महोत्सव-विधिः

श्रीः
श्रीमते** रामानुजाय नमः।
अथ
महोत्सव-विधिः **उच्यते
विष्वक्सेन पूजाविधिः।
भगवदनुज्ञाक्रमः।
ओं लक्ष्मी नाथ कृपावलब्ध महती
श्री पाञ्चरात्रागमान्‌।
तत्तद्वैदिक तान्त्रिक प्रणयिनः
पूज्य
ाविलासा श्रयान्‌।
भारद्वाजवदौपगायन सुधी
शाण्डिल्य मौञ्ज्यायणान्‌।
पञ्चर्षीन्सह कौशिकान्कुल
गुरून
्‌वन्दे महायोगिनः।
वन्देलक्ष्मी पतिं देवं शङ्‌ख चक्र गदाधरम्।
विद्यामूर्तिं हयग्रीवं शब्दार्थ ज्ञान लब्धये।
अमृतात्मा तमेघाभम् अमृताहरणम्विभुम्।
पाञ्चरात्रागमाचार्यं वन्दे वैकुण्ठ भूपतिम्‌।
भगवन्‌ देवदेवेश शङ्ख चक्र गदा धर।
महोत्सवार्थं देवेश अनुज्ञां देहि मे प्रभो।
भगवन्‌देव देवेश प्रणतार्थि हरेतव।
अनुज्ञां धेहि सर्वेश निर्विघ्नं कुरुमे प्रभो.।
इतिभगवन्तम्प्रार्थ्य। अस्यदेवदेवस्यभगवतोवासुदेवस्य
श्रीभूमि नीळा पद्मावति नायिका समेत श्री वेङ्‌कटेश्वर
स्वामिनः राज राष्ट्राभिवृध्यर्थं कन्यामास
नवदिनमहोत्सव कर्मकर्तुं योग्यतासिद्दिश्च भूयादिति
53
भवन्तो महान्तोऽनुगृह्णन्तु इति भगवन्तंविज्ञाप्य।
फल वर्ग ताम्बूलादीन्निवेद्य। नीराज्य। सभ्यनुज्ञां कुर्यात्‌।
सभालक्षणमाह।
श्रीशेष पक्षीश्वर पद्मगर्भ
सेनेशमुख्यान्प्रतिबोदयन्तम्।
श्रीपाञ्चरात्रागमाचार्यमाद्यं
विष्णुं सदाहं शरणं प्रपद्ये।
महाजनौघाध मघौघसत्वं
वेदोदकंशास्त्रतरङ्‌गशोभितम्।
अलङ्‌घनीयं गुरुदेवतीर्थं
सभा समुद्रं शिरसानमामि।
ओं नमस्सदसे। नमस्सदसस्पतये। नमस्सखीणाम्।
पुर
ोगाणां चक्षुषे। नमोदिवे। नमःपृथिव्यै।
सप्रतसभाम्मेगोपाय। येचसभ्यास्सभासतः।
तानिन्द्रियाऽवतः कुरु। सर्वमायुरुपासताम्। सर्वेभ्यो
श्रीवैष्णवेभ्यो नमः। इति सर्वत्र अक्षतान्विकीर्य।
अशेषे हेपरिषत्‌। भवत्पादमूले इमां सौवर्णीं दक्षिणां
यत्किञ्चिद्दक्षिणांयथोक्त दक्षिणामिव ताम्बूलञ्च
स्वीकृत्य। इतिसर्वेषांवैष्णवानाम्‌ ब्राह्मणानाञ्च
ताम्बूलदक्षिणानि समर्प्य। अस्य देवदेवस्य भगवतो
वासुदेवस्य……….स्वामिसन्निधौ……..मास नवदिन
महोत्सवारम्भ मुहूर्तः सुमुहूर्तः अस्त्वितिभवन्तो
54
महान्तोऽनुगृह्णन्तु। तथास्तु ओम् इति सर्वेषां ब्रूयुः।
दर्भेष्वासीनः दर्भान्धार्यमानः पवित्रपाणिः
प्राणानायम्य। अस्यदेवदेवस्य स्वामिनः……..
