्य स्थापयित्वा शुभ-स्थले ।
विमानं प्रणव-आकारं सर्व-तेजोमयं परम् ।
स्वयं गत्वा च कावेर्यां स्नात्वा भक्ति-समन्वितः ।
पूजयामास धर्मात्मा साक्षाद् वैकुण्ठ-नायकम् ।
ततस् स्वयम् गम्यमाने स्व-पुरं प्रति नारद ।
तद्-विमानं ग्रहीतुं स महा-यत्नम् अथ अकरोत् ।
न शशाक यदा रक्षः प्रलपंश् च मुहुर् मुहुः ।
उद्धाटितं च पाताले हस्त-द्वयम् अथ तनोत् ।
तद्-विमानं दृढं च आसीत् लुठन् भूमौ स राक्षसः ।
कृत-अञ्जलि-पुटो भूत्वा वेद-शास्त्र-अर्थ-कैस् तवन् ।
तेन स्तुतो रङ्ग-राजः प्रोवाच करुणानिधिः ।
राक्षसेन्द्र महा-भाग भक्त-वर्यो ऽसि न अन्यथा ।
राक्षसैर् दूषित-स्थानं न यास्यामि कदाचन ।
अथ अपि अत्र अपि सर्वेषां तप्यतां बहु-कालतः ।
सोम-तन्-मातृ-मुख्यानां भक्तानां हित-काम्यया ।
अत्रैव वस्तुम् इच्छामि रूपेण एकेन राक्षस ।
इतश् च पूर्व-दिग्-भागे तप्यति प्राण-वल्लभा ।
भृगु-पाद-प्रहारेण यदा कोल्हापुरं गता ।
तस्माद् एत्य महा-लक्ष्मीः हेम-पङ्केरुह-अन्तरे ।
पितृ-प्रवाद-मुनिना हेम-नाम्ना सहैव तु ।
कालेन महता तत्र लक्ष्मी-तीर्थे सु-पावने ।
मम वक्ष-स्थले स्थातुं पूर्ववत् तत्र च अस्ति हि ।
तां विना न च शक्नोमि क्षण-मात्रम् निशा-चर ।
स्थातुं वा देव-कार्येषु रतिर् मम न विद्यते ।
तस्माद् अद्यैव गच्छामि यथा सङ्कल्पितं मम ।
तस्माद् गच्छस्व लङ्कां तां त्रिकूट-शिखरे स्थिताम् ।
स्वस्थेन मनसा चैव स्मरन् मत्-पाद-अम्बुजम् ।
नित्यम् एत्य महा-भाग सम्यग् अर्चय मां त्व् इति ।
प्रोक्तो ऽसौ राक्षसेन्द्रस् तु स्वामिन् रङ्गेश रमापते ।
नित्यं समर्चरिष्ये वै आयास्यामि कथं प्रभो ।
त्वद्-दत्त-राज्य-तन्त्रं तु हातुं शक्नोमि वै कथम् ।
इत्य् उक्तो रङ्ग-राजो ऽसौ तम् उवाच विभीषणम् ।
वत्सरस्य एकदा गत्य पूजयस्व विधानतः ।
तेन ते पूर्ण-फलदो भविष्यामि न संशयः ।
इत्य् उक्तो रङ्ग-राजेन ओम् इत्य् उक्त्वा ययौ पुरीम् ।
कश्यपस्य प्रिया-सोम-मुखानां तत्र नारद ।
कावेर्य्-उत्तरे चन्द्र-पुष्करिण्यास् तटे शुभे ।
स्थितिं चकार देवेशो विमानेन महा-प्रभुः ।
पूर्वं यत् तद्-विमानं तु अनन्त-आदित्य-सन्निभम् ।

[[P74]] त्रिंशत्-त्रिकोटि-विबुधैस् सेवितं सर्व-सुन्दरम् ।
शृङ्ग-त्रय-समायुक्तं रत्न-औघ-प्रभयान्वितम् ।
सर्व-लक्षण-संयुक्तं द्वार-द्वय-समन्वितम् ।
श्रीमत्य्-अमल-संस्थान-विमानं तेजसां निधिम् ।
यस्य संदर्शनात् सद्यः कोटि-ब्रह्मघ्न-भेदकम् ।
स्मरण-अज्ञान-वैराग्य-भक्तिदं शुभ-चेतसाम् ।
सकृत्-प्रवेश-मात्रेण साक्षाद् वैकुण्ठ-नायकम् ।
शङ्ख-चक्र-गदा-पद्म-शर-चापासि-मूर्तिभिः ।
सदा संसेवितं शुद्धं चिन्तनं शान्ति-दायकम् ।
अप्रमेयं परानन्द-दायकं सकल-अर्थदम् ।
गरुड-अनन्त-सेनेश-पार्षदै-रूप-सेवितम् ।
दत्तं वैकुण्ठ-नाथेन सूर्यस्य मुनि-सत्तम ।
सरयू-तटम् आश्रित्य यत् स्थितं कामदं नृणाम् ।
श्रीमद्-रङ्ग-विमानेन यत् पूर्वं सन्ततं त्व् अभूत् ।
प्रता-वन्तं मिलित्वा तु संस्थितं तद्-विमानतः ।
विभिद्य क्षण-मात्रेण मिलित-अन्तत्र नारद ।
स्व-सङ्कल्पानुसारेण पद्मायश् च इष्ट-सिद्धये ।
हेम-नाम्नो मुनेस् तस्य विमानं स-परिच्छदम् ।
वैमानिकैर् अनेकैश् च स्तूयमानं विहायसा ।
अष्टादश-महा-वाद्य-रवैर् देवैर् रवैर् अपि ।
जितं ते इति शब्दैश् च नमस् ते इति शब्दकैः ।
नट-नर्तक-शब्दैश् च चन्द्र-पुष्करिणी-तटात् ।
पूर्व-भागे योजनानां विद्यमाने चतुष्टये ।
हेम-तीर्थे महा-पुण्ये हेम-पङ्कज-मध्यमे ।
हेम-नाम्नो मुने-स्थाने लक्ष्म्याश् च आनन्ददो हरिः ।
अनन्त-कोटि-मञ्चेषु न्यक्-कृत-अनन्त-सुन्दरः ।
काल-नेमि-मुखां दृत्यान् जित्वा शार्ङ्गधरः प्रभुः ।
भोगीन्द्र-शयने दिव्ये शयानः कमलेक्षणः ।
श्रिया भूम्या समायुक्तस् तद्-विमान-ईश्वरः प्रभुः ।
सर्व-लोक-हितार्थाय कुम्भघोण-अभिदं शुभम् ।
माकरे सङ्क्रमे पुण्ये वृष-लग्ने शुभावहे ।
मध्यं गते दिनकरे तद्-विमानेन संयुतः ।
पद्मायाश् चैव हेमस्य प्रत्यक्षो ऽभूत् तदा द्विज ।

हृदम्बुजे ऽस्तमितम् अव्ययं प्रभुं किम् एतद् इत्य् एव निमील्य लोचने!
हेमो मुनि शार्ङ्गधरं महा-प्रभुं दृष्ट्वा पुरश्चागतम् अप्रमेयम् ।
विमान-मध्यस्थम् अजं पुराणं कोट्योघ-वह्नि-अर्क-समान-तेजसम् ।
दृष्ट्वा परानन्द-समुद्र-मग्नो जडोपमो ऽभून् मुनि-नायकः प्रभुः ।

[[P75]] देवी तु साक्षाज्-ज्वलन-अर्क-सन्निभां स्व-नायकं पूर्ण-गुण-ओदधिं परम् ।
समागतं भोगि-शयानम् अच्युतं चिन्तेन स्वस्थ-आनवरं समारुहम् ।
अनन्त-हर्ष-ओदधि-मग्न-रूपा दृष्ट्वा स्व-नाथं परिपूर्ण-विग्रहम् ।
स्व-लोचनाभ्यां पति-पाद-पद्मं संक्षालयामास तद्-उद्भव-जलैः ।
नाथेति नाथेति खग-ध्वजेति श्री-शार्ङ्गधारिन् न् इति प्रोच्यमाना ।
हेमाब्ज-वर्यैर् अपि पूज्य भक्त्या तत्-पाद-पद्मं शुभ-मङ्गलं हि ।

इति भविष्योत्तरे (49) एकोनपञ्चाशो ऽध्यायः ।


श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - १०
(श्री-कोमल-वल्लि-नाच्चियार्-श्री-शार्ङ्गपाणि-स्वामि-वैवाहिकम्)

ब्रह्मोवाच-
विमानस्थो जगन्नाथश् शार्ङ्गपाणिर् अधोक्षजः ।
स्व-नायकीं महा-लक्ष्मीं दृष्ट्वा च आनन्द-निर्भरः ।
चिर-कालात् समागत्य महा-तपसि संस्थिताम् ।
तपसा कर्शितां देवीम् अपश्यत् प्राण-वल्लभः ।
ततस् सपद्म-आसन-संस्थितां तां समाधि-सम्पत्ति-युतां मनोहराम् ।
शनैस् सम् उन्मीलित-लोचन-अग्रां ददर्श तत्-काञ्चन-अग्र्यम् अम्बुजम् ।
तत्-कर्णिकायां तरूण-अर्क-कोटि-संकाश-सोम-प्रयुताति-शीतलाम् ।
पदाग्र-शोभाजित-पद्म-रागां माल्य-अङ्ग-भूषां महतां ददर्श ।
सौवर्ण-अंभार-गुण-जिद्-वर-ऊरु-शोभ-अवदानं वसनं वसानाम् ।

[[P76]] उత్తుङ्ग-पीन-स्तन-कुम्भ-मध्य-स्फुरन्-महा-हार-भरण-प्रभाभिः ।
सौधामिनी-सन्तत-शालिनीभिः प्रभासयन्तीं ककुभश् च सर्वतः ।
माणिक्य-कर्णाभरण-अभिराम-आमुदार-मालां महनीय-केशाम् ।
आनन्द-हास-अमृत-पूरितेन मुखेन निर्भर्त्सित-पूर्ण-चन्द्रम् ।
नख-अंशु-धाराभि-वृते दधान-कर-अम्बुजाभ्यां कनक-अरविन्दे ।
करेण तस्य अभयम् आददानाम अन्येन तच्-छेत्रम् इदं भजेति ।
विनिर्दिशन्तीं स्मयमान-वक्त्राम् अधो-मुख-स्व-अङ्गुलि-तर्जनीकाम् ।
चतुर्भुजां चारु-किरीट-रुच्या विभासयन्तीं करुणाकरः प्रभुः ।
पस्पर्श हस्त-अम्बुज-शुन्तमेन गुण-अभिपूर्णां स्व-कर-अम्बुजाभ्याम् ।
पद्मासनस्थां परिरभ्य शीघ्रं उत्थाप्य वक्ष-स्थल-गां चकार ।
रूपान्तरेण द्वित-पङ्कजां तां समीप-गां च अपि तनोर् अभूत् श‍ृणु ।
ततो ऽन्तरिक्षात् समुववर्ष-पूर्णो विमान-वर्यः प्रबभूव सन्ततम् ।
विनेदिरे दुन्दुभयो दिविस्थाः जगुश् च गन्धर्व-वरास् सुगीतम् ।
ननृतुर् ऊचुर् चैव नाक-वेश्याः जय इति शब्दस् सु-महांस् तदासीत् ।
लक्ष्मी-समेतं परमं पुमांसं विमानगं शान्तम् अधोक्षजं प्रभुम् ।
भोगीन्द्र-तल्पे सुख-शायिनं तं समस्त-कल्याण-गुण-अभिपूर्णम् ।
दृष्ट्वा मुनिस् तुष्ट-मनास् तदानीं प्रणम्य सत्कार-काञ्चन-दण्ड-सन्निभः ।
परिक्रमन् भक्ति-वरेण देवं कृत-अञ्जलिस् तत्-पुरतस् समग्रतः ।
तुष्टाव तेजोमयम् अप्रमेयं श्री-शार्ङ्गपाणिं प्रणत-आर्ति-नाशनम् ।

  • नमो नमो ऽगण्य-गुणैक-सिन्धवे कल्याण-सद्-विग्रह-शालिने प्रभो ।
    योगीन्द्र-हृत्-पङ्कज-मध्य-वासिते योगाय योगीन्द्र-कर-अर्चिताय ।

