पंचकाल-प्रक्रिया

Kriyasagaram Volume - 15 

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[1]]

श्रीः

श्रीमतेरामानुजायनमः

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

(नित्यकर्मानुष्टान विधिः)

श्रीसुदर्शन नृसिह्म ध्यानम्

बिभ्राणं शक्तिखड्गं ज्वलमथसृणिं दन्तकुन्तौ कुठारौ।

शङ्खं चक्राब्जपाशान् हलमुसलगदा खेटशूलांश्च दोर्भिः।

प्रत्यालीडं समीडे त्रिनयनमरुणे पिङ्गकेशं सु दंष्ट्रम्।

देवम्पश्चार्धयोगासनलसित चतुश्चक्र भास्वन्नृसिह्मम्।

एकायनवेदस्य लक्षणम्

एकायनवेदस्य कार्तयुगधर्मत्वम्

मूलभूतस्तु महतो वेदवृक्षस्य यो महान्।

सद्बॄह्मवासुदेवाख्य परतत्वैकसंश्रयम्।

दिव्यैर्बलादिकैर्मन्त्रैः साक्षात्तत्प्रतिपादकैः।

अलङ्कृतमसन्दिग्ध मविद्यातिमिरापहम्।

अध्याप्य सञ्जगादास्य स्वरूपं च समागतिम्।

एषकार्तयुगोधर्मो निराशीः कर्मसऽंसञ्ज्ञितः।

योगाख्यो योगधर्माख्यः शास्त्राख्यश्च समागतः।

प्रवर्त्यते भगवता प्रथमे प्रथमे युगे । (पारमे-१अ-३३-३६ )

(2)-शृणुध्वं मुनयस्सर्वे वेदमेकायनाभिदम्।

मोक्षायनाय वै पन्था एतदन्यो न विद्यते।

तस्मादेकायनं नाम प्रवदन्ति मनीषिणः।

महतोवेदवृक्षस्य मूलभूतो महानयम्।

स्कन्दभूताऋगाद्यास्ते शाखाभूताश्च योगिनः।

जगन्मूलस्यदेवस्य वासुदेवस्य मुख्यतः।

प्रतिपादकतासिद्धा मूलवेदाख्यता द्विजाः।

मूलवेदानुसारेण छन्दसानुष्टुभेन च।

सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[2]]

दिव्यं सच्छास्त्रजालं तु कृत्वा सङ्कर्षणादिभिः।

प्रवर्तयामास भुवि सर्वलोकहितैषिभिः।

तन्त्राणां चैव सर्वेषां वक्ता नारायणस्स्वयम्।

श्रोतारोमूर्तिभेदाश्च ऋषयश्च पितामहः।

ततो योग्याय भगवान् प्रादुर्भावयति स्वयम्। (पारमे -ईश्वर-पाद्मं)

ततस्त्रेतायुगे सर्वे नानाकामसमन्विताः।

व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम्।–

अन्तर्दधाति धर्मोऽयं वासुदेवसमाहृतः। (पारमे-१अ-८०)

(3) तनोतिविपुलानर्थान् तत्वमन्त्र समाश्रितान्।

त्राणं च कुरुते यस्मात्तस्मात्तन्त्रमित्यबिधीयते। (विष्णुतत्वे)

एकायनवेदस्य गुरुपरम्परा

वसूराजोपरिचरो मूलवेदेन संस्कृतः॥…..

सुमन्तुर्जैमिनिर्बृह्मन् भृगुश्चैव औपगायनः।

मौञ्ज्यायनश्च तत्सर्वं सम्यगध्यापिता मया।

नरनारायणाभ्यां तु जगतो हितकाम्यया।

तथऽनुष्टीयते मूलधर्मे बदरिकाश्रमे।

एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः। (पारमे-1अ-70-72)

*सुदर्शनाद्याः हेतीशाः पञ्चब्रह्मर्षि रूपतः ।

समुत्पन्नाः क्षितितले पौण्ड्रवर्ध्नस्थलादिषु ।

*पञ्चायुधांशास्ते पञ्चशाण्डिल्याश्चौपगायनः।

मौञ्ज्यायनःकौशिकश्च भारद्वाजश्च योगिनः।

पञ्चापिपृथगेकैक दिवारात्रं जगत्प्रभुः।

अध्यपयामास यतस्ततस्तन्मुनिपुङ्गवाः।

*भगवच्छास्त्रतत्वज्ञं भगवत्पाद संश्रितम्।

वन्दे शाण्डिल्यमाचार्यं पौण्ड्रवर्ध्न स्थलोद्भवम्।

*भगवच्छास्त्रतत्वज्ञम् औपगायन देशिकम्।

तोताद्रिसम्भवं वन्दे वासुदेव पदाश्रितम्।

*अनन्तपुर सम्भूतमनेकगुणभूषितम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[3]]

प्रपद्ये भगवच्छिष्यं मौञ्ज्यायन गुरुत्तमम्।

*वासुदेवकृपापात्रं पञ्चरात्रविशारदम्।

मृगस्थलसमुत्पन्नं प्रपद्ये कौशिकं गुरुम्।

*भारद्वाजाख्यमाचार्यं विष्णोःपादाब्ज संश्रितम्।

प्रपद्ये सुगुणाम्बोधिं सालग्रामाऽचलोद्भवम्।

*पञ्चरात्रार्थतत्वज्ञान् पञ्चसंस्कार शालिनः।

पञ्चाचार्यान् प्रपद्येहं पाञ्चकालिकतत्परान्। (ईश्वरम्)

आगमस्य लक्षणम्

आगतं शिववक्त्रेभ्यो गतञ्च गिरिजाशृतौ।

मतं श्रीवासुदेवस्य तस्मादाऽऽगम उच्यते। (तत्ववैशारदी)

श्री पाञ्चरात्रागमस्य लक्षणं

सृष्टिश्चप्रलयश्चैव देवतानां समर्चनम्। साधनं चैव सर्वेषां पुरश्चरणमेव च॥

षट्कर्मसाधनञ्चैव ध्यान योगश्चतुर्विधः। सप्तभिर्लक्षणैर्युक्तोत्वागमं तद्विदुर्भुदाः॥

(पाञ्च)रात्र शब्दस्य निर्वचनं

रात्रं च ज्ञानवचनं ज्ञानम् पञ्चविधं स्मृतम्।

तेनेदं पाञ्चरात्रं च प्रवदन्ति मनीषिणः।

ज्ञानं परमतत्वं च जन्ममृत्युभयापहम्।

ज्ञानन्द्वितीय परमं मुमुक्षूणाञ्च वाञ्छितम्।

ज्ञानं शुद्धं त्रितीयं च मङ्गलं कृष्णभक्तिदम्।

चतुर्थं यौगिकञ्ज्ञानं सर्वसिद्धिप्रदं परम्।

ज्ञानञ्च पञ्चमम्प्रोक्तं तद्वै वैषयिकन्नृणाम्। ( नारदपञ्चरात्रम् )

श्री पाञ्चरात्रागम शब्दस्य निर्वचनं

श्रीप्रश्नमिति यच्छास्त्रं श्रियोवक्त्रात् त्वयाश्ऱुतम्।

मोक्षदं सर्वशास्त्रार्थसारमाराधनादिकम्।

श्रियोमुखात् त्वयाप्राप्तं ब्रूहि ब्रह्मन् हिताय नः।

(तच्छास्त्रविधिना श्रीशमाराध्यश्रीपतेःपदम्।

प्राप्य मोदामहे सर्वे वयं सूरुभिरञ्जसा। (श्रीप्रश्नं-1अ 53-55)

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[4]]

पञ्चकालानां नामानि

आद्यङ्कर्माऽभिगमनम् उपादानमतः परम्।

इज्याथ पश्चात् स्वाध्यायस्ततो योगस्ततः परम्।

पञ्चैते विषयास्तेषां कालाः पञ्चैव ते क्रमात् । पाद्मं-पराशरम्-3अ 9

सङ्ग्रह पञ्चकालविधिः

सालग्रामशिलायां तु पूजनं स्नपनादिषु।

सा हि दिव्या हरेर्मूर्तिर्दर्शनादेव सिद्धिकृत्।

प्राप्त्याभिगमनं दृष्ट्योपादानं नमसाऽर्चनम्।

स्वाध्यायः कीर्तनाद्योगः स्वार्पणादपि केवलम्। भारद्वाजम् - 3अ – 58

धर्माचरणस्य कारणम्

उपायानामुपायत्व स्वीकारोप्येतदेव हि।

अविप्लवाय धर्माणां पालनाय कुलस्य च।

सङ्ग्रहाय च लोकानां मर्यादास्थापनाय च।

मनीषिसमयाचारं मनसापि न लङ्घयेत्। लक्ष्मीतन्त्रे-17अ-श्रीप्रश्नम्-52अ-52-53

अभिगमनं

श्रीवैष्णव लक्षणमाह

*(1)-धारणञ्चोर्ध्वपुण्ड्राणा मेकादश्यामुपोषणम्।

तदीयानामर्चनञ्चैव वैष्णवत्वमिदं स्मृतम्।*। बृहद्बृह्मे- 3-10अ 75

(2)-कौपीनं कटिसूत्रं च सुधौतं चोत्तरीयकम्।

शिखाछिद्रोर्ध्वपुण्ड्रं च आचार्यस्य च लक्षणम्।

शिष्यस्य लक्षणं चैव मन्त्रकस्य च लक्षणम्- पराशरे-2-अ-२२

3- ये कण्ठलग्नतुलसी नलिनाक्षमालाः ये बाहुमूल परिचिह्नित शङ्खचक्राः।

ये वा ललाटफलके लसदूर्ध्वपुण्ड्राः ते वैष्णवाः भुवनमाशु पवित्रयन्ति । पराशरे-3-अ-58

4- गायेत्तु भगवद्गाधां यो ग्रामे नगरान्तरे।

तं प्रभुस्तावकं चैव पूजयेच्चैव सर्वदा।

विष्णुव्रतपरं चैव विष्ण्वायतनवासिनम्।

विष्ण्वालापकथासक्तं विष्ण्वायतनमार्जकम्।

श्रावकं वैष्णवानां च विष्णुधर्मपरायणम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[5]]

पर्येष्टिकृद्वैष्णवानां मान्यो वै विष्णुवत्सदा। ईश्वरे-22 अ -21-23

प्रभुं भक्तपराधीनं नित्यमालोकयेद्धरिम्।

विमानमथ वा तस्य दूराद्गोपुरमेव वा।

स्वरूपरूपविभवगुणकर्माणि शार्ङ्गिणः।

व्याचक्षीत निबध्नीयाच्छृणुयाद्विलिखेत्पठेत्।

स शुद्धवैष्णवोज्ञेयः…। भारद्वाजे- 1-अ-43-47

(तस्यव्याख्याने कर्मणि-इति-गजेन्द्ररक्षण,सारथ्यादीनि इति)

श्रीवैष्णव जन्मप्राप्ति कथनं

त्रिभिःप्रजापतेर्भक्तः सप्तभिः शङ्करस्य तु।

विंशत्याग्नीन्द्रसूर्यादेरन्यभिर्वैष्णवो भवेत्। भारद्वाजे -3अ -24

श्रीवैष्णवगृह लक्षणम्

यद्गृहं शङ्खचक्राद्यैरूर्ध्व पुण्ड्रादि लाञ्छनैः।

अलङ्कृतं भवेत्तत्स्यात् साक्षात् श्रीहरिमन्दिरम्। पुरुषोत्तमे-4अ-64

अवैष्णवगृह लक्षणं

शालग्रामशिलापूज्या स्वयंव्यक्ता द्विजैर्गृहे।……

सालग्रामं न यद्गेहे तुलसीगौर्न विद्यते।

नचभागवतं शास्त्रं तच्छ्मशानवदेव हि॥

कदापि नैवभुञ्जीत वैष्णवैर्द्विजसत्तमाः। शाण्डिल्ये-3अ-36

ब्राह्ममुहूर्त लक्षणम्

(1) ब्राह्मं मुहूर्तमासाद्य उदयात्पूर्वमेव च।

मन्त्रज्ञः यतः कुर्याद्विधिदृष्टेन कर्मणा। पारमे- 2 अ

(2) भास्करोदयमारभ्य यावच्च दशनाडिकाः।

प्रातःकालस्समाख्यातः शृण्वन्तु मुनिपुङ्गवाः।

पूर्वाह्नात्तु समारभ्य यावद्वै दशनाडिकाः।

मध्याह्न इति विज्ञेयस्सायङ्कालस्तथोच्यते।

मध्याह्नात्तु समारभ्य यावद्वै दशनाडिकाः।

सायाह्न इति विज्ञेयः प्रदोषस्त्वधुनोच्यते।

सायाह्नात्तु समारभ्य सार्धा वै सप्तनाडिकाः।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[6]]

प्रदोष इति विख्यातस्त्वर्धयामस्त्वथोच्यते।

अर्धयामात्समारभ्य यावच्च तिथि नाडिकाः।

मध्यरात्रमितिप्रोक्तं निशान्तस्वधुनोच्यते।

भास्करस्योदयात्पूर्वं त्रिपादेन त्रिनाडिकाः।

निशान्त इति विज्ञेय स्सर्वकर्मविशारदैः।

एकद्वित्रितयावापि षडष्टौ वा शरास्तु वा। पाद्मे

(3) पञ्चपञ्च उषःकाल इति शास्त्रे समीरितः।

ब्राह्मेमुहूर्त्ः सैवस्यात् तदानिद्रां परित्यजेत्।

प्रक्षाल्य पाणिपादं च स्मरेत्पापहरिं स्मरेत्। श्रीप्रश्नम्-अ१७-४-७

(4) पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः।

अष्टपञ्च भवेत्प्रातः शेषस्सूर्योदय स्मृतः।

उत्थायोषसि शय्यायाम् आसीनो ध्यानमास्थितः…॥ विष्णुतिलकसंहिता

अ-3-43

(5) षट् पञ्चाशदुषःकाल सप्तपञ्चाशदारुणः।

अष्टपञ्च भवेत् प्रातः शेषस्सूर्योदयस्मृतः।

उत्तमा तारकोपेता मध्यमा लुप्ततारका।

अधमासूर्यसहिता इति वेदे प्रपञ्चिता। पराशरे (३अ-4-5)

शयनोत्थापनविधिः

प्रातस्मरणीय श्लोकाः

(1) सम्प्रबुद्धः प्रभाते तु उत्थाय शयनेस्थितः।

नाम्नां सङ्कीर्तनङ्कुर्यात् षोडशानां प्रयत्नतः।

ओं नमोवासुदेवाय नमस्सङ्कर्षणाय ते।

प्रद्युम्नायनमस्तेस्तु अनिरुद्धाय ते नमः।

क्रमशःकेशवादीनां यावद्दामोदरं द्विज।

शब्देनोच्चतरेणैव संहृष्टिजननेन तु।

स्तोत्राणि चाथ मन्त्राणि उदीर्यान्यानि वै ततः……

हरिर्हरिर्ब्र्रुवंस्तल्पादुत्थाय भुवि विन्यसेत्।

नमःक्षितिधरायोक्त्वा वामपादं महामते।

बहिर्निर्गमनार्थं तु सञ्चाल्यादौ तमेव हि। (पारमे-2-अ)

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[7]]

(2) तत्रादावाह्निकं कर्म वैष्णवोचितमुच्यते।

आप्राबोधम्महाभागाः प्रस्वापान्तमशेषतः।

प्रतिबुध्य निशाप्रान्ते हरिनामावलिं जपन्।

श्रीगुरोश्चरणाम्बोजं चेतसा चिन्तयन् मुहुः।

स्वरूपं दिव्यलीलां च पार्षदान् स परिच्छदान्।

विमुक्तिमण्डपं देवीं पद्मजां प्रणमेद्भुदः।

प्रपन्नमात्मनोरूपं प्राप्यं कैङ्कर्य मच्युतम्।

स्वातन्त्यं स्वामिनस्तस्य पारतन्त्र्यं विचिन्तयेत्।

महाकारुणिकं देवमात्मानमपकारिणम्।

स्वामिनं विद्ययायुक्त मविद्या निलया तथा।

स्वकर्तृत्वं विनिर्धूय कर्तारमनघं हरिम्।

दास्यं करिष्य मनसा वचसा देहकर्मणा।

नादा सद्वेषं कृछ्रेपि करिष्ये दीनवत्सल।

संसारसर्पभीतोऽह मनन्यशरणो भवम्।

इति सङ्कल्प्य पूतात्मा प्रक्षाल्य चरणामुदा।

रात्रिवासः परित्यज्य शुचौ स्वासनमात्मनः।

पातयेत्तत्र चाधारशक्तिं स्मृत्वा नमेद्भुवः।

आचम्य केशवाद्यैश्च भूतशुद्धिं च संस्मरेत्।

श्रीवैकुण्ठपार्षदांश्च नित्यमुक्तान् विचिन्तयेत्।

परम्परान् गुरून् स्मृत्वा न्यासध्यानं विधाय च।

प्रजपेन् मन्त्रराजं च द्वयमन्त्रं विशेषतः।

पठेच्च पौरुषं सूक्तं श्रीसूक्तं नामकीर्तनम्।

महापुरुषविद्यां च दासोहमिति भावयेत्।

दासोहं स्वामिसेवार्थं देहयात्रां विधानतः।

प्रवर्तयिष्ये सततं प्रीणा तु पुरुषोत्तमः। बृहद्बॄह्मे त्रितीयपादे- सप्तमोऽध्याये26-45

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[8]]

हरिनाम स्मरण वैभवम्

उच्चकैश्रावयेष्वेहं हरिनामामृतानि तु।

स्त्रीराजपितृगोहन्ता ये च पातकिनोपरे।

दग्धपापास्युरुच्चार्य हरिरित्यक्षरद्वयम्।

ये न स्नान्ति तुलामासे कार्तिके निर्मलेजले।

दग्धपापास्युरुच्चार्य हरिरित्यक्षरद्वयम् ॥

स्नानं न कुर्युर्येमासे माधवे माधवप्रिये।

दग्धपापास्युरुच्चार्य हरिरित्यक्षरद्वयम् ॥

औपासन विहीनाश्च गायत्र्याऽतिथि वर्जिताः।

दग्धपापास्युरुच्चार्य हरिरित्यक्षरद्वयम् ।

पञ्चयज्ञविहीनाश्च प्रातस्स्नान विवर्जिताः।

अपुत्रिणोव्यनाचारा निषिद्धव्यञ्जनाधनाः।

परार्थघातकाःपापा परनिन्दा सु तत्पराः।

दग्धपापास्युरुच्चार्य हरिरित्यक्षरद्वयम्।

असद्वार्तारताविष्णुकथाश्रवण वर्जिताः।

नित्यनैमित्तिकभ्रष्टा स्तीर्थयात्रा विवर्जिताः।

अरामायणगाधाश्च प्रातर्भारत वर्जिताः।

सालग्रामार्चनाहीना सदाशूद्रान्न भोजनः।

दग्धपापास्युरुच्चार्य हरिरित्यक्षरद्वयम्॥

अमहालयकर्तारोप्यमाश्राद्ध विवर्जिताः।

गुरुद्रोहः कृतघ्नाश्च मातापितृ विनिन्दकाः।

अदत्वा भोजनोसत्यास्सेर्ष्या अस्नान भोजनाः।

येकेचित्पापकर्तारः पङ्क्तीभेदरताश्च ये।

ते सर्वेमुक्तिभाजस्स्युर् हरिस्मरणमात्रतः।

इमे च कृत निर्वेशा जन्मकोट्यंहसामपि।

येस्तुवन्त्यनुवादेन नाम स्वस्त्ययनं हरेः।

श्रीमान् भक्तपराधीनो भगवान् हरिरीश्वरः। (पुरुषोत्तमे)

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[9]]

द्वादशविध मलाः

वसा शुक्रमसृङ्मज्जा मूत्रविट्कर्णविण्णखाः।

श्लेष्माशृदूषिका स्वेदो द्वादशैता नृणां मलाः।

तेषाञ्चाऽथविशुद्ध्यर्थं स्नानं मृद्गोमयाम्बसा।

मन्त्रैस्तीर्थोदकैःकुर्यात् प्रत्यहं भगवत्परः।

तीर्थादौ स्नानशुद्ध्यर्थं गत्वा पादौ विशुध्य च। बृहद्बॄह्मे त्रितीयपादे- सप्तमोऽध्याये-70-72

नदीगमण लक्षणम् , कारणं च

कूपस्नानं न कुर्वीत तटाकादिषु सत्सु च।

तेषुनाल्पोदके स्नायात्तीर्थेषु बहुवारिषु।

नदीनां भेदेन स्नान भेदाः फल भेदाः

सरित्स्वपि च सर्वासु विशिष्टाःस्युः समुद्रगाः।

तासामपि विशिष्टाः स्युः सर्वाः प्राक्स्रोतसःसदा।

नदीनामपि सर्वासां दक्षिणान्तीरमुत्तमम्।

प्राक्स्रोतसःस्रवन्त्यस्तु यत्रचोदङ्मुखस्थिताः।

प्राक्तीरं तत्र तीर्थंस्यात् सर्वपापप्रणाशनम्।

कूपाद्दशगुणावापी वाप्यादशगुणं नदी।

नद्यां स्नानफलंस्नातु स्तथा तस्याः समुद्रगाः।

तथा दशगुणं तस्याः प्राक्स्रोताःकुरुते फलम्।

प्राक्स्रोतसोदङ्मुखायाः प्राक्तीरेऽनन्तकं फलम्॥ पारमे -3अ-31

पुण्यतीर्थेषु अन्यतीर्थस्मरण निषेदः

गङ्गातोयेन सम्पूर्णं यामुनेन शुभेन च।

प्रयागं चक्रतीर्थं च प्रभासं पुष्कराणि च।

भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः।

ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरन्।

सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधौ।

अन्यतीर्थं यदा स्नानं कुर्यात्तत्र च योजयेत्।

केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना।

तीर्थान्तरेष्विदं नाम न सङ्कीर्तयते सुधीः।

नित्यसन्निधितीर्थस्य यद्यन्स्याभिधां स्मरेत्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[10]]

स्नातस्य तत्र तीर्थं तदभिशापं क्षणात् सृजेत्। (पारमे-2अ-73-79)

शौच विधिः, स्थान निर्णयाश्च

जलसम्पूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने।

शौचार्थम् मृदमाहृत्य जलकूले निधाय वै।

मनोरमेशुचौदेशे तृणान्निक्षिप्यभूतले।

दिवासन्ध्यासु कर्णस्थ बृह्मसूत्र उदङ्मुखः।

कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः।

न कुर्याद्भुवि विण्मूत्रे सम्भवद्दीर्घजन्तुषु।

नचाप्सु न गिरौचापि चत्वरेषु चतुष्पथे।

न राजमार्गे नो वीथ्यां न देवायतने क्वचित्।

न श्मशाने न चैत्ये च न भस्मनि न गोव्रजे।

न ग्राममध्ये विप्रेन्द्र कुर्वीताप्यन्यथा विधि।

आत्मच्छायां तरुच्छायां न मेहेत कदाचन। पारमे-2अ-34-37

मृत्तिकाशौचेः प्रमाणाश्च

अर्धप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता।

द्वितीया च तृतीया च तदर्धा परिकीर्तिता।

बिडालपदमात्रं तु तदूर्ध्वा परिकीर्तिता।

पञ्चापाने मृत्तिकाः स्युस्तत्रैवान्तरमृत्तिकाः।

दशवामकरे देयाः सप्त तूभयहस्तयोः।

पादाभ्यां तिसृभिः शुद्धिर्जङ्घाद्या शुद्धिश्च पञ्चभिः।

नियोजयेत्ततो विप्र कट्यां वै सप्तमृत्तिका। पारमे - 2अ

दन्तधावन वृक्षाणां भेदाः, आहरणविधिः

(1) अर्कन्यग्रोधखदिर करञ्जककुभादिकम्।

शरजोदुम्बराश्वत्थ प्लक्षदर्भाश्च वैष्णवान्।

आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम्।

अन्यानि च पवित्राणि तेषु सम्पन्नमाहरेत्।…..