सन्निधौमहोत्सवाङ्गभूत अङ्‌कुरार्पणादिकर्म करिष्ये।
तदङ्‌गम्आत्मशुध्यर्थंसमस्त उपकरणानां शुध्यर्थं
वासुदेवपुण्याहवाचनं करिष्ये।
सर्वकार्याणि निर्विघ्णेन परिसमाप्त्यर्थं श्री विष्वक्सेन
पूज
ाङ्करिष्ये तदङ्‌गं पात्रासाधनञ्चकरिष्ये।
इतिसङ्‌कल्प्य।
ओं विष्णो रराटमसि…………विष्णवेत्वा। ओम् अर्घ्यं
परिकल्पयामिइत्यादीनाम्पूर्ववत्‌ धूप दीपान्तं
सम्पूज्य। स्तण्डिले षोडश दर्भकृतकूर्चं निदाय।
तत्कूर्चे
ओम्भूःविष्वक्सेनमावाहयामि।
ओम्भुवःविष्वक्सेनमावाहयामि।
ओं सुवः विष्वक्सेनमावाहयामि।
ओं भूर्भुवस्सुवः विष्वक्सेनमावाहयामि।
इत्यावाह्य। अभ्यर्च्य। भगवदाराधनवत्‌पूजयिद्
वा।
ओं विष्वक्सेनाय नमःसमस्त राजोपचार पूजां
समर्पयामि।
भव सञ्चितपापौघ विध्वम्सन विचक्षणम्।
विघ्नान्धकार भास्वन्तं विष्वक्सेनं तमाश्रये। इति
विष्णोरनुज्ञयायैव विष्वक्सेन महाबल।
निर्याहि वैष्णवैस्सार्धम्मृत्सङ्ग्रहण कर्मणि।
55
इतिच प्रार्थ्य। उत्तरेकर्मण्यविघ्नमस्तु।
यथास्थानं प्रतिष्ठापयामि। इतिहृदये
विसृज्य। नीराज्य। सर्वेषाम्भक्तजनानां श्रीविष्वक्सेनः
प्रसादसिद्धिरस्तु। इति अक्षतान्विकीर्य। पुण्याहं
वाचयित्वा.
मृत्सङ्ग्रहण
विधिरुच्यते
अस्यदेवदेवस्यभगवतो……….सन्निधौ महोत्सवार्थं
मृत्सङ्ग्रहण कर्मकरिष्ये इतिसङ्कल्प्य।
श्रीगृहे मण्टपे बिल्वे तुळसी यत्रतत्रच।
विष्णु क्षेत्रे तथादिव्ये म्मृत्सङ्ग्रहणमाचरेत्‌
इत्युक्तवत्‌ श्री सुदर्शनंविष्वक्सेनेनसह मण्टपङ्गत्वा।
स्वस्तिवाचनं शाकुनसूक्तं पञ्चशान्तिं पठित्वा।
पुण्याहंवाच
यित्वा। भुवन्नवताल प्रमाणेन विलिख्य।
धान्य पीठेखनित्रन्निक्षिप्य। सकूर्चम् आम्रपल्लवानिच
बद्वा। सर्वत्र पुण्याह जलेनप्रोक्ष्य। आधारदि
पद्मान्तमभ्यर्च्य । सर्वेषाम्अपि भूसूक्तं जपित्वा।
भू देव्याःआवाहनार्थम्भुवौ आधारादि पद्मान्तं
सम्पूज्य। ओं ह्रीं भूम्यै नमःआगच्छेति आवाह्य।
आवाहनादि षण्मुद्रां प्रदर्श्य। ओं ह्राम् इत्यादिषडङ्ग
न्यासं कृत्वा। किरीट कमल वनमाल मुद्रां प्रदर्श्य।
खनित्रे ओं हुं वराहाय नमः। इति
ओं यज्ञार्ह देहाय पुराणपुरुषाय महावराहाय नमः
आगाच्छाऽऽगच्छाइत्यावाह्य । अभ्यर्च्य । आवाहनादि
षण्मुद्रां प्रदर्स्य । ओं हाम् इत्यादि षडङ्गन्यासं कृत्वा।
56