[[P77]] काम-आदि-षड्-वर्ग-विभेदकाय भक्त-आर्ति-संभेदन-विग्रहाय ।
कल्याण-नाथाय कला-धरार्क-सुरेन्द्र-संपूजित-विग्रहाय ।
काल-आत्मने काल-सुयोग-कारिणे श्री-काल-चक्राय सुचक्र-धारिणे ।
भू-चक्र-संस्थाय सुमानिताय खग-ध्वजेशाय नमामि सन्ततम् ।
मत्स्याय कूर्माय किटीन्द्र-रूपिणे श्री-नारसिंहाय नमो नमस्ते ।
इन्द्र-अनुजाय अदितिजैर् विभेदकाय निशाचरेश्वर-कण्ठ-विभेदकाय ।
गोपी-कुच-आसक्त-यदूद्वहाय नमामि बुद्धाय रमाधि-हारिणे ।
जानेतर-ध्वान्त-निवारकाय विज्ञान-वैराग्य-सुभक्ति-दायिने ।
प्रज्ञात्मने प्राज्ञ-सुपूजिताय प्रह्लाद-संरक्षण-दीक्षिताय ।
आनन्द-पूर्णाय सदा-अन्तरात्मने वेदान्त-वेद्याय नमो नमस्ते ।
सर्ग-स्थिति-प्रलय-कारण-कारणाय भोगीन्द्र-तल्प-आश्रित-विग्रहाय ।
कल्प-अर्क-कल्पाय फल-प्रदायिने कञ्जासन-पूजित-मङ्गलाङ्गिणे ।
नमो नमस्ते करुणा-कराय नाग-अरि-दिव्य-अंस-गताय विष्णवे ।
श्री-भूमि-नील-अर्चित-सुन्दराङ्घ्रिणे नमो नमश् शार्ङ्गधराय तुभ्यम् ।
पुनः पुनस् ते प्रणमामि विष्णो त्वत्-पार्श्वयोः पुरतः पृष्ठतश् च ।
सर्वत्र ते सन्ततम् आदरेण नमामि शार्ङ्गेश महा-प्रभो विभो ।
ततस् तु-स्तूयन् वर-शार्ङ्गपाणिनास् त्व् अग्रे स्थितो ऽसौ मुनि-राड्-मुनीन्द्र ।
कृत-अञ्जलिर् भक्त-वरो महात्मा पुनः पुनस् तं प्रणनाम भक्त्या ।
इति भविष्योत्तरे (५०) पञ्चाशो ऽध्यायः ।


[[P78]] शार्ङ्गपाणि-स्वामि-वैभवम्-११
महर्षिणा नित्याराधनादि-कर्तव्यम्

ब्रह्मोवाच-
मुनिना संस्तुतो देवश् शार्ङ्गपाणिर् अधोक्षजः ।
मेघ-गंभीरया वाचा प्रहसन् वाक्यम् अब्रवीत् ।

श्री भगवान्-
मुनि-श्रेष्ठ महा-भाग! त्वन्-निमित्ततया त्व् अयम् ।
क्रोधेन महताविष्टा गता कोल्हापुरं प्रति ।
ततस् त्वं मत्-प्रसादेन गुहो ऽभू ऋषि-सत्तम ।
ततो राम-प्रसादेन मुनि-पुत्रत्वम् आगतः ।
तत्र अपि मत्-प्रसादेन अस्मिन् क्षेत्रे शुभावहे ।
इयं पुत्री बभूव अथ तया त्वं तपसि स्थितः ।
शेष-अचल-अभिधं विष्णुं निमित्ती-कृत्य च आगता ।
सो ऽपि पाताल-भागे तु संस्थितो ऽद्य अपि दृश्यते ।

‘पाताल-वेङ्कट-आदीशं सकृद् वा यस् तु पूज्यति ।
दर्शनं वा अपि कुरुते नैवेद्यं पायसं ददन् ।
यो ऽर्चयेत् तलुसी-पत्रैस् स प्रसीदति न अन्यथा ।
तुष्टे तु वेङ्कटादीशे मम अभेदे द्विजोत्तम ।
सर्वान् कामान् अवाप्य आशु अन्ते वैकुण्ठम् अश्नुते ।
वक्ष-स्थले समारोढुं यतस् तपसि संस्थिता ।
तस्माद् दत्तं मया अद्यैव पूर्ववत् स्थानम् उत्तमम् ।
अपरं रूपम् आस्थाय चतुर्बाहु-समन्विता ।
मृदुला-स्वर्ण-वल्ली इव दृष्ट्या यस्मान् मया मुने ।
तस्मात् कोमल-वल्लीति प्रथा स्यात् भुवन-त्रये ।
मम त्वं दापय क्षिप्रं कन्या-रूप-धरां रमाम् ।
इत्य् उक्तस् तु मुनि-श्रेष्ठो देवदेवेन शार्ङ्गिणा ।
माकरे सङ्क्रमे पुण्ये वृष-लग्ने शुभावहे ।
श्रीमत्य्-अमल-संस्थान-विमान-अन्तर्गतं परम् ।
स्वयम्भु-मुख-देवैर् वै स्तूयमानं निरन्तरम् ।
सम्पूज्य विधिना भक्त्या स्व-कुल-उद्धारणाय च ।
सर्व-लोक-हितार्थाय त्रिलोक-जननीं रमाम् ।
साक्षात् कोमल-वल्लीं तां प्रददौ शार्ङ्गपाणये ।
नेदुर् दुन्दुभयो व्योम्नि पुष्प-वृष्टिस् तदा ह्य् अभूत् ।
ननृतुः नाक-वेश्याश् च जगुस् गन्धर्व-सत्तमाः ।
तदा हि सर्व-जगतां सन्-मङ्गलम् अभून् मुने ।
नव-कन्यास् तदा देवीं मित्र-भावं समाश्रिताः ।
प्रार्थयामासुर् अत्यन्तं जन-पाप-निवृत्तये ।

[[P79]] सामर्थ्यं च तथा दत्तं तद्-अनुज्ञां समाश्रिताः ।
कन्या-तीर्थ-तटं प्राप्य दृश्यन्ते ऽद्य अपि तन्-मुखाः ।
लक्ष्मी-दत्त-वरेण अपि पावयन्त्य् एजन-अफलान् ।
पुण्य-अधिकान् प्वावयन्त्य इति वै किम् उ नारद ।
अद्यापि कोमलांबायाः भक्तास् तान् न अत्र संशयः ।
सन्ततं प्रार्थयन्तस् तास् तद्-दर्शन-समेधिताः ।

‘महा-माघे च तत्-तीर्थे स्नातानां पुण्यदा मुने ।
नित्य-सेवा-पराणां च मनो-अभीष्ट-प्रदायिकाः ।
भृगु-वारेषु अर्चकानां विशेष-फल-दायिकाः ।
भवन्त्या दृश्यमानास् ताः अद्यापि किल नारद ।
देव्या समेता देवेशो नील-जीमूत-सन्निभः ।
त्रिधाम-नाथो भगवान् शेष-शायी महा-प्रभुः ।
साक्षात् कोमल-वल्लीशस् सुराणां हित-कांक्षया ।
यो ऽवधीद् दैत्य-वर्यं च काल-नेमि-मुखान् अपि ।
शार्ङ्गं धृत्वा जयत्-पूर्वं सो ऽसौ विष्णुस् सनातनः ।
मुनीन्द्र-वर्यं हेम-आख्यम् अब्रवीत् शार्ङ्ग-धृक् प्रभुः ।
मुनीन्द्र भक्त-वर्यो ऽसि प्रह्लाद इव मे सदा ।
स्तुत्वा च तपसा चैव तुष्टो ऽस्मि न च संशयः ।
कन्या-प्रदानतश् चैव विशेषेण मुनीश्वर ।
मद्-दर्शनं च विफलं यथा च न भवेन् मुने ।
मद्-दर्शनात् सर्व-सिद्धिर् अभूत् तव च न अन्यथा ।
अथापि वरय त्वं च वर-दान् लोक-हिताय च ।
ख्यापनाय च लोकेषु वरान् दास्यामि काङ्क्षितान् ।
इत्य् उक्तश् शार्ङ्गिणा तत्र हेमो नाम मुनीश्वरः ।
प्रणम्य देवदेवेशं कृत-अञ्जलि-पुटो ऽब्रवीत् ।
तपसा दर्शनं देव ब्रह्म-आदीनां सु-दुर्लभम् ।
ममासीत् पूर्व-पुण्येन तद् अलं नात्र संशयः ।
अथापि कामये नाथ वरान् देहि मम अद्य वै ।
श्रीमत्य्-अमल-संस्थान-विमानेन सु-भास्वता ।
कल्पान्तम् अत्र भगवान् वासं कुरु जगत्-पते ।
एतत्-क्षेत्रे निविष्टानां पश्वादीनाम् अपि प्रभो ।
कैवल्यं देहि लक्ष्मीश परितो योजन-त्रयम् ।
संस्थितानां नराणां च पापिनाम् अपि दुर्लभम् ।
नित्यं त्वद्-दर्शन-कृतां श्रोत्रियाणां महा-प्रभो ।
सर्व-अभीष्टान् दापयस्व मुक्तिम् अन्ते प्रदापय ।
हेम-पुष्करिणी-स्नान-आदि-इष्टान् देहि नृणाम् अपि ।
दिने अस्मिन् स्नान-कर्तॄणां गङ्गा-स्नान-अयुतं फलम् ।
ये दर्शनं प्रकुर्वन्ति मत्-पुत्र्याः सततं नराः ।
ते ऽष्ट-ऐश्वर्यं विच्छिन्नं प्राप्नुवन्ति विशेषतः ।
तव उत्सवं कल्पयिष्ये तद्-अनुज्ञातुम् अर्हसि ।
इत्य् उक्तस् तेन मुनिना तथा अस्तु इति वरान् ददौ ।

[[P80]] ततो लक्ष्मी-समेतो ऽसौ हेम-अब्ज-सरस्-तटे ।
पूर्व-भागे नाति-दूरे दक्षिणे वेङ्कटेश्वरात् ।
नाति-दूरे विमानेन स्थितो ऽसौ दृश्यते जनैः ।
ततो मुनीश्वरो हेमः तपसा च शमेन च ।
स्थपयतिं च आनयित्वा तु सुराणां च मुनीश्वर ।
आलयं सु-दृढं रम्यं बन्धयामास वै पुरा ।
हेम-रत्नमयं सर्वं रथं च अपि विनिर्ममे ।
शिबिका-वाहन-आदीनि हेम-रत्नमयानि अपि ।
प्रतिष्ठाप्य आलयं तत्र पाञ्चरात्र-उक्त-मार्गतः ।
नित्य-अर्चनं चकार असौ महा-विभव-विस्तरैः ।
पूर्ण-वर्षे मुनीन्द्रस्य असौ चापसंस्थे दिवाकरे ।
अलङ्कृत्य परं सर्वं महोत्सवम् अथ तनोत् ।
ध्वजम् आरोप्य विधिना वाहन-अन्दोलिकादिभिः ।
रथम् आरोप्य देवेशं शार्ङ्गपाणिर् अतन्द्रितः ।
रथ-उत्सवं कारयित्वा विबुध-इन्द्रैस् समावृतः ।
हेम-पुष्करिणी-तीर्थे देवदेवस्य सन्निधौ ।
उत्सव-अवभृतं चक्रुः ततो नित्य-अर्चनं तनोत् ।
नित्यं भक्ति-समेतो ऽसौ विष्णु-कैङ्कर्यवान् अभूत् ।
विशेष-ज्ञानम् आसाद्य भक्तिं च अपि तथा विधाम् ।
वैराग्यं परमं प्राप्य भव-मार्गं विहाय च ।
सदैव चिन्तयन् देवं शार्ङ्गपाणिं रमापतिम् ।
अर्चयित्वा हरिं ध्यात्वा जपन् तन्-नाम-मङ्गलम् ।
तत्-सायुज्यं प्राप्तु-कामः स्थितः प्राञ्जलिर् अग्रतः ।
लोकैश् च सर्वैर् अवलोक्यमानः
मुकुन्द-पाद-अब्ज-समीपवर्ती ।
तेजोमये तद्-वपुषि प्रलीये
दिव्येन धाम्ना तद् अतीव चित्रम् ।

इति भविष्योत्तरे (51) (महर्षिणा नित्याराधनादि-कर्तव्यम्) एकपञ्चाशो ऽध्यायः ।


[[P81]] श्री-भविष्योत्तर-पुराणम्
श्री-शार्ङ्गपाणि-स्वामि-वैभवम् - १२
(उत्तरायण-दक्षिणायन-द्वार-माहात्म्यम्)

ब्रह्मोवाच-
मुक्तिं गते मुनौ तस्मिन् दृष्ट्वा तद्-वैभवं परम् ।
शार्ङ्गपाणेर् महा-विष्णोः ब्रह्माद्यास् त्रिदशेश्वराः ।
दर्शनार्थं समाजग्मुस् तु तत्-तद्-विभव-संयुताः ।
प्रविश्य तद्-विमानं तु पूर्ण-तेजो-निधिं हरिम् ।
प्रणेमुर् दृढ-भक्त्या ते सन्तोषम् अतुलं ययुः ।
स्तुत्वा च विविधैः स्तोत्रैर् वेद-शास्त्र-अर्थ-संगतैः ।
शार्ङ्गपाणेः प्रसादार्थं राज-राष्ट्र-हिताय च ।
पुनः प्रणम्य तं देवं प्रार्थयामासुर् अंजसा ।