प्राङ्मुखोदङ्मुखोवापि उपविश्यासनं ततः।

अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[11]]

प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्।

भक्षयेद्दन्तधवनं दन्तमांसान्यबाधयन्।

द्वादशाङ्गुलमात्रं तु वक्रग्रन्थि विवर्जितम्।

पयोभिः सहतर्जन्या ब्रह्मन् द्वादशसङ्ख्यया।

काष्टालाभे तु रोगे वा कर्तव्यं दन्तधावनम्।

षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थि विवर्जितैः।

हेमादिनिर्मितैर्वापि कुशदर्भादिभिस्तथा।

जिह्वानिर्लेहनं चैव गण्डूषम् मुखधावनम्।

कुर्यादाचमनं विप्र! शुद्धेन सलिलेन च। बृहद्बॄह्मे -2a 25&62

(2)

आचम्य प्राङ्मुखोभूत्वा दन्तधावनमाचरेत्।

न्यग्रोधोदुम्बराश्वत्थ प्लक्षाम्रार्जुन घातकी।

पालाश वेणुखदिर शमीदारुणि धावने।

दन्तानामुदितान्येकादश चाम्भोरुहासन। पाद्मं-चर्यापादे-अ 13—17

(3)

आचम्य दन्तान् काष्ठेन पत्रैर्वा धावयेद् द्विजः।

गण्डूषाद्यं ततः कृत्वा स्नानार्थं पुनराचमेत्।

प्राणायम त्रयङ्कृत्वा सव्याहृतिविधानतः।

विष्ण्वाचार्यकैङ्कर्यसिद्ध्यर्थं शुद्धिदं हरेः।

अनुज्ञयास्नानमिदं करिष्ये विधिपूर्वकम्। श्रीप्रश्नम्-अ17-15-17

(4) न्यग्रोध प्लक्षनिम्बानां काष्टमेकं समाहरेत्।

षडङ्गुलमितं ब्रह्मन्! कनिष्ठाङ्गुलनाहकम्।

तेनसंशोधयेद् दन्तान् गाधामेताम् उदीरयेत्।

“आयुर्बलं यशोवर्चः प्रजाम्पशून् वसूनि च।

ब्रह्मप्रज्ञां च मेधां च त्वन्नोदेहि वनस्पते।“

अमायां श्राद्धदिवसे न कुर्याद्दन्तधावनम्।

दन्तकाष्ठं द्विधाभित्वा जिह्वानिर्लेपनं चरेत्।…..

ततो द्वादशगण्डूषान् कारयेद् उद्धृताम्बुभिः।

कुक्कुटासनमासीनः कुर्यादाचमनद्वयम्। बृहद्बृह्मे- वि.तिलके-अ3 -57``

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[12]]

दन्तधावन लक्षणं- वृक्ष विशेषाः, वर्जनीय, दिनानि च

दक्षिणम्बाहुमुद्धृत्य कृत्वा जान्वन्तरा ततः।

तिक्तं कषायं च तथा कटुकं कण्टकान्वितम्।

क्षीरिणो वृक्षगुल्मादेर् भञ्जयेद्दन्तधावनम्।

द्वादशाङ्गुलमानं स्याद् विप्राणां दन्तधावनम्।

क्षत्रविट्छूद्रजातीनां नव षट् चतुरङ्गुलम्।

चतुरङ्गुलमानंस्या न्नारीणां दन्तधावनम्।

नैऋत्यां निक्षिपेत्काष्टं दन्तोल्लेखं विधाय च।

इष्टकालोष्ट पाषाणान् नखैरङ्गुलिभिस्तथा।

मुक्त्वा चाऽनामिकाङ्गुष्ठौ वर्जयेद्दन्तधावनम्।

दक्षिणाभिमुखोनद्यान्नीलन्दवकदम्बकम्।

तिन्दुकेङ्गुद बन्धूक मोचार्क स्नुहि जम्बुकम्।

कार्यं न दन्तकाष्ठं च श्रीकामस्सततं त्यजेत्।

नादण्डं न त्वचाहीनं नाप्रशस्त तरूद्भवम्।

स्नुहि किंशुकश्यामाक शाल्मली निम्ब गुग्गुलान्।

करञ्जकोविदारांश्च वर्जयेद्दन्तधावने।

श्लेष्मातक शमीपीलू पिप्पलं तिलकं तथा।

श्रीगु निर्गुण्डित्वकासार करवीर शिरीषकम्।

बदरीञ्चैव चिञ्चां च वेणुपालाश शिंशुपम्।

वर्जयेत्कुशकाशा च मालतीमपि वैष्णवः।

कुशकाशपलाशांश्च शिंशुपां यस्तु भक्षयेत्।

तावद्भवति चण्डालो यावद्गङ्गां न पश्यति।

पालाशमासनं यानं दन्तकाष्ठं च पादुके।

वर्जयेत्तु प्रयत्नेन शमीमश्वत्थ मेव च।

पूतीगन्धाम्लमधुरं सच्छिद्रं दन्तधावनम्।

अज्ञातपूर्वं पत्राड्यं युग्मवर्णं तु वर्जयेत्।

सकामैः कामनायोगा दकामैर्विधृतानि हि।

वर्जन्यपि द्विजश्रेष्ठा विचिन्त्यानि मनीषिभिः।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[13]]

अपामार्गप्रशस्तोयं दन्तधावन कर्मणि।

तदभावे तु शस्तानि काष्टानि द्विजसत्तमाः।

कुशकाशपलाशं च शीग्रु शिंशुपकानि च।

वर्जयेदङ्गुलिं चापि दन्तशुद्धौदिनोदयम्।

अङ्गारवालुकापर्ण तृणवस्त्र नखादिभिः।

न कुर्याद्दन्तकाष्ठं च वैष्णवो दूषिते दिने।

श्राद्धा हे जन्मदिवसे व्रतेचैवोपवासक।

द्वादश्यां रविवारे च चन्द्रनाशे च वर्जयेत्।

नन्दा सु च नवम्यां च द्वादश्यां भौमवासरे।

दन्तकाष्ठं न कुर्वीत चामायां तु विशेषतः।

काष्ठाभावादिने शुद्धिङ्कुर्यात् पर्णादिभिर्द्विजः।

जिह्वोल्लेखस्तु कर्तव्यः काष्ठेनापि सदैवहि।

अलाभे दन्तकाष्ठानां निषिद्धायां तिथौ तथा।

अपां द्वादशगण्डूषैर्विदद्याद् दन्तधावनम्।

प्रक्षाल्य भक्षयेत्काष्ठं

प्रक्षाल्येन विसर्जयेत्।

मन्त्रेणैव त्५अरोर्ग्राह्यं दन्तकाष्ठं विपश्चिता। बृहद्बॄह्मे त्रितीयपादे- सप्तमोऽध्याये -95-115

काष्टाऽलाभे विधिः

द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम्।

पयोभिः सहतर्जन्या बृह्मन् द्वादशसङ्ख्यया।

काष्टालाभे तु रोगे वा कर्तव्यं दन्तधावनम्।

षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थि विवर्जितैः।

हेमादिनिर्मितैर्चापि कुशदर्भादिभिस्तथा।

जिह्वानिर्लेहनं चैव गण्डूषम् मुखधावनम्।

कुर्यादाचमनं विप्र! शुद्धेन सलिलेन च। पारमे -2अ-62

सङ्कल्पस्य लक्षणम्

(1) गुरुध्यानं पुरा कृत्वा मां भजेत् कमलासखम्।

कर्मस्थलं तथावर्षम् ऋतुमासं तथाऽयनम्।

तिथिं वारं च नक्षत्रं योगं करणमेवच।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[14]]

उक्त्वा कर्मकरोमीति चोक्तस्सङ्कल्प उच्यते।

ओं तत्सदिति मन्त्रेण सङ्कल्पे मां स्मरेद् विधिः। विष्णुतिलकम्-अ-3-37-38

(2) विष्णोर्देशेवर्तमाने वेधसर्चरमार्धिके.

आयुषःकल्पकेचैव सिताङ्गस्यकिटिस्तथा.

मेरोश्चसूर्यपुत्रस्य सन्धौपादतलेस्तथा.

अद्ये वक्ष्ये महापुण्ये भरतस्यमहीतले.

जम्बूद्वीपेवत्सरेच वर्तमाने तथायने.

ऋतोमासे च पक्षे च तिथौवारे च भेतधा.

करणादियुतेपुण्ये कालेस्मिन्प्रीतये हरेः

देवर्षिपितृतृप्त्यर्थम् पापानां च निवृत्तये.

अस्मिन् जलाशयेविष्णोःपादपद्मं विचिन्तयन्.

गङ्गांस्मरन्नहंस्नानं करिष्येस्मृतिचोदितम्.

अघौघविध्वंसकरस्यविष्णोः तोषाय तेन प्रहितोहमस्मिन्.

जलेस्मरन् देवनदीं करोमि स्नानं सगोविन्दपदाभिधानम्. श्रीमन्नारायणे.

स्नान सङ्कल्प विधिः

विष्ण्वाचार्यादिकैङ्कर्यं शुद्ध्यर्थञ्चाज्ञया हरेः।

करिष्ये स्नानमित्युक्तं करेधार्यं पवित्रकम्। पराशरे-3अ-32

स्नानस्य अवश्यकत्वं

(1) स्नानाचमनशौचेन प्राणायामेन देशिकः।

अन्तर्बहिश्शरीरस्य साधकस्तु विशुध्यति।

स्नानपूर्वाः क्रियाःसर्वाः फलसंसिद्धिहेतवः।

तस्मात् स्नानं प्रकुर्वीत देवर्षि पितृतर्पणम्। पारमे-अ2 -138

(2) स्नानमूलाःक्रियाःसर्वाः स्नानं च बहुधाशृतम्।

वारुणं दिव्यमाग्नेयं वायव्यं पार्थिवं तथा।

मान्त्रं मानसमित्येवं स्नानंसप्तविधं स्मृतम्।

निरीक्ष्यचात्मनश्शक्तिं समयं देशमेवच।

एतेष्वेकतमङ्कुर्यात् समाराधनतत्परः। पाद्मं-चर्यापादे-अ 3-2-4

(3) श्रीशार्चनाङ्गभूतं च स्नानङ्कुर्यात्सरिज्जले।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[15]]

स्वशाखोक्तविधानेन कुशानादाय वारिना।

स्मृत्वा भगवतोरूपमात्मानो दासरूपताम्।

प्रातरुत्थाय यो विप्राः वैष्णवस्नानमाचरेत्।

सर्वपाप विनिर्मुक्तो याति विष्णोःपरं पदम्।

अस्नात्वा नाचरेत्कार्यं जपहोमादिकिञ्चन।

क्लिद्यन्ति हि सुषुम्नादीनीन्द्रियाणि क्षरन्ति हि। बृहद्बॄह्मे त्रितीयपादे- सप्तमोऽध्याये-88-90

मृत्तिकास्नान विधिः

(1)–विना विविधसम्पर्कैः पञ्चाङ्गस्नानमाचरेत्।..

मृदाऽऽमलकमानेन क्रमशोऽभिनिधाय च।

अस्त्रमन्त्रेणमूलेन क्रमात् पञ्चाङ्गमन्त्रवित्।

कृत्वा नियोज्य दिक्ष्वप्सु सर्वाङ्गालेपनं क्रमात्।

गङ्गातोयेन सम्पूर्णं यामुनेनशुभेन च।

यागं चक्रतीर्थं च भासं पुष्कराणि च।

भवन्ति सन्निधीभूता मन्त्रस्यास्य भावतः।

ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत्। पारमे-अ2 -75

सप्तविध स्नानानि

(1) वारुणं दिव्यमाग्नेयं वायव्यं पार्थिवं तथा।

मान्त्रम् मानसमित्येवं स्नानं सप्तविधं स्मृतम्। पाद्मे- 3अ- 5-7

(2) अवगाहनमप्स्वन्तर्वारुणं स्नानमुच्यते।

सहातपेनवर्षेण स्नानं दिव्यमनन्तरम्।

समिधान्दीपितानां च गोमयस्यहुतस्य च।

सितेनभस्मनाङ्गेषु ललाटादिषु यत्क्रमात्।

यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम्।

तदाग्नेयं भवेत्स्नानं शोधनं परमं स्मृतम्।

गच्छत्सुगोषुपादोत्थै रजोभिर्भुवि सम्भवैः।

स्पर्शनं वपुषस्नानं वायव्यं तदुदाहृतम्।…

पार्थिवंस्नानमब्लिङ्गैर्मन्त्रैर्विप्रवरेरितैः।

अम्भोभिःप्रोक्षणं ब्रह्मन् तन्मन्त्रस्नानमिष्यते। पाद्मं-चर्यापादे-अ 3-4-13

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[16]]

(3)

तुलसीधाममृत्स्नाना मन्यद्वा वैष्णवी तु वा।

आनीतं विभजेन्मृत्स्नां त्रिधाकृत्वा क्रमाद्रमे।

भागेनैकेनदिग्बन्धं द्वितीयेनमृदा द्विजः।

परिकल्प्य जलेपीठं विष्णुतीर्थानि भावयेत्।

ततस्तृतीयभागेन त्वात्मनोऽङ्गेषु लेपयेत्।

अघमर्षणसूक्तेन पुंसूक्तेनहरिं स्मरन्।

मूलमन्त्रेणरत्नेन स्नानङ्कुर्याद्विचक्षणः।

विष्णुपादक्षालितान्तां गङ्गान्तां विरजानदीम्।

सरिद्वरां च कावेरीं स्मृत्वाचार्य पदाम्बुजम्। श्रीप्रश्नम्-अ17-19-23

(4) चरणामृतपानेन विष्णु नामासु कीर्तनात्।

श्रीवैष्णवाङ्घ्रिसंस्पर्शा दात्मनश्शुद्धिमाचरेत्।

अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोपि वा।

संस्मरन् पुण्डरीकाक्षं सद्यश्शुद्धिमवाप्नुयात्।

अतो भागवतं तीर्थं तीर्थं भगवतोपि हि।

समं पश्येत्तु महिमान् शुद्धिकामे विशेषतः।

वैष्णवस्य तु विप्रस्य शङ्खचक्राङ्कधारिणः।

पादोदकं च निर्माल्यं निषेव्य शुचिनां व्रजेत्।

स्नानशुद्धिर्भवेदस्य यदा पादोदकं स्वके।

विप्रस्य विष्णुभक्तस्य यस्स्नेहादेव धारयेत्।

एवं शुद्धिं विधायादौ……………. बृहद्बॄह्मे त्रितीयपादे- सप्तमोऽध्याये -3-7-80-85

(5) कुशैःपूतं भवेत्स्नानमभावे काश उच्यते।

दूर्वा यवव्रीहिभिर्वा तुलसीपल्लवैस्तथा।

यावद्भगवतः पादपूतः तुलसिका भवेत्।

तावदन्यैः प्रकर्तव्यं स्नानं स्नानपरैर्द्विजैः।

कुशादीनामभावे तु क्रमात् काशादयो मताः।

कुश एव समाख्याता मुख्या स्नानादिकर्मणि।

न तथा तुलसीज्ञेया तदभावे समामताः।

न स्नानादिक्रियाकार्या तुलसीदलवर्जिता।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[17]]

विष्णोःप्रसाद जननी साक्षात्तुलसिका मता। वासुदेवसंहिता-13अ

आचार्य चरणामृत तीथे स्नाने विशेषाः-

स्नातं च गुरुणा यत्र तीर्थं नान्यत्ततोऽधिकम्।

यच्च कर्म तदर्थं तद्विष्णोराराधनात्परम्।

भवद्विधा भागवतास्तीर्थभृताः स्वयं विभो।

तीर्थीकुर्वन्ति तीर्थानि स्वानतस्थेन गदाभृता॥ भारद्वाजसंहिता-3अ 89

तीर्थे तीर्थान्तरकीर्तन निषेधनम्

(1) सनमस्कं भवेत्तेन विष्णुतीर्थस्यसन्निधौ।

अन्यतीर्थे यदास्नानं कुर्यात्तत्र च योजयेत्।

केवलं मूलमन्त्रं विष्णुतीर्थपदं विना।

तीर्थान्तरेष्विदं नाम न सङ्कीर्त्यते सुधीः।

नित्यसन्निधितीर्थस्य यद्यन्यस्याभिधां स्मरेत्।

स्नातस्य तत्र तीर्थं तदभिशापं क्षणात् सृजेत्।

निर्झराम्बु तटाकादौ सामान्यस्नानकर्मणि।

गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तनम्।

मन्त्रस्नानक्रमैः सम्यग्विष्णुतीर्थाय कीर्तयेत्। पारमे-अ2 -79

(2) श्रीविष्णुचरणाम्बोज सृतपीयूषधारया।

प्लावितं तीर्थपानीयं विचिन्त्य स्नानमाचरेत्।

तत्रैव विरजातोयं कीकटेष्वपि पुत्रकाः।

यत्र नारायणायेति नमसा प्रोच्छरेन्मनुम्।

म्लेच्छदेशेऽशुभस्थाने खरमार्जालदूषिते।

ऊषितेऽवैष्णवैर्वापि नाम्नाशुद्धिःप्रकीर्तिताः। बृहद्बॄह्मे त्रितीयपादे- सप्तमोऽध्याये 145-150

मृत्तिकास्नानविधिः, स्नानेभेदाश्च

(1) नाभिमात्रे जले गत्वा चास्त्रेणरक्ष्य सर्वतः।

प्राणानायम्य सञ्चिन्त्य तीर्थानि रविमण्डले।

जले षट्कोणमुल्लिख्य बीजं मध्ये विचिन्त्य च।

अष्टपत्रं बहिस्तस्य पङ्कजं केसरोज्ज्वलम्।

विचिन्त्याधारमारभ्य पीठदेवाननुत्तमान्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[18]]

स्वेष्टदेवं श्रियासार्धमावाह्य विमलेजले।

मानसैरुपचारैस्तु सम्पूज्य पुरुषोत्तमम्।

जले सञ्चित्य तत्तेजो ह्यन्तरीकृत्यमुद्रया।

अभिमन्त्यजलं विष्णुगायत्र्या प्रणवेन च। पुरुषोत्तमम्-3-अ

(2) शुद्ध्यर्थं प्रथमं स्नात्वा मन्त्रस्नानं समाचरेत्।

स्नायाद्राजोपचारेण दिव्यगन्धैःपुराहृतैः।

हृन्मन्त्रेण तु विप्रेन्द्र! वामहस्ततले ततः।

मृदाऽऽमलकमानेन क्रमशोऽभिनिधाय च।

प्रान्तपर्वावधौ मध्ये मणिबन्ध समीपतः।

अस्त्रमन्त्रेणमूलेन क्रमात् पञ्चाङ्गमन्त्रितम्।

कृत्वा नियोज्य दिक्ष्वप्सु सर्वाङ्गालेपनं क्रमात्॥

अध ऊर्ध्वं च तन्मन्त्रं मुद्राबन्धेन संयुतम्।

तेन स्नानहरा विप्रा दिग्विदिक्परिसंस्थिताः। पारमे-2अ-67-70

(3)

अघमर्षणसूक्तेन पुंसूक्तेन हरिं स्मरन्।

मूलेनमन्त्ररत्नेन स्नानङ्कुर्यादतन्द्रितः।

विष्णुपादक्षालितां तां गङ्गां तद्विरजाजलम्।

सरिद्वरां च कावेरीं चन्द्रपुष्करिणीजलम्।

गुरुपादोदकं तद्वद् गुरुसाम्याधिकं तथा।

स्मृत्वा स्नानं प्रकुर्वीत इन्द्रद्युम्नाख्य तीर्थकम्। पराशरे-3अ-38-40

पञ्चाङ्गस्नानविधिः काल नियमाश्च

विनाविविधसम्पर्कैः पञ्चाङ्गस्नानमाचरेत्।

मुखं करद्वयोपेतं पादौ कटितलावधि।

स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि।

अधोत्तमाङ्गात् पादान्तं शिरसाऽभ्यञ्जयेद् द्विज।

अङ्गान्युद्वर्त्य चास्त्रेण चरणान्तान्यनुक्रमात्।

गोमयेनमृदा विप्र ! निर्मलीकृत्य विग्रहम्।

नरामरप्रयुक्तां प्राक् स्नानार्थं चाहरेत् खलीम्।

माषाचूर्णादिनादेहं निर्हृत्य कवचं स्मरन्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[19]]

शुद्ध्यर्थं प्रथमं स्नात्वा मन्त्रस्नानं समाचरेत् । पारमे-2अ-63-67

उष्णोदकस्नानवर्जनीय दिनानि

रविसङ्क्रान्ति वा एषु ग्रहणेषु शशिक्षये।

व्रतेषु चैव षष्टीषु न स्नायादुष्णवारिणा।

न स्नायाच्छूद्रहस्तेन मध्यमांसनिषेविणा।

आहृतैरेकहस्तेन चोद्धृतैर्ब्ऱाह्मणैरपि। पुरुषोत्तमे-अ-8

मानसस्नान विधिः

(1) केवलादुदकस्नानात् संस्कारादपि वर्जितात्।

प्रयागादिषु तीर्थेषु यत्फलङ्कुरुते द्विज!।

स्नायाच्छतगुणं तस्मान्मन्त्रस्नानस्य सत्तम।

ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत्।

खस्थितम् पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत्।

तत्पादोदकजां धारां पतमानं हि मूर्धनि।

चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम्।

तथा सङ्क्षालयेत् सर्वमन्तर्देहगजं मलम्।

तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः॥

ध्यानस्नानं परम्मन्त्रस्नानाच्छतगुणं स्मृतम्।

सध्यानस्नानमित्युक्तं दिव्यस्नानादिकं शृणु। पारमे 2 125

(2) द्विराचंयाहतं वासःपरिधाय सुखासनः।

प्राणानायम्य मां ध्यायेत् हृदयाम्बोरुहे स्थितम्।

ध्यानेनानेननिर्धूतकल्मषो जायते पुमान्।

स्नानं मानसमेतस्यात् स्नातश्च हरिमर्चयेत्।- पाद्मं-चर्यापादे-3अ 13

ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत्।

खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत्।

तत्पादोदकजां धारां पतमानां स्वमूर्धनि।

चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम्।

तया सङ्क्षालयेत्सर्व मन्तर्देहगतं मलम्।

तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[20]]

