श्रीमते रामानुजायनमः
श्री पुण्याह-वाचन-विधिः
ओं वन्दे लक्ष्मी पतिं देवम् शङ्ख चक्रगदाधरम्।
विद्या मूर्तिं हयग्रीवं शब्दार्थ ज्ञान लब्धये।
अमृतात्मा तमेघाबम् अमृताहरणं विभुम्।
पाञ्चरात्राऽऽगमाचार्यं वन्दे वैकुण्ठ भूपतिं
नमस्सखल कल्याण दायिने शेष शायिने।
निर्मलानन्द कल्याण निधये विष्णवे नमः।
नमस्सखल कल्याण दायिने चक्रपाणये।
विषयार्णव मग्नानां समुद्धरण हेतवे ।
ओं भगवतो बलेन भगवतो वीर्येण भगवतस्तेजसा
भगवतःकर्मणा भगवतः कर्मकरिष्यामि।
अस्य देव देवस्य भगवतो वासुदेवस्य श्री भूमि नीला पद्मावति
नायिका समेत श्री वेङ्कटेश्वर स्वामि सन्निधौ नित्यारादनाङ्ग
स्नानासनार्थम् आत्म शुध्यर्थं सर्वोपकरण शुध्यर्थं शुध्यर्थ शुद्धि
वासुदेव पुण्याह वाचनं करिष्ये। इति सङ्कल्प्य।
कलश स्थापनविधिः
ओं चरणं पवित्र मुच्छार्य महीम्प्रक्षाल्य।
ओं चरणम्पवित्रं विततं पुराणम्।
येनपूतस्थरति दुष्कृतानि॥
तेनपवित्रेण शुद्धेन पूताः।
अति पाप्मानमरातिन्तरेम्म ॥
2
२. ओं विष्णोरराट इति मन्त्रेण दर्भैस्सम्मार्ज्य।
ओंविष्णोरराटमसिविष्णोःपृष्ठमसिविष्णोस्नप्त्रेस्तो
विष्णोस्यूरसि विष्णोर्दृवमसि वैष्णवमसि विष्णवेत्वा।
३. गन्धद्वारेति मन्त्रेण गोमयेनाअनुलिप्य।
ओं गन्धद्वारान्दुरादर्षां नित्यपुष्ठाङ्करीषिणीम् ।
ईश्वरीगुं सर्वभूतानां त्वामिहोपह्व येश्रियम्॥
४. आप उन्दन्तु इति मन्त्रेण सुधाचूर्णैरलङ्कृत्य।
आप उन्दन्तु जीवसे दीर्घायत्वाय वर्चसेयस्त्वा । हृदा
कीरिणामन्यमानो मर्त्यं मर्त्यो जोहवीमि॥
५. देवस्यत्वेति मन्त्रेण अक्षतान् विकीर्य।
ओं देवस्यत्वा सवितुप्रसवे अश्विणोर्बाहुभ्यां पूष्णो
हस्ताभ्यम्प्रतिघृण्हामि।
६. ओं ग्रीष्मोहेमन्त इति मन्त्रेण धान्य पीठं प्रकल्प्य।
ग्रीष्मो हेमन्त उदनोवसन्त शरद्वर्षास्सुवितन्नो अस्तु।
तेषाम्ऋतूनागुंशद शारदानां निवादएषाम्मभये भयेस्यामः॥
७.ओं शन्नोदेवीति मन्त्रेण शत पत्रं विलिख्य।
ओं शन्नोदेवीरभिष्टय आपोभवन्तु पीतये
शॅयोरभिस्रवन्तुनः।
८. ओं धन्वनागेति मन्त्रेण दर्भैरूर्द्वम् अलङ्कृत्य।
3
ओं धन्वनागा धन्वनाजिञ्जयेम धन्वना तीव्रा समदोजयेम।
ध्नुश्शत्रूरपगामं कृणोतु धन्वना सर्वागुं प्रति शो जयेम॥
९. ओं मूर्धानमिति मन्त्रेण शिरसा प्रणम्य।
ओं मूर्धानन्दिवोऽरतिं पृथिव्यावैश्वानरमृदाय जातमग्निम्।
कविगुंसम्राजमतिथिञ्जनानामासन्नापात्रञ्जनयन्तदेवाः। १०.ओं
भद्रङ्कर्णेभिः इति कलशान्स्थाप्य।
ओं भद्रं कर्णेभिःश्रुणुयाम देवाः।
भद्रम्पश्येमाक्षभिर्यजत्राः।
स्थिरै रङ्गैस्तुष्ठुवागुंसस्तनूबिः
व्यशेम देवहितं यदायुः।
११.ओं हिरण्यशृङ्गमिति मन्त्रेण गन्ध जलेन सम्पूर्य।
ओं हिरण्यशृङ्गं वरुणं प्रपध्ये तीर्थम्मेदेहियाचितः ।