“ देवदेव-अरविन्दाक्ष अनन्त-गरुड-ध्वज ।
तव उत्सवं कल्पयामो महा-विभव-विस्तरैः ।
मेष-मासे शुक्ल-पक्षे नव-अह-अन्तं महा-प्रभो ।
पाञ्चरात्र-विधानेन देहि अनुज्ञां महोत्सवे ।
इत्य् उक्त्वा दण्डवद् भूमौ प्रणेमुर् जगदीश्वरम् ।
देवैः सम्प्रार्थितः श्रीमान् तथा अस्तु इति वचो ऽब्रवीत् ।
ततः सुर-वराः सर्वे स्थपतिं प्रोचुर् आदरात् ।
स्थपते क्षण-मात्रेण विष्णोर् आयतनं महत् ।
चतुर्द्वार-समायुक्तं दिव्य-गोपुर-मण्डितम् ।
मण्टप-अनेक-शोभाढ्यं सप्त-प्राकार-शोभितम् ।
ध्वज-पीठ-समायुक्तं दल-पीठ-समन्वितम् ।
वितान-च्छत्र-शोभाढ्यं महा-रथ-समन्वितम् ।
बृहद्-वाहन-चित्राढ्यं विचित्र-शिबिक-अन्वितम् ।
नाना-रत्न-गुण-आढ्यं च दिव्य-काञ्चन-शोभितम् ।
राजतैः स्वर्ण-पात्रैश् च नव-रत्न-विचित्रितैः ।
वस्त्र-आभरण-मुख्यैश् च दिव्य-आराम-समन्वितैः ।
मण्डितं कुरु वेगेन नाना-शाल-उपशोभितम् ।
अष्टादश-ध्वज-स्तम्भ-मणि-घण्ट-अन्वितं परम् ।
तथा पुर-वरं श्रीमद्-धेम-रत्न-समन्वितम् ।
चित्र-तोरण-संयुक्तं नाना-अलङ्कार-संयुतम् ।
आगतानाम् उत्सवार्थम् अन्न-शालादिकं कुरु ।
इत्य् उक्तस् तु सुर-वरैस् तथा चक्रे स तक्षकः ।
स-कलत्रास् सुपुत्राश् च मुनयस् सिद्ध-चारणाः ।
गन्धर्व-अप्सरस-उपेता समाजग्मुर् अनेकशः ।
त्रिंशत्-त्रिकोटि-विबुधाः विभवैर् मङ्गलावहैः ।

[[P82]] विधिना ध्वजम् आरोप्य मेष-मासे शुभावहे ।
शुक्ल-पक्षे शुभे लग्ने सर्व-दोष-विवर्जिते ।
रौद्र-तारान्विते दिने ध्वजम् आरोप्य भक्तितः ।
क्षणे क्षणे विशेषेण महोत्सवम् अतन्द्रिताः ।
चक्रुर् द्विजा मुनीश्वरान् सकलत्रान् सुरान् अपि ।
सर्वान् सम्पूजयामासुर् ह्य् अन्य्-अहनि नारद ।
वस्त्रैर् आभरणैश् चैव ताम्बूलैर् दक्षिणादिभिः ।
पूजयामासुर् अत्यन्तं गन्धैः पुष्पैर् मनोहरैः ।
सर्वे लोका समाजग्मुर् उत्सवारार्थं तु शार्ङ्गिणः ।
तान् वन्द्य पूजयामासुर् ब्रह्माद्यास् सुर-नायकाः ।
नवमे दिवसे प्राप्ते चित्र-अलङ्कार-शोभितम् ।
दिव्य-वाजि-समायुक्तं छत्र-चामर-शोभितम् ।
नारिकेल-इक्षु-कदली-पूग-पुष्प-समन्वितम् ।
घण्ट-अनेक-सहस्राढ्यं किङ्किणी-जाल-शोभितम् ।
दिव्य-आन्दोलिकया युक्तं दिव्य-केतु-समन्वितम् ।
कूबराक्ष-समोपेतं महा-रथम् अनुत्तमम् ।
विनिर्माय च तन्-मध्ये प्रतिष्ठितम् अधोक्षजम् ।
स्थापयित्वा तु विधिना वेद-वाद्य-रवैर् अपि ।
नट-नर्तक-संघैश् च निबिढी-कृत-सज्जनः ।
रथ-उत्सवं तथा चक्रुः वसन्तोदक-सेवनैः ।
मल्लिका-मालती-जाति-कुसुमोत्कर-वृष्टिभिः ।
ततस् तस्मिन् दिने तत्र हेम-पुष्करिणी-तटे ।
देवं निनाय ते देवाः स्थापयित्वा विधानतः ।
देवस्य अग्रे हेम-तीर्थे चित्र-नक्षे पौर्णमा-दिने ।
महा-विभव-विस्तारैः पूजयित्वा हि अधोक्षजम् ।
त्रिंशत्-त्रिकोटि-विबुधाः सकलत्रास् समित्रकाः ।
स-सुता मुनयस् सर्वे कुलीरे भक्ति-संयुताः ।
उत्सव-अवभृतं चक्रुः लक्ष्मी-तीर्थे सुपावने ।
ततो नित्य-उत्सवं चक्रुः श्रीमच्-छार्ङ्गेशितुः प्रभोः ।
सर्वे तद्-भक्त-वर्याश् च सुरेन्द्रस् तु मुनीश्वरः ।
तत्-कैङ्कर्य-परा भूत्वा सदा तद्-भक्ति-भाविताः ।
पूजयन्तो नमस्यन्तो नाना-भक्ति-समन्विताः ।
सेवां कुर्वन्ति च अद्यापि कुम्भघोणे शुभावहे ।
वर्तन्ते इति लोकेषु प्रधान अत्र विचारणा ।
तस्मात् तद् उत्सवं लोके ये कुर्वन्ति समाहिताः ।
तेषां भोगश् च मोक्षश् च शार्ङ्गपाणिर् ददाति हि ।
सुर-उत्सव-करो मर्त्यो ब्रह्म-लोकं व्रजेद् ध्रुवम् ।
सुर-उत्सवं द्रष्टु-कामास् तद्-अर्थं भुवि मानवाः ।
तेषाम् इष्टं ददाति स्म शार्ङ्गपाणिर् अधोक्षजः ।
विबुध-उत्सव-सेवार्थम् आगतानां नृणाम् इह ।
अन्न-पान-आदिकैः पूज्य कृतार्थास् ते भवन्ति हि ।
सुर-उत्सवस्य निर्वाही सुरेशो भवति ध्रुवम् ।

[[P83]] साधका ये नरा भूमौ सुराणां सन्-महोत्सवे ।
अष्ट-ऐश्वर्यं च आप्नुवन्ति शार्ङ्गपाणि-प्रसादातः ।
जात्य्-अन्धास् ते हि विज्ञेयाः सुर-उत्सवम् अदशर्काः ।
सुधा-पानेषु पर्याप्ति-यथा नास्ति तथैव तु ।
सेवकानां शार्ङ्गपाणिं न तृप्तिर् हि भवन्ति हि ।
तस्मात् तम् ईश्वरं लोके अपर्याप्त-अमृतं विदुः ।
अपर्याप्त-अमृतं दृष्ट्वा न पुनर् स्तनवो भवेत् ।
अपर्याप्त-अमृतं देवं तुलसी-कोमल-दलैः ।
यः पूजयति तं देवाः पूजयन्ति न संशयः ।
अस्पृश्य-स्पर्शने चैव हि अभक्ष्य-भक्षणे तथा ।
अकार्य-करणे चैव प्रमादाद् वा मुनीश्वर ।
अपर्याप्त-अमृतं स्मृत्वा सद्यश् शुद्धो भवन्ति हि ।
पदम् एकं चलेद् यस् तु गृहाद् बहिर् अशङ्कितः ।
अपर्याप्त-अमृत-सेवार्थं भूतले पुनर् जनिः ।

दक्षिणायन-उत्तरायण-देवताः
दक्षिणायन-मानी च उत्तरायण-देवता ।
ताव् उभौ मिलितौ भूत्वा वैकुण्ठं जग्मतुः पुरा ।
प्रणम्य देवदेवेशम् अच्युतं तं चतुर्भुजम् ।
कुत्र आवयोश् शाश्वतीं च कीर्तिं च वा आप्नुवावहि ।
समत्वम् आवयोः कस्मिन् क्षेत्रे भवति तद् वद ।
इत्य् उक्तो भोगि-पर्यङ्क-शायी वैकुण्ठ-वल्लभः ।
प्रोवाच तत्र तौ दृष्ट्वा प्रहसन् शृण्वतस् त्व् इति ।
कुम्भघोणे महा-क्षेत्रे साक्षाद् वैकुण्ठ-सन्निभे ।
हेम-पुष्करिणी-तीर्थे तट-पूर्वे शुभावहे ।
श्रीमत्य्-अमल-संस्थान-विमाने शेष-शायिनः ।
द्वार-द्वयेन रूपेण वसतः कल्पम् अन्ततः ।
उभयोस् तेन संख्यानिं समत्वम् उभयोर् अपि ।
यथोत्तारायणं पुण्यं दक्षिणायनम् अपि अस्तु ।
समत्वम् उभयोस् तत्र शार्ङ्गपाणि-प्रसादातः ।
पार्श्वतस् सिद्धिर् आयाति न अत्र कार्य-विचारणा ।
इत्य् उक्तौ तौ समायातौ द्वार-रूपौ बभूवतुः ।
शार्ङ्गपाणेर् विमानस्य दृश्येते अद्यापि नारद ।
यथा सर्व-अर्थ-सिद्धिस् स्यात् पुण्ये चैव उत्तारायणे ।
ततो ऽपि अधिक-पुण्यं स्यात् दक्षिणायनगे रवौ ।
तत्-तत्-द्वारेण ये लोका हरि-दर्शन-लालसाः ।
प्रविशन्ति हरिं दृष्ट्वा च आप्नुवन्ति फलं समम् ।
दक्षिणायन-सद्-द्वारात् निर्जगाम हरिः पुरा ।
श्रीमत्-कोमल-वल्लीं ताम् उद्वाह्य अदच्युतः ।
तस्माद्-द्वारम् अद्यापि विदुः कल्याण-संज्ञितम् ।
गमन-आगमनं तेन द्वारेण भुवि मानवाः ।
मङ्गलानि च वर्धन्ति प्राप्नुवन्ति मनोरथान् ।
द्वारेण मनुजास् तेन उत्तरायण-जेन च ।

[[P84]] विशन्ति ये दर्शनार्थम् इष्टान् दास्यति न अन्यथा ।
तस्मात् द्वार-द्वयं पुण्यं पुरुष-अर्थैक-साधनम् ।
इष्ट-दानैक-पुण्यम् अपवर्ग-प्रदायकम् ।
समत्वम् उभयोस् तत्र नीच-उच्चत्वे मुनीश्वराः ।
उभयोर् युद्ध-शान्तिश् च तत्र अभून् न अत्र संशयः ।
तस्मात् तच्-छेत्र-सदृशं शिव-विष्णोः प्रिय-आस्पदम् ।
क्वास्ति भूमि-तले पुण्यं विदुस् तच्-छेत्रम् उत्तमम् ।
क्षणं क्षण-अर्धम् अपि वा कुम्भघोणे वसन्ति हि ।
मुक्तिस् तेषां हस्त-ग्राही किम् उताखिल-सम्पदम् ।
रमेशयोर् हि कल्याणं यस्माद् आसीन् मुनीश्वर ।
कल्याण-पुरम् इत्य् एतत् विदुर् देवो मुनीश्वराः ।
कल्याण-पुर-संस्थाने क्षण-मात्रं वसन्ति ये ।
सुरेश्वर-आधिपत्यं च प्राप्नुवन्ति यशः श्रियम् ।
मङ्गलानि च वर्धन्ति कल्याण-पुर-वासतः ।
श्री-कुम्भघोणे वसतां नराणाम् किं दुर्लभं स्यात् भुवि सन्ततं हि ।
भुक्तिं च मुक्तिं च यशः श्रियं च भक्तिं ददात्य् एव च शार्ङ्गपाणिः ।
इति भविष्योत्तर-पुराणे (52) द्वि-पञ्चाशो ऽध्यायः ।