इदं स्नानं परं मान्त्रस्नानाच्छतगुणं स्मृतम्। जयाख्ये-पटलं-9-66-69

उत्तमादिभेदेन त्रिविधस्नानाः

स्नानं तत्त्रिविधम्प्रोक्तं जलेन मनसा तथा।

ध्यानेन परमेशस्य शतगुणोत्तरं शुभम्।

पुष्करादिषुतीर्थेषु नदीषु जलजं स्मृतम्।

ततश्शतगुणं स्नानं भगवन्मन्त्रचोदितम्।

तस्माच्छतगुणं ध्यानं शुद्धसंविन्मयं परम्। कण्वसंहिता-21अ

माध्याह्निककालेस्नान लक्षणम्

प्राप्ते मध्याह्नसमये स्नानं कुर्याद्यथाविधि।

विधायपङ्कमम्भोभिर्दर्शयित्वा च पूषणम्।

अस्त्रहीनाङ्गविद्याभि रापादतलमस्तकम्।

आलिप्य देहमखिलमवगाह्य च वारिषु।

देवमावाह्य लक्ष्मीशं दत्वा चार्घ्यादिकं ततः।

तत्पादक्षालनाम्भोभिः पाणिभ्यां कुम्भमुद्रया।

पावनैः शिरसि न्यस्तैरात्मानमभिषिच्य च।

वासुदेवमभिध्यायानघमर्षण माचरेत्।

उत्तीर्य कर्मनिखिलं मध्याह्न समयोचितम्।

कृत्वा यजेत देवेशं होमान्तं कमलासन।

स्तोत्रेणाभिष्टुयाद्देवं दण्डवत्पतितः क्षितौ। पाद्मे-अ-13-34-42

विविधस्नान विशेषाः तत्फलानि च

अवगाहनमप्स्वन्तर्वारुणं स्नानमुच्यते।

सहातपेणवर्षेण स्नानं दिव्यमनन्तरम्।

समिधोदीपितानाञ्च गोमयस्य हुतस्य च।

सितेनभस्मनाङ्गेषु ललाटादिषु च क्रमात्।

यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्छारणपूर्वकम्।

दाहनं च भवेत्स्नानं शोधनं परमं स्मृतम्।

गच्छत्सुगोषुवातोत्थै रजोभिर्भूमि सम्भवैः।

स्पर्शनं वपुषस्नानं वायव्यं तदुदाहृदम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[21]]

प्रशस्ते पर्वताग्रादौ जातयाश्वेतमृत्स्नया।

उच्चार्य केशवादीनि नामान्यङ्गे यथाक्रमम्।

ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तत्समम्।

पार्थिवस्नान मित्येवं सर्वपापहरं शुभम्।

तस्मादेकतमङ्कार्यं स्नानं श्रद्धापरेण तु। पाद्मे.-3अपारमे-2-131-136

(2) प्रसङ्गादत्रवक्ष्यामि स्नानानि कमलासन।

वर्जयित्वा शिखांस्नायात् कण्ठस्नानं तदुच्यते।

नाभिजङ्घोरुगुह्यानां क्षालनं कापिलं स्मृतम्।

आमयाख्यं भवेत्स्नानम् आर्द्रवस्त्रेण मार्जनम्।

तारव्याहृतिगायत्र्या ऽऽपोहिष्ठेति मन्त्रतः।

प्रोक्षणम् मन्त्रमेतानि स्नानानि कमलासन।

उष्णोदकेनवा यः स्नायायात् तत्राप्युपद्रवे॥…

नार्याः स्नायासुराकण्ठं विना पुण्यनिमित्तके।`` ``विष्णुतिलके-3- 79-83

वपन कालनियमाः

(1) आधाने यज्ञकालेच सर्वाङ्ग वपनं विदुः।

शिशूनां ब्रह्मचरीणां मासे मासे विधीयते।

मासिमासि गृहस्थानां पक्षे पक्षे च यज्वनाम्।

ऋतादृते यतीनां च वपनं मुनिसम्मतम्। (पाराशरे-२अ)

(2) उत्सवारम्भ दिवसाद् अर्वाक् सप्तमे पञ्चमे अहनि वा गुरुः

व्रतेषु स्नपने सर्वप्रायश्चित्तेषु कर्मसु।

वेदव्रतेषु चतुर्षु प्रारम्भे यागकर्मणाम्।

वसुधासङ्ग्रहे काले शिलासङ्ग्रहकर्मणि।

शङ्कुस्थापन काले च ध्वजारोहण कर्मणि।

विविधासु प्रतिष्ठासु बाह्याभ्यन्तर कर्मसु।

आचार्यत्वे कृते कर्ता वपनं स्नानमाचरेत्।

वपनेन विनाकर्म यदि तन्निष्फलं भवेत्। पाद्मे

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[22]]

मन्त्रस्नान विधिः

तोयाभावे च यत्कुर्याद्दुर्गे काले च शीतले।

गमने क्षिप्रसिद्धौ वा गुरुकार्ये स्वतन्त्रताम्।

प्राप्तां वीक्ष्य विप्रेन्द्र निशाभागे दिनस्य वा।

प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा

स्नानं दश दिशःप्राग्वत्संशोध्योपविशेत्ततः।

अस्त्रं हस्ततले योज्यं क्रमन्न्यासं ततस्तनौ।

मूलमन्त्रादि तत्कुर्यात्सर्वमन्त्र गणेन तु।

केवलादुदक स्नानात्संस्कार परिवर्जितात्।

प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य च।

ज्ञेयं शतगुणं तस्मान्मन्त्र ग्रामस्य नारद। जया-9प -65

वस्त्रधारणे पञ्चकच्छस्य लक्षणं

(1) शुक्लोपवीतोत्तरीयश्चन्दद्यनुलेपनः।

सितोर्ध्वपुण्ड्रतिलकः देवदक्षिणमाश्रितः। पाद्मे

(2) प्रसङ्गादत्रवक्ष्यामि वस्त्रादीनां विधिं क्रमात्।

सव्यङ्कटिं समारभ्य प्रादक्षिण्येन वेष्टयेत्।

पुरतस्याच्छतुष्कच्छः पृष्ठैश्चैक कच्छवान्।

दैवे पैत्रे तथा ब्रह्मन्! पञ्चकच्छो भवेन्नरः।

अभ्यङ्गे मैथुने क्षौरे विण्मूत्राणां विसर्जने।

चतुष्कच्छोभवेद्ब्रह्मन् इतो नग्न उदीरितः।-

अभ्यङ्गे च तथा क्षौरे नोत्तरीयं प्रशस्यते।

देवार्चनायां योगे च जपे स्वाध्यायकर्मणि।

उत्तरीयं द्विजैर्धार्यमुपवीतवदब्जज।

उत्सर्जने मलादीनां मैथुने दन्तधावने।

उत्तर्यं मस्तके धार्यं शय्यायां शयने तथा।

प्रदक्षिणादिष्वन्यत्र कटावुत्तर्यधारणम्। विष्णुतिलके -5अ-3-9

(3) तामसं नग्नमेकं तु राजसं वसनद्वयम्।

कौपीनसहितं तत्तु सात्विकं मुनिभिःस्मृतम्। भारद्वाजम् -2अ 55

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[23]]

स्थानशुद्धिविषये

ध्यात्वा देवं ज्वलद्रूपं सहस्रार्क समप्रभम्।

ज्वालाकोटि समाकीर्णं वमन्तं ज्वलनं मुखात्।

तेन सम्पूरयेत्सर्वमाब्रह्म भुवनान्तिमम्।

दिगोद्यं प्रज्वलन्तं च भावयेन्मन्त्र तेजसा।

क्ष्मामण्डलमिदं सर्वं स्मरन्पक्वं च वह्निना।

मन्त्रजेन द्विजश्रेष्ठ! मृण्मयं भाजनं यथा।

स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनम्। जयाख्ये-प10-श्लो-11-14

पञ्चगव्ये कार्यभेदेन द्रव्यमाणभेदाः

गोमयेन समं मूत्रं दधिस्याद् द्विगुणं ततः।

ततः चतुर्गुणं सर्पिः सर्पिषाऽष्टगुणं पयः।

प्राशने पञ्चगव्यस्य प्रमाणमिदमीरितम्।

द्रोणमानं पञ्चगव्यं घृतमानं च तादृशम्।

तादृगेव दधि क्षीरं तावदेव च माक्षिकम्।

अर्धं वास्यादाढकं वा न्यूनञ्चेदासुरं भवेत्।

गृहार्चास्नपने न्यूनं प्रस्थेनैव प्रकल्पयेत्।

पञ्चगव्यानि गृह्णीयान् मृत्पात्रे नूतने शुभे।

कपिलायाः जरायाः वा पञ्चगव्यं प्रशस्यते।

न आर्तायाः न च गर्भिण्याः न वृद्धायाः कदाचन।

न अवत्सायः उपादद्याद् धेनोमूत्रं शकृद्द्वयम्।

भूमिष्ठं गोमयं ग्राह्यं सोष्णं कृम्यादि धूषितम्।

निष्पीड्य सम्यक् गृह्णीयाद् गोमयस्य रसं पुनः।

सद्यस्तप्तं घृतं शुद्धम् अहोरात्रोषितं दधि।

क्षीरं ग्राह्यमतप्तं च दशहाज्जन्मनः परम्।एवं सम्पाद्य । पाद्मे

ऊर्ध्वपुण्ड्रधारणविधिः, श्रीचूर्णे भेदाश्च

(1) पूर्वोक्तेनविधानेन समाचम्योर्ध्वपुण्ड्रकैः।

चन्दनाद्यैःसुगन्धैर्वा धर्मक्षेत्रे विशेषतः।

पर्वताग्रे नदीतीरे सिन्धुतीरे तथैव च।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[24]]

वल्मीके तुलसीमूले प्रशस्ता मृत्तिकाद्विज। पारमे-अ-3-9

(2) वश्यार्थीरक्तयाश्रीच्छन्

(चूर्णं) पीतयाशान्ति कामिका।

श्यामयामोक्षकामी च श्वेतयाचोर्ध्वपुण्ड्रकम्।

वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं तथा।

पद्मस्यमुकुलाकार मुत्पलं मुकुलाकृति।

मत्स्यकूर्माकृतिं चैव शङ्खाकारमतःपरम् । पारमे-अ2

(3) प्रशस्ते पर्वताग्रादौ जातयाश्वेतमृत्स्नया।

उच्चार्य केशवादीनि नामान्यङ्गे यथाक्रमम्।

ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तद्भवेत्।

ऊर्ध्वपुण्ड्रं मृदाधार्यं सान्तरालं त्रयङ्गुलम्।

लक्ष्म्यासार्धं सुखासीनो रमते तत्र निर्वृतः। पाद्मं-चर्यापादे-अ 3

(4)

ललाटादि द्वादशसु धरेत्पुण्ड्राणि वै द्विजः।

षट्पुण्ड्राण्यथवाप्येकं ललाटे धारयेद्रमे। श्रीप्रश्नम्-अ17-16

ऊर्ध्वपुण्ड्रधारणे अङ्गुष्टभेदेन फलभेदाः

पुष्टिदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये।

वाञ्चितार्थदायिन्या मुनेऽनामिकयाऽथवा।

आयुष्कामी मध्यमयाचाऽथ देवता।

एताभिरङ्गुलीभिस्तु कारयेन्न नखैः स्पृशेत्। पारमे-3-13

द्वादशोर्ध्वपुण्ड्र, षट्पुण्ड्र ,चतुः पुण्ड्र, एकपुण्ड्र अधिदेवताः विषयाणि

ललाटे वासुदेवं च हृदिसङ्कर्षणं न्यसेत्।

प्रद्युम्नं दक्षिणेचांसे अनिरुद्धोत्तरांसके।

जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम्। पारमे-3-16

शिष्यस्य चोर्ध्वपुण्ड्राणि मृत्स्नया श्वेतपूर्वया।

ललाटादिद्वादशसु कुर्यादङ्गेषु मन्त्रवित्। श्री-16-124

ऊर्ध्वपुण्ड्रम् ऋजुंरम्यं हरेःपादद्वयाकृति।

वर्तिदीपाकृतिं वापि वेणुपत्राकृतिं तु वा।

विन्यस्य तेषु पुण्ड्रेषु केशवादीन् सशक्तिकान्।

ललाटादिषु शिष्याणां सन्दिशेद् ध्यानसिद्धये। श्री-16

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[25]]

2-उच्चार्यशुद्धवस्त्रेद्वे कौपीनमपि धारयेत्।

ततःप्रक्षाल्यचरणौ पाणीचाचमनं चरेत्।

ललाटादि द्वादशसु धरेत् पुण्ड्राणि वै द्विजः।

षट्पुण्ड्राण्यथवाप्येकं ललाटे धारयेद्रमे। श्री-17-अ-23-27

त्रयोदश ऊर्ध्वपुण्ड्रस्य देवतालक्षणमाह

(1)-वासुदेवं च शिरसि चिन्तयेदुक्तलक्षणम्।

सहस्रदलमध्यस्थं कोटिसूर्यसमप्रभम्।

चतुर्बाहुं श्रियायुक्तं स्फुरन्मकरकुण्डलम्।

एवं ध्यात्वा मृदाकुर्यादूर्ध्वपुण्ड्राणि वैष्णवः। बृहद्बृह्मे-१-13अ-85

(2)-निघृष्यमृत्स्नां विधिवन्मूलमन्त्राभिमन्त्रिताम्।

आदायाङ्गुलिभिर्दद्या ल्ललाटाद्यूर्ध्वपुण्ड्रकान्।

त्रयोदश द्वादश वा चतुरोवैकमेव वा।

नमोऽन्तैर्नामभिर्ध्यात्वा स्थापयेत्तत्र तत्र च।

केशवादीन् द्वादशासु वासुदेवं त्रयोदशे।

केशवं वासुदेवं वा ललाटे केवलं न्यसेत्।

व्यूहांश्चतुर्षु तान्नत्वा सदा सान्निध्यमर्थयेत्। भारद्वाजे-2अ-23-25

श्रीचूर्णस्य लक्षणं

विष्ण्वर्पितं रक्तवर्णं हरिद्राचूर्णमुत्तमम्।

लक्ष्मी निवाससिद्ध्यर्थं दीपाकारं सुसूक्ष्मकम्।

ऊर्ध्वपुण्ड्रस्य मध्ये तु ललाटे धारयेद् द्विजः। पराशरे-3अ-55

ऊर्ध्वपुण्ड्रस्य अवश्यकत्वं कालानि च

ऊर्ध्वपुण्ड्रम्मृदाधार्यं सान्तरालं त्र्यङ्गुलम्।

लक्ष्म्यासार्धं सुखासीनः रमेहं तत्र निर्वृतः- विष्वक्सेनम्

पार्श्वमङ्गुलमात्रस्तु ऊर्ध्वपुण्ड्रस्यलक्षणम्।

नासिकायास्त्रयोभागाः नासामूलं प्रचक्षते। शाण्डिल्ये

पुण्ड्राकारं समालोक्य तनौ संविशते हरिः।

श्रियासार्धं निजावासमालोक्य पुरुषोत्तमः।

अशुचिर्वाप्यनाचारी महापापयुतोपि वा।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[26]]

पुण्ड्रसन्धार्यतेनाव निर्भयत्वं प्रपद्यते।

स्त्रियोवैश्यास्तथा शूद्राः म्लेच्छवान्त्यज जातयः।

ऊर्ध्वपुण्ड्रधरास्सर्वे समस्या देवता इव।

प्रणमन्ति विमानस्था देवाऽपि सहस्रशः।

दृष्ट्वा भागवतं दूरा दूर्ध्वपुण्ड्राङ्कितं जनम्। `` ``पुरुषोत्तमे-5 अ

स्नानं सन्ध्या जपोहोमः स्वाध्यायः पैतृकं तथा।

देवकार्यं ब्राह्मणानामूर्ध्वपुण्ड्रेण चेष्यते।

ऊर्धपुण्ड्रधरःशुद्धः सत्क्रियां कुरुते तु यः।

सा क्रिया वैष्णवीप्रोक्ता सर्वपापापनुत्तये।

तुलसीकाष्टजामाला ऊर्ध्वपुण्ड्रं द्विजन्मनाम्।

भक्तिज्ञानविरागाय तथा सत्कर्मणो मतम्। शाण्डिल्ये-11अ 53-56

श्रीचूर्णेन विविधाकार ऊर्ध्वपुण्ड्रः, देवताश्च

ततः प्रक्षालयेत्पाणी आचम्यासनसंस्थितः।

कुङ्कुमस्योर्ध्वपुण्ड्राणि द्वादशाङ्गेषु धारयेत्।

नासिकामूलमारभ्य दण्डाकारं सुशोभनम्।

सान्तरालन्धरेत्फालं केशवायनमोस्त्विति।

उदरेकुमुदाकारं नमोनारायणाय च।

हृदयेकमलाकारं माधवायनमोस्त्विति।

शङ्खाकृतिं कण्ठकूपे गोविन्दाय नमोस्त्विति।

कट्यां तु दक्षिणे विष्णुर्मत्स्याकारो व्यवस्थितः।

दक्षिणेऽथभुजे वंशत्रये स्यान्मधुसूदनः।

दीपवर्तिसमे दक्षकर्णप्रान्ते त्रिविक्रमः।

वामकट्यां वामनायनमो वामभुजे तथा।

श्रीधरायनमः कर्णे हृषीकेशाय वै नमः।

कूर्माकारे पृष्ठदेशे पद्मनाभाय वै नमः।

दामोदरं ककुद्देशे गदाकारेऽभिधारयेत्।

वासुदेवं निराकारो मूर्ध्नि भक्तोऽभिधारयेत्। शाण्डिल्ये 11अ 35-40

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[27]]

स्नानाऽनन्तरकर्तव्य विषयाः

जले जलेनपुण्ड्राणि कृत्वा द्वादश सङ्ख्यया।

शिखामाबध्यमूलेन गायत्र्या मौनमाश्रितः।

ओं लं केशवायनमः प्रोच्य तथा नारायणाय च।

माधवाय नमश्चैवमाचामेत्सर्वकर्मणि।

गोविन्दाय नमस्तद्वद्विष्णवे च नमो वदन्।

कपोलयोर्द्वयोश्चैव विदद्यात्परिमार्जनम्।

मधुसूदनाय नमो वदन् त्रिविक्रमाय च।

ओष्ठयोस्स्पर्शनङ्कुर्याद् वामनश्रीधरौ तथा।

जेन्तौ नमोन्तौ ताराद्यौ ताभ्यां सम्मार्जयेत्तथा।

हृषीकेशेन करयोः पद्मनाभेन पादयोः।

जलेन स्पर्शनं कृत्वा मूर्ध्नि दामोदराय च।

मार्जयेत्कुशवारिभ्या मेभिरङ्गानि संस्पृशेत्।

वासुदेवस्सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः।

पुरुषोत्तमोऽधोक्षजश्च नृसिह्मोऽच्युतरेव च।

जनार्दन उपेन्द्रश्च हरिःकृष्णश्च मूर्तयः।

आस्येनासित्वेकमेक मक्ष्णोर् द्वौ द्वौ च कर्णयोः।

हृदिनाभात्वथैकैकं मुदरे मस्तके तथा।

भुजयोर्द्वाविति प्रोक्तो विधिराचमनेसुताः। बृहद्बृह्मे - 3-7अ-160—172

ऊर्ध्वपुण्ड्र लक्षण विषये

द्व्यङ्गुलं त्र्यङ्गुलं वापि मध्येछिद्रं प्रकल्पयेत्।

पार्श्वमङ्गुलमात्रस्तु ऊर्ध्वपुण्ड्रस्य लक्षणम्।

नासिकायास्त्रयोभागः नासामूलं प्रचक्षते।

`` ``शाण्डिल्ये-11अ

भगवद् रूपेषु भेदाः

चतुर्धा वासुदेवस्य मूर्तिर्भिन्ना विलोक्यते।

सालग्रामशिलारूपा द्वितीया सुरनिम्नगा।

त्रितीया मन्त्ररूपा च चतुर्थी पुण्ड्ररूपिणी।

वैष्णवानां हितार्थाय जीवानां पावनेच्छया।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[28]]

पुण्ड्राकारं समालोक्य तनौ संविशते हरिः। (

वासिष्टसम्हित-8अ)

श्रीवैष्णव आचमन विषये विशेषः

बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः।

एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात्।

पाणिनाक्षालितेनैव पुनराचामयेद्बुधः।

एवं क्षाल्यविधिवदाचम्य यतश्शुचिः।

अङ्गुष्टमूलं ब्राह्मं तु अङ्गुल्यग्रं तु दैविकम्।

पैतृकं हस्तमध्यं तु तीर्थं दक्षिण हस्तजम्।

ब्राह्मेण तु पिबेत्तोयं पैतृकेन तु मार्जयेत्।

दैविकेन स्पृशेदङ्गान् येषां तृप्तिं यदिच्छति।

त्रिधा चतुर्धा वा द्विरामृज्य मुखं पुनः।

वामहस्ततलं प्रोक्ष्य पादयोश्च तले शुभे।

तलेन हृदयं स्पृष्ट्वा मुखमङ्गुलिभिस्तथा।

अङ्गुष्टानामिकां कृत्वा तेन स्पृष्ट्वा च वारिणा।

तेनैव तर्जनीङ्कृत्वा तथा द्वे नासिकापुटे।

कनिष्टिकां तथा कृत्वा तेनैव श्रवणं स्पृशेत्।

तथैव मध्यमां कृत्वा बाहुदेशावुभौ स्पृशेत्।

तेनैव नाभिदेशं च सवैर्युक्तैः शिरः स्पृशेत्।

एतदाचमनं प्रोक्तं सर्वकर्मसु सर्वदा। पारमे-अ3-90-96

(2) नामत्रयेणमन्त्रेण माषमघ्नजलं पिबेत्।

एकोभवेत् तथाऽऽचामः त्रिधापानेन पद्मज।

कुर्याद् द्वादशमूर्तीनां न्यासमङ्गेषु वै क्रमात्।

देवयज्ञेषु सर्वत्र कुर्यादाचमनत्रयम्। विष्णुतिलकम्-अ3-60

(3) आदावन्तेच कुर्वीत मधुपर्के सकृत्सकृत्।

पूजायां ब्रह्मयज्ञादौ योगेश्राद्दे च मैथुने।

मौञ्जीयज्ञोपवीतादिधारणे भोजने तथा।

आद्यन्तयोर्द्विराचामेद् देवयज्ञादि पञ्चसु।

स्नाने सन्ध्याजपे दन्तधावने पुण्ड्रधारणे।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[29]]

प्रदक्षिणेप्रणामेच दाने स्वाध्यायकर्मणि।

आदौकुर्याद्द्विराचामं सकृदन्ते चतुर्मुख।

अभ्यङ्गे वपनस्नाने मलमूत्रविसर्जने।

अन्तेकुर्याद् द्विराचामम् आदौ नाचमनं स्मृतम्।

फलताम्बूलभक्ष्याणां भक्षणे कमलासन।

आचामो नैवकर्तव्यो…॥ वि-ति-5अ-14-19

यथाभिषेकजाशुद्धिः बहिरेवप्रजायते।

मन्त्रपूततलैस्तद्व दाचामेह्यन्तरश्शुचिः। `` `` `` `` `` `` ``बृहद्बृह्मे- 3-7

आचमनकालाणि

आचामेत्सर्वकार्येषु स्नाने दाने सुरार्चने।

संस्पर्शे भाषनेऽसत्सु भुक्त्वा पीत्वाथ चर्वणे।

रेतोमूत्र शकृण्मोक्षे ह्यधोवायु विमोक्षणे।

परिश्रमेऽनृते हास उच्छिष्टजनसङ्गमे।

उच्छिष्ठस्पर्शनेऽमेध्यदर्शने अशृपतने।

रक्तकेशमलस्पर्शे जृम्भायां स्वप्नदर्शने।

छीकाष्टीवनसङ्क्रोधेष्वाचामे च्छुद्धिकाम्यया।

उपक्रमोपसंहारे कर्मणोनीवबन्धने।

केशवादिभिराचम्य सद्यश्शुद्धिमवप्नुयात्। बृहद्बृह्मे- 3-7-175

प्राणायामस्य अवश्यकत्वं तल्लक्षणं च

जानुम्प्रदक्षिणीकृत्य न दृतं न विलम्बितम्।

कुर्यादङ्गुलिविस्फोटं सा मात्रा कीर्तिता।

प्राणायामगणङ्कुर्यात् पूर्वमस्त्रेण रेचकम्।

पूरकं हृदयेनाथ नेत्रमन्त्रेण कुम्भकम्।

अगर्भंश्च सगर्भश्च प्राणायामो द्विधा मतः।

जपध्यानं विना अगर्भः सगर्भस्तद्युतश्च यः।

प्राणायामत्रयं कुर्यात्पञ्चवा सप्तवाऽथवा।

भवेत् प्राणजयः पुंसः प्राणायामः स उच्यते। पारमे-3अ-124&138

इडयावायुमापूर्य शनैः षोडशमात्रया।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[30]]