यन्मयाभुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः॥
१२. विष्णु गायत्रिया आम्रपल्लवं निक्षिप्य।
ओं नारायणाय विद्महे वासु देवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात्।
१३. याःफलनीरिति मन्त्रेण नालिकेर फलं निक्षिप्य।
ओं याः फलनीर्याहफलाय पुष्फायाश्च पुष्पिणीः।
बृ
हस्पतिःप्रसूतास्थानोमुञ्चन्त्वगुंहसः।
4
१४. ओं हिरण्यपात्रमिति रत्नानि निक्षिप्य।
ओं हिरण्यपात्रम्मधोःपूर्णन्दधाति मधव्योसानीति एकदा
बृम्हण
उपहरति एकदैव यजमान आयुस्तेजो दधाति।
इति पुण्याह कलशं स्थापयित्वा
आवाहन विधिः
तत्कलशे पूर्ववत् आधारादि पद्मान्तमभ्यर्च्य। भगवद्दक्षिण
हस्तात् ओं सहस्रारहुम्फट् ओं नमोभगवते महासुदर्शनाय
आगच्चाऽऽगच्च इत्यावाह्य। आवाहनादि षण्मुद्राम्प्रदर्श्य। ओम्
आचक्रायस्वाहेति षडङ्गन्यासं कृत्वा। ध्यानम्।
अर्घ्यादिभिस्सम्पूज्य। नीराज्य।
कलशस्य परितःचतुरो ऋत्विजान् एकायनोक्तपुण्याहवाचनं
कर्तुं विवृणीयात्।
ओं भवद्भिःअनुज्ञातः वासुदेवःपुण्याहंवाचयिष्ये। इति प्रधान
आचार्यः। ओं वाच्यताम् इति ऋत्विजाःब्रूयात्।
ओम्आपः। शिव आपस्सन्तु। इति प्रतिवचनम्। ओं गन्धाः।
सुग
न्धाःपान्तु । इतिप्रति वचनम्।
ओंसुमनसः। सौमनस्य मस्तु। इतिप्रति वचनम्।
ओम् अक्षतम् । अक्षतञ्चाऽरिष्ठञ्चास्तु। इतिप्रति वचनम्।
ओं मन्वाहार्यः। सुमन्वाहार्योस्तु।
ओन्दक्षिणाः। स्वस्ति दक्षिणाःपान्तु। ओन्दर्भाः। स्वस्ति
दर्भाःपान्तु। इतिप्रतिवचनेन सह ऋत्विग्भिः
अर्घ्यादि दक्षिणान्तं सम्पूज्य। तैःहस्तैः दर्भे कलशंस्पर्शयित्वा।
पुण्
याह घोषं सुस्वरेन कुर्यात् ।
5
ओम् ओम् ओम् । ओं नमोभगवते वासुदेवाय। भगवतो भलेन
भगवतोवीर्येण भगवतस्तेजसा
भगवतःकर्मणा भगवतः कर्मकरिष्यामि। .
वासुदेवस्य भगवान् पवित्रम् । वासुदेवः पवित्रम् । शतदाऽरं.।
सहस्रदाऽरम्अपरिमितदाऽरम्। अच्छिद्रम्। अक्लिष्ठम्। अक्षय्यम्।
अनन्तम्। अरिष्टम् । अच्युतं परमम्पवित्रम्। भगवान्
वासुदेवःपुनातु।
ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहि।
धीयोयोनःप्रचोदयात्।
ओं नारायणाय विद्महेवासुदेवाय धीमहि।
तन्नोविष्णुःप्रचोदयात्।
ओं सुदर्शनाय विद्महे महाज्वालाय धीमहि। तन्नश्चक्रः
प्रचोदयात्।
ओं तत्सत्। पुण्याहम्भवन्तो ब्रुवन्तु। पुण्याहमिति यामन्त्रनार्थे।
परिकल्प्यते वमादितः। प्रयोगस्यधीमहि। इति।
मङ्गलानिनामानि। प्रयुञ्जुतेमनुष्याः। युष्मादादितिमेयोदिताः।
एतत्भक्तानाम्। तन्मेयथास्यादितीभगवान्। द्वितीएष
भगवाणश्रेष्ठम्मङ्गलम्। सर्वशक्तिर्युक्तोयोगः। सर्वशक्तिर्भवतु।
सएवहितत्वम्। सहितेसृष्ठुप्। कर्मकर्म। गृहपतिरेतेनैवहि मन्त्रेण।
तथैवऋत्विजस्सर्वे तथायज्ञो महीयते। यद्रुचावा । यजुषावा