त्रयोदशः परिच्छेदः - १३
हेम-पुष्करिणी-माहात्म्यम्

अथ अतस् सम्प्रवक्ष्यामि हेम-पुष्कर-वैभवम् ।
यस्य श्रवण-मात्रेण सर्व-मङ्गल-भाग् भवेत् ।
श्रीमत्य्-अमल-संस्थाने विमानस्य अस्य पृष्ठतः ।
मन्त्र-पीठेश्वरी-देव्याः पूर्व-भागे मुनीश्वर ।
दक्षिणे चक्र-तीर्थस्य ब्रह्म-तीर्थस्य च उत्तरे ।
कन्या-तीर्थस्य वायव्ये लक्ष्मी-तीर्थम् इति स्मृतम् ।
कमल-उत्पल-कल्हार-दिव्य-सौरभ-मण्डितम् ।
प्रवाल-मुक्ता-सुवर्ण-सोपान-वर-शोभितम् ।
दात्यूह-निकर-उपेतं मत्स्य-कच्छप-संयुतम् ।
भ्रमद्-भ्रमर-शोभाढ्यं सुर-संघ-निषेवितम् ।
दृष्ट्वा स्पृष्ट्वा च पीत्वा च स्नात्वा च अभीष्ट-मानसः ।
न जनिर् भूतले तस्य मुक्ति-भागे भवेद् ध्रुवम् ।
हेमो-नाम्ना ऋषिस् तस्य शार्ङ्गपाणिस् तु देवता ।
सेन-अधीशो रक्षकस् स्यात् पारिजातो द्रुमः ।

[[P85]]

“ भोगीन्द्र-शयन-आनन्द-कोमलांबा-अधिप-प्रभो ।
त्वत्-तीर्थ-स्नान-करणे देहि अनुज्ञां खग-ध्वज ।
देवि श्रीमत्-कोमलांबे सर्व-लोक-महेश्वरि ।
सर्वादे सर्व-लोकानां स्नान-आदि-इष्टान् प्रदापय ।
स्नान-काले स्मरन्न् एतान् स्नात्वा मणि-निबोधके ।
पारिजात-द्रुमं चैत्यं दृष्ट्वा चोर्ध्व-पुण्ड्रकम् ।
जप्त्वा च अष्टाक्षरं मन्त्रं दानं दद्यात् ततो मुने ।
कन्यां च कनकं चैव लवण-उत्कटम् उत्तमम् ।
कल्प-वृक्षं तैल-यन्त्रं कुलाल-घट-चक्रकम् ।
हयं दासीं गजं चैव गाम् अपि उभयतो-मुखीम् ।
धेनुं च षड्-रस-अन्नं च पायसं च फलानि च ।
एतेषु अपि च सर्वेषु दानानां पञ्चकं वरम् ।
फलं च कल्प-वृक्षं च लवण-उत्कटम् उत्तमम् ।
कुलाल-घट-चक्रं च तैल-यन्त्रं च नारद ।
दानानाम् उत्तमं चैतत् सर्व-अरिष्ट-निवारणम् ।
हेम-पुष्करिणी-तीर्थे भृगु-वारेषु पुण्य-धीः ।
श्रावणे मासि पुण्ये तु स्नात्वा भक्ति-समन्वितम् ।
दानानां पञ्चकं दत्त्वा पञ्च-पातक-नाशनम् ।
दर्शेषु तस्मिन् यस् स्नाति राकासु च विशेषतः ।
कोदण्डे मासि पुण्ये तु व्यतीपाते च सङ्क्रमे ।
अयन-द्वितये चैव ग्रहणे सोम-सूर्ययोः ।
हेम-पुष्करिणी-स्नानं न पुनर् जनि-दायकम् ।
हेम-पुष्करिणी-स्नानं हेम-पुत्र्याश् च दर्शनम् ।
पूजनं हेम-जामातुर् जन्म-अन्तर-तपः-फलम् ।
तत्-तीर्थ-वात-स्पर्शेन मुक्त-भागी भवेद् ध्रुवम् ।
हेम-तीर्थस्य नमनं यज्ञा-युत-फल-प्रदम् ।
यः करोति च तत्-तीर्थं प्रदक्षिणम् अतन्द्रितः ।
भूः-प्रदक्षिण-जं पुण्यं लभते न अत्र संशयः ।
धन-अर्थी च सुत-अर्थी च कन्या-अर्थी सकृद् एव वा ।
सर्व-कामी हेम-तीर्थे श्रावणे मासि नारद ।
भृगु-वारेषु संस्नात्वा तत्-तत्-फलम् अवाप्नुयात् ।
जय-कामो नृपो यस् तु श्रावणे मासि पुण्य-धीः ।
हेम-तीर्थे तु संस्नात्वा विधिना सु-समाहितः ।
दानानां पञ्चकं दत्त्वा कोमलांबा-पतिं प्रभुम् ।
अभ्यर्च्य भक्ति-भावेन तुलसी-कोमल-दलैः ।
नैवेद्यं पायसं दत्त्वा शत्रून् जेतुं स चाहति ।
एक-आतपत्रवान् भूयात् कोमलांबा-प्रसादातः ।
भूत-कूष्माण्ड-वेताल-वैनायक-मुख-ग्रहाः ।
तत्-तीर्थ-स्नान-मात्रेण शमं यान्ति न संशयः ।
नाना-रोग-अस्पदो मर्त्यः श्रावणे मासि पुण्य-धीः ।
भृगु-वारेषु संस्नात्वा विधिना सु-समाहितः ।
नवनीत-प्रदीपांश् च हेम-पुत्र्याश् च सन्निधौ ।

[[P86]] सम्यग् ज्वालयति च शार्ङ्गपाणेश् च सन्निधौ ।
स नरो नष्ट-रोगी स्याद् अचिराद् एव न अन्यथा ।
यो ऽष्ट-ऐश्वर्यं च सम्प्राप्तुम् इच्छति स्म हि भूतले ।
श्रावणे भृगु-वारेषु हेम-तीर्थे निमज्य च ।
श्रीमत्-कोमल-वल्ल्याश् च सन्निधौ नवनीत-जम् ।
एकं वा दीपम् उज्ज्वाल्य कुसुम-स्रजम् अब्ज-ज ।
तस्माच् च अष्टोत्तर-शते यो अर्चयेत् कुसुमैर् अपि ।
सो ऽष्ट-ऐश्वर्यम् अवाप्नोति हि अचिराद् एव न अन्यथा ।
पुत्रातुरा या नारी हेम-तीर्थे निमज्य च ।
श्रीमत्-कोमल-वल्ल्याश् च सन्निधौ भक्ति-भाविता ।
श्रावणे भृगु-वारेषु मौनम् आश्रित्य केवलम् ।
पिष्ट-दीपं समुज्ज्वाल्य नवनीतेन नारद ।
अष्टोत्तर-शतं वा अपि अष्टा-विंशतिर् एव वा ।
नमनं च तथा कृत्वा सनारी सुतम् आलभेत ।
यं यं कामयमानाश् च हेम-पुष्करिणी-जले ।
स्नात्वा कोमल-वल्लीं च तत्-पतिं भोग-शायिनम् ।
श्रावणे भृगु-वारेषु ये पूजयति मुनीश्वर ।
तत्-तत्-फलांश् च आप्नुवन्ति न अत्र कार्य-विचारणा ।
माकरे सङ्क्रमे स्नानं हेम-तीर्थे करोति यः ।
गङ्गा-स्नान-अयुतं फलं लभत्य् एचे न न अन्यथा ।
चैत्र-शुक्ले तु पौर्णमास्यां ये स्नान्ति मनुजास् सकृत् ।
ते सर्वे विमल-आत्मानः प्राप्नुवन्ति परां गतिम् ।
इह ऐश्वर्यं च आप्नुवन्ति यशो वैराग्यम् उत्तमम् ।
हेम-पुष्करिणी-स्नानं माघ-मासे तु यश् चरेत् ।
विमलां कीर्तिम् आप्य आशु शार्ङ्गपाणेः प्रिया भवेत् ।
हेम-तीर्थे तु यस् स्नाति कृष्ण-अष्टम्यां सुभक्तितः ।
त्रि-सहस्र-कुल-उद्धारं स करोति च न अन्यथा ।
हेम-पुष्करिणी-स्नानं यः करोति निरन्तरम् ।
सुरेश-पदम् आप्नोति वागीशो वा भवेद् ध्रुवम् ।
सुधर्माख्यः पुरा विप्रस् सपत्नी-मातृ-सङ्गमात् ।
तद्-दोषेणैव महता अपमृत्युम् अवाप्य च ।
नीच-योनौ सप्त-वारं भूत्वा चैव अष्टमे शुभे ।
किञ्चित् पुण्य-विशेषेण द्विजत्वं प्राप्य नारद ।
बोधितो नैमिष-अरण्य-वासिना शौनकेन च ।
कुम्भघोणम् अनुप्राप्य हेम-तीर्थे सुपावने ।
माकरे सङ्क्रमे स्नात्वा पञ्च-दान-प्रदानतः ।
शान्त-व्रणो मुक्त-रोगी भूत्वा मनसिज-उपमः ।
शार्ङ्गपाणि-प्रसादेन सर्व-भोगम् अवाप्य च ।
ततो वैकुण्ठम् अगमत् पुनर्-आवृत्ति-वर्जितम् ।

[[P87]] हेम-अब्ज-तीर्थ-सदृशं न च विद्यते भुवि कृतो ऽधिकं च अस्ति हि पावनं मुने ।
समस्त-यज्ञ-अवभृतेन तुल्यं समस्त-तीर्थाद् अभ्यतु-सत्-फल-प्रभम् ।
इति भविष्योत्तर-पुराणे त्रि-पञ्चाशो ऽध्यायः ।


चतुर्दशः परिच्छेदः
श्री-वराह-वैभवम्, श्री-वराह-पुष्करिणी-वैभवम्, लक्ष्मि-नारायण-वैभवम्

ब्रह्मोवाच-
अथ अतस् सम्प्रवक्ष्यामि वराह-विभवं शुभम् ।
सकृच्-छ्रवण-मात्रेण न पुनर् स्तनवो भवेत् ।
ब्रह्मणो मानसाः पुत्राश् चत्वारो लोक-विश्रुताः ।
सात्त्विकाः ज्ञान-पूर्णाश् च सनक-आद्याश् च योगिनः ।
सर्व-शास्त्र-अर्थ-तत्त्वज्ञा नारायण-परायणाः ।
कदाचित् तान् निराकृत्य हरि-दर्शन-लालसान् ।
प्रतिहारौ हरेर् द्वारे जयश् च विजयस् तथा ।
तैर् दत्त-शापौ ताव् एव तयोर् मध्ये महाबलः ।
हिरण्याक्ष इति ख्यातस् सदा लोकैक-कण्टकः ।
सुराणां च विशेषेण पीडितास् तेन वै सुराः ।
पाताल-वासिनं देवं रमानाथं जगद्-गुरुम् ।
निवेद्य रिपु-बाधां च कुरु तस्य वधं प्रभो ।
नोचेत् सर्वं मरिष्याम इत्य् उक्तो ऽसौ रमापतिः ।
दत्त्वा अभयं च सर्वेषां सुराणां मुनि-सत्तम ।
गते तु सुर-संघे तु देवदेवो महा-प्रभुः ।
कोल-रूपं समासाद्य महा-दंष्ट्रा-आयुधः प्रभुः ।
धरणी-प्रलये या तु निमग्ना कटवत् स्थिता ।
पाताले येन नीता च सो ऽसौ पाताल-वल्लभः ।
हिरण्याक्ष-आह्वयं दैत्यं स्व-पोत्रेण विधाय च ।
स्व-दंष्ट्राग्रात् क्षमां वेगात् पातालात् गृह्य नारद ।
पोत्रेण बिलवत् भित्त्वा बिलाद् अस्माद् विनिर्गतः ।
समालम्ब्य करेण अपि दंष्ट्राग्रे धरणीम् अपि ।
कुम्भघोण-आह्वये क्षेत्रे पुण्य-मुक्ति-प्रदायके ।
हिताय विबुधानां च लोकानां हित-काम्यया ।
कुम्भ-लिङ्ग-उत्तरे भागे चतुर्भाण-मिते शुभे ।
श्वेत-पाटल-वृक्षस्य मूले चैव आस्थितः प्रभुः ।
विमाने श्रीकरे पुण्ये दृश्यते अद्यापि नारद ।
भूमिम् आलिङ्घ्य दंष्ट्राग्रे सर्वेषाम् इष्ट-सिद्धिदः ।