कुम्भयेत् पूरितम्पश्चाच्चतुःषष्ट्या तु मात्रया।

रेचयेत् पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः।

पुनःपिङ्गलयापूर्य पूर्ववर्त्सुसमाहितः। श्री-3अ-35

रेचकैःशोधयेत्पापं पूरकैर्दाहयेत्ततः।

कुम्भकैः स्तम्भयेद्वह्निमेवं पापंविशोधयेत्। श्री –अ28-49

प्रोक्षणविधिः अर्घ्यदान लक्षणं च

(1) आपोहिष्ठादिभिर्मन्त्रैः प्रोक्षयेत् शुद्धवारिणा।

उत्थानेनैव हस्तेन कर्तव्यं प्रोक्षणं भवेत्।

अर्वाचीनेनहस्तेन कर्तव्यंस्यादवोक्षणम्।

मुष्टीकृतेन हस्तेन कृतमभ्युक्षणं भवेत्।

तन्मन्त्रैश्शिरसी प्रोक्ष्य जान्वोर्यस्यक्षयाय च।

पुनर्मूर्ध्नि च सम्प्रोक्ष्य व्याहृत्य परिषेचयेत्।

आत्मनोमूलमन्त्रेण मन्त्राचमनमुच्यते।

स्वगृह्योक्तविधानेन मन्त्राचामोऽथ वा भवेत्।

आचम्य दधिमन्त्रेण आपोहित्यादिभिः क्रमात्।

पूर्ववत्प्रोक्षणम्ब्रह्मन् आत्मनः परिषेचनम्। वि-ति-3अ-106-110

(2) प्रातःसायं चार्घ्यदानं गायत्रीमन्त्रमुच्चरन्।

गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत्।

एकंशस्त्रास्त्रनाशाय त्वेकं वाहननाशने।

असुराणांवधायैकं हरिंस्मृत्वा तु वै द्विजः।

प्रायश्चित्तार्थमेकं च ततस्तन्मन्त्रसिद्धये।

षडङ्गन्याससहितं प्रणवेन सदाशुचिः।

असावादित्योब्रह्मेति तद्दोषस्यप्रशान्तये।

प्रदक्षिणं चैकं सूर्यनारायणं स्मरन्।

मार्गशीर्षादिमासानामधिदेवांस्तु तर्पयेत्।

अष्टोत्तरसहस्रं वा ह्यष्टोत्तरशतं तु वा।

अथवाष्टाविंशतिः स्याद्यावत्सूर्योदयावधि।

नारायणं हृदिध्यायन् गायत्रीं वेदमातरम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[31]]

शोषणादींस्ततःकृत्वा बहिरन्तश्च मातृकाम्।

प्राणप्रतिष्ठां कृत्वैव गायत्रीजपमाचरेत्। श्री-अ17-27-37

कालातीत प्रायश्चित्त उपवास विधिः

अतीत्योदयमस्तं वा यस्सन्ध्यां पर्युपासते।

प्रायश्चित्ताऽर्घ्यदानं च दत्वा ह्युपवसेन्नरः।

उपवासाक्षमोनक्तं प्रसृत्येकं पयःपिबेत्।

अशक्तश्चेद् दिवा ब्रह्मन्! फलमात्रं घृतं पिबेत्।

अतीते नवमेभागे उपवासश्च पूर्ववत्।

रात्रौ तथोपवासश्च रात्रिसन्ध्या विनाशने।

परिषिच्यपरिक्रम्य स्वात्मानं ब्रह्मचिन्तयेत्।

असावादित्यमन्त्रेण तत आचम्य तर्पयेत्।

केशवादीन् मूर्तिमन्त्रैः आचान्तस्तीरमाव्रजेत्। वि-ति-अ-3-114-118

सन्ध्योपासनविधिः वेदमाता जपविधिः (स्थाननिर्णये)

(1) सन्ध्यां कृत्वा विधानेन मुनयोविष्णुदेवताम्।

सूर्यमण्डलमध्यस्थायाऽर्घ्यं दद्यात्समाहितः।

चतुर्व्यूहात्मकंसर्वं स्मृत्वाविश्वञ्जले जनः।

तर्पयेद्देवमनुज पितृन्तिलकुशोदकैः। `` `` `` `` `` ``बृहद्बृह्मे- ३–10अ-1

(2) सन्ध्योपासति देशस्य चतुर्विंशत्पदात्परम्।

नान्यत्र धीमान् गच्छेत गच्छन् सन्ध्यां विनाशयेत्।

आसाद्यतीरं सम्प्रोक्ष्य कुशेवा कृष्णचर्मणि- (वि-ति-अ-३-११८-१२०)

अर्घ्य प्रदानस्य अवश्यकत्वं

(1) आचम्य प्रोक्षयेद्देहं वारिभिर्मन्त्रवित्तमः।

ओं पूर्वया च गायत्र्या वारिभिश्चाभिमन्त्रितैः।

आत्मानं परिषिच्योर्ध्वमुक्षिपेत्सलिलाञ्जलिम्।

योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि।

शाम्यन्ति तैर्वज्रहस्तैर्हस्ताभिप्रेरितै र्जलैः।

प्रायश्चित्तं तु हिंसायाः परिभ्रमणमात्मनः।

तर्पयेदुपविश्याथ तत्तन्मन्त्रमुदीरयन्।

देवादीन् सलिलेतिष्ठन् सावित्रीं प्राङ्मुखो जपेत्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[32]]

यावत्सूर्योदयं दृष्ट्वा प्राञ्जलिस्थिभिरापहम्।

उपस्थाय स्वशाखोक्तैर्मन्त्रै ध्यायन् हृदिस्थितम्। पाद्मे- 13-27

(2) अतःपरं प्रवक्ष्यामि सन्ध्योपासनलक्षणम्।

सूर्योदयात्पूर्वमेव स्वसूत्रोक्तेनवर्त्मना।

भगवत्कैङ्कर्यसिद्ध्यर्थं सन्ध्योपास्तिं समाचरे।

इति सङ्कल्प्य मनसा सात्विकत्यागपूर्वकम्। श्री –अ17

(3) ततःप्राणान्समायम्य गायत्र्यावाहनं चरेत्।

अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा।

अष्टाविंशतिवारं वा गायत्र्या जप उच्यते। वि-ति

(4) सूर्यमण्डलमध्यस्थमरविन्दकृतासनम्।

पीनायत चतुर्बाहु मुत्पलस्रजमच्युतम्।

दरारिगद्योपेतम् उत्फुल्लकर पङ्कजम्।

श्रीनिकेतंश्रियं तद्वदनवद्य रुचिंस्मरेत्।

गायत्रीवारिनं स्नातो सस्मरेद्यदि केशवम्।

न लभेत्कर्मसंसिद्धिं येन याति हरिः पदम्।

अनर्हःकृतशौचोपि विना नारयणस्मृतम्।

तस्मात्सर्वत्रसंयोज्यं भगवत्स्मरणं सदा।

यदातिदूरमाख्यातं कर्मज्ञानविवर्जितम्।

तथाऽतिदूरमप्युक्तं विनाविष्णुस्मृतं द्विजाः।

गायत्रीवारिसंस्नातः प्रणवैर्निर्मलीकृतः।

विष्णुस्मरनसंसक्तो ह्यर्हन् सर्वेषुकर्मसु।

प्रजपेद्विष्णुदैवत्यं गायत्रींवेदमातरम्।

अष्टाक्षरेणमूलेन ब्राह्मणश्शुद्धिकाम्यया। `` `` `` `` `` ``बृहद्बृह्मे 3-7-180

(5) नारायणमनोरर्थं तत्सवितुरिति श्रृतिः।

एतत् त्रिपादा गायत्री तदष्टाक्षरसम्भवा।

चतुर्थपदगायत्री तदष्टाक्षर उच्यते।-

तदैवेषा गायत्री सर्वेषां मुक्तिदा भवेत्।

तस्मात् सर्वप्रयत्नेन मूलमन्त्रं वदेत् तदा।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[33]]

अष्टाक्षरस्सदा सम्यक् मालामन्त्र इति स्मृतः।

गायत्री मन्त्रशुद्ध्यर्थं नित्यकर्मादि सिद्धये।

गायत्रीजपकालेतु अर्घ्यकाले विशेषतः।

अष्टाक्षरेण सहितं गायत्रीम् उच्चरेत् सदा। पराशरे-(2अ-38-41)

मूलेन जप्त्वा गायत्रीं तिष्टेदासूर्यदर्शनात्।

उपस्थानं ततः कुर्यादभिवादनपूर्वकम्। (शाण्डिल्ये)7अ

गायत्रिमन्त्रादि जपकाले ध्येय भगवतः स्वरूपं

कालमेघनिभंसौम्यं चतुर्बाहुं किरीटिनम्।

शङ्खचक्रगदापाणिं गरुडारूडमच्युतम्।

एवं ध्यात्वाऽर्चयेद्देवं प्रातःकाले समाहितः।

स्फटिकोपलसङ्काशं गरुडारूड विग्रहम्।

मध्यन्दिनेऽर्चयित्वा तमाचरेज्जपमात्मवान्।

प्रदोषेषु चतुर्हस्तं वैनतेयोपरिस्थितम्।

श्यामलं पुण्डरीकाक्षं ध्यायन्मन्त्रमुदीरयेत्। पाद्मे-26अ-18-20

मन्त्ररत्न, द्वादशाक्षरादि जपकाल भेदाः

अष्टाक्षरं जपेत्सायं मध्याह्ने द्वादशाक्षरम्।

प्रातश्च विष्णुगायत्रीं द्वादशार्णं तु सर्वदा। अनन्ताख्य संहिता

द्वादशाक्षरमन्त्रस्य श्रेष्ठत्वं

गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयोग्रहाः।

न कदापि निवर्तन्ते चन्द्रसूर्यादयोग्रहाः। पाद्मे-ज्ञानपादे-10 अ

चरमश्लोक पञ्चक जप विषये

मूलमन्त्रं मन्त्ररत्नं चरमश्लोकपञ्चकम्।

श्रीमद्वराहचरमं श्रीकृष्णचरमं तथा।

श्रीरामचरमं तद्वत् श्रीरङ्गचरमं तथा।

सुदर्शनाख्यचरमं सकृद्ध्यायन् ततोऽर्चयेत्।- पराशरे-३अ-77

श्रीरङ्गचरमश्लोकः

सर्वधर्मान् परित्यज्य सर्वकर्मफलानि च।

शरणं मां प्रपद्यस्व सर्वबन्ध विमुक्तये-

(श्रीरङ्गमाहात्म्ये)

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[34]]

श्री सुदर्शनचरमश्लोकः-

अशक्तमपिच स्मर्तुमन्ते पूर्वकृतं स्मरन्।

स्वयमेव परं धाम स्वयं नयति माधवः।

यदिवातादिदोषेण मद्भक्तो मां च विस्मरेत्।

तर्हि स्मराम्यहं भक्तं नयामि परमां गतिम्। भारद्वाजे-4अ-80-81

(तिष्ठन् गच्छन् स्वपन्भुञ्जन् जाघ्रन्नपि हसन्नपि।

सुदर्शननृसिंहेति यो वदेत्तु सकृन्नरः।

सवै न लिप्यते पापैः भुक्तिम्मुक्तिं च विन्दति।)

जपस्य त्रैविध्यं

जपं तु त्रिविधं कुर्यादक्षसूत्र करार्पितः।

वाचिकं क्षुद्रकर्मभ्य उपांशुं सिद्धिकर्मणि।

मानसं मोक्षकर्मार्थं ध्यायेद्देवं तु सर्वतः।

अक्षसूत्रं शुभं कार्यमदृश्यमितरैर्जनैः। जयाख्ये-14-पटले-4

जपस्य अवश्यकत्वं फलानिच

मनोरथान्नु सन्धानं जपात्कोटिगुणं फलम्।

प्रयच्छति महाभागा निरर्थादिति निश्चयः।

न दानैर्न तपोभिश्च न स्वाध्यायै र्नचेष्टिभिः।

अनुसन्धानतः पुम्सां यथात्मा परितुष्यति।

कायिकं वाचिकं पापं जपादेव विनश्यति।

तस्यैवार्थानुसन्धानं मान्तरंहरते तमः।

बहिर्दीपप्रदानेन बाह्यस्य तमसः क्षयः।

मन्दिरस्तेन दीपेन हीयते ह्यन्तरन्तमः।

नात्रकालविचारोस्ति होमतर्पणमार्जनम्।

न्यासमुद्रादेवाश्च विनियोगो न संस्तवः।

दानवेषश्च संस्कारो मुख्यस्सिद्धान्तवर्त्मनि।

अपेक्षितो मुमुक्षूणामनुसन्धान सिद्धये।

यथा जलसमुद्धारे गुणः कूपादपेक्षितः।

तथाऽर्थभावनंसूत्रं परमात्मार्थ सङ्गमे। पौष्करे

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[35]]

अक्षसूत्रविधानं तत्र मणिप्रमाणादि विशेषाः

अक्षास्थिमात्रैर्मणिभिर्ज्येष्ठं कुर्यात्सुवर्तुलम्।

धात्रीफलानां गर्भेण प्रमाणं मध्यमं स्मृतम्।

बदरास्थिप्रमाणेन कनीयं समुदाहृतम्।

अष्टोत्तरशतं पूर्णं तदर्धं पादमेव वा।

कुर्यात्तच्च विधिनोक्तं विधिना तत्र कारयेत्। (लक्ष्मीतन्त्रे-24अ-जयाख्ये-14-पटले-5)

अक्षमालाभेदेन फलभेदाः

(1) सौवर्णं द्रव्यसिद्ध्यर्थं पुष्ट्यर्थं पितृकर्मणि।

राजतं ताम्ररूपं तु मेधावीर्य जयाप्तये।

त्रापुषं यक्षिणीसिद्धौ नैसंयक्षः पिशाचयोः।

वेतालसाधनार्थं तु रीतिजं काम्स्यजं तु तत्।

अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने।

आयसं क्षुद्रकर्मार्थमिति धातुमयोमणिः।

मोक्षायशान्तयेचैव स्फाटिकोमणिरुच्यते।

सौभाग्ये वैद्रुमःकार्यः पौत्रदीपस्तु मुक्तये।

शान्तयेमुक्तयेपुष्ट्यै तुलसीमूलजा मणिः।

सर्वसिद्धिकरः पाद्मोमणिश्शाङ्खश्श्रियैमतः।

आयुःप्रजा यशोदस्स्यान् मौक्तिको मणिरुत्तमः।

अदद्यादेकमेतेषां शुभकाले गुणादिके। लक्ष्मीतन्त्रे-24अ

(2) अङ्गुलिजपसङ्ख्यातु एकमेकगुणं भवेत्।

एकादष्टगुणन्दद्यात् पुत्रजीवैर्दशांशकम्।

शतंस्याच्छुखमणिभिः प्रवालैस्तु सहस्रकम्।

मौक्तिकैर्दशसाहस्रं तु रौप्यस्तु लक्षमुच्यते।

स्फटिकैर्दशलक्षं तु सुवर्णैःकोटिरुच्यते।

पद्माक्षैर्दशकोटिस्तु श्वेतपद्माक्षकमितम्।

कुशग्रन्धिश्च तुलसी अनन्तग(गु)णिकाभवेत्। ज्ञानार्णवे

चतुष्काल सन्ध्यावन्दनं

सन्ध्या चतुर्विधा ब्रह्मन्! शृणु गुह्यं सनातनम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[36]]

प्रातस्सन्ध्योदयात्पूर्वं सायंसन्ध्या ततःपुरा।

माध्याह्निकी दिवामध्ये निशीथे तुर्यसञ्ज्ञिका।

जानुदग्नजलेमध्ये सन्ध्योपास्थिं समाचरेत्। वि-ति- 3-104

पवित्र लक्षणम्

(1) कुशेन वा सुवर्णेन पवित्रं धारयेत् शुचिः।

अङ्गुल्यग्रेप्यनायुष्यमङ्गुल्यादौ तपः क्षयः।

अनामिका मध्यपर्वे पवित्रं धारयेद् द्विजः।

अग्रं तु चतुरङ्गुल्यं ग्रन्थिरेकाङ्गुली भवेत्।

द्व्यङ्गुलं वलयं चैव पवित्रस्य च लक्षणम्- (पराशरे-3अ-33

(2) पवित्रं करयोर्धार्यम् अनामिक्यां कुशच्छदैः।

पवित्रमेकदर्भेण प्रेतकर्मणि धारयेत्।

नित्यकर्मणिदर्भाभ्यां द्वाभ्यामेव चतुर्मुख।

पितृकार्ये त्रिभिर्दर्भैः चतुर्भिश्चाभिचारके।

पञ्चभिःपौष्टिके दर्भैः षड्भिश्शान्त्यां पवित्रकम्।

भोजनेवलयं कुर्यात् सप्तभिस्सर्वकर्मसु। वि-ति-3-98-100

(3) दैवे मानुष यज्ञेषु पवित्रेकरयोर्मते।

पञ्चकालविधौधार्यं दक्षिणेऽनामिके तले।

विण्मूत्रोत्सर्जनेधार्य मुत्तर्यान्ते महामते।

क्षालने पादकरयोर् गण्डूषे दन्तधावने।

सव्येतरे कर्णमूले पवित्रं धारयेन्नरः।

अभ्यङ्गेमैथुनेक्षौरे पवित्रं तु विसर्जयेत्।

एकमेवपवित्रं स्यात् पैतृके प्रेतकर्मणि। कण्वसंहिता-13 अ

(4) त्रिपञ्चसप्तकाण्डोत्थं द्रडिमग्रन्थिसंयुतम्।

पवित्रद्वयं दार्भ मस्त्रमन्त्राभिमन्त्रितम्।

हस्तद्वयेऽपि निक्षिप्य अनामाङ्गुलयोरधः। जयाख्ये-9-पटले -20

(``5``)`` त्रिपञ्चसप्तकाण्डोत्थ धृडिमग्रन्थिसंयुतम्.

पवित्रकं द्वयन्दर्भ मस्त्रमन्त्राभिमन्त्रितम्.

हस्तद्वये विनिक्षिप्य अनामाङ्गुलयोरथ. जयाख्ये-पारमेश्वरे 3अ

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[37]]

दर्भ लक्षणं

कर्मण्यच्च कुशाजालं विहितं कमलोद्भव।

येषां सर्वगतं ब्रह्म मन्त्ररूपीश्वरोऽच्युतः।

भावस्थस्तत्वतस्ताभिस्तेषां नैव प्रयोजनम्।

न्यसेत्तस्मादभग्नाग्रा नुदङ्मूलान् कुशान् द्विजः।

यस्मादिव्यमुदग्भागं पित्र्यं दक्षिणसञ्ज्ञकम्।

स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च।

दर्भमार्गच्छलेनैव पितृणां तेऽमराद्विज।

वसत्यतः पितृगणो भागमाश्रित्यदक्षिणम्। पारमे-7अ-277

दर्भाऽऽहरणकाले उक्त मन्त्रः

शुचिर्भूत्वा शुचौदेशे स्थित्वा पूर्वोत्तरा मुखः।

ओङ्कारेणैवमन्त्रेण कुशान् स्पृष्ट्वा द्विजोत्तमः।

*विरिञ्चिना सहोत्पन्न परमेष्ठि विसर्गज।

दहस्व सर्वपापानि दर्भस्वस्तिकरो भव।*

हुम् अस्त्रायफडित्युक्त्वा भूमेर्दर्भान् समुद्धरेत्।

तैरेव सर्वङ्कुर्वीत विप्रो मन्त्रैश्च वैष्णवम्। बृहद्बृह्मे- 3-7-136

यज्ञसूत्रस्य विषये

रज्जुत्रयो ब्रह्मचारी वानप्रस्थो गृही तथा।

षड्रज्जो कथितोब्रह्मंश्चतुरज्जुर्यतिर्भवेत्।

रज्जुत्रयोभवेत्सूतः नीरज्जुर्वा यतिर्भवेत्।

नित्यकर्मच दैवं च मानुषं पाञ्चकालिकम्।

उपवीत्येवकुर्वीत पारेतम् पैतृकं तथा।

प्राचीनावीतिकुर्वीत मैथुनेक्षौरकर्मणि।

निवीत पृष्टोभ्यङ्गे निवीती कमलासन।

धारयेद् दक्षिणेकर्णे यज्ञसूत्रं निवीतवत्।

मलमूत्रविसर्जेषु स्यादन्यत्रोपवीतवत्। वि.ति. 5अ-20

आधारशक्तितर्पण विधिः

जलाञ्जलिमथादाय समन्त्रेण हरिंस्मरेत्।

सूर्यमण्डलमध्यस्थं तर्पयेत्तेनवारिणा।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[38]]

सकुशोर्ध्वकरश्चाथ विनिमीलितदृग्जपन्।

सूर्यं निरीक्षयेन्मन्त्रं यदर्घ्येणार्चितं पुरा।

ततोपविश्यसन्तर्प्य आधारासनपूर्वकम्।

साङ्गं सपरिवारं च मन्त्रं तदनु वै क्रमात्।

इन्द्रादीन् विष्णुपूर्वांश्च वासुदेवादिकानपि।

मूर्तिद्वादशशक्तीश्च परमात्मानमेव च।

पृथिव्यादीनि भूतानि ऋषींश्च पितृभिः सह।

एषमन्त्रस्तु निर्दिष्टस्तर्पणेषु यथाक्रमम्। पारमे-3अ-101-105

2-) अथाष्टदलपद्मस्थं देवं सन्तर्पयेद् द्विजाः।

तुलसीचन्द्रमिश्राम्बु सेचनैः परमादरात्।

आधारशक्तिमारभ्य वक्ष्यमाणक्रमेण च।

चतुर्विधं तु वैकुण्ठं नित्यमुक्तपरिच्छदम्।

श्रीविग्रहाङ्गभूषाभिः शक्त्यायुधसुवाहनैः।

प्रणवादि द्वितीयान्त तर्पयामीति संयुतैः।60

नाममन्त्रैःपृथक्कुर्यात् तर्पणं ध्यानतत्परः। `` ``बृहद्बृह्मे- ३-१०-55-60

3- ब्रह्मयज्ञं ततः कृत्वा देवऋष्यादि तर्पणम्।

पित्रादि तर्पणं कुर्याच् चतुस्संयक् चतुर्मुख।

सर्वदेवान् सर्वगणान् पतिपत्नीसहेति च।

एकैकं काण्डऋष्यादीन् वदामि ऋषयस्तथा।

निवीतमिति शृत्यर्थं तत्तन् ज्ञात्वा च तर्पयेत्।

ब्रह्मयऽज्ञेप्युपस्थाने पुंसूक्तं वै जपेद् द्विजः।

सर्वौपनिषत् सर्ववेदसमं पुंसूक्तमेव हि। पराशरे-4अ-43

पितृ तर्पण लक्षणं विशेष विधिः

विना दर्भैश्च मन्त्रैश्च विनोर्ध्वतिलकं तथा।

विना श्रीपादसलिलं तुलसीमिश्रितं विना।

नैवतृप्यन्ति पितरः कोटितीर्थजलैरपि।

दर्भैर्लोहित दर्भैश्च काशवीरण बल्बजैः।

शुकधान्यतृणैर्वापि दर्भकार्यं समाचरेत्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[39]]