साम्नावा अभिमन्त्रियते। सर्वं तद्ब्रह्मणेतेनह्यच्चदृत्वाय
कल्प्यते। य इमे सर्वदेवानां भगवान्दैव भ्राम्हणो भगवान्। पुत्र
पौत्रश्च। दीर्घमायुरवाप्नुयादिति। यासी यासी शुचिर्भूतिर्भूतये।
ओं भगवान् वासुदेवोभगवान् । सङ्कर्षणोभगवान्। प्रद्युम्नो
भगवान्। अनिरुद्धो भगवान्। एष भगवान्। एषवासुदेवः।
6
एषआसापराकृतिः। एषतत्परब्रम्हा। एषप्रभवा।
एषयोगा,एषयोव्यः,एष आत्मा। चतुर्विदःसर्वत्र सर्वदर्शी
सर्वेश्वरेश्वरः। सर्वशक्तिस्समृद्धिमान्। सर्वशक्तिर्भवतु।
एषावाऋद्धिमन्वाप्तो वशीस्वाधीरऽनन्तो। व्यपगत
निद्राभयक्रोधो । व्यपगतेच्छः । अखिलमक्लिष्ठम् ।
अव्याधिर्निर्दोषो निररिष्ठो निरवद्यः। एन भगवन्तं वासुदेवएनम्।
विदुर्य एनं विदुस्थ एनं विदुर्नते विदुरितिमह्यम्।
दीर्घमायुष्यमस्तु। ओं शिवाभगवन्पानीयापस्सन्तु।
सुमनसोभगवान् सौमनस्यमस्तु। सुमनसो भगवन्तो वासुदेव
सङ्कर्षण प्रद्युम्न अनिरुद्धास्सन्तु.। अक्षतैः
अक्षतञ्चाऽरिष्टञ्चास्तु। अक्षतमरोर्गं कुशलम्।
भगवतोरिष्ठम्। ओं भगवान् । प्रद्युम्न मनस्समाधीयताम्।
समाहितमनसस्मः । अस्मिन्नगरे (ग्रामे) सर्वेषां श्रीवैष्णवानां
ब्राम्हणानां गवाङ्गणानाञ्च राष्ट्रञ्च धनञ्च कुलञ्च धर्मश्च
अहरहरभिवर्धताम्। एतद्शुध्यर्थे भगवद्विशेषिकेण भगवत्प्रीति
माङ्गल्या आयुरारोग्य सिद्धये सम्पद्यन्ताम्।
धनधान्य समृद्धये सम्पद्यन्ताम्।
ओम् एषाकृतिरेषभगवान् वासुदेवः।
ओम् एषाकृतिरेषभगवान् सङ्कर्षणः।
ओम् एषाकृतिरेष भगवान् प्रद्युम्नः।
ओम् एषाकृतिरेष भगवाननिरुद्दः।
ओं महा पुरुषो वर्धताम्। ओं सत्यो वर्धताम्। ओम् अच्युतो
वर्धताम्। ओम् अनन्तो वर्धताम्। ओं भगवान्वासुदेवो वर्धताम्।
वर्धन्ताम्। महापुरुषश्शान्तिरस्तु। भगवन्तं सर्वे वासु देवाद्याः
भगवत्प्रीति कर्मणानेन । ओं पुरुषप्रियताम्। ओं सत्यप्रियताम्।
7
ओम् अच्युतःप्रियताम्। ओम् अनन्तःप्रियताम्।
ओम्भगवान्वासुदेवःप्रियताम्। प्रियन्ताम्। न्यूनातिरिक्तं यावद्वर्ष
शतं सम्पूर्णमस्तु। ओं शुद्धये वासुदेवोस्तु लाङ्गलि शुद्धयेतथा।
प्रद्युम्न शुद्धये चास्तु अनिरुद्धोस्तु शुद्धये।
कर्मणां शुद्धये चास्तु विष्णुसर्वत्र सम्स्थितः।
दोषाणां हरणायास्तु गदाचक्रासिभृत्सदा।
यागेषु च रथश्यामः नगर ग्रामवासिनाम्।
तुष्ठये पुष्ठयेचास्तु आयुरारोग्य सिद्धये।
गुरूणां साधकेन्द्रानां पञ्चकाल रथात्मनाम्।
सर्वदा पुत्र मित्रानां दासीदासगवामपि।
वेद शास्त्राऽऽगमादीनाम् अस्तु त्राणाय सर्वदा।
अविघ्नमनिशञ्चास्तु सम्पदञ्चोत्तरोत्तरम्।
पुण्
याहं शुद्धये चास्तु वासुदेवादिमूतिमान्।
शङ्ख चक्र गदापद्म युक्तस्सर्वेश्वरेश्वरः।
प्रियतां भगवान्देवो लाङ्गलि प्रियतांसदा।