[[P88]] कुम्भ-मासे पूर्णिमायां पितृभे पुण्य-दायके ।
वृष-लग्ने च आविरासीत् सर्व-लोक-हिताय च ।
यस्माद् विनिर्गतो देवः आसीत् तत्-तीर्थम् उत्तमम् ।
पृष्ठ-भागे वराहस्य सर्व-मङ्गल-दायकम् ।
तीर्थानाम् उत्तमं तीर्थं त्रिषु लोकेषु दुर्लभम् ।
तत्र स्नानात् समुद्धूत-कल्मषा मनुजोत्तमाः ।
वराह-रूपं बिभ्राणम् अच्युतं चित्त-पङ्कजे ।
उदञ्चितोरु-पीठस्थां उदाराम् उत्पलेक्षणाम् ।
श्यामलां कोमल-आकारां नीलं नीरज-वासिनीम् ।
पाण्डर-क्षौम-वसनां पर्याप्ता-ब्ज-वर-द्वयाम् ।
मणि-मञ्जीर-वलय-हार-कुण्डल-शोभिताम् ।
सर्वं-सहां भगवतीं समाश्लिष्य एक-बाहुना ।
आनन्द-निर्भरं देवं आर्त-रक्षण-दीक्षितम् ।
स्व-ज्योत्स्नया परिविध्वस्त-संसार-ध्वान्त-मण्डलम् ।

ध्यायन् स्नात्वा नरो देवं जपन् भू-सूक्तम् उत्तमम् ।
पश्चात् प्रतिष्ठां महतीं प्राप्नोति मनुजो भुवि ।
माघ्यां स्नात्वा सकृद् वा अपि नरो विमल-मानसाः ।
वराह-रूपिणं देवं कोमलैः तुलसी-दलैः ।
पाटलस्य तरोर् मूले शुद्ध-भाव-समन्वितः ।
भू-वराह-महा-मन्त्रं जप्त्वा अयुतम् अञ्जसा ।
समर्पयेद् यः पादाब्जे महा-रिक्त अपि वै नरः ।
अष्ट-ऐश्वर्यम् अवाप्नोति प्रतिष्ठां महतीं लभेत् ।
माघ्यां यः पूजयेत् भक्त्या भू-वराहं महा-प्रभुम् ।
कुम्भघोण-आह्वये क्षेत्रे विशिष्ट-विभवैस् सह ।
स एव धन्यो लोके अस्मिन् स-कुबेर-सखा भवेत् ।
तत्-तीर्थ-स्नान-काले तु दाने च धरणीपतिः ।
वराह-रूपी भगवान् स्मर्तव्यो मधु-सूदनः ।
सप्तर्षि-मण्डलाद् एत्य कश्यप-आद्या महर्षयः ।
माघ्यां स्नात्वा वराहस्य तीर्थे चैव सुपावने ।
भू-वराहं सम्पूज्य स्व-पदे अक्षय-शङ्कितः ।
दाढ्य-हेतोर् वराहस्य मन्त्रं जप्त्वा विशेषतः ।
गच्छन्ति अद्यापि देवेशाः नाग-यक्षास् तथैव च ।
वराहस्य तु वायव्ये ज्ञान-वैराग्य-सिद्धये ।
भ्राण-त्रयमिते स्थाने कश्यपो मुनि-सत्तमः ।
विनिर्माय रसालं च तन्-मूले संस्थितो मुनिः ।
मनसा संस्मरन् नित्यं स्नात्वा स्व-कृत-तीर्थके ।
लक्ष्मी-नारायणं देवं शङ्ख-चक्र-गदाधरम् ।
नील-जीमूत-संकाशम् अनन्त-आदित्य-दीधितिम् ।
तेजोमयम् उदार-अङ्गं कौस्तुभ-उद्भासि-वक्षसम् ।
वन-माला-परिक्ष्यप्त-कम्बु-कण्ठ-विराजितम् ।

[[P89]] कोटि-मन्मथ-लावण्यं कोटीन्दु-सदृश-आननम् ।
संस्तुवन् मनसा नित्यं ध्यायन्न् अभ्यर्चयन् मुदा ।
कश्यपो मुनि-वर्यो ऽसौ तपस् तेपे सु-दुश्चरम् ।
बहु-वर्ष-सहस्राणि मुकुन्दं प्रार्थयन् सुधीः ।
ततस् तु भगवत्-प्रीतो हि आविरासीत् तपोनिधिः ।
धनुष्य्-अधिस्थिते भानौ पौर्णम्याम् उदये शुभे ।
गरुडांसं समारुह्य रमाम् आलिङ्घ्य सत्वरम् ।
भक्त-अनुकम्पया सर्व-लोकानां हित-काम्यया ।
तं दृष्ट्वा सहसोत्थाय कश्यपो दूत-कल्मषः ।
नत्वा स्तुत्वा च देवेशम् अथयत् तस्य सन्निधौ ।
मत्-कृतं तीर्थम् एतत् तु तीर्थानाम् अधिकं भवेत् ।
अत्र तीर्थ-तटे त्वं च रूपेण अनेन माधव ।
वासं कुरुष्व कल्पान्तं भक्तानाम् इष्टदो भव ।
दिव्य-ज्ञानं च वैराग्यं देहि अचञ्चलम् अव्ययम् ।
एवम् अस्तु इति देवेशस् तत्रैव आस्ते तद्-अर्थतः ।
तत्र स्नात्वा महीपालो दुर्जयान् अपि शात्रवान् ।
तम् आराध्य च गोविन्दं जयेद् एव न संशयः ।
स-देवराजं प्रणत-आर्ति-हारिणं लक्ष्मी-सहायं जगताम् अधीश्वरम् ।
सेवन्ति ये वै प्रणमन्ति नित्यं सम्प्राप्नुवन्ति इह मनोरथान् शुभान् ।
इति श्री-भविष्योत्तर-पुराणे सप्त-पञ्चाशो ऽध्यायः ।


पञ्चदशः परिच्छेदः
श्री-वरद-राज-स्वामि-वैभवम्

ब्रह्मोवाच-
प्राग्-उक्त-प्रवणे तस्य लक्ष्मी-नारायणस्य च ।
भाण-त्रयमिते पर्णे वरदस् सर्व-देहिनाम् ।
वर्तते अद्यापि देवेशस् सर्व-मङ्गल-दायकः ।
महेन्द्र-पर्वते रम्ये मतङ्गो नाम वै पुरा ।
मुनिस् सर्व-अर्थ-तत्त्वज्ञश् शान्तो दान्त-आयत-व्रतः ।
द्वन्द्वा-ततो विष्णु-भक्तो विष्णु-पाद-अर्चकस् सदा ।
प्रातः स्नात्वा धनुष्कोटौ मध्याह्ने वरदं प्रभुम् ।
काञ्ची-पुर-अधिपं नित्यं सेवति स्म सुभक्तितः ।
पुनर् महेन्द्रम् आसाद्य भुक्त्वा स्वपिति नित्यशः ।

[[P90]] एवं वर्ष-सहस्र-अन्तं नित्य-सेवा-परो ऽभवत् ।
कदाचिच् चैत्र-मासे तु दर्शनार्थी महोत्सवम् ।
काञ्ची-पुरं गम्यमानः कावेरी-तीरम् आप्तवान् ।
स्नात्वा कवेर-कन्यायां कृत्वा माध्याह्निकीं क्रियाम् ।
पश्चाद् गन्तुं यद् आयत्नं चकार मतिमान् ऋषिः ।
दैवयोगाद् अवर्षे तु काले परम-मङ्गलैः ।
ऋषेर् मनश्-शोधनाय श्रीमत्-काञ्चीपतिः प्रभुः ।
चोदयामास वै मेघान् ववर्ष वरुणः स्वयम् ।
वर्ष-कालाच् चतुर्गुणं आसीद् इदम् अयोगतः ।
सर्वतो विश्वम् आवृत्य ववर्ष सहसा मुने ।
मतङ्गो नाम स मुनिस् तदा वृक्ष-आश्रितो ऽभवत् ।
चम्पकस्य तरोर् मूले साय-आह्न-अन्तं हि नारद ।
शान्तो बभूव तद्-वर्षो हि आकाशं निर्मलं त्व् अभूत् ।
दृष्ट्वा साय-आह्न-समयं देव-सेवा-परस् सदा ।
प्रतप्त-हृदयो भूत्वा प्राण-त्यक्तुम् इषे सः ।
सन्ध्यायाम् आपरं यामाद् अवाक् द्विघटिकावधि ।
जन्म-अन्तरार्जितात् पापाद् अद्य मे वरदः प्रभुः ।
न दृष्टि-पदश् च आसीत् काले दिव्य-उत्सवे शुभे ।
न पश्यन्ति च यो लोके वरदा तं महा-प्रभुम् ।
काञ्ची-पुर-अधिकं देवं शङ्ख-चक्र-गदाधरम् ।
श्रिया भूम्या सु-सुमायुक्तं श्रीमद्-धस्ति-गिरीश्वरम् ।
द्विपात् पशुस् स विज्ञेयस् तस्य जन्म निरर्थकम् ।
पौण्डरीक-अश्वमेधानाम् अयुतानां च यत्-फलम् ।
तत्-फलं समवाप्नोति सकृद् वरद-दर्शनात् ।
चैत्र-शुक्ले तु पौर्णम्यां वरदं दर्शयेच् च यः ।
स देवो न अत्र सन्देहः किम् उताखिल-सम्पदः ।
मानुष्यं दुर्लभं प्राप्य वरदं यो न सेवते ।
चैत्र-शुक्ले तु पौर्णम्यां तस्मात् को न्व् अपरः पशुः ।
तत्र अपि नित्य-सेवी यः वरदस्य अपि दर्शनात् ।
संकल्पे विफले च अपि नरकान् एव विन्दति ।
तस्माद् अहं च निरयान् प्राप्स्यामि न अत्र संशयः ।
अकाले दैव-योगेन वर्ष-योगो महान् अभूत् ।
मम दौर्भाग्यतो वर्षस् समायतो न संशयः ।
तस्माद् अत्रैव मे प्राणान् त्यक्ष्यामि न च संशयः ।
मम प्राण-वियोगेन तुष्टस् स्याद् वरदः प्रभुः ।
इति निश्चित्य मनसा गले पाशां विबन्धयन् ।
प्राण-त्यागे कृत-मतिश् चिन्तयन् वरदं प्रभुम् ।
बन्धनं कर्षयामास हस्ताभ्यां विगत-श्रमः ।
चकम्पे धरणी देवी कावेरी च तथैव तु ।
तरवश् चम्पकश् च अपि चकम्पे सर्वतो वनम् ।

[[P91]] एतस्मिन्न् अन्तरे देवो हस्ति-शैल-शिखामणिः ।
श्रिया भूम्या समायुक्तो गरुडांसं समाश्रितः ।
अष्टादश-महा-वाद्यैः श्रुति-स्वन-समन्वितैः ।
त्रिंशत्-त्रिकोटि-विबुधैः पार्षदैः परिवारितः ।
कावेर्याश् च उत्तरे तीरे पौर्णम्यां चैत्र-मासिके ।
सन्ध्या-यामात् परं याम-पूर्व-अंशे सर्व-मङ्गले ।
भक्तस्य इष्ट-प्रदाताय मतङ्गस्य महा-मुनेः ।
चोलगानां हितार्थाय वरदस् सर्व-देहिनाम् ।
मतङ्गस्य पुरोभागे चम्पक-द्रुम-मूलके ।
प्रत्यक्षो ऽभूद् रमानाथो ज्ञात्वा तस्य आशयं मुदा ।
आगतो ऽस्मि महा-भाग तव हेतोश् च साम्प्रतम् ।
श्रीमद्-धस्ति-गिरे शृङ्गाद् वरदो ऽहं न संशयः ।
वरान् वरय भद्रं ते तव दास्यामि न अन्यथा ।
तं दृष्ट्वा देवदेवेशं हरिणोक्तो महा-मुनिः ।
दण्डवन्-नमनं चक्रे कृत-अञ्जलि-पुटो ऽस्तुत ।
वेदैश् शास्त्रैः पुराणैश् च स-इतिहास-आगमैर् अपि ।
वरयामास वरदं वरान् स्व-मनसेप्सितान् ।
देवदेव-अरविन्दाक्ष श्रीमद्-धस्ति-गिरीश्वर ।
विमानं कल्पयित्वा त्वं वासम् अत्र कुरु प्रभो ।
कल्पान्तं च दिदृक्षूणां सर्व-इष्ट-फलदो भव!
एतत्-काञ्ची-पुर-समं स्थानं स्यात् सर्वतो वरम् ।
काञ्चीं दक्षिण-संज्ञां च वदन्तु दिवि देवताः ।
अस्यां वै पूर्णिमायां तु ये कुर्वन्ति च दर्शनम् ।
एतत्-स्थानं समागत्य काञ्ची-सेवा-फलादिकम् ।
प्राप्नुवन्तु मनोभीष्टान् मम मोक्ष-प्रदो भव ।
त्वद्-धस्त-गदया तीर्थं कुरुष्व अत्र रमापते ।
तथा अस्तु इति वरान् दत्त्वा तीर्थं तत्र तथातनोत् ।
स्वस्य दक्षिण-दिग्-भागे कावेर्याश् च उत्तरे तटे ।
गदा-तीर्थम् इति ख्यातं जगद्-द्रुहुत-नाशनम् ।
ये स्नान्ति च नरा भक्त्या गदा-तीर्थे सुपावने ।
गङ्गा-स्नान-अच्-छत-गुणं प्राप्नुवन्ति इति सो ऽवदत् ।
ततस् तेन अर्चितो देवः श्रीमद्-धस्ति-गिरीश्वरः ।
क्वचित्-कालं च तत्रैव ततस् तस्य महा-मुनेः ।
स्व-सायुज्यं ददौ श्रीमांस् ततः प्रभृति नारद ।
कुम्भघोण-आह्वयं क्षेत्रं क्षेत्राणाम् उत्तमोत्तमम् ।
कञ्चीपरं दाक्षिणं च विदुर् देवास् सुरर्षयः ।
गदा-तीर्थे तु या स्नाति चैत्रे वै पौर्णमादिने ।
गङ्गा-स्नान-समं पुण्यं प्राप्नुवन्ति न संशयः ।
चैत्रायां पौर्णमायां तु ये कुर्वन्ति महोत्सवम् ।
वरदस्य महा-विष्णोस् ते भवन्ति सुरा दिवि ।
तद्-उत्सवस्य निर्वाही मण्डलाधिपतिर् भवेत् ।
दृष्ट्वा तद्-उत्सवस्य अपि योगीशो जायते ध्रुवम् ।