अलाभे सर्वदैवेषां लाभेपि मुनिसत्तमाः।

तुलसीमञ्जरीपत्र काष्ठेष्वेकतरेण वै। बृहद्बृह्मे- ३-१०अ

कर्मभेदेन अङ्गुल्या भेदाः

पञ्चतीर्थानि विप्रस्य करेतिष्ठन्ति दक्षिणे।

ब्राह्मं दैवं तथा पित्र्यं प्राजपत्यं तु सौमिकम्।

ब्राह्मं पश्चिमलेखायां दैवमङ्गुलिमूर्धनि।

प्राजापत्यं कनिष्ठादौ मध्ये सौमं निभोधत।

अङ्गुष्ठस्य प्रदेशिन्या मध्ये पित्र्यं प्रतिष्ठितम्।

कुर्यादहरहश्चैवं सम्यक् कृत्वा विधानतः। `` ``अगस्त्यसंहिता-पारमे-३अ

समिदादान - औपासनक्रमः

एवं कृत्वा जगन्नाथं समिद्दानं समाचरेत्।

जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत्।

न्यूनातिरेकशान्त्यर्थं सर्वकर्मसमाप्तये।

पूर्णाहुत्यवसानान्तं कुर्यात्॥ पारमे-अ 2-112

(2) उपस्थानं ततःकुर्यात् स्वसूत्रोक्तेनवर्त्मना।

औपासनाग्निरूपं भगवन्तं यजेद्गृहे॥ श्री-अ17-43

(3) विधुरश्च सदाकुर्याद् औपासनमतन्द्रितः।

स्वर्णादि प्रतिमां सम्यक् पत्नीरूपं स्मरन् शुचिः।

वानप्रस्थो ब्रह्मचारी कुर्यादौपासनं सदा॥

न कुर्यादेव सन्यासी सदाप्यौपासनं शुचिः।

गृहस्थानां कदल्यादि विवाहश्च विधिर्भवेत्। पराशरे -4अ 37

श्रीपादतीर्थ महिमा

एकान्ती शुचीदेशे वै तस्मादाचाममाचरेत्।

पुनः प्रक्षाल्य हस्तौ तु नालिकेराख्य पात्रके।

जलङ्किञ्चिद् गृहीत्वा तु जले किञ्चिद् विमिश्रितम्।

पादत्तीर्थं च गृह्णीयाद् गुरूणां च हरेस्सदा।

’प्रपन्नः परमैकान्ती विज्ञानात्म विशुद्धये।

गङ्गा गतां च मृत्तोयं पादतीर्थस्य मृत्तिकाम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[40]]

विष्णुपादोदकं तद्वद् गुरुपादोदकं तथा।

गुरुसाम्यादि तीर्थं च पिबेज् ज्ञानात्मसिद्धये। पराशरे-३अ-६५-६८

श्रीपादतीर्थ वटिका लक्षणं

विष्णोस्तत् पादतीर्थस्य वटिकालक्षणं शृणु।

बिल्वमूलगतां वापि तुलसीमूलमृत्तिकसम्।

संशोध्य चूर्णं कृत्वाथ मूलमन्त्रेण मन्त्रवित्।

विष्णुपादोदकेनैव पङ्कीकृत्य हरिं स्मरन्।

सम्यगामलकाकारं वटकं कारयेत् शुचिः॥।

नित्यं तद्वटकं सम्यक् पूर्वोक्तविधिना पिबेत्। पराशरे-3अ-69 वि-तिलके-3अ

समिदानां लक्षणे

गृह्णीयात् समिधश्चापि शुचीदेशे समुद्भवाः।

अश्वत्थ वट पालाश प्लक्षौदुम्बर सम्भवाः।

शंयपामार्ग खदिराः कुशेन समिधो नव।

आयामःसमिधान्तालः कनिष्ठानहनं मतम्।

चर्महीणे विनाशाय भेदे क्षीणकुलो भवेत्।

क्षतासु भार्यानश्येत शाखिनीकलहप्रदा।

उद्वेगायभवेत् स्थूला ह्रस्वाऽवग्रहकारिणी।

दीर्घाऽतिवृष्टिजननी गृह्णीयाद् दोषवर्जिताम्। पाद्मम्।वि-तिलके-३अ

उपादानस्य लक्षणम्

उपादानमतो वक्ष्ये तत्प्रकारमतः शृणु।

मदर्चनाय पुष्पाणि वनाद्वा नन्दनादपि।

स्वारामादापणाद्वापि कमनीयानि चार्जयेत्।

अयोचितानियोग्यानि वासुदेवार्चनाविधौ।

निर्गन्धस्याल्पगन्धानि दुर्गन्धानि परित्यजेत्।

अन्यायार्जितपुष्पाणि तथा देवान्तराण्यपि।

पतितानि च भिन्ननि जीर्णानिमुकुलान्यपि।

म्लानानि नीचस्पृष्टानि विवर्णैः प्रतिलोमजैः।

स्पृष्टानि चरणन्यास लङ्घितान्यपि वर्जयेत्। वि-ति-3अ

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[41]]

अष्टविधदोषरहितद्रव्य विषये

कृत्वाभिगमनं कृत्यं सन्यसेच्च विचक्षणः।

कुर्याद्भोगार्जनं पश्चान्यायोपाय समार्जितम्।

मूलेनवास्त्रमन्त्रेण पुष्पमूलफलादिकम्।

अवपन्नन्त्वभिमतमनाप्तं भावदूषितम्।

व्यामिश्रहीनसंस्पृष्टं शुक्तं लीडं च वर्जयेत्। (पारमे-2अ-118)

अवपन्नादिभिर्दोषै रष्टभिर्वर्जितानि च.

आनयेदेवघातार्थम् अवघातगृहे पुरा. (ईश्वरे-१३अ)

पाकशालायां स्थाली - शराव लक्षणविधिः

(1) स्थालयः सशरावाश्च कल्पनीयाः पुरैव तु.

देशिकेन्द्रकराङ्गुष्टा जठरोत्थाङ्गुलेन तु.

षोडशोङ्गुलकोन्मानः स्थाल्यास्स्युः पाककर्मणि……

शरावाणामथोवक्ष्ये लक्षणं शृणु सत्तम.

अष्टाङ्गुलायतं सूत्रं भूमौप्राप्य परिभ्रमेत्.

मध्यतो जठरं तस्य षोडशाङ्गुलविस्तृतम्.

अष्टाङ्गुलायमुच्छ्राय मर्धचन्द्र समाकृति…..(पारमे-अ -17-270-278)

(2)

स्नातःशुद्धाम्बरधरः स्वाचान्तस्सोर्ध्वपुण्ड्रवान्।

पवित्रपाणिर्गृह्णीयाद् द्वादशाक्षरविद्यया।

हरिचन्दनमन्दार कल्पसस्तानसम्भवम्।

सौगन्धिकोद्भवङ्ग्राह्यं सदाप्रीतिकरं मम।-अनिरुद्धे-१४अ

(3) अभिवाद्य गुरून् वृद्धान् तथा भागवतान् क्रमात्।

प्रविश्यस्वाश्रमं देवमभिगम्य यथाविधि।

अञ्जनालेपनैस्रग्भिः वासोभिः भूषणैस्तथा।

अलक्तकरसाद्यैश्च ताम्बूलमुखशोधनैः।

उपेतोमङ्गलैरन्यैर्नयेदभिगमनक्रियाम्।

उपादद्यात्तथः पूजासाधनानि यथाविधि।

पुष्पाणिफलमूलानि विविधान्योषधीरपि।

आहृत्ययाज्ञिकार्थैर्वा पूजास्थाने निवेशयेत्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[42]]

नीत्वोपादानसमयमित्थं तदनु पूजयेत्।पाद्मम्-अ-13-33

(4) कृत्वा ततो बहिर्गच्छेदुपादानाय वै द्विजः।

हरेराराधनार्थाय सात्विकानिशुचीन्यपि।

पुष्पादीनि च सङ्गृह्य गच्छेद्गेहमथात्मनः।

इज्याकालेतु सम्प्राप्ते स्नात्वाथ नियतःशुचिः।

स्वसूत्रोक्तेन विधानेन कुर्यान्माध्याह्निकीः क्रियाः।

स्वगृहाराधकोयस्तु पूजयेत् पाञ्चरात्रतः॥श्री-अ17-45-47

चन्दनघर्षणविधिः अन्यद्रव्यसाधनविधिः

ततश्चन्दनकाष्ठस्य शाणेसङ्घर्षणं चरेत्।

घनसारं गन्धतैलं तथामृगमदम् पुनः।

केसरीमपि संयोज्य राशीकृत्य निवेशयेत्।

धूपद्रव्यं च कर्पूर ताम्बूलीदल सञ्चयम्।

पूगमेलालवङ्गानि जातीतक्कोलमार्जयेत्।वि-ति-१३अ

गृह्णीयाद्यागयोग्यानि वक्ष्ये शृणु फलान्यपि।

गव्यं पयोदधिघृतमाज्यं वा कमलासन।

तैलं मधुगुलञ्चाम्लं सर्षपंलवणं तथा।

कदलीचूतपनस जम्बीरबदरीण्यपि।

कपित्थं नारिकेलं च नारङ्गं दाडिमं तथा।

जम्बूफलानि पक्वानि चार्जनीयानि पद्मज।पुरुषोत्तमे-5अ

तुलस्याः माहात्म्यम्

अनाकारित एवायं तुलसीकानने हरिः।

नित्यं निवसते विप्रा आशुचावपि भूतले।

न यत्र तुलसीशाखा शुष्कं वा तुलसीदलम्।

विप्राणामपि तत्स्थानमासुरं परिकीर्तितम्।

तुलसीविटपच्छायामाश्रित्य यजते हरिम्।

तस्य पुण्यस्य माहात्म्यं नाहंवक्तुमलम्मनाक्।

तुलसीमूलमृत्स्नेयं महापातक नाशिनी।

यामुद्वहन्मृतोऽरण्ये मुच्यते यम शासनात्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[43]]

न तथा गोमयैश्शुद्धिः प्राशितः गव्यपञ्चकैः।

यथा तुलसिकामूलमृत्स्नायां शुचिता द्विजाः।

ऊर्ध्वपुण्ड्रादिभिर्देहे धृतञ्चेत् तुलसीरजः।

मुच्यते भवपाशेन पादतीर्थाप्लुतं यदि।

द्विजादिभिस्सदा सेव्या तुलसीविष्णुवल्लभा।

सालग्रामशिलापूजायां विना नैवजायते।बृहद्बृह्मे- ३-१०अ

देवपूजनार्थं धान्य सङ्ग्रह (उञ्छवृति लक्षणम्)

शोदितं पात्रमादाय वीधीपर्यटनं चरेत्।

देवदेवार्हणार्हाणि देहीत्यपि सकृद्वदेत्।

द्विवारं नैवपृच्छेत दत्तद्रव्याणिचार्जयेत्।

लब्धमात्रेणसन्तुष्टो गृह्णन् स्वसदनं व्रजेत्।वि-ति-३अ

भगवत्सन्निधौ चरुपाकविधिः

क्रियाकैरचन्द्रिका-29 परिच्छेदः-(पाद्मे)

विष्णुगायत्र्या स्थालीं प्रक्षाल्य । तण्डुलान् आडकप्रमाणान्

ओम् आचक्राय स्वाहा इति तस्यां निक्षिप्य । ‘ओं विचक्राय स्वाहा इति शुद्धजलैः सङ्क्षाल्य । ‘ओं

सुचक्राय स्वाहा इति संशोध्य । ‘ओं सूर्यचक्राय स्वाहा इति अग्नौ आरोप्य । ‘ओं ज्वालाचक्राय

स्वाहा इति अग्निम् उद्दीप्य । ‘ओं महासुदर्शनचक्राय स्वाहा इति श्रपयित्वा । एवं महानसे चुल्यां वा

केवलान्न मुद्गान्न पायसान्न गुडान्नादि चतुर्विधमन्नं श्रपयित्वा ।

इज्या

இஜ்யா (பகவதாராதநக்ரமம்)

अर्चावतारस्य लघुतरं

वायुर्यथा स्थितःविप्राः सर्वत्रधरणीतले।

यथासूर्यस्य तेजश्च व्याप्तं यत् सचराचरम्।

व्यजनेनप्रयत्नेन सूर्यकान्तेन सूर्यगम्।

वायुस्तेजश्च प्राप्येते तथा देवस्तु व्यापकः।

भक्तानां प्रार्थनं शृत्वा वैदिकैस्तान्त्रिकैस्तथा।

एकायनेन मन्त्रेण सम्मुखीभवती सदा।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[44]]

सार्वभौमो यथाराजा स्वपुत्रस्य पुरःस्थितः।

बालवत्क्रीडते सर्वं सङ्कुच्यशक्ति वैभवम्।

तथा सर्वसमर्थोपि भगवान् भक्तवत्सलः।

सङ्कुच्य सर्वगं तेजः मानुषमिव जायते। कण्वसंहिता-10अ-3-7

विष्णु पूजासङ्ग्रहं

स्वाचान्ता स्वोर्ध्वपुण्ड्रः प्रणमनमजिनाद्यासनं चासुयामः।

साङ्गन्यासो जपस्स्यात् हृदयकमलके मानसीदेवपूजा।

वामस्थं वारिपात्रं कुसुममितरतश्चान्यदग्रेऽर्घ्यपाद्या-

चामस्नानीयमर्घ्याद्धरितनु कुसुमस्वात्मनाम् प्रोक्षणंस्यात्।

आह्वानं चासनार्घ्यं पदसलिलमथाचाम पुंसूक्तयुक्त

स्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ क्रमेण।

मध्वादिःपर्क आदावुपरि च सलिलम् पायसाद्यन्नजातं-

पानीयाचामपूगम् परिगतिनमनोद्वासनं विष्णुपूजा। शेषसंहिता- 15म् अध्याये

स्वार्थ परार्थपूजनविशेषाः फलानि च

स्वगृहे स्थापितोदेवः स्वार्थ इत्यभिधीयते।

पर्वताग्रे नदीतीरे सिन्धुतीरे वनादिके।

ग्रामेवा नगरेवापि स्वयंव्यक्तादि भेदतः।

संस्थितो भगवान् विप्राः परार्थ इति कथ्यते।

परार्थस्सूर्यसदृशः स्वार्थस्तु गृहदीपवत्…॥

स एवसर्वफलदः सर्वेषामपि यद् द्विजः…॥

स्वार्थः स्वगृहे पूज्यः स्वाभीष्टफलप्रदः।

स्वार्थस्यापि परार्थस्य पूजायामधिकारिणः।

शाण्डिल्याद्यन्वये जाता गुरोर्लब्धाभिषेचनाः।

अन्ये तु केवलं स्वार्थपूजनेह्यधिकारिणः। ईश्वरे-21अ-503- 511

भगवदाराधनस्य लक्षणम्

(1) माध्याह्निकाह्वयंस्नानम् इज्यार्थं च समाचरेत्।

स्नात्वा माध्याह्निकं कृत्वा जप्त्वा जपमनुत्तमम्।

तत स्समर्चनङ्कुर्यान् मोक्षार्थं प्रीतये मम। वि-ति-3अ-230``

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[45]]

(2) उपादानात् परं सम्यक् कालात् सङ्गमनात् परम्।

प्राप्तो मध्याह्नसमये स्नानं कुर्याद् यथाविधि।

देवादि तर्पणं कृत्वा श्रीवैकुण्ठादि स द्विजः।

पार्षदांश्च सु सन्तर्प्य सर्वं पूर्वोक्तवत्तथा।

धृत्वा व्यक्तोर्ध्वपुण्ड्रादीन् सुगन्धाद्यनुलेपनम्।

देहदुर्गन्धनाशार्थं विष्णुसेवादिकर्मसु। परशरे-4-``9``4``-``9``6``

भगवदाराधन वैशेषिकदिनविषये

गुरूणामन्तिमतिथौ जन्मर्क्षे श्रवणेऽपि वा।

हरिमभ्यर्चयेद्भक्त्या तद्भक्तांश्च विशेषतः॥ । भारद्वाजे-(3अ-89)

पूजनार्थं तीर्थाऽऽहरणविधिः

एवं स्नात्वा गृहीत्वाम्बःकलशेन विचक्षणः।

पूजार्थं देवदेवस्य यागमण्डपमाविशेत्।

घण्टाशङ्खमृदङ्गानां निर्घोषैर्बृह्मवादिनाम्।

महोत्सवेषु सर्वेषु जलं नेयं जलाशयात्।

धृतोर्ध्वपुण्ड्रैःकलशैः शुक्लवस्त्रावृताननैः।

पुष्पमालावृतैस्तोयमुद्धार्यं वैष्णवोत्तमैः।

जलाशयसमीपं तु क्षालयेद्गोमयाम्भसा।

अस्त्रेणद्वादशार्णेन तत्राधारं तु धारयेत्।

इमम्मे गङ्गेति ऋचा जलमन्त्रैश्च वैष्णवैः।

क्षालयेत्कलशंशुद्धमापो अस्मानिति स्मरन्।

अथवा मूलमन्त्रेण द्वयमन्त्रेणसाधकः।

*समुद्रज्येष्ठमन्त्रेण गृह्णीयाच्छिरसाऽथवा।( ऋग्वेदं- 5 अ 4 अष्टकं- 15- सू)

*उदुत्तमेतिमन्त्रेण मुखमाच्छाद्य वैष्णवः।( ऋग्वेदं- 1 अ-2 अष्टकं- 5- सू) (कृष्णयजुर्वेदं- 4 व काण्डम्।-2व प्रश्नं)

शिखयाचाथमूलेन *प्रसम्राजेति* सूक्तकम्।( ऋग्वेदं- 6 अ 1अष्टकं- 5- सू)

प्रजपन् कवचेनापि पूजामन्दिरमाविशेत्।

धान्योपरि तथा कुम्भान् न्यसेद्दक्षिणतो हरेः।

तत्र सम्पूज्यमन्त्रेण धूपदीपाक्षताङ्कुरैः।

एवं जलं समानीय द्वारदेवान् प्रणम्य च।`` ``बृहद्बृह्मे- -3-10अ 70

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[46]]

भूतशुद्धेरवश्यकम्

(1) पृथिव्यप्तेजोऽनिलाकाशं शरीरं भूतपञ्चकम्.

इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्झितङ्गुणैः.

मलिनञ्चाऽस्वतन्त्रं च रेतोरक्तोद्भवं क्षयि.

यावन्नशोधितं सम्यग्धारणाभिर्निरन्तरम्.

तावदेवदयोग्यंस्यान्मन्त्रन्यासादि वस्तुषु.

पञ्चभिर्धारणाभिर्वा द्वाभ्यां वा शोधयेत्तनुम्. (पारमे-३अ१४०)

(2) प्रवर्तिते तूर्यघोषे भूतशुद्धिं समाचरेत्।

अपक्रामस्तु भूतानि पिशाचाप्रेतगुह्यकाः।

सर्वेषामविरोधेन विष्णोःकर्मसमारभे।

निष्कामस्तुपिशाचा ये ये भूताभुविपारगाः।

ये भूता विघ्नकर्तारः ते गच्छन्त्वाज्ञया हरेः। वि-ति—3अ 240

(3) अन्तर्यागविहीनस्य पूजा भवति निष्फला।

अतोवस्संविधास्यामिह्यन्तर्यागं समासतः। ``बृहद्बृह्मे- 4-2अ 120

(4) दिव्यं च योगपर्यङ्कं तत्राऽनन्तासनं स्मरेत्।

तद्भोगदिव्यशय्यायां महावैकुण्ठनायकम्।

श्रीभूभ्यासहितन्देवं सर्वात्मानं हरिंस्मरेत्।

मानसैरुपचारैस्तु पूजयेन्मन्त्रपूर्वकम्।

आवाहनादिभिस्तत्र मन्त्रमूर्तौ जगत्प्रभुम्।

लक्ष्म्यासहसमानीय सूक्ताभ्यां न्यासविद्यया।

पुरुषाराधनेसर्वं सूक्तपूर्वं विचिन्तयेत्।

तथैव पूजयेदन्ते महापुरुषविद्यया।

स्तुत्वानत्वापरिक्रम्य सबद्धाञ्जलिरानतः।

गृहाणमानसीम्पूजां यथार्थ परिभाविताम्।

इति सम्प्रार्थ्यविधिना मानसं होममाचरेत्।

सङ्कल्पजनितैर्द्रव्यैः पवित्रैःपारमार्धिकैः। ``वासिष्ठे-5अ

अष्टाङ्गपूजनविधिः तत्काल नियमंश्च

हृद्यागमाद्यमङ्गंस्या द्योगपीठेप्रपूजनम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[47]]

द्वितीयमङ्गं स्नपनं तृतीयं वेषपूजनम्।

तुर्यं भोज्यासने विष्णोः पूजनं पञ्चमं ततः।

गुरोःसिद्धिप्राशनं तु षष्टं नित्याग्निपूजनम्।

सप्तमन्तूत्सवो नित्यश्चाऽष्टमाङ्ग मितीरितम्।

अष्टाङ्गपूजनं त्वेवं गर्भगेहे विधीयते।

चतुर्थादि षडङ्गान्तं बहिःपूजनमारभेत्॥( मण्डपादिषु पूजयेत्) - श्रीप्रश्नम्-28अ 307

अन्यत्र

अन्तः करणयागादि यावदात्मनिवेदनम्।

तदाद्यमङ्गं यागस्य नाम्नाऽभिगमनं महत्।

पूजनञ्चार्घ्यपुष्पाद्यैर् भोगैयदखिलं मुने!।

बाह्योपचारैस्तद्विद्धि भोगसञ्ज्ञं तु नारद।

मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या।

तत् तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम्।

निवेदितस्य यद्दानं पूर्वोक्त विधिना मुने।

सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम्।

वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः।

प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम्। पारमे-10अ ईश्वरे-6अ

पूजाविधानं बहुधा वक्ष्यामि शृणु भूपते।

अर्चनं विधिवत् प्रोक्तं यागं चाराधनं ततः।

अभ्यर्चनं च पूजा च समाराधनमेव च।

सम्पूजनं च विधिना कथितान्यर्चनानि ते।

द्वारपूजादि बल्यन्तमर्चनं तु विधीयते।

द्वारपूजादि होमान्तं यागं चेति प्रकीर्तितम्।

नित्योत्सव विधानं तु आराधनमुदाहृतम्।

दीपादि हविषान्तं तु अभ्यर्चनमिति स्मृतम्।

मधुपर्कसमायुक्तं प्रपूजेति प्रकीर्तिता।

मात्रादान विधानेन छत्रचामरपिच्छकैः।

नीराजनं दर्शनं च अन्नपिण्डसमायुतम्।

नृत्तं वाद्यरवैर्युक्तं वीणा वेणुरवैस्तवैः।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[48]]

एवमादिषु चान्येषु समाराधनमिष्यते।

पञ्चकालार्चनायुक्तं षट्कालार्चनमेव वा।

एवमादिषु सर्वेषु सम्पूजनमिति स्मृतम्। मार्कण्डेये-15 अ

करयोः न्यासत्रय विषयं

दक्षहस्ततलारम्भो वामान्तः सृष्टिसञ्ज्ञितः.