प्रद्युम्नःप्रियतां नित्यम् अनिरुद्धस्सुरेश्वरः।
नारायणसुरेचास्तु कर्मणाम्पूरणायच।
न्यूनाधिकानां शान्त्यर्थं प्रियतां भगवान्प्रभुः।
ओं यत्पुण्यं नक्षत्रम्। तद्भठ्कुर्वीतोपव्युषम्।
यथावैस्सूर्य उदैति। अथनक्षत्रन्नैति। यावति तत्र सूर्यो गच्चेत् ।
यत्रजगन्यं पश्चेत्। तावतुकुर्वीत। यत्कारीस्यात्।
पुण्
याह एवकुरुते।
ओं कर्मणःपुण्याहं भवन्तो ब्रुवन्तु। पुण्याहं कर्मणोस्तु।
ओं स्वस्तिन इन्द्रो वृद्धश्रवाः। स्वस्तिनःपूषा विश्व वेदाः।
स्वस्तिनस्तार्क्ष्यो अरिष्ठ नेमिः। स्वस्तिनो बृहस्पतिर्दधातु।
8
ओं कर्मण ऋद्धिं भवन्तो ब्रुवनतु। ओं कर्मण ऋध्यताम् ।
ओम् ऋध्यामस्तोमम्। तनूयामवाचम्मानो मन्त्रम्। सारथेहोपयातम्।
यशोन पक्वं मधुगोष्यन्तराः।
भूतांशोऽश्विनो काममप्राः। पुण्याह एवकुरुते।
ओं कर्मणः पुण्याहम्भवन्तोब्रुवन्तु। ऋद्धिस्समृद्धिः।
शिवङ्कर्मास्तु।
वासुदेवःप्रियताम्प्रियतां भगवान् वासुदेवः। भगवान्पवित्रम्।
वासुदेवःपवित्रम्।
शतधाऽरं सहस्रधाऽरम् अपरिमितधाऽरम् अच्छिध्रम् अक्लिष्ठम्
अक्षय्यम् अनन्तम्अरिष्ठम् अच्युतं परमम्पवित्रं भगवान्
वासुदेवःपुनातु। ओं भूर्भुवस्सुवः।
पवित्रम्भगवानस्तु वासुदेवःपरो गुरुः।
अस्तुसङ्कर्षणो देवः पवित्रं परमो विभुः।
प्रद्युम्नोस्तु पवित्रम्वै साक्षीविश्वस्य साम्प्रदम्।
पवित्रमनिरुद्धोस्तु विश्व त्राताजगत्पतिः।
शुद्धयेस्
तुहृषीकेशो वासुदेवोस्तु शुद्धये।
सदा सङ्कर्षणो देवःशुद्धयेस्तु सदामम।
प्रद्युम्न शुद्धये चास्तु सर्वत्रमम सर्वदा।
शुद्धयेस्
तु अनिरुद्धोस्तु शुद्धयेस्तु जगत्पतिः।
शुद्धये
विष्णुरस्त्वाद्या शुद्धये मधुसूदनः।
ओं शान्तिःशान्तिःशान्तिः।
अस्मिन्कुम्भे आवाहितं सुदर्शनं समस्त राजोपचार
पूजांसमर्प
यामि। इतिपुनः अर्घ्यादिभिस्सम्पूज्य। नीराज्य।
यथास्थानम्प्रतिष्ठपयामि। शोभनार्थे क्षेमाय पुनरागमनायच.।
9
प्रोक्षण मन्त्राः
ओं स्थानानि देशानि सहस्रबाहु र्वरेण्य नामा विरजांसिनामा।
तेभ्यो नमस्ते मधुसूदनाय तत्राभिमानं परिरक्षयन्ताम्।
“ओं वास्तोष्पते प्रतिजानीह्यस्मान्स्वा वेशो अनमीवोभवानः।
यत्वेमहे प्रतितन्नो जुषस्व शन्नएधिद्विपदे शञ्चतुष्पते।
ओं वास्तोष्पते सग्मयासगुम्सदाते सक्षीमहिरण्वयागातु
मर्त्याः।
आवाहक्षेमौदयोगेवरण्णो यूयम्पादस्वस्तिभिस्सदानः।
अमीवः वास्तोष्पते विश्वारूपाण्या विशण् सखासुसेव एधिनः ।
शुभगुं शुभम्।
ओम् अपवित्रःपवित्रोवा सर्वाऽवस्ताङ्गतोपिवा।
यस्मरेत्पुण्डरीकाक्षं सबाह्याभ्यन्तरं शुचिः।
ओं भूर्भुवस्सुवो भूर्भुवस्सुवो भूर्भुवस्सुवः। हरीः ओम् ।
इति कलश तीर्थेन आत्मानं सर्वत्र च प्रोक्ष्य। एवं विधिवत्
नित्यपूजादि समस्त सन्नधिकार्येषु पुण्याहवाचनङ्कुर्यात्।