[[P92]] तद्-उत्सव-अनमन्ते च यक्ष-राज-सखा भवेत् ।
तस्मात् तच्-छेत्र-उत्तमं पुण्यं कुम्भघोणं सुरालयम् ।
यत्र पूर्वं रमानाथः श्रीमद्-वैकुण्ठ-नायकः ।
कुम्भघोणे महा-क्षेत्रे सर्व-सिद्धि-प्रदायके ।
सुराणां कार्य-सिद्ध्यर्थं जगद्-रक्षण-हेतवे ।
दश-अवतारम् अकरोत् दश-वारं पुनः पुनः ।
तस्माद् विष्णु-प्रियं पुण्यं क्षेत्रं तेजोमयं शुभम् ।
श्री-कुम्भघोणे वसतान् नराणां
किम् अस्ति वक्तव्य-फलं शुभं च ।
नमन्ति देवा मुनयश् च यक्षाः
गन्धर्व-मुख्यास् स ततन्-मुनीश्वर ।
इति श्री-भविष्योत्तर-पुराणे अष्ट-पञ्चाशो ऽध्यायः


षोडशः परिच्छेदः
सुदर्शन-वैभवम्

ब्रह्मोवाच-
भूयो वक्ष्यामि माहात्म्यं चक्र-तीर्थस्य नारद ।
पितॄणां श्रवणाद् एव ना रयति आत्मजो भुवि ।
चक्र-तीर्थं महा-पुण्यं सर्व-अघौघ-निवारणम् ।
तत्र स्नानं विशिष्ट्योक्तं तुला-संक्रमणे दिने ।
स्नान-दाने जप-आदि-अपि च श्राद्धे चैव विशेषतः ।
चिन्तनीयश् चक्र-पाणिः सर्व-अघौघ-विनाशनः ।
सर्व-कर्म-सुपूर्णं स्यात् सत्यं सत्यं हि नारद ।
तस्य संकीर्तनाद् एव चक्रपाणेः मुनीश्वर ।
सांराज्यम् अतुलं धत्ते छत्र-चामर-शोभितम् ।
सर्वेषाम् अपि तीर्थानां चक्र-तीर्थं महत्तमम् ।
कवेर-तनया यत्र नित्यम् अर्च्यते हरिम् ।
सिद्धास् साध्यास् तथा यक्षाश् चारणाः पन्नगेश्वराः ।
ऋषयश् च महात्मानो गन्धर्वाः किन्नरास् तथा ।
विद्याधराश् च सततं तत्-तीर्थ-परिरक्षिणः ।
अघर्षण-काले तु सुदर्शन-वपुर् हरेः ।

“ अभ्यन्तर-स्फुरज्-ज्वाला-माला-पल्लव-भीषणम् ।
प्रचण्ड-भुज-सङ्घात-गृहीत-विविधायुधम् ।

[[P93]] दंष्ट्रा-कराल-वदनं ज्वलच्-छमश्रु-शिरोरुहम् ।
त्रि-नेत्रं दीन-रक्षैक-दीक्षा-लक्षण-विग्रहम् ।
ज्ञात्वा विधित तन्-मन्त्रः तप्त-कृच्छ्र-विदां वरः ।
प्रमुच्यते तत्-क्षणातः पातकैर् उप-पातकैः ।
लुब्धकैश् चक्र-तीर्थे स्नाति यो विधि-पूर्वकम् ।
पितरस् तस्य तृप्यन्ति यावद् आभूत-सम्प्लवम् ।
अत्रैव भास्कर-क्षेत्रे चक्र-तीर्थस्य सन्निधौ ।
करिष्यत्य् अद्य वपनम् असौ मद्-गोत्र-सन्ततिः ।
इति तत्र समेतास् स्युः प्रीतास् तस्य पितामहः ।
अकृत-क्षौरम् आलोक्य शापं दत्वा अतिभीषणम् ।
यथा-यायं प्रयास्यन्ति पापि-आत्मा सुत जायते ।
चक्र-तीर्थ-अन्तिके केशा यावत् सन्ति अवरोपिताः ।
पितरस् तस्य तृप्यन्ति तावतो दिवि वत्सरात् ।
इति शास्त्र-विधः केचित् वदन्ति मुनि-पुङ्गवाः ।
ढाकिनी-भूत-रक्षांसि चक्र-तीर्थ-जल-आप्लुतम् ।
ज्वलन्तम् इव पश्यन्ति धावन्ति च ततस् ततः ।
श्राद्ध-कृत् भास्कर-क्षेत्रे चक्र-तीर्थ-समीपतः ।
पुत्रः कदानो भवितेति आशंसन्ति पितामहाः ।
प्राज्येन आज्येन मधुना परम-अन्नेन भूरिणा ।
तर्पिताः पितरो यस्य सफलं तस्य जीवितम् ।
श्राद्धेन तर्पितास् तत्र पितरो गुण-वत्तमान् ।
पुत्रान् आयुष्म-आरोग्यं प्रयच्छन्ति च मङ्गलम् ।
वैकुण्ठेश-प्रसादेन लोक-अनुग्रह-काम्यया ।
प्रेषितं हस्त-चक्रं च हस्तगो ऽभूत् स्वयं भुवः ।
तं दृष्ट्वा शान्त-मनसा यज्ञस्य अन्ते स पूजयत् ।
सर्वेषाम् उपकाराय भविष्यत्-कारणाय च ।
स्नान-काले च सर्वेषाम् अघर्षण-नायकम् ।
चक्रं ज्ञापयितुं ब्रह्मा कावेर्यां मुनि-सत्तम ।
स्थापयामास यच् चक्रं तत्-तीर्थं चक्र-संज्ञकम् ।
तद् एतत् चक्र-रूपं तु प्रेषितां शार्ङ्गपाणिना ।
ब्रह्मणा स्थापितं त्व् आरात् साम्प्रतं चोदभून् मुने ।
किम् इदं त्व् अद्भुतं तेजस् तेजसो हि अधिकं मम ।
सहस्रेण कराणां मे निर्दहेयं हि अकरैः ।
इत्य् एवं चिन्तयन् तानुस् निज-भानुश् च सर्वशः ।
मेने च मुनि-शार्धूलः कल्प-क्षय इव उदितः ।
सुदर्शनो ऽपि तं दृष्ट्वा प्र-भा-जालं विवस्वतः ।
तत्-सहस्र-अधिकं तेजो विससर्ज महाद्भुतम् ।
सुदर्शनस्य ज्वालाभिः भास्करस्य अपि तेजसा ।
तापयक्तुं जगत् सर्वं मुमोह च समन्ततः ।
मोहिते सकले लोका देव-दानव-पूर्वके ।
माम् एत्य सत्य-लोकस्थम् ऊचुर् गद्गदया गिरा ।
तेजोभिर् उग्रैस् सन्तप्ताः सुदर्शन-विवस्वतोः ।

[[P94]] सर्वे प्रव्यथिता लोकास् तच्-छान्तिः क्रियताम् इति ।
तेषां तद्-वचनं श्रुत्वा विस्मितो ऽहं तदा मुने ।
तत्साधम् अगमं तु यत्र चक्र-अर्क-जृम्भणम् ।
नेह तौ जग्मतुश् शान्तिं मत्-सान्त्व-वचनैश् शुभैः ।
मम अभ्यर्थनया पूर्वं मद्-अनुग्रह-कांक्षया ।
शान्तम् आसीद् विष्णु-चक्रं वह्नि-अर्क-अमित-तेजसम् ।
ततस् सुदर्शनस्य अपि प्रभया निहत-प्रभः ।
मन्द-रश्मिर् अभूत् सूर्यो निःसत्त्वो ऽभूत् क्षणेन तु ।
तदानीम् एव निस्तेजाः क्षीण-गर्वः प्रशान्त-धीः ।
सुदर्शनं महा-दीप्तं स्तोतुम् एवं प्रचक्रमे ।
सुदर्शन महा-ज्वाल प्रसीद जगतः पते ।
तेजो-राशे प्रसीद त्वं कोटि-सूर्य-अमित-प्रभ ।
अज्ञान-तिमिर-ध्वंसिन् प्रसीद परम-अद्भुत ।
सुदर्शन नमस् ते अस्तु देवानां त्वं सुदर्शन ।
असुरानां सु-दुर्दश पिशाचानां भयंकर ।
भञ्जकाय नमस् ते अस्तु सर्वेषाम् अपि तेजसाम् ।
शान्तानाम् अपि शान्ताय घोराय च दुरात्मनाम् ।
चक्राय चक्र-रूपाय पर-चक्र-प्रमाथिने ।
हेतये हेति-रूपाय हेतीनां पतये नमः ।
कालाय काल-रूपाय काल-चक्राय ते नमः ।
उग्राय चोग्र-रूपाय क्रुद्ध-उल्काय नमो नमः ।
सहस्र-आराय शूराय सहस्र-अक्षाय ते नमः ।
सहस्र-अक्षादि-पूज्याय सहस्र-शिरसे नमः ।
ज्योतिर्-मण्डल-रूपाय जगत्-त्रितय-धारिणे ।
त्रि-नेत्राय त्रयी-धाम्ने नमस् ते अस्तु त्रि-रूपिणे ।
त्वं यज्ञस् त्वं वषट्कारः त्वं ब्रह्मा त्वं प्रजापतिः ।
त्वम् एव वह्निस् त्वं सूर्यस् त्वं वायुस् त्वं विशां पतिः ।
आदि-मध्य-अन्त-शून्याय नाभि-चक्राय ते नमः ।
ज्ञान-विज्ञान-रूपाय ध्यान-ध्येय-स्वरूपिणे ।
चिद्-आनन्द-स्वरूपाय प्रकृतेः पृथग्-आत्मने ।
चर-अचराणां भूतानां सृष्टि-स्थित्य्-अन्त-कारिणे ।
सर्वेषाम् अपि भूतानां त्वम् एव परमागतिः ।
त्वयैव सर्वं सर्वेश भासते सकलं जगत् ।
त्वदीयेन प्रसादेन भास्करास्मि सुदर्शन ।
त्वत्-तेजसां प्रभावेन मम तेजो हतं प्रभो ।
भूयस् सहस्व तेजस् त्वम् अविषह्यं सुरासुरैः ।
त्वत्-प्रसादाद् अहं भूयो हविष्यामि प्रभान्वितः ।
क्षमस्व ते नमस् ते अस्तु अपराधं कृतं मया ।
भक्त-वत्सल सर्वेश प्रणमामि पुनः पुनः ।

[[P95]] इति स्तुतो भानुमता सुदर्शनो हत-प्रभेणाद्भुत-दाम-वैभवः ।
शशाम धाम्ना अतिशयेन धाम्ना सहस्र-भानौ कृपया प्रसन्नः ।
इति भविष्योत्तरे षष्टितमो ऽध्यायः


सप्तदशः परिच्छेदः
सुदर्शन-वैभवम्-२

ब्रह्मोवाच-
तस्मिन्न् अवसरे शौरिः निद्राणः फणि-पुङ्गवे ।
सूर्यस्य नेत्र-भूतस्य संक्षोभेण प्रबुद्धवान् ।
प्रबुद्धं तं ततो देवं श्री-भूमि-सहितं मुने ।
दृष्ट्वा प्रणम्य च स्तुत्वा देवा ऊचुर् मया सह ।