दक्षाङ्गुष्टादिको वामतलान्तः स्थितिसञ्ज्ञितः.

वामहस्ततलारम्भो दक्षान्त इतरःस्मृतः.- पारमे(4अ-8-9)

देहन्यासाद्धस्तन्यासस्य प्राथम्य कारणम्।

वैभवीपरमाशक्तिर्हृच्चक्र कुहरान्तगा।

वायव्यं रूपमास्थाय दशधा संव्यवस्थिता।

इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गताः।

नाडीदशकमाश्रित्य ता एवाङ्गुला मताः।

अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे।

पूर्वमन्त्रगणं न्यस्य ततो भूतमये न्यसेत्। जया-11प

देहे न्यासत्रय विषयः

आमूर्धश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ.

व्यापकत्वेन विन्यस्य पादाद्भूयः शिरोऽन्तिमम्.

सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततःपरम्.

मूर्धादिपादपर्यन्तं सृष्टिन्यासः प्रकीर्तितः.

पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते.

क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम्.

विन्यसेदेष सृष्ट्याख्यो न्यासःप्रोक्तो यथार्थतः.(पारमे-4अ 26-27)``

मन्त्रन्यासस्य अवश्यकत्वं फलञ्च

संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत्।

येन विन्यस्तमात्रेण देवदेवसमो भवेत्।

पूजादौ सर्वकार्याणामधिकारश्च जायते।

भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च।

यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्ट समाकुले।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[49]]

विजयश्चापमृत्यूनां स्याद्येन विहितेन च। जया-प -11-3

हृत्पुण्डरीक परमात्मनः चैतन्यज्योति विष्णोः प्रभाविशेषः मानसाराधन महिमा

एवं प्रकीर्तितं सङ्घं मन्त्रचक्रं परात्मकम्।

हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम्।

कदम्बगोलकाकारं विश्वरूपं मणिप्रभम्।

रत्नदीपसमाकार मच्छिन्नप्रसरं महत्।

श्रोत्रपूर्वैः खरन्ध्रैश्च रश्मयस्तस्य निर्गताः।

छिद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्द्विज।

याति भासाङ्गणो बाह्ये शरीरादेवमेव हि।

मन्त्रोरश्मिसमूहस्तु नाडिभिः प्रसरेद्बहिः। जया-12pa-40

मानसाराधन लक्षणम्.

मानसारधनस्य फलं च

ततःक्रमाद्यजेद्देवं भोगैरमृतसम्भवैः.

सुसमस्तादिभिः सम्यक्ताम्बूलान्तैर्यथोदितैः.

सर्वं कृत्वा यथायोगं यावदात्मनिवेदनम्.

मानसान् जयशब्दांश्च कृत्वा विज्ञापयेदिदम्.

स्वागतं देवदेवेश सन्निधिं भजमेऽच्युत.

गृहाण मानसीं पूजां यथार्थपरिभाविताम्.

सांस्पर्शैरौपचारैश्च तथाऽऽभ्यवहारिकैः.

महद्रूपैः प्रभूतैस्तु सप्तलोक समुद्भवैः.

यथोदितैस्तु विधिवदुत्कृष्टतर लक्षणैः.

एवंविधांस्तु तान् भोगान् सद्भक्त्या विनिवेद्य च. (पारमे-5अ-130-135)

2-विस्तरेणद्विजश्रेष्ठ! मानसं यागमारभेत्।

सङ्कल्पजनितैर्द्रव्यैः पवित्रैरक्षयैः शुभैः।

सर्वकामप्रदं देवं मन्त्रमूर्तिधरं यजेत्…॥

आत्मानं ससुतान् दारांस्तस्मै च नमसा युतान्।

निवेद्य प्रणतो मूर्ध्ना आनन्दाशृ समन्वितः।

हृद्योम पुष्कराग्रस्थं देवमिष्ट्वा जगद्गुरुम्। जया-1``2 प-7``5

(3-)विशेषपूजनं विप्र कल्पयेदच्युतस्य तु।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[50]]

सौवर्णपुष्पसम्पूर्णमञ्जलिं सम्प्रसार्य च……

स्तोत्रमन्त्रैः पवित्रैश्च स्तुत्वा संयक्प्रसादयेत्।

एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम्।

होमं तथा विधिं कुर्यान् मोक्षलक्ष्मीप्रदं शुभम्…॥

अयं यो मानसो यागो जराव्याधि भयापहः।

पापोघसर्गशमनो भवाभावकरो द्विज…

तारयेत्स्वपितृन् यातानेष्यांश्चैव तु साम्प्रतात्।

न तस्यपुनरावृत्तिस्स याति परमां गतिम्। जया-प-1``2``-``

(``4``)``-

वासना द्विविधाप्रोक्ता बाह्याभ्यन्तरहेतुजा।

निर्णुदत्यान्तरास्सर्वा मानसो याग उत्तमः।

बाह्याशय विशुद्ध्यर्थं बाह्ययागो विधीयते।- लक्ष्मीतन्त्रे-

5-हृद्यागं स्थानसंशुद्धिं सायामं भौतिकिं तथा।

नित्यं प्राभातिकेकुर्यादन्यत्रेच्छानुरूपतः। ईश्वरे-

स्नेहपूर्वं हि मनसा कृतङ्कर्म फलात्मकम्।

मनसस्थिरताभावे स्नेहभावे च किं फलम्।

महात्म्याज्जगदीशस्य स्नेहस्तस्मिन् प्रजायते।

स्नेहेनमानसेयागे चित्तस्थैर्यं हि निश्चितम्।

प्रसादे मनसाशान्तिः निश्चलाप्नोति साधकः।

तस्मात्सर्वेषुयागेषु मनोयागस्तु उत्तमः। कण्वसंहिता-21 अ 12-16

विष्णोर्ध्यानप्रणामार्च स्तुतिचिह्नानिवर्जितम्।

समारब्धं तु यत्कर्म तत्कर्म विफलं भवेत्।

विष्वक्सेनः स्मृतोनेता भगवाञ्च्छुद्धकर्मणाम्।

तस्मान्नान्यमुपासीत कर्मणां विघ्नशान्तये। भारद्वाजम्-3अ 3

बहिर्यागे भोज्यवस्तु विशेषाः

अम्बरीषादिपात्रेषु विततेषु समन्ततः।

घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च…॥

ततो देवादिमूर्तीनां हवींषि विनिवेदयेत्।

प्रथमं पायसं पश्चाद् गुडान्नं मुद्गभेदितम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[51]]

शुद्धान्नं तिलसम्मिश्रं निशान्नं दधिमिश्रितम्।

मिश्रान्नं क्रमाद्दद्यादपूपानि तदन्ति मे।

पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च।

कदलीपनसादीनि फलानि विविधानि च।

रसभेद समेतानि पानकानि च तर्पणम्।

नालिकेररसं चैव हस्तप्रक्षालनं ततः।

उपस्पर्शं च ताम्बूलं दत्वा प्रागुक्तमाचरेत्।

राजभिर्हविषो नित्यं देवाय विनिवेदयेत्। (पारमे-17अ 275-280)

अर्हण पानीय लक्षणे

शीतलोदकसम्पूर्णम् एलातक्कोलसंयुतम्।

मन्दोष्णंवासनायुक्तम् अर्हणाम्बु इति स्मृतम्। पाद्मं

அர்ஹண பானீய லக்ஷணே

அர்ஹண பானீயத்தின் லக்ஷணம்

ஶீதளோதகஸம்பூர்ணம் ஏலாதக்கோலஸம்யுதம்।

மந்தோஷ்ணம்வாஸநாயுக்தம் அர்ஹணாம்பு இதி ஸ்ம்ருதம்। பாத்மம்

प्रापणं तर्पणम् इति-लक्षणे

फलपक्वरसादीनि भक्ष्यभोज्यादि सम्युतम्।

मधुरादि रसोपेतं प्रापणं समुदाहृतम्।

अपक्वैरतिपक्वैश्च सुपक्वैर्जलपक्वकैः।

पानीयैरिक्षुशकलैर्नारिकेलजलैरपि।

एतैस्तु तर्पयेद्देवं तर्पणं समुदाहृतम्। ईश्वरे

चतुर्विध दास्यं

दासस्तद्विष्णुपत्नीं च राजवत् पूजयेत् हरिम्।

प्रपन्नानां सदा सम्यक् विष्णोर्दास्यं चतुर्विधम्।

पतिभार्यादिसम्बन्धं पितृपुत्रादिकं तथा।

स्वामिभृत्यादिसम्बन्धं शिष्याचार्यादिकं तथा।

एतच्चतुर्विधं दास्यं विष्णोः प्रीतिकरं सदा। पराशरे-4अ 101

नित्याराधन सङ्ग्रहं

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[52]]

श्रीमदाराधनं विष्णोस्संस्थान्येभवदाज्ञया।

दासोऽहं शेषभूतोऽहमनन्यसुखचिन्तकः।

प्रबोधयेज्जगन्नाथं दिव्यपर्यङ्कशायिनम्।

घण्टामृदङ्गनिनदैस्स्तवैः पुरुषविद्यया।

तं व्रलयेति सूक्तेन बोधयेत्कमलापतिम्।

वनस्पतेति सूक्तेन तुर्यघोषन्निनादयेत्।

कुर्यात्प्रदक्षिणं विष्णोरतोदेवेत्यनेन तु।

तद्विष्णो रितिमन्त्राभ्यां त्रिः प्रणम्याथवाग्यतः।

उत्थाप्य दर्शयेद्दीपकन्या गो पुण्यदर्शनाम्।

श्रियन्देवीं समुत्थाप्य दर्शयेद्दन्तधावनम्।

प्रक्षाल्य वारिना वक्त्रं साङ्गंसावरणं हरिम्।

स्मृत्वा नीराजयेद्दीपैस्ततः पूजां समारभेत्।

पात्राद्यासादनं कुर्यात् तथाऽन्तर्यागमुत्तमम्।

आवाहनादिकं कुर्याद्बहिर्यागं समारभेत्।

शयनान्तोपचारैस्तु समाराध्य जनार्दनम्।

अन्ते वैकुण्ठमाप्नोति प्रपन्नोऽयं हरेः पदम्। बृहद्बृह्मे- 3``-``7``-``1``9``5``-202

भगवन्निवेदित प्रसादेनैव पितृश्राद्धादि कार्य विषये

अन्नाद्यं पुरतोन्यस्तं दर्शनाद् गृह्यते मया।

रसान् भक्तस्य जिह्वायाम् अश्नामि कमलोद्भव॥

यः श्राद्ध काले हरि भुक्त शिष्टं ददाति भक्त्या पितृ देवतानां ……..

विष्णोर्निवेदितान्नेन श्राद्धकर्मणि कारयेत्.

भुञ्जितोविष्णुनैवेद्यं देवीभ्योविनिवेदितम्.

आलयेदेवदेवाय यद्यत्तस्मै निवेदितम्.

तेनैव स्वगृहे विष्णुं तोषयेदविशङ्कितः…… विष्णुतिलके-पाद्मे

पङ्तिभोजन लक्षणं

विष्णोर्नैवेद्यशेषेण विष्णुतीर्थेन सादरम्।

नित्यंश्राद्धादिकं कृत्वा पङ्तियोग्यैस्सहादरात्।

वृद्धबालादिकैस्संयक् ध्रुवं भुञ्जीत वैष्णवः।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[53]]

तत्तद्योग्यस्थले सम्यक् अतिथीनपि भोजयेत्।

विष्णुशेषं च ताम्बूलं गृह्णीयाच् चन्दनं तथा।

तत्तद् धर्मेणचाश्नीयाद् विष्णु नैवेद्य भक्षणम्। पराशरे-4अ 122

निर्माल्य भक्षणे फलम्

(1) धारितं विष्णुनिर्माल्यं चन्दनाद्यनुलेपनम्।

अहर्निशं धारयतो न पुनर्जननं भवेत्। (सनत्कुमारे-7अ), पराशरे-४अ ११४

(2) श्रीभूनीलाख्यकानां विनतानन्दनस्य च।

चक्रादीनाम् आयुधानां वस्तु यद्यन्निवेदितम्।

भोक्तव्यमेव सर्वेषां विप्रादीनामशङ्कित।

विष्वक्सेनस्य नैवेद्यं प्रापणं दुर्लभं भवेत्।

विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम्।

पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते।

भुञ्जानानाम् एधते श्रीस्त्यजतां परिहीयते।

व्रतोपवासतुलितम् अशनं तस्य पावनम्। पराशरे-4अ-123

विभवावतार पूजनफलेन फलभेदाः

अणिमा महिमाप्राप्तिः लघिमा वशिता तथा।

प्राकाम्यमीशिता चैव यत्रकामावसायिता।

वाराहं पूजयेद्भक्त्या सूक्ष्मो भवति शीघ्रतः।

विश्वरूपसमर्चातो महतो भवती महान्।

हंसदेशप्रसादेन लाघवं भजते तनोः।

प्राकाम्यं प्राप्नुयात् सद्यः वामनस्य प्रपूजनात्।

ईशित्वं नरसिंहाद्वै मन्त्रजापाद् लभेद्धृवम्।

चिदचित्तां वशित्वञ्च शक्त्यात्मनः प्रसादतः।

एकशृङ्गतनोर्भक्त्या यत्रकामावसायिता।

प्रत्यहम् पञ्चसाहस्री षण्मासाभ्यन्तरे जपी। कण्व संहिता-20अ74-80

स्वाध्याय लक्षणं

स्वाध्यायं ब्रह्मयज्ञाय पठेदुच्छैस्तु सस्वरम्।

विष्णोर्निवेदितान्नेन विष्णुपादाम्बुना रमे।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[54]]

नित्यश्राद्धादिकं कृत्वा वैश्वदेवबलिं ततः।

सायाह्नकाले सम्प्राप्ते वेदं वेदार्थमेव वा।

पुराणं धर्मशास्त्रं च पाञ्चरात्रार्थमेव च।

वेदान्तमितिहासादि ह्यन्यं वा सूरिभिःकृतम्।

हरेःकथां च शृणुयात् स्वयं वापि पठेत्तदा।

कर्मणामनसावाचा विष्णुसेवापरो भवेत्।

एतेषु शक्तिहीनस्तु द्वयमष्टाक्षरं तु वा।

द्वादशार्णं षडर्णं च स्मरेन्नान्यं च चिन्तयेत्।

लम्बमाने ततः सूर्ये स्वसूत्रोक्तक्रमान्वितः।

सन्ध्याकर्म ततः कृत्वा औपासनमथाचरेत्॥ श्री-अ17-55-59

योगार्थिनां च स्वाध्यायं योगमध्ययात्मसञ्ज्ञितम्।

तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते।

अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः।

आगमाध्ययनं कुर्यात् तद्वाक्यार्थ विचारणम्।

प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि। पारमे-7अ 436

योगस्य लक्षणम्

महानिशि समुत्थाय योगकाले प्रसन्नधीः।

पादशुद्ध्यादिकं कृत्वाचाचम्य च यथाविधि।

बृस्यासनमासीनो योगपर्यङ्कमारुहन्।

प्राणायामेन पुरुषं शङ्खचक्र गदाधरम्।

पिताम्बरंश्वेतवर्णं वनमालादि भूषितम्।

वासुदेवं परन्ध्यायन् योगं कृत्वा विचक्षणः। श्री-अ 17-63-65

समुत्थायर्धरात्रेऽथ जितनिद्रो जितश्रमः।

कमण्डलुस्थितेनेनैव समाचम्य तु वारिणा।

अथ योगविभृत्यर्थं योगं युञ्जीत वैष्णवम्……।

प्रत्यारं प्रकुर्वीत चित्तसंयमनं तु यत्।

तिष्ठते लक्ष्यमार्गे तु नान्यथा तु कदाचन।

ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत् प्रकीर्तितम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[55]]

धारणापि ततो धार्या तदा पापापनुत्तये।

पञ्चधापूर्ववत् सा तु प्रतिमन्त्रव्यवस्थया…।

योगोपि त्रिविधः प्रोक्तस्तं च कार्त्स्येन मे शृणु।

प्राकृतं पौरुषं चैव ऐश्वरं च त्रितीयकम्। पारमे-7अ-470

एवम् अनुष्ठितभेदेन फलभेदाः

पञ्चैतेसमया पञ्चविधयस्तेषु दर्शिताः।

इत्थमेतेषु कालेषु दर्शितःकर्मभिर्नरः।

आराधनं भगवतः कुर्वन्नैवावसीदति।

वर्षेषु द्वादशस्वेवमनुतिष्ठन् समाहितः।

क्रियाकलापमखिलं याति सायुज्यसम्पदम्।

षट्सु वर्षेषु सारूप्यसामीप्यादि सुनिश्चितम्।

सालोक्यं फलमेकस्मिन् वत्सरे नात्र संशयः। पाद्मे-१३अ-८०

(2)-एवं स्वकर्मणिज्ञाने भक्तौ च परिनिष्टितः।

वैराग्येण च संयुक्तो नचेहाजायते पुनः। भारद्वाजम्-3अ-100

आलयबिम्ब, गृहबिम्ब दर्शन कालभेदेन फलभेदाः

माध्याह्निककालदर्शन निषेद विषयम्

एवं सम्पूजयेद्देवं सायम्प्रातर्दिनेदिने।

कवाटं बन्धयेत्पश्चाद् गेहं कृत्वा प्रदक्षिणम्।;

सन्ध्ययोरन्तरेकाले कवाटं न विमोचयेत्।

अकाले बिम्बदर्शे तु सुकृतं तु विनश्यति।

आस्थानस्थः स्सदासेव्यः विमानस्थस्तु कालतः।

स्वगृहे सर्वदासेव्यः मध्यरात्रं विना प्रभुः। विष्वक्सेनं

2–कवाटोद्घाटनं कृत्वा अकाले बिम्बदर्शनम्।

ग्रामनाशश्चदुर्भिक्षो राजराष्ट्रं च नश्यति। कपिञ्जलम्

ऊर्ध्वपुण्ड्रधारणे श्वेतमृदस्य विशेषः

देवदेवजगन्नाथ सर्वलोकैकरक्षक।

त्वयाहतो महादैत्यो वसुधापि समुद्धृता।

वयं च रक्षिता देव करुणामृतवारिधे।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[56]]

इहानेनैव रूपेण भवान् भूम्या समन्वितः।

स्थातुमर्हसि लोकेश भक्तानुग्रहकाम्यया।

इति देवैः प्रार्थितोयं वराहोभगवान् हरिः।

स्वाङ्के वसुन्धरां न्यस्य तस्या उपदिशन्मनुम्।

प्राग्भागे तस्य तीर्थस्य ह्यद्याप्यास्ते मुनीश्वराः।

तत्र तेन वराहेण स्वाज्ञप्तः पतगेश्वरः।

श्वेतद्वीपाच्छुद्धमृदं समाहृत्य सरस्तटे।

पुरा निक्षिप्तवान् सा हि मृत्तिका लोकपूजिता। ईश्वरे-20अ-297

वश्यार्थी रक्तया श्रीच्छन् इति पारमेश्वरसम्हितायाः श्रीचूर्णं वर्ण्यते

तस्य रक्तवर्ण श्रीचूर्णस्य (परिकल्पन-लक्षण-माहात्मिय- विधिः)वर्णने

श्री भगवानुवाच-

शृणु तार्क्ष्य महाबाहो यन्मां त्वम् परिपृच्छसि।

तत् प्रवक्ष्यामि ते चूर्णं वैष्णवानां हितावहम्।

फाल्गुणे मासि सम्प्राप्ते एकादश्यां समाहितः,

शुद्धं हरिद्रमादाय शुष्ककीट विवर्जिताम्।

सुवर्णां सुदृढां श्लक्ष्णां रक्तामतिमनोहराम्।

तत्कण्टशश्चकुर्वीत कृष्णगर्भां परित्यजेत्।

तुलसीम्प्रार्थ्यसम्पूज्य दलान् सङ्क्षोदयेत् सुधीः।

मूलमन्त्रेणचाहृत्य शोषयेच्च करातपे।

श्रीगन्धञ्चागरुञ्चैव कर्पूरेण समन्वितम्।

काश्मीरञ्च कस्तूरी स्वर्णचूर्ण विमिश्रितम्।

हरिद्रां सम्यगाहृत्य मूलमन्त्रेण मन्त्रवित्।

सङ्क्षाल्योलूखलं तार्क्ष्य ! मुसलं मूलमन्त्रतः।

अभ्यर्च्योलूखलं गन्धपुष्पधूपैश्चदीपकैः।

नैवेद्यैर्मुसलं पूज्य पल्लवैश्चावबन्धयेत्।

हरिद्रां तुलसीगन्धस्वर्णचूर्णविमिश्रिताम्।

अवहन्यात् प्रयत्नेन भूमावपतितं यथा।

श्रीवैष्णवैर्वेदविद्भिर् मन्तरङ्गैस्स्समुपस्थितैः।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[57]]

सञ्चूर्णयित्वा सु धृडैर्नवबाण्डे सुधूपिते।

संस्थाप्य पुष्पैस्संवास्य अधिवास्य च विद्रवत्।

पवित्रारोप मार्गेण मन्त्रैस्सम्मन्त्रयेच्छतैः।

पौरुषेणैव सूक्तेन श्रीसूक्तेन विधानतः।

भूसूक्तेन पवित्रेण द्वादशाक्षरविद्यया।

श्रीमदष्टाक्षरेणापि षडर्णेन तथा पुनः।

ऋग्भिर्द्वादशभिश्चैव मन्त्रैर्द्वादशकैरपि।

अभिमन्त्य च सम्पूज्य स्थापयेद्विष्णुमन्दिरे।

हरिं विधिवदभ्यर्च्य जागरं कारयेत्सुधीः।

ततः प्रभातसमये स्नात्वा शुक्लाम्बरश्शुचिः।

हरिं सम्पूज्यविधिवन्नैवेद्यान्तं यथाविधि।

मूलमन्त्रमनुस्मृत्य देव्यैर्देवाय भक्तितः।

तत्तत्सूक्तैश्च मन्त्रैश्च देवं मूर्ध्न्यभिषेचयेत्।

आचार्योयजमानश्च वैष्णवैर्मन्त्रपारगैः।

अभिषिच्य ततो देवं पुनस्सम्पूज्य भक्तितः।

महाहविर्निवेद्याथ भक्ष्यैर्नानाविधैरपि।

नीराञ्जनं समर्प्याथ पुष्पाञ्जलिमशेषतः।

श्रीमन्नारायण स्वामिन् गृहाण प्रियया सह।

धरण्याश्च हृषीकेश चूर्णं दिव्यं मयाकृतम्।

श्रीवत्सं कौस्तुभं देव धारितं सततं विभो।

तत्वच्चूर्णं मयादत्तं गृहाण पुरुषोत्तम।

इति सम्प्रार्थ्यदेवेशं भक्तियुक्तेन चेतसा।

दद्याचार्यवर्याय दक्षिणां सुसमाहितः।

तत्रागतान् महाभागान् वैष्णवान् पूजयेत्तदा।

ब्राह्मणानपि सम्पूज्य दक्षिणा वीटिकादिभिः।

देवस्यगात्रे तच्चूर्णं दध्निं संस्थापयेत्सुधीः।

प्रभाते देवमभ्यर्च्य चूर्णं सङ्गृह्य पात्रके ।

दद्याचार्य मुख्येभ्यो चूर्णं सर्वफलप्रदम्।…इति खगप्रश्न संहितायाम् अध्याये- 40

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[58]]

(2) नारद उवाच

ऊर्ध्वपुण्ड्रविधिं द्रव्यं मन्त्रस्थानादि सम्युतम्।

ब्रूहि मे देवदेवेश यथार्हं धारयाम्यहम्।

श्रीवासुदेव उवाच-

श्वेतम्पीतन्तथारक्तं द्रव्यं तु त्रिविधं स्मृतम्।

पुण्ड्राणां धारणे विप्र! ममैव प्रकटीकृतम्।

तेषु रक्तं श्रियादेव्यामत्स्नेहात् प्रकटीकृतम्।

श्रीकुङ्कुमेति विख्यातं सदा माङ्गलिकं मुने।

केवलं भक्तिदं पुंसाममङ्गल विनाशनम्।

पुण्ड्राणामन्तरालस्थं मुक्तिदं मुनिसत्तम।

समुद्रमथनोद्भूता कमला मम वल्लभा।

य़दा तदाब्धिना पित्रा दातुम् मे समलङ्कृता।

सुरासुराणां मध्ये च स्वयंवरविधानतः।

दातुं कन्यां कञ्जकरां समुद्रस्समुपस्थितः।

सा तमालोक्य देवेशमात्मनोहितमीश्वरम्।

प्रेमातिशयतो नेत्रादपाम्बिन्दूनमुञ्चत।

तेनाभूद्विरुधःप्रेम नियतःपरमाद्भुतः।

तेनैव सा हरिं प्राप्ता वीरुधेनस्वयंवरे।

हरिन्द्राति परप्रेम्णाणि जन्थोऽत्र विचार्यताम्।

प्रापणाच्च हरेस्साक्षात् हरेरत्यन्त वल्लभः।

संवीक्ष्यचिह्नितं तेन भक्तं प्रीणाति केशवः।

लक्ष्मीप्रेमात्मकन्द्रव्यं साक्षात्किं न करोति च।

धनधान्यसमृद्धिं च रूपसौभाग्यसम्पदम्।

विवाहव्रतबन्धादि जन्मयात्रानुयुज्यते ।

द्रव्यमाङ्गलिकं साक्षाद्दारिद्रं प्रेमभाजनम्।

य़ा नारीफालदेशे तु बिभर्ति प्रत्यहं द्विजाः।

सा नारी लभतेभाग्यं सुखं च निजमन्दिरे।

लक्ष्मीर्नमुञ्चतिप्रेम्ना पार्श्वं तस्याऽहर्निशम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[59]]

प्रयच्छतिवरान् प्रीता जायतेपतिवल्लभा।

“लक्ष्मीप्रेमसमुद्भूते हरिद्रे हेमसन्निभे।

बिभर्मि त्वां महाभागे वरदाभव ते नमः।“

इतिमन्त्रेण या नारी श्रीचूर्णमभिमन्त्रितम्।

स्नात्वा धारयते नित्यं सा लक्ष्मीवद्विराजते।

लक्ष्मीरूपमिदं द्रव्यं पुण्ड्रमध्ये बिभर्ति यः।

दास्यं स लभते विष्णोः सत्यं सत्यं ब्रवीम्यह।

पुण्ड्ररूपेण मां विद्धि रेखारूपेण वै श्रियम्।

सन्धारयं ये फाले बाहुवक्षस्थलादिषु।

ज्ञानिनो मुक्तये चूर्णं पुण्ड्रमध्ये बिभर्ति यः।

स प्रियोह्यावयोर्भूत्वा मामकं धामयाति हि।

आज्ञोपि ज्ञानसिद्ध्यर्थं भक्त्यर्थं चापि यो भजेत्।

ज्ञानं भक्तिमवाप्नोति रहस्यं ते ब्रवीम्यहम्।

हरिद्रासम्भवञ्चूर्णं टङ्कणेन ?समन्वितम्।

भावितञ्चाम्लद्रव्येण रक्तत्वमुपयाति हि।

वैवाहिकेषुयागेषु स्नात्वाऽऽमलकवारिणा।

संस्मृत्य परमान्देवीं कमलां ममवल्लभाम्।

हिरण्यवर्णाममलां वसुपात्रकरद्वयाम्।

मातुलुङ्गधरां देवीं गन्धद्वारां मनोरमाम्।

पूजार्थं तव देवेशि वैकुण्ठप्राणवल्लभे !।

आज्ञां देहि महामाये श्रीचूर्णं साधये यथा।

हिरण्यवर्णेति ऋचां पञ्चकेन महामनाः।

प्रोक्षयेद्रजनीद्रव्यं पञ्चगव्येन शोधयेत्।

अस्त्रमन्त्रेणसंरक्ष्य कवचेनावकुण्ठ्य च।

पञ्चामृतेनसंस्नाप्य तक्रमध्ये च निक्षिपेत्।

भूमिंसंलिप्य तद्बाण्डं स्थापयेन्मृण्मयोद्भवम्।

रात्रौ संरक्षयेद्दुष्टच्छायातो हृष्टमानसः।

ग्रन्धीनां तक्षणङ्कुर्यात् हेतिनासूक्तमुच्चरन्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[60]]

द्वितीये मृण्मयेभाण्डे छायाशुष्कं विधाय च।

प्रातस्स्नात्वा शुचिर्भूत्वा नित्यकर्मविधाय च।

पात्रमुद्धृत्य हृन्मन्त्रं जप्त्वा कुर्याद्बहिस्ततः।

भावयेदाम्लद्रव्येण शुद्धनिम्बोद्भवेन च।

आर्द्रपिष्टेनचाप्यत्र टङ्कणम्पातयेद्बुधः।

दत्वाचैरण्डपत्राणि मुखे मारुतवर्जिते।

प्रदेशे स्थापयेद्यावद् रक्तत्वमुपजायते।

तावद्विधूपयेन्नित्यं यथाछाया न सङ्क्रमेत्।

पश्चात्संशोध्य यत्नेन शिलया चूर्णयेद्धृडम्।

सुगन्धस्नेहलेशेन भावयेच्चन्द्रकेण वा।

देव्याःप्रीतिकरं चूर्णं निष्पन्नं जायते यदि।

वासयेन्मालतीपुष्पैःस्तिलानीव महात्मना।

यावत्सम्पद्यतेगन्धः श्रीचूर्णे कमलाप्रिये।

निष्पाद्यमङ्गलद्रव्यं मृष्टपात्रे च धारयेत्।

पूजयेद्विविधोपायैः तथा नीराजयेन्निशी।

द्वादश्याञ्जन्मसमये श्रीदेव्याः प्रयतो नरः।

सम्पूज्य परमान्देवीं सर्वावरणसंयुताम्।

इदन्द्रव्यं मयादेवी प्रीत्यानिष्पादितं तव।

स्वीकुरुष्व महामाये विष्णुपत्नी नमोस्तु ते।

धारणार्थं पृथक्कुर्याद् बिल्वपात्रं विशेषतः।

श्रियैजातेतिवाकेन बिभृयादिति मे मतम्।

पुण्ड्रार्थं श्वेतद्रव्यं हि समानीतं गरुत्मता।

श्वेतद्वीपान्महाभाग! मलयाद्रौ निवेशितम्।

मलयाद्रिसमुद्भूता मृदमादाय वैष्णवः।

यःकरोद्यूर्ध्वपुण्ड्राणि स ऊर्ध्वपदमश्नुते।

यस्यफाले हरेर्नाम श्वेतद्रव्येण दृश्यते।

अन्तकालेमृतोयाति श्वेतद्वीपं स पातकी॥ बृहद्बृह्मे- चतुर्थः पादे सप्तमोऽध्याये - 75

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[61]]

एतत्कुङ्कुमाभिषेचन मन्त्र विशेषः

1 - क्षाल्यो गन्धाम्बुना देहः पुनस्तं कुङ्कुमेन तु।

आलिप्य विष्णुगायत्र्या क्षालयेत् पावमानिभिः। पाद्मम्-3अ-155

2–…….गन्धद्वारेति देशिकः।

स्नापयेद्गन्धपङ्केन कुङ्कुमालेपनं ततः। श्री-26-अ-260

नारयण बलि विषये

बृह्महत्यादिपापानां निष्कृतिःस्मृतिचोदिता।

मृतानां विषशस्त्राग्निप्रायैरुग्रैश्च कर्मभिः।

नारायणबलिर्नाम समाराधनमुत्तमम्।

गतिर्हेतुर्विना तेन गतिरन्या न विद्यते।

पुनर्दहनमारभ्य कर्मस्मार्तमशेषतः।

कृत्वा सपिण्डीकरणपर्यन्तं तदनन्तरम्।

देवदेवं समाराध्य वक्ष्यमाणेनवर्त्मना।

विष्ण्वालये नदीतीरे पर्वते वा वनेऽपि वा।

अन्यत्र वा पुण्यदेशे कर्तुर्वा भवने शुभे।

यष्टव्यं कृष्णपक्षस्यद्वादश्यामयनद्वये।

उपोषितः सन् पूर्वेद्युः कर्ता नियतमानसः।

ब्राह्मणान् भगवद्भक्तान् व्रतस्वाध्यायशालिनः।

आमन्त्यमन्त्रविद् बुध्वा केशवादि यथा स्वयम्।

शोषयेद्गोमयाम्भोभिः भूतले कुशविष्टरे।

उपवेश्य वृतानेन प्राङ्मुखान् कमलासन।

अर्घ्यादिभिः समभ्यर्च्य नामभिः केशवादिभिः।

नमोऽन्तैर्नागवल्यादि दत्वा चाभ्यञ्जयेद् द्विजान्।

स्नातानां सन्निधौ तेषां होमञ्चोपासनेऽनले।

कृत्वाग्निमुखमग्नेश्च प्राग्भागे चक्रपङ्कजे।

स्थण्डिले कुशकूर्चे वा देवमावाहयेद्यदि।

पुष्पाञ्जलिः समुत्थाय नृसूक्ताद्या ऋचो जपन्।

ओम्पूर्वाभिर्व्याहृतिभिराराध्य पुरुषोत्तमम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[62]]

मूर्तिभेदान् केशवादीन् नामभिः स्वैरनन्तरम्।

आवाह्यार्घ्यादिभिः षड्भिरुपचार्य पृथक् पृथक्।

तर्पयित्वा तिलाम्भोभिः केशवादीन् स्वनामभिः।

उपचर्य च दीपान्तं पुरुषं पुरुषात्मना।

सूक्तेन केशवादींस्तु नामभिः स्वैर्यथाक्रमम्।

अग्नौ पद्मासनासीनं ध्यात्वा परमपूरुषम्।

आरभ्य पायसं विष्णोर्नुकमित्यृचमब्जज।

पश्चात्परोमात्रयेति याज्यया जुहुयाद्धविः।

केशवाद्यैर्नामधेयैः सर्पिषा जुहुयात्ततः।

चतुर्थ्यन्तैर्द्वादशभिर्नमोन्तैः र्ध्यानमास्थितः।

क्षीराज्यगुडमिश्रान्नं तेभ्य एव निवेदयेत्।

देवस्य त्वा सवितुरिति महाविष्णोर्निवेदनम्।

सप्तव्याहृतिभिर्भूयो जुहुयात्सर्पिषानले।

दर्भासनेषु भूदेवानाहतानुपवेश्य तान्।

वस्त्राङ्गुलीयकैश्चत्र कुण्डलोपानहादिभिः।

यथाशक्ति समभ्यर्च्य मन्त्रेणाष्टक्षरेण तान्।

तिलाज्यमिश्रहव्येन तदनुज्ञानपूर्वकम्।

जुहुयादनले हव्यं विद्यया वक्ष्यमाणया।

पित्भ्यिस्तत्पितृभ्यश्च तत्पितृभ्यश्च पुनस्तथा।

मातृभ्यः पितृमातृभ्यस्तत्पितृभ्यः पुनस्तथा।

मातामहीभ्यो मातुश्च पितृमातृभ्य एव च।

पितुःपितामहीभ्यश्च तथाचार्येभ्य एव च।

तत्पत्नीभ्यो गुरुभ्यश्च गुरुपत्नीभ्य एव च।

सखीभ्यस्तपुरन्ध्रीभ्यो ज्ञातिभ्यो याश्च ताः स्त्रियः।

ताभ्योऽमात्येभ्यस्तत्स्रीभ्यः सर्वाभ्यः तस्त्रियश्च याः।

ताभ्यश्चेति समुच्चार्य स्वधा नम इति ब्रुवन्।

नारायणाय प्रत्येकं पृथगाहुतिः।

अग्निशब्दं चतुर्थ्यन्तं कव्यवाहनमित्यथ।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[63]]

तदन्ते स्विष्टक्च्छिब्दमनुषङ्गश्च पूर्ववत्।

हुत्वैवं सर्पिषा पश्चाद् द्वादशाक्षरविद्यया।

प्रत्येकं शतमष्टौ च तथाष्टाक्षरविद्यया।

विष्णुगायत्र्या तद्ब्राह्मणान् षड्रसान्वितम्।

भोजयेद्दक्षिणां दद्यात् तान् प्रणम्य प्रदक्षिणम्।

ताननुज्ञाप्य शिष्टान्नं यथेष्टं क्रियतामिति।

दक्षिणेनानलं दर्भान् प्रागग्रान् शोधिते स्थले।

संस्थीर्य तेषु दर्भेषु बलिन्दद्यात्समाहितः।

विश्वेभ्यश्चैव देवेभ्यः साध्येभ्यस्तदनन्तरम्।

सर्वेभ्यश्चैवदेवेभ्यो विष्णुर्नारायणस्तथा।

सहस्रशिरसे चैव यज्ञात्मपदमेव च।

पुरुष यज्ञपूर्वं च सर्वेश्वरपदं तथा।

चतुर्थ्यन्तं समुच्चार्य नमः स्वाहेत्यनन्तरम्।

सर्वत्रैवानुषङ्गं च स्विष्टकृद्यजनादिकम्।

आधेनुवरदानान्तं कृत्वा प्रो(प्रे)तं निवेदयेत्।

मूर्तेषु द्वादशस्वेनं यज्ञशर्माणमाख्यया।

निवेदयामि देवाय केशवायेत्यनुक्रमात्।

द्वादशेभ्यो निवेद्यैवं परमान्नं निवेदयेत्।

नारायणबलेर्ह्येष द्विजानां समुदीरितः।

एवं यस्य कृतो दत्तो बलिर्देवार्चनात्मकः।

स याति निखिलं पापं निर्धूय ब्रह्म शाश्वतम्।

पापानामितरेषां च बलिः पुण्यकृतामपि।

परमात्मपदप्राप्त्यै कल्पते नात्र संशयः। इति पाद्मे चर्यापादे 19 अ133- 169

तिरुवध्ययन इयल्गोष्टि- (இயல்கோஷ்டி) विषये

उक्ताब्र्रह्मविदां बृह्मन् श्रीचूर्णविधिरुत्तमा।

स्वसूत्रोक्तविधानेन सपिण्डीकरणावधि।

और्ध्वदैहिककर्माणि विष्णोराज्ञानुसारतः।

कृत्वा पुत्रोऽथवाशिष्यो वैष्णवं श्राद्धमाचरेत्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[64]]

त्रयोदशदिने वाथ अष्टादशदिनेऽथवा।

मासान्ते वत्सरान्ते वा कस्मिंश्चिद्वा शुभेदिने।

कर्तव्या वैष्णवीपूजा मद्भक्तैस्सह सादरम्।

उक्तेदिने शुभेलग्ने त्वलङ्कृत्य च मन्दिरम्।

वितानैर्मल्लिकाभिश्च समाहूयाथ वैष्णवान्

अनुज्ञाप्यार्चयेद्भक्त्या देवदेवं श्रियःपतिम्।

विविधैरुपचारैश्च नैवेद्यैःफलसंयुतैः।

पायसापूपसहितै स्सगुडैः पृथुकैरपि।

ततःप्रणम्य भक्तानां दापयेत्तानि सर्वतः।

चन्दनानि सताम्बूलं दत्वा सर्वान् प्रपूजयेत्।

ततस्ते सन्निधौविष्णोः गायेरन् वैष्णवोत्तमाः।

वैष्णवैर्विविधागाधाः ऊपदिष्टा स्स्वदेशिकैः।

तुलसीदलानि कर्तातु तदा विष्णोस्समर्चयेत्।

“श्रीमतेनारायणाये”त्युच्चरन् स मुहुर्मुहुः।

दशकृत्वस्तु वा विष्णोर्नामसङ्ख्याऽवधेस्तु वा।

दशाहं वाथ पञ्चाहं त्र्यहं मेकमेव वा।

नान्यव्रतानि कुर्वीत दीक्षया च समन्वितः।

सायं प्रातश्च सङ्गम्य गायेरन् द्रामिडीं श्रुतिम्।

गाये समापिते तेषां पादतीर्थं समाहरेत्।

पिबेयुः पुत्र पत्न्याद्याः शिष्याद्याश्च यथाक्रमम्।

पुनस्सन्धौ हरेःस्सम्यङ्महानैवेद्यमर्पयेत्।

पुष्पाञ्जलिं ततस्संयक् समर्प्य प्रणतः पुनः।

वैष्णवानां यथाशक्ति सुवर्णं दापयेत् क्रमात्।

ततस्तु भक्ष्यभोज्याद्यै स्तर्पयेद्भगवत्परान्।

एवं कृत्वा नवाहान्तं दशमेऽहनिसत्तम।

प्रातः पुनः समाहूय सर्वान् भागवतोत्तमान्।

उपवेश्यासनाग्रेषु ताम्बूलादीन् समर्च्य च।

उपविश्यस्सुधाचूर्णैस्थण्डिलं कारयेद्भुवि।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[65]]

निधाय तत्र रजनीचूर्णं स्नानीयमेव च।

तैलकुम्भमलङ्कृत्य भक्तेभ्यो प्रणमेन्नरः।

विज्ञापयेत्तदा भक्त्या कृत्वाशिरसिचाञ्जलिम्।;

स्वामिनोऽवभृतङ्कार्य मद्ययुष्माभिरादरात्।

भेरी मर्धलमुख्यानां घोषैरतिमनोहरैः।

महानदीं तटाकं वा पुण्यं किञ्चित्सरोपि वा।

गत्वा तत्र नतस्संयग् वैष्णवेभ्यः प्रतापयेत्।

सर्वेऽप्यभ्यञ्जनङ्कृत्वा स्नात्वास्स्युर्भक्ति संयुताः।

न तिथिर्ननक्षत्रं न योगो वा मुनीश्वराः।

वैष्णवावभृतस्नाने न च दोषाय कल्पते।

सुरापो ब्ऱह्महावापि गोघ्ने वा स्तेन एव वा।

वैष्णवाऽवभृतस्नानात् सर्वपापैः प्रमुच्यते।

नारायणपरा यत्र स्नानं तन्वन्ति तत्र वै।

पुण्यनद्यास्सदा सर्वाः प्रसन्ना निवसन्ति च।

स्नात्वा भागवतश्रेष्ठैः पुत्रो वा शिष्य एव वा।

चतुर्विंशतिभिर्नाम्नां कुर्याद्विष्णोर्जलाञ्जलिम्।

श्रीभूनीलाश्च तृप्त्यर्थं तु विष्वक्सेनश्च तृप्यतु।

शेषस्तृप्यतु तृप्त्यन्तु आयुधानि हरेस्तथा।

तृप्तिं चण्डप्रचण्डाद्यैः यान्तु तच्छेवका अपि।

तृप्यस्तु कुमुदाद्याश्च भगवत् पार्षदागणाः।

भक्ता भागवतास्सम्य गलङ्कुर्याद्यथा विधि।

मालाभिर्मल्लिकाभिश्च जातीपुष्पसुगन्दिभिः।

धृतोर्ध्वपुण्ड्रान्ते सर्वे धृतवस्त्रोत्तरीयकाः।

पद्माक्षमालाःभिभ्राणा हर्षविभ्रान्तचेतसः।

इक्षुकाण्डं धारयन्तः व्रजेयुस्सर्व वीधिषु।

ते तदाऽन्योन्यमाहात्म्यं स्वगुरूणां तु वैभवम्।

गायेरन् प्राजनस्यास्य वैष्णवार्थं ततो मुने।

पश्चात्तेषां ततो कुम्भं सौवर्णं वाऽथ राजतम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[66]]

ताम्रं वा मृण्मयं वाथ पूरितं शुभवारिणा।

पादावने जनार्धेच गन्धपुष्प सुगन्धिना।

अलङ्कृत्य च माल्याद्यैः क्षौमवस्त्रेणवेष्ट्य च।

वस्त्रेण चामराभ्यां च तालवृन्तादिभिश्शनैः।

विराजितं तु बिभ्राणः पुत्रो वा शिष्य एव वा।

अनुव्रजेत् पुरस्तात्तु तेषां गच्छेयुरादरात्।

शङ्ख काहलभेर्यादि वाद्यानां साधकाजनाः।

सङ्घीभूतस्तदा सर्वे वैष्णवा भगवत्पराः।

चरन्तस्सर्ववीधीषुवैष्ण्वानां गृहेग्रतः।

पादतीर्थं प्रदानार्थं तेषां प्रार्थयितां मुहुः।

तत्र तत्र गृहद्वारि तत्तद्गृहनिवासिनः।

शुद्धपुष्पोपाहाराद्यै रर्चयित्वा महापथी।

पादावनेजनङ्कृत्वा वैष्णवानां महात्मनाम्।

पिभेयुः पादतीर्थं च दद्युर्भक्त्याच दक्षिणाम्।

महापातकसम्प्राप्तौ दुष्टान्नस्य च भक्षणे।

भक्तानां पादतीर्थस्य सेवनच्छुद्धिरिष्यते।

तस्मात्सर्वैश्च कर्तव्यं पथिपादवने जलम्।

वैष्णवानां वैभवज्ञैः विष्णुभक्तैरशेषतः।

एवं तु वैष्णवास्सर्वे कृत्वा ग्रामप्रदक्षिणम्।

यजमानगृहद्वारं प्राप्नुयुस्तोषिताभृशम्।

नृत्यन्तश्चैवगायन्तः पुष्पवर्षविराजिताः।

गृहद्वारगतान् दृष्ट्वा यजमानोऽथ वैष्णवान्।

पूर्ववत्पूजयेद्भक्त्या पाद्यार्घ्यादिभिःरादरात्।

ततो गृहाङ्गणेचास्य वितानैः परिशोभिते।

पट्टवस्त्रैश्च मालाभिः पलैःश्चित्रैप्रकीर्णकैः।

सफलक्रमुकैरम्भास्तम्भैश्च स्तभकैश्शुभैः।

मध्येसिंहासनं रम्यं न्यस्यालङ्कृत्यचोन्नतम्।

निवेश्य तत्र तत्कुम्भं सर्वानेकैकशःक्रमात्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[67]]