देवाः-
भगवन् देवदेवेश शार्ङ्गपाणे जगत्-पते ।
सुदर्शन-प्रभावेन मन्द-रश्मिर् असौ रविः ।
त्वत्-प्रसादाद् अयं भूयो भानुभानुसयतां जगत् ।
नोचेद् इदं जगत् सर्वम् अन्धकार-आवृतं भवेत् ।
इति विज्ञापितो देवैः शार्ङ्गपाणिर् अधोक्षजः ।
प्रणतं दण्डवद् भूमौ भास्करं तम् अभाषत ।
हे भानो भानुमद्-वात भग्नो ऽसि मम हेतिना ।
गर्वो हि गौरवं हन्ति प्राभवं सम्पदं तथा ।
तस्माद् गर्वं परित्यज्य साधु-मार्गे स्थितो भव ।
तद्-दोष-शमनार्थाय कवेर-तनया-तटे ।
सुदर्शन-समीपस्थस् तपश् चर समाधिना ।
स्नात्वा तत्-तीर्थ-संशुद्धो नियमेन तपश् चर ।
तपः-प्रभावाद् भूयो ऽपि भास्करत्वं प्रयास्यसि ।
तपश्चरण-युक्तेन भवता भानुम् उन्निह ।
उषित्वा तद् इदं क्षेत्रं त्वन्-नाम्ना विश्रुतं भवेत् ।
इति सर्वेश्वरेणैवं भोदितो भास्करस् तदा ।
प्रसीद इति प्रणम्य एनं तपस् तप्तुं प्रचक्रमे ।
सह्य-रूपं समास्थाय मनसौ भावयन् हरिम् ।
श्रीमद्-अष्टाक्षरं मन्त्रं द्वादशाक्षर-संयुतम् ।
जपन्न् एव चिरं कालं तपस् तीव्रं प्रभाकरः ।
ततः प्रसन्नो भगवान् चक्र-रूपी जनार्दनः ।
प्रभाकरस्य तपसा सन्तुष्टो भगवान् हरिः ।
आविर्बभूव पुरतश् चक्र-मध्ये दया-निधिः ।
तं दृष्ट्वा प्रणिपत्यैव तुष्टाव परया मुदा ।

[[P96]]

देवदेव जगन्-नाथ नमस्ते भक्त-वत्सल ।
प्रपन्नं पाहि मां विष्णो कृपया पुरुषोत्तम ।
अपराधं क्षमस्व अद्य मय-अज्ञान-कृतं प्रभो ।
त्वां विना शरणं नास्ति त्वम् एव शरणं मम ।
इति संस्तूय देवेशं मनसा ध्यानवान् विभुम् ।

चक्र-अम्भुजे समासीनं चक्र-आद्य-आयुध-भूषणम् ।
चक्र-मन्त्र-अधि-देवेशं चक्र-राजम् अहं भजे ।
सर्व-अवयव-सम्पूर्णं अष्ट-बाहुं त्रिलोचनम् ।
दंष्ट्रा-कराल-वदनं भयस्य अपि भयंकरम् ।
उग्र-पिङ्गल-केश-आढ्यं ज्वाला-माला-परिष्कृतम् ।
अप्रदृश्यम् अनिर्देश्यं ब्रह्माण्ड-व्याप्त-विग्रहम् ।
अष्ट-आयुध-परीवारं अष्ट-शक्ति-समन्वितम् ।
अष्टारं चक्रम् अत्युग्रं मुसलं च अङ्कुशं तथा ।
पद्मं दक्षिण-पार्श्वे तु चतुर्भिर् बाहुभिर् वृतम् ।
वामतश् शङ्ख-सशर-चाप-पाश-गदा-धरम् ।
रक्त-वस्त्र-धरं देवं रक्त-माल्य-उपशोभितम् ।
रक्त-चन्दन-लिप्ताङ्गं रक्त-माला-विभूषितम् ।
दिव्य-रत्न-विचित्रेण मुकुटेन विराजितम् ।
दुष्ट-निग्रह-कर्तारं भक्त-अनुग्रह-रूपिणम् ।

सुदर्शन-अभिधानं तम् स्वात्मनो ऽभिमुखं स्मरन् ।
अव्यात् भा भास्कर-स-प्रभाभिर् अखिला
ब-आविर्-दिश्-शब्दो भासयन् ।
भीम-अक्ष-स्फुरद्-अट्टहास-विलसद्-दंष्ट्रः प्रदीपननः ।
दोर्भिश् चक्र-धरौ गदा-अब्ज-अम-सुलान् शार्ङ्गं च पाश-अङ्कुशौ ।
बिभ्रत् पिङ्ग-शिरोरुहो ऽति-धवलश् चक्रा-
विधानो हरिः ।
मध्याह्न-सूर्य-प्रतिम-प्रकाशं
पिशङ्ग-केशं स्फुरद्-अट्टहासम् ।
त्रि-रूप-दीप्त-अम्बरम् उग्रम् ईडे
चक्रे स्थितं चक्रिणम् अष्ट-बाहुम् ।

कल्पान्त-अर्क-प्रकाशं
त्रि-भुवनम् अखिलं तेजसा पूरयन्तम् ।
रक्त-अक्षं पिङ्ग-केशं रिपु-कुल-
दहनं भीम-दंष्ट्राट्टहासम् ।
शङ्खं चक्रं गदा-अब्जं
पृथु-धुरम् असुलं चाप-पाश-अङ्कुश-आदीन् ।
बिभ्राणं दोर्भिर् ईड्यं मनसि मुर-रिपुं
भावयेत् चक्र-संस्थम् ।

त्रि-नेत्रं चतुश्-चक्र-संशोभि-हस्तं स्थितं तं
च पङ्केरुहे योग-पीठे ।
महोग्र-आकृतिं काल-विद्युत्-सकाशं नृसिंहं
भजे चक्र-पश्चात् सु-संस्थम् ।

[[P97]] एवं स्तुतो देवदेवो भास्करेण महात्मना ।
ततः प्रसन्नो भगवान् चक्र-रूपी जनार्दनः ।
शार्ङ्गपाणेर् अभिन्नो ऽसौ सर्व-लोकैक-मङ्गलः ।
यत्-तेजसा वृतं पूर्वं तत् तस्मै दत्तवान् पुनः ।
ततस् तु भास्कऱो भूयः पूर्ववत्-तेजसांन्वितः ।
सर्वान् भासयते लोकान् परितो मेरुम् आस्थितः ।
तत एव हि तत्-क्षेत्रं भास्कर-क्षेत्रम् उच्यते ।
आविर्बभूव कावेर्यां यत्र तीर्थे सुदर्शनः ।
तदा प्रभृति तत्-तीर्थं चक्र-तीर्थम् इति स्मृतम् ।
ये चक्रपाणिं सेवन्ते पूजयन्ति च चक्रिणम् ।
नमस्यन्ति प्रतिदिनं ते ऽभीष्टान् प्राप्नुवन्ति हि ।
नृणां सांराज्य-दाने तु चक्री तिष्ठति सर्वदा ।
यं यं कामयमानाश् च सेवं कुर्वन्ति चक्रिणः ।
तं तमाशु प्राप्नुवन्ति न अत्र कार्य-विचारणा ।
पुत्र-कामुक-तरा नारी मुनि-व्रत-परायणा ।
आर्द्र-वस्त्रान्विता स्नात्वा कावेर्यां चक्र-तीर्थके ।
निशाकं कुङ्कुम-लेपाढ्या करोति च प्रदक्षिणम् ।
मण्डल-अन्तं तद्-अर्धं वा नियमेन समन्विता ।
दीपम् एकं समुज्ज्वाल्य घृत-आक्तं चक्रिणः पुरा ।
तम् एवं चिन्तयित्वा तु गृहम् आगत्य वै सती ।
पायसं भोजयित्वा तु ह्य् एक-वारम् अतन्द्रिता ।
ताम्बूलं लवणं चैव तित्त्रिणी मधुरं तथा ।
परान्नं चैव गन्धं च पुष्पं शाकं तथैव च ।
खड्ग-आदिकं वर्जयित्वा मण्डल-अन्तं तद्-अर्धकम् ।
तद्-अर्धं वा अपि कुरुते स्मर-उपम-सुतं लभेत् ।
सङ्कल्प-अन्तं प्रतिदिनं कुर्यात् काल-द्वये ऽपि च ।
सेवां श्रीमच्-चक्रपाणेः दीर्घम् आङ्गल्यम् अश्नुते ।
भर्तुर् आरोग्य-कामास् तु स्व-आयुर्-आरोग्य-वृद्धये ।
भ्रान्धव्-आरोग्य-कामा वै कन्य-अर्थी कीर्ति-कामुकः ।
धन-अर्थी वा ज्ञान-कामः भक्ति-वैराग्य-कामुकाः ।
निर्धनस् स-धनो वा अपि स्त्रियो वा पुरुषा अपि ।
पूर्ववन् नियमेन एव सेवां कुर्वन्ति चक्रिणः ।
स्व-स्व-अभीष्टान् प्राप्नुवन्ति सत्यं सत्यं न संशयः ।
निगडे राज-बन्धे वा विदेश-आगम-हेतुतः ।
सेवां कुर्वन्ति भक्त्या तु चक्रपाणेर् मुनीश्वर ।
सप्त-रात्रात् प्राप्नुवन्ति मनोभीष्टान् न संशयः ।
क्षय-अपस्मार-कुष्ठादि-रोगाढ्या ये च मानुषाः ।
स्व-अङ्ग-प्रदक्षिणं कृत्वा वीक्ष्यां वै चक्र-पाणिनः ।
सप्त-रात्रं चैव-आरं मण्डल-अन्तं मुनीश्वर ।
तत्-तद्-रोगाद् विमुक्तास् स्युश् चक्रिणोक्ताम् अनु एव तु ।
तुलसी-कोमलैः पत्रैः पुष्पाणि सुरभीनि च ।
यश् च अर्चनां प्रकुर्वीत यश् च अर्पयति चक्रिणः ।

[[P98]] ताव् उभौ चक्रिणो लोकं यास्यतो न अत्र संशयः ।
पायसं चक्र-राजाय यो ऽर्पयेत् पुत्र-कामुकः ।
सुपुत्रं लभते शीघ्रं पितृ-भक्तं जितेन्द्रियम् ।
दध्य्-अन्नं चैव नैवेद्यं यः करोति च चक्रिणः ।
मृत-अपत्याख्य-दोषेण मुक्तो भवति न अन्यथा ।
माषापूपं गुलापूपं यो ऽर्पयेच् चक्रिणः प्रभोः ।
सर्व-सिद्धिम् अवाप्नोति सत्यम् एव न च अन्यथा ।
यः कैङ्कर्य-परो मर्त्यश् चक्र-पाणेर् महा-प्रभोः ।
अष्ट-ऐश्वर्यम् अवाप्नोति पुत्र-पौत्र-आदि-सम्पदः ।
सम्प्राप्य मोक्षम् अन्ते च दीप-तस्-सम्पदस् तथा ।
सायं प्रातः प्रतिदिनं भक्त्या सन्दर्शनं चरेत् ।
स देव-अंशो न सन्देहः किम् उताखिल-सम्पदः ।
वैशाख्यां पूर्णिमायां तु चक्र-रूपी हि अधोक्षजः ।
दया-मूर्तिः कुलीरे तु प्रत्योक्षो ऽभूद् विवस्वतः ।
तेन एव च प्रभादत्त तस्मिन्न् एव शुभे दिने ।
ततः सन्तुष्ट-मनसा भास्वानालय-बन्धनम् ।
कारयित्वा चक्र-राजम् अनुज्ञाप्य यथा-विधि ।
चित्र-गोपुर-शोभाढ्ये मण्टप-अनेक-संयुते ।
चित्र-ध्वज-पताकाढ्ये वाहन-अन्दोलिक-अन्विते ।
चित्र-स्यन्दन-शोभाढ्ये चक्र-राज-आलये शुभे ।
ध्वज-स्तम्भं स्थापयित्वा तेजोमय-विमानगम् ।
चक्र-पाणिं स्थापयित्वा सन्निधौ तस्य वै प्रभोः ।
वैशाखे शुक्ल-पक्षे च तिष्य-नक्षे पुण्य-दायके ।
समेत-सुर-संघैश् च महा-विभव-विस्तरैः ।
ध्वजम् आरोपयामास पाञ्चरात्र-विधानतः ।
वाहन-अन्दोलिकाद्यैश् च नव-आह-उत्सवम् आतनोत् ।
नित्य-अन्न-दान-निचयैर् भव्य-भोज्य-रस-उत्करैः ।
ब्राह्मणान् तोषयामास पानकैश् शीतलादिभिः ।
नवमे दिवसे प्राप्ते रथ-उत्सवम् अथ तनोत् ।
ततो ऽवरुह्य देवेशं विभवैश् च अपि सर्वशः ।
निनाय चक्र-तीर्थस्य रोधसि स्थाप्य चक्रिणम् ।
विधिना पूजयित्वा तु कावेर्यां चक्र-तीर्थके ।
विबुध-इन्द्रैस् समायुक्तो देवेन सह मज्जनम् ।
चकार चक्र-तीर्थे तु चक्र-पाणिं ततो ऽर्चयत् ।
ब्राह्मणान् पूजयित्वा तु तस्मिन्न् अवभृथे दिने ।
ततो वरान् च प्रददौ दिवा-नाथो मुनीश्वर ।
अस्यां वैशाख-पूर्ण्याम्यां देवेन सह मज्जनम् ।
कुर्वन्ति ये चक्र-तीर्थे चक्र-पाणिः प्रसीदतु ।
यो ऽत्सवं कुरुते मर्त्यो मत्-कृतं जीर्णम् उद्धरेत् ।
सुरेश-पदम् आप्नोति पितृभिस् सह न अन्यथा ।
यो ऽत्सवस्य हि निर्वाही स देवो भवति ध्रुवम् ।
यो ऽस्यां वैशाख-पौर्णम्यां चक्र-पाणिं च पूजयेत् ।