चामरैस्तालवृन्तैश्च वीज्यसम्मान्य भक्तितः।

पादौ शिरसिसन्धार्य निधायहृदयेहरिम्।

भार्याहस्तविमुक्ततेन तेन कुम्भाम्बसौ शनैः।

क्षालयेद्धेमपात्रेन ताम्रे वा मृण्मयेनऽपि वा।

न क्षालयेत्पादयुग्मं कांस्यपात्रे कदाचन।

वस्त्रेणमार्जनं कृत्वा नमस्कृत्य विसर्जयेत्।

एवं कृत्वाऽथ सर्वेषां वैष्णवानां यथाक्रमम्।

प्रविश्य सहतैर्गेहं गेयशेषं समापयेत्।

सहस्रनामभिस्सम्यक् तुलसीदलपातनम्।

परिपूर्णं प्रकुर्वीत तस्मिन्कर्मदिने हरेः।

संयक् सम्पूज्यदेवेशं नैवेद्यं व्यञ्जनान्वितम्।

विविधापूपसहितं सताम्बूलं समर्प्य च।

मङ्गलाशासनं कृत्वा स्तुत्वादेवं जनार्दनम्।

पुष्पाञ्जलिं तदा कुर्याद्वैष्णवैस्तु समन्वितः।

ततस्तु ऋग्यजुस्सामाथर्वणैर्वेदपारगैः।

वेदपारायणं कार्यं स्तुतिगीतं यथाक्रमम्।

उत्सवादौ द्विजातीनाम् आशौचान्ते विशेषतः।

अध्येतव्यं द्विजवरैः आद्यङ्गीतसहस्रकम्।

अशुभान्ते विशेषेण द्रामिडीब्र्रह्मसंहिता।

अद्येतव्या द्विजवरैः आशौचाऽघ विनाशिनी।

एवं कृत्वाऽथसर्वेषां दद्याद्वै दक्षिणां मुदा।

पादतीर्थं पिबेद्भक्त्या पुत्राद्यैर्बन्धुभिस्सह।

ततस्तु भोजयेद्भक्त्या वैष्णवान्सोपचारतः।

स्वयं च भुक्त्वा ताम्बूलं सकर्पूरं समर्पयेत्।

प्रणम्यचौपचारं तु वाक्यमुक्त्वा पुनःपुनः।

विसृज्य तान्पुनस्सर्वान् आसीमान्त मनुव्रजेत्।

एवं तु वैष्णवीपूजा कार्याब्र्रह्मविदामपि।

वैष्णवानां हि विष्णोश्च प्रीतिकरं परम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[68]]

वैष्णवत्वप्रसिद्ध्यर्थं ज्ञानवृद्ध्यै विशेषतः।

आशौच दोषशान्त्यर्थं श्रेयसेमुक्तिसिद्धये।

कृत्वैतल्लभतेश्रीमान् ऐहिकामुष्मिकीं श्रियम्।

अनेनोक्त विधानेन यःकुर्याद्वैष्णवोत्सवम्।

तद्ग्रामवासिनां मुक्तिं प्रददाति रमापतिः- खगप्रश्ने- 2``4-``1``-``6``0``

स्त्रीधर्म विषये

भर्तुः पुरस्तादुत्थाय कृतशौचक्रियाविधिः।

दन्तधावनपूर्वं तु कण्ठस्नानं समाचरेत्।

हरिद्रासहितेनैव स्नात्वा शुक्लाम्बरावृता।

श्रीशं नत्वा गुरुं नत्वा पश्चात्कर्मसमाचरेत्।

आत्मानं समलङ्कृत्य चिन्तयेद्मधुसूदनम्।

शोषयेत् शुद्धभूभागे व्रीहिमुद्ग तिलादिकान्।

काकपश्वादि भूतानाम् अप्राप्ये संवृताम्बरे उपलिप्तये।

शुचौ देशे शुद्धैः शूर्पादि साधनैः।

व्रीहिमुद्गादिकं सर्वम् अवहन्युःकुलाङ्गनाः।

अस्पृशन् योनिजं देहम् अजल्पन्त्यः तथास्त्रियः।

अवहन्युः शुभकरं गायन्त्यो मधुसूदनम्।

अवहन्युः श्रमाम्भूनि जीर्णवस्त्रेण मार्ज्य च॥ मार्कण्डेयसंहिता

(2) सदा प्रपन्न नारीणां सन्ध्यावर्जं सुतान्त्रिकम्।

द्वयेन मूलमन्त्रेण विधिरेषचतुर्मुख।

शौच स्नानदिकं सर्वं प्रातःकाले विशेषतः।

गृहं संशोध्य विधिवद् गृहोपकरणादि च।

ऊर्ध्वपुण्ड्रं तथा स्त्रीणाम् अर्धचन्द्राकृतिर्भवेत्।

यावज्जीवं विशेषेण संयक् सूर्योदये तथा।

औपासनार्थममलं विहृत्याग्निं च साक्षतैः।

अलङ्कृत्य च कुण्डादीन् विष्णुपूजास्थलादिकम्।

सायम्प्रातस्त्रियस्सर्वाः कुर्युस्तच्छुद्धवारिणा।

भक्त्या च पति शुश्रूषां मोक्षार्थं सर्वदा चरेत्। पराशरे-३अ- 80-85

रजस्वलाधर्मः

सुमङ्गलीनां सर्वासां न सकृत् क्षौरमाचरेत्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[69]]

एकादशदिनादर्वाक् स्नानमेव रजस्वला।

अत ऊर्ध्वं त्रिरात्रंस्याद् इति वेदे प्रपञ्चितम्……

सूतके सूत्तिकां स्पृष्ट्वा सवासा जलमाविशेत्।

रजनीलेपनात् शुद्धिः भवेदत्र न संशयः।

सूतकान्ते विशेषेण त्रिंशस्नानादनन्तरम्।

द्वात्रिंशन् मृत्तिकास्नानं कृत्वा मन्त्रकमुत्तमम्।

त्रिवारं पञ्चगव्यं वै पिबेद् विष्ण्वर्पितं तथा……

धृत्वा च शुद्धवस्त्राणि ऊर्ध्वपुण्ड्रादिकं ततः।

पश्चाच् चन्दनताम्बूलं हरिशेषं स्रगादिकम्…।

द्विजस्त्रीणां यथा तद्वत् शूद्राणां च चतुर्मुख॥पराशरे-3अ-100

प्रपन्नोत्तमानां नियमाः

मत्सायुज्यं च सर्वेषां वैष्णवाचारसेवनात्।

भवेद् युगे युगे बृह्मन् सत्यमेव पुनःपुनः।

आचारःप्रभवोधर्मः धर्मस्य प्रभुरच्युतः।

आचारयुक्त आचार्यश्चररूपी सदा हरिः।

आचार्यः माश्रयेद्धीमान् प्रपत्या वृत्तिसंयुतम्।

प्रपत्या विष्णुसायुज्यं लभते नात्र संशयः।

तस्मादाचार्यचरणं शरणं सम्प्रयच्छति।

तस्मात् त्वमेतदाचारं नित्यं कुरु चतुर्मुख।

मत्सायुज्यादि सिद्ध्यर्थं सर्वबन्ध विमुक्तये।

एतदाचारनिष्ठो वै प्रपन्नोतम एव च।

श्रीमत्सेनेशवत् सर्वं मत्प्रियास्तु पराशरः।

अनन्तो वैनतेयश्च तथा वैखानसस्तथा।

एते प्रपन्ननिष्ठाश्च पञ्चसंस्कारसम्युताः।

पञ्चकालपरास्सम्यक् बिम्बार्चायां प्रियाश्शुभाः। पराशरे-3अ-122

श्रीरामादि दशावतार जन्म नक्षत्र तिथीनां निर्णये

चैत्रे तु शुक्लपञ्चम्यां भगवान् मीनरूपधृत्।

ज्येष्टेतु शुक्ल द्वादश्यां कूर्मरूपधरो हरिः।

चैत्रे कृष्णनवम्यां तु हरिर्वाराहरूपधृत्।

नरसिंहश्चतुर्दश्यां वैशाखे शुक्लपक्षके।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[70]]

मासि भाद्रपदे शुक्लद्वादश्यां वामनो हरिः।

राधाशुद्ध तृतीयायां रामो भार्गवरूपधृत्।

चैत्रशुक्लनवम्यां तु रामोदशरथात्मजः।

नभस्येति त्रितीयायां बलभद्रोभवद्धरिः।

श्रावणेबहुलाऽष्टम्यां कृष्णोभूल्लोकरक्षकः।

ज्येष्टशुक्लद्वितीयायां बुद्धःकल्कीभविष्यति। अगस्त्यसंहिता-23अ

तेषु विद्धादिसम्भवे

विद्धाचेद्दृक्षसंयुक्ता व्रतं तत्र कथं भवेत्।

विद्धानिषेदश्र्वणान्नवमीचेति वाक्यतः।

वैष्णवानां विशेषत्तु तत्र विष्णुपरैरपि।

दशंयादिषु वृद्धिश्चेद्विद्धात्याज्यैव वैष्णवैः। व्रतचन्द्रिकायां

श्रीरामनवमीव्रत आचरणे विशेष विधिः

आचार्यं चैव सम्पूज्य वृणुयात् प्रार्थयन्निशि।

श्रीरामप्रतिमादानं करिष्येऽहं द्विजोत्तम।

भक्त्याचार्योभवप्रीतश्श्रीरामोपि त्वमेवनः।….

स्वगृहेचोत्तरेदेशेधान्यस्योपरि मण्डपम्।

शङ्खचक्र हनूमद्भिः प्राग्द्वारे समलङ्कृतम्।

गरुत्माच्छार्णबाणैश्च दक्षिणे समलङ्कृतम्।

गदाखड्गाङ्गदैश्चैव पश्चिमेसुविभूषितम्।

पद्मस्वस्तिकनीलैश्च कौबेरेसमलङ्कृतम्।

मध्ये हस्तचतुष्काड्य वेदिकायुक्तमायतम्।

ततस्सङ्कल्पयेदेवं राममेवस्मरन् द्विजः।

असौ रामनवंयाञ्च रामाराधनततत्परः।

उपोष्याष्टसुयामेषु पूजयित्वा यथाविधि।

इमां स्वर्णमयीं रामप्रतिमां च प्रयत्नतः।

श्रीरामप्रीतयेदास्ये रामभक्तायधीयते।

प्रीतो रामोहरत्वाशु पापानिसुबहूनि मे।

अनेकजन्मसंसिद्धान्यभ्यस्तानि महन्ति च।

ततस्स्वर्णमयीं रामप्रतिमां पलमात्रतः।

निर्मितां द्विभुजां दिव्यां वामाङ्कस्थितजानकीम्।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[71]]

बिभ्रतीं दक्षिणकरे ज्ञानमुद्रां महामुने।

वामेनाथकरेणारा द्देवीमालिङ्ग्य संस्थिताम्।

सिंहासनेराजतेऽत्र पलद्वयविनिर्मिते।

(अशक्तो यो महाभागा भक्त्या वित्तानुसारतः।

पलेवार्धपलेवापि तदार्धेर्धेन वा पुनः।

सौवर्णं राजतं वापि कारयेद्रघुनन्दनम्।)

पार्श्वे भरतशत्रुघ्नौधृतछत्रकरावुभौ।

चापद्वयसमायुक्तं लक्ष्मणं चापि कारयेत्।

दक्षिणाब्दे दशरथं पुत्रावेक्षणतत्परम्।

मातुरङ्कगतं राममिन्द्रनीलसमप्रभम्।

पञ्चामृतस्नानपूर्वं सम्पूज्यविधिवत्ततः।

कौसल्यामन्त्रस्तु

रामस्यजननीचासि शररूपमिदं जगत्।

अतस्वां पूजयिष्यामि लोकमातर्नमोस्तु ते।

नमोदशरथायेति पूजयेत्पितरं ततः। अगस्त्ये

अर्घ्यदान मन्त्राः

“अशोककुसुमैर्युक्तमर्घ्यं दद्याद्विचक्षणः।

दशाननवधार्थाय धर्मसंस्थापनाय च।

राक्षसानां विनाशाय दैत्यानां निधनाय च।

परित्राणायसाधूनां जातो रामस्स्वयं हरिः।

गृहाणार्घ्यं मयादत्तं ब्रातृभिस्सहितोनघ।

पुष्पाञ्जलिं पुनर्दत्वा यामेयामे प्रपूजयेत्।‘’

दिवैव विधिवत्कृत्वा रात्रौजागरणं ततः।

ततःप्रातस्समुत्थाय स्नानसन्ध्यादिकाःक्रियाः।

समाप्य विधिवद्रामं पूजयेद्विधिवन्मुने।

ततो होमम्प्रकुर्वीत मूलमन्त्रेणमन्त्रवित्।

पाञ्चरात्रोक्तविधिना पद्मकुण्डे विधानतः।

लौकिकोक्तविधानेन शतमष्टोत्तरं ततः।

साज्येन पायसेनैव स्मरन् राममनन्यधीः।

ततो भक्त्यासु सन्तुष्ट आचार्यं पूजयेन्मुने।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[72]]

ततो रामं स्मरन् दद्यादेवं मन्त्रमुदीरयेत्।

इमां स्वर्णमयीं रामप्रतिमां समलङ्कृतां.

चित्रवस्त्रयुगच्छन्नां रामोहं राघवाय ते।

श्रीरामप्रीतये दास्ये तुष्टोभवतु राघवः।

इति दत्वा विधानेन दद्याद्वै दक्षिणां भुवम्।

ब्रह्महत्यादिपापेभ्यो मुच्यतेनात्रसंशयः।``

श्रीजयन्ति - गोकुलाष्टमिनिर्णये

जन्माष्टमीजयन्तीति तयोर्भेदस्तु कथ्यते।

चन्द्रोदयेऽष्टमीयुक्ता सप्तमीकलया विना।

रोहिणीरहिता वापि सा हि जन्माष्टमी स्मृता।

सिंहं गतेर्के सा मुख्या यद्वाश्रावणमात्रगा।

तस्याभ्यर्चनं विष्णोर्धर्मकामार्थसिद्धिदम्।

निष्कामो यदि कैवल्यफलदं भवति ध्रुवम्।

सूर्योदयेपि सप्तम्या तथाकृत्तिकयापि च।

कलयापि ह्यविद्धा या रोहिणी द्विजपुङ्गवाः।

अष्टमीसहिता वापि अष्टमीरहितापि वा।

तथैव बुधवारेण सहिता रहितापि वा।

जयन्ती नाम सम्प्रोक्ता जयत्यशुभमित्यसौ।

अष्टम्यां वा नवम्यां वा दशम्यां वापि रोहिणी।

अविद्धा यदि लभ्येत कलामात्रापि वैष्णवैः।

ग्राह्या कदापि विद्धा तु न ग्राह्या वैष्णवोत्तमैः।

मृगशीर्षं तु वा ग्राह्यं शुद्धर्क्षस्य ह्यभावतः।

सिंहभाद्रपदे मुख्या जयन्ती सिंहगापि वा।

तस्मिन् मासे मुनिश्रेष्ठाः! यदा ऋक्षद्वयं भवेत्।

परत्रैवोत्सवं कुर्यान्महापातकनाशनम्।

पश्चाच्चेद्रोहिणी विद्धा पूर्वत्रैच्व समाचरेत्।

एवमेव हि सङ्क्रान्ति वेधस्त्यागोपि शस्यते।….

*एवं जयन्त्यां रामस्य नरसिंहवराहयोः।

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[73]]

वामनादि जयन्त्यामप्येवमेव विनिर्णयः।*`` `` ``ईश्वरे 13अ

अर्घ्यदान मन्त्रमाह

अर्घ्यदानं विशेषेणकुर्यात्सर्वफलप्रदम्।

ज्योत्स्नाम्पतेनमस्तुभ्यं नमस्ते ज्योतिषाम्पते।

नमस्ते रोहिणीकान्त सुधाकुम्भनमोस्तु ते।

इति चन्द्रं नमस्कृत्य दद्यादर्घ्यं ततः परम्।

शङ्खे तोयं समापूर्य गोक्षीरेण विमिश्रितम्।

शङ्खाग्रे चन्द्रदैवत्यं तन्मूले कृष्णमर्चयेत्।

हस्ताभ्यां शङ्खमादाय सपुष्पफलचन्दनम्।

जानुभ्यामवनिं स्पृष्ट्वा चन्द्रायार्घ्यं निवेदयेत्।

क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भव!।

गृहाणार्घ्यं मयादत्तं रोहिण्यासहितो हरे।

जातः कंसवधार्थाय भूभारोत्तारणाय च।

पाण्डवानां हितार्थाय धर्मसंस्थापनाय च।

कौरवाणां विनाशाय दैत्यानां निधनाय च।

गृहाणार्घ्यं मयादत्तं देवक्या सहितो हरे।

इति कृष्णायार्घ्यदानं राजराष्ट्राभिवृद्धिदम्।

सर्वसम्पत्करं चैव सर्वलोकहितार्थकृत्।

यजमानोपि वा दद्यादर्घ्यमेवं जगद्गुरोः।

इहसर्वाभीष्टसिद्ध्यै परत्र च सुखाप्तये। श्रीप्रश्ने - ईश्वरे

भक्तबिम्बानाम् आविर्भाव वर्ष, नक्षत्र, मासादीनां विवरणे

विग्रहं द्वादशञ्चैव सर्वावयवशोभितम्।

तदङ्गेन च कर्तव्यं बिम्बरूपं स लक्षणम्।

चतुर्युगक्रमेणैव त्रीणि त्रीणि च कारयेत्।

सौवर्णे राजतं ताम्रं शैलजं दारुजं तु वा।

तद्रूपं कारयेद् धीमान् यथावित्तानुसारतः।

“भूताख्यं च सरोजातं महदाख्यं च भट्टकम्।

भक्तिसारसमाख्यं च कुलशेखरनामकम्।

योगिवाहाख्यकं चैव भक्ताङ्घ्रेरेणुमेव च।

परकालं च मिश्रं च पराङ्कुशमुनिं तथा।‘’

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[74]]

इत्येवं नामधेयानि कथितानि क्रमेण वै।

एषां जन्मक्रमं वक्ष्ये वर्षमासर्क्षलग्नकम्।

संवत्सरे तु विभवे नभसि श्रवणर्क्षके।

लग्ने तु मकरे चैव सरस्यां जायते तथा।

बद्धपद्मासनं तस्य मुद्रामञ्जलिमेव च।

मुद्रा सविधिवत् तस्य पूर्ववत् कमलासन।

युवसंवत्सराषाढमासे लग्ने तुलांशके।

पद्मासनाञ्जलिं मुद्रां पद्मासनयुतं वस्रान्।

एते कृतयुगेजातस्त्रेतायामधुनोच्यते।

श्रीमुखे शरदिज्येष्ठे चित्रायां कन्यकांशके।

भट्टानाथाख्यकं चैव शिखायज्ञोपवीतिमान्।

भवसंवत्सरे पुष्यमासे वै पैतृभे तथा।

सिंहलग्नेऽञ्जलिं मुद्रां पद्मासनयुतां वरम्।

बद्धकेशं पाशहस्तं भक्तिसाराख्यमेव च।

धातु संवत्सरे मासे पुष्ये भे कर्कटांशके।

वृश्चिके चैव लग्ने तु जातो भक्ताङ्घ्रिरेणुकः।

पद्मासनाञ्जलिं मुद्रां सदाधारयति ध्रुवम्।

विकाराख्ये तु रोहिण्यां कार्तिके वृषभे तथा।

तिष्ठन्तं तालहस्तं तु गायकेति च नामतः।

श्रीमुखे कार्तिकेमासि तुलालग्ने तु पद्मज।

स्थितरूपं खद्गहस्तं वामहस्ते तु खेटकम्।

बद्धोर्ध्वकेशं च…… परकालाख्यमेव च।

एते द्वापरयुगे जातश्च पुरुषोत्तमाः।

वैशाखे तु विशाखे च जयसंवत्सरे तुला।

परोपदेशमुद्रां च ज्ञानपद्मासनण्ण् तथा।

पराङ्कुश इति ख्यातो ततो वक्ष्ये शृणुत्विह।

वर्षे साधारणे ज्येष्ठे रिक्तायां मिथुनांशके।

पद्मासनं कण्ठभूतं जातो दण्डेनमुद्रया।

मधुरकवीति नाम्ना च वनमालां यथाक्रमम्।

आषाडे यमनक्षत्रे मेषे कीलकवत्सरे

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[75]]

पद्मासनं त्रिदण्डं च यज्ञसूत्रं शिखां ततः।

काषायवस्त्रधारी च यतिराज इति स्मृतः।

एते कलियुगेजाता भगवद्भक्ति तत्पराः।

मूर्तिभेदान् विशेषेण तत्तल्लाञ्छनसंयुताः। विष्णुतन्त्रसंहिता-19अ- 4-25

विष्णुभक्तस्यपूजन अवश्यकत्वं

दुर्निमित्तमयेप्राप्ते ग्रहादीनां विपर्यये।

विष्णुं, तद्भक्तपूजाभिः शान्तिङ्कुर्वीत नान्यथा। भारद्वाजं 1अ 80

श्री पाञ्चरात्र आगमोक्त पञ्चकाल प्रक्रिया

[[76]]

मासभेदेन उत्सव भेदाः

वैशाखपूजा महिमा

ग्रीष्मकालेतु सम्प्राप्ते हरिसन्तप्र्य शीतलैः।

दध्यन्नाद्यैर्नरो भूयात्सर्व किल्बिष वर्जितः।

वैशाखे वैष्णवादिभ्यो योददाति गुडोदकम्।

वैष्णवेभ्यस्तु योदद्यात् सोपि वैकुण्ठमाश्रयेत्।

व्यञ्जनोत्सवः- मार्गमासे

दशम्यादिषु देवस्य कुर्याज्जागरणोत्सवम्।

मार्गमासे वरप्राप्तिर्दिनेऽस्य व्यञ्जनोत्सवः।

पुष्ये रहस्यलीलायां कुर्यात्पाकोत्सवं शुभम्॥॥। शाण्डिल्ये-15अ 33

पुष्पोत्सवश्चैत्रमासे माधवे वन्दनोत्सवः।

गङ्गा यमुनयोर्जन्मदिने ज्येष्ठे जलोत्सवम्- शाण्डिल्ये

आषाढे कावेर्यां गङ्गोत्पत्युत्सवम्- & रङ्गषाष्ट्युत्सवम्- श्रीप्रश्ने

श्रावणे=व्यासपूजा-श्रावणापुष्पकोत्सवम॥(वामनजयन्ति) परशुरामकल्पसूत्रम्

भाद्रपदे-त्रितीयापूर्णिमास्वास्य शृङ्गारोत्सवमाचरेत्। परमं

चित्ररक्ताम्बरैःपाकैर्नवरात्रोत्सवमाचरेत्। ईश्वरे

नवाङ्कुरार्पणस्यार्चा दशम्यां विजयोत्सवः।

सायम्पूजां विधायैव शाऽस्त्रपूजाप्रमाणतः।

नन्दायां कार्तिके कुर्यादन्नकूट महोत्सवम्।

पौषेपाकोत्सवोमाघे वसन्तक्रीडनोत्सवः।

होलाक्रीडोत्सवस्तस्य फाल्गुणेतु विधीयते। (holi) शाण्डिल्ये

*-*-*-*