[[P99]]

स देवो भवति क्षिप्रं पायसं यो निवेदयेत् ।
पायसं चन्द्र-संकाशं गोधूम-कणिक-उद्भवम् ।
गो-क्षीरेण तथा पक्वं श्वेत-शर्करयान्वितम् ।
एला-अन्विता चक्रपाणेः द्रोण-त्रयम् इदं शुभम् ।
वैशाख्यां पूर्णिमायां च सो ऽविच्छिन्नां श्रियं लभेत् ।
भृगु-भौम-अर्क-वारेषु पुण्य-कालेषु वा नरः ।
पूर्व-उक्त-विधिना कृत्वा पायसं चक्रपाणये ।
यो ऽर्पयेत् तस्य वशगः चक्रपाणिर् भविष्यति ।
न चक्रपाणेः सदृशो हि देवः
कोवास्ति लोके वर-दान-दीक्षितः ।
नृणां सुराणाम् अपि कुम्भ-घोणे
वसत्य् अहो [[कल्पद्रुमगोपमो|कल्पद्रुमोपमो]] मुने ।

इति भविष्योत्तरे एकषष्टितमो ऽध्यायः


चक्रतीर्थस्य माहात्म्यम्

ब्रह्मोवाच- शृणु नारद वक्ष्यामि चक्र-तीर्थस्य वैभवम् ।
यस्य [[सस्मरणादेव|संस्मरणाद् एव]] पितॄणाम् अनृणो भवेत् ।
ऐशान-तीर्थ-वर्यस्य प्रतीच्यां हि मुनीश्वर ।
काश्यप-आख्यं प्रकुर्वन्ति तेषां वै निरया गतिः ।
कुम्भ-घोणे मृता यान्ति यत्र-कुत्र-अपि वा मुने ।
चक्र-तीर्थ-तटाद् अन्य-स्थानेषु भुवि मानवाः ।
[[कालानन्तप्रकुर्वन्ति|कालेन अनन्तरं कुर्वन्ति]] प्रेत-कृत्यं सुता अपि ।
पितॄणां निरयं घोरं प्रापयन्ति इति निश्चयः ।
निर्धनाः स-धना वा अपि विधिना कारयन्ति ये ।
चक्र-तीर्थ-तटे पुण्ये वैकुण्ठं प्रापयन्ति अलम् ।
विधि-हीनेन वा यस् तु पर्यायेण अपि नारद ।
[[कालना|कालेन]] प्रेत-कृत्यं वा चक्र-तीर्थे तटे परे ।
सुगतिर् न अत्र सन्देहः सत्यं सत्यं हि न अन्यथा ।
चक्र-तीर्थ-तटे पुण्ये स्नात्वा भक्ति-समन्वितः ।
केशान् वपति यः पुत्रः स कोटि-कुलम् उद्धरेत् ।
स्व-केशान् वापयित्वा तु चक्र-तीर्थे निमज्य च ।
धृत-ऊर्ध्व-पुण्ड्रस् तत्रैव सम्यग् आचम्य वाग्-यतः ।

[[P100]]

हेम-श्राद्धं तथा कृत्वा उपवास-परस् तथा ।
द्वादश-आलय-संस्थांश् च नत्वा दृष्ट्वा विधानतः ।
समभ्यर्च्य स्व-विभवैः शिव-विष्णू विशेषतः ।
निशि-जागरणं कृत्वा चक्र-ईशस्य अग्रतो मुने ।
प्रभाते तु पुनः स्नात्वा श्राद्ध-कर्म विधानतः ।
स्व-शक्त्या कुरुते यस् तु स कोटि-कुलम् उद्धरेत् ।
क्षेत्रे श्राद्धं न कुर्वन्ति अर्थ-लोप-भिया नरः ।
कुम्भघोण-आह्वये क्षेत्रे पितॄणां तारणाय च ।
ते प्रापयन्ति स्व-पितॄन् निरयान् एव न अन्यथा ।
क्षेत्रे श्राद्धानि अनन्तानि कृत्वा अन्यत्र मुनीश्वर ।
चक्र-तीर्थे न कुर्वन्ति वृथा तानि व्रजन्ति हि ।
चक्र-तीर्थ-तटे कृत्वा पितृ-श्राद्धं विधानतः ।
अकृत्वा वा अपि च अन्यत्र व्रजन्ति हरिम् एव ते ।
ये अत्र दानं प्रकुर्वन्ति ब्रह्म-पिप्पल-मूलके ।
त्रि-कोटि-कुलम् उत्तार्य ब्रह्म-लोकं व्रजन्ति ते ।
काल-अतीताश् च या नार्यश् चक्र-तीर्थ-तटे शुभे ।
केश-लोपं प्रकुर्वन्ति, अथ तारयन्ति अन्तः पतींश् च ताः ।
अ-लुप्त-केशा या नार्याः कुम्भ-घोणे वसन्ति हि ।
पति-हीनाः सौख्य-हेतोर् [[दुर्वेश्यास्ता|दुर्भगस्ता]] भवन्ति हि ।
वृष-उत्सर्गं तु यः कुर्यात् चक्र-तीर्थे तटे शुभे ।
स पितॄन् तारयत्य् अद्धा सत्यं मद्-वचनं मुने ।
अ-गतीनां मृतानां तु दत्त्वा द्रव्याणि पुण्य-धीः ।
प्रेत-कृत्यं कारयति चक्र-तीर्थे तटे तु यः ।
कुलं च एकोत्तर-शतं तारयत्य् एव न अन्यथा ।
धर्म-मार्ग-एक-निरता ये नरास् तत्र नारद ।
साधकाः प्रेत-कृत्येषु ते यान्ति हरि-मन्दिरम् ।
दुष्ट-दानं दुर्-भोजनं दुष्ट-सङ्गं दुष्ट-वाक्यम् अलापयति इह मानवः ।
स चक्र-तीर्थे विनिमज्य तौले दर्शं सकृद् वा अपि हरिं समाप्नुयात् ॥

इति भविष्योत्तरे द्विषष्टितमो ऽध्यायः ।


१९ फलश्रुतिः**

शार्ङ्गपाणिं कोमल-अम्बां च चक्रपाणिं सुख-प्रदाम् ।
नमन्ति पूजयन्ति स्म न तस्य अस्ति समो नरः ।
वर-सुकृतिनां यो ऽसौ नित्य-सेवा-परायणः ।
[[अभिषक्तुं|अभिषेक्तुं]] महा-क्षेत्रं वरम् एतद् अनुत्तमम् ।

[[P101]]

सृष्ट्य्-आदौ कमलस्थस्य देवदेवस्य सन्निधौ ।
मात्रा लक्ष्म्या मम प्रोक्तं मत्-पुत्रत्वात् प्रकाशितम् ।
गोप्याद्-गोप्यतरं पुण्यं न अभक्ताय प्रकाशयेत् ।
शिष्याय शुद्ध-मतये मनस् संशोध्य कालतः ।
वक्तव्यम् एतन् माहात्म्यं शुभं विष्णोः प्रिय-आस्पदम् ।
कात्स्न्येन न मया वक्तुं शक्यं वै वर्ष-कोटिभिः ।
लेश-अंशेन मया प्रोक्तं तव माहात्म्यम् उत्तमम् ।
कुम्भघोणस्य माहात्म्यं नित्यं भक्तियुतो नरः ।
यः पठेच् छृणुयाद् वा अपि सर्व-पापैः प्रमुच्यते ।
पुराण-ज्ञं पुराणांते वस्त्रैर् आभरणैः शुभैः ।
गन्ध-पुष्पैस् तथा वित्तैर् यः पूजयति भक्तितः ।
स याति परमं स्थानं योगिनाम् अपि दुर्लभम् ।
इह अभीष्टान् विन्दति स्म यशो-ज्ञानं सु-दुर्लभम् ।
य एतत् कुम्भघोणस्य माहात्म्यं शृणुयान् नरः ।
अग्निष्टोम-फलं तस्य गङ्गा-स्नान-अधिकं फलम् ।
नित्य-अन्न-दानं यः कुर्यात् दुर्भिक्षे भुवि मानवः ।
गङ्गायां शत-वर्षं तु तत्-फल-श्रवणात् सकृत् ।
कुम्भघोणस्य माहात्म्यं शृणुयाद् यस् तु भक्तितः ।
षडङ्ग-समवेतानां श्रुतीनां च दिने दिने ।
यत्-फलं समवाप्नोति तत्-फलं श्रवणात् सकृत् ।
द्वा-सप्तति-महा-कोटि-मन्त्राणां फल-दायिनाम् ।
तत्-फलं समवाप्नोति श्रवणाद् अस्य न अन्यथा ।
सर्व-दानेन यत्-पुण्यं सर्व-तीर्थेषु यत्-फलम् ।
तत्-फलं समवाप्नोति माहात्म्य-श्रवणात् सकृत् ।
लिखितं पुस्तकं यस्य गृहे तिष्ठति पूजयेत् ।
न तस्य सदृशो लोके महा-विष्णोः प्रिय-आस्पदः ।
अहं सुरेन्द्रैर् अपि सिद्ध-संघैर्
मुनीन्द्र-वर्यैस् स-कलत्र-वर्गैः ।
सु-पुत्र-संघैर् अपि भक्ति-संयुतः यास्ये
महा-माघ-कृते मुनीन्द्र ।
इति ईरितं मङ्गल-वैभवं च
श्री-कुम्भघोणस्य च कञ्ज-जेन ।
श्रुत्वा महा-भक्तिभिर् अभियुक्तो
नत्वा विधिं मोद-भरो बभूव ।
श्रुत्वैतिहासं परम-अर्थ-सिद्धिदं विष्णोः
परस्य अभि-महा-विभूतिम् ।
महार्ह-वस्त्र-आभरणैस् सु-पूज्य तं
सूतं मुनीन्द्राश् शुभ-मङ्गलैर् हि ।

इति भविष्योत्तरे चतुःषष्टितमो ऽध्यायः ।

[[P102]]

इति श्री-रामाभट्टाचार्य-संगृहीत
श्री-भविष्योत्तर-पुराणे
श्री-कुम्भघोण-माहात्म्ये
श्री-शार्ङ्गपाणि-स्वामि-
तिरुमामाणि-मण्डप-वैभवानि सम्पूर्णम् ।



इति श्रीपाञ्चरात्रपञ्चामृतम्
(मण्डपानां वैभवाः) सम्पूर्णम्


[[P103]] (Blank Page)

[[P104]]

Books Published by Kriyasagaram for free of cost with Bagavat and Bagavata Krupa

Volume Contents
1 Vasudeva Punhavachanam, Thiruaradhanam, Agnikaryam, Mahotsavam and Cakrabjamandala puja vidhi
2 Prathista vidhi
3 Vacanasaram (I) – Pramanas of Thiruaradhanam
4 Vacanasaram (II) - Pramanas of Mahotsavam
5 Archana (Namavali) of various divyadesa perumal
6 Dhyana sloka ratnavalai
7 Kriyakairava chandrika (I)
8 Kriyakairava chandrika (II)
9 Snapana Vidhi
10 Paramapurusha Samhitha
11 Bruhadbrumha Samhitha
12 Sriranga Mahatmyam(I)
13 Sriranga Mahatmyam(II)
14 Panchamrutham
15 Panchakala prakriya
16 Thula Kaveri Mahatmyam