वराहमुद्रां प्रदर्श्या। सर्वत्र अर्घ्यादिभिस्सम्पूज्य।
नीराज्य। मुद्गान्नं गुळापूपं निवेद्य । अष्टासु
दिक्षुइन्द्रादीनावाह्य।
ओं पुरन्दराय नमः। ओं हुतावहाय नमः।
ओं पितृपतये नमः । ओं राक्षसाधिपाय नमः।
ओम् अपाम्पतये नमः। ओंसमीरणाय नमः।
ओं वित्तपेशायनमःओं भागीरति प्रियाय नमः।
इत्यावाह्य अभ्यर्च्य।
ओं क्रोडावतार भूम्याप्त हिरण्याक्ष निभर्हण।
महोत्सवार्थं भगवतो मृत्सङ्‌ग्रहण कर्मणि।
इति खनित्रं प्रार्थ्य। अस्य देव देवस्य ……स्वमिनः
राजराष्ट्राभिवृध्यर्थं महोत्सवाङ्‌गं भू मृत्सङ्‌ग्रहण कर्म
कर्तुं योग्यतासिद्धिमनुग्रहाणाम्। इति सभ्यनुज्ञां प्रार्थ्य।
सर्वेषामपि
ओम् उधृतासि वराहेण कृष्णेन शत बाहुणा।
भूमिर्धेनुर्धरणी लोकधारिणी।
इति विष्णुगायत्रिया भू गायत्रिया सह खनित्रेन भूम्याः
मुख बाहु ऊरु स्तन मध्य जटर अङ्‌घ्रिषु मृदम् आदाय।
लोहजे वेत्रजेवा बाजने निक्षिप्य। दर्भैः वस्त्रेनच
आच्छाद्य।
अङ्‌कुरार्पण विधिरुच्यते
श्री सुदर्शनः श्री विष्वक्सेनः सह अङ्‌कुरार्पण मण्टपं
नीत्वा। तत्र पुण्याहजलेन सर्वत्र प्रोक्ष्य।
57
सोमकुम्भं पालिकादीनिच
ओम् इन्द्रन्नत्वावाजिनमम। बृहतायान्तृषुभाजिनो ।
योगानाम्ब्राह्मणादीनाम्।
इतिमन्त्रमुच्चार्य तन्तुणापरिवेष्ट्य॥आम्रपल्लवं सकूर्चेन
अलङ्‌कृत्य। नवधान्यानिच गोक्षीरेण
ओम् आप्यायस्व इति मन्त्रेण सङ्क्षाळ्य। तस्मिन्‌
केशवादि द्वादश नामानि आवाह्य।
तिल, सर्षप, नीवार, शाली, मुद्ग,प्रियङ्‌गु,माष, यव,
वेणुधान्यानि सम्पूज्य। धान्य पीठे मध्ये सोमकुम्भम्
अष्टासु दिक्षु अष्ट पालिकान्‌ संस्थाप्य। सर्वत्र
आधारादि पद्मान्तमभ्यर्च्य।
भगवद्वाम नेत्रात्‌ ओं सं सोमाय नमः। इति सोमकुम्भे
आवाह्य। आवाहनादि षण्मुद्राम्प्रदर्श्य।
ओंसामित्यादिषडङ्‌गन्यासङ्कृत्वा। सर्वत्रपालिकानां
विष्णुवादिमूर्तिमावाह्य। अभ्यर्च्य।
अर्घ्यादिभिस्सम्पूज्य। पायसान्नन्निवेद्य। नीराज्य।
स्तण्डिले विधिवदग्निं सम्पाद्य। तन्मध्येआधारादि
पद्मान्तं हुत्वा। ओं सों सोमाय नमःआगच्छेत्यावाह्य.।
अर्घ्यादिभिर्हुत्वा। समिदाज्य चरुणा यथा शक्ति सोम
मन्त्रेण हुत्वा। सम्पादाज्यं सङ्‌गृह्य। धान्यादि
देवतानामुद्धिश्य तत्तन्मन्त्रेण हुत्वा।
पुरुष सूक्तेन चरुणाषोडशाहुतीर्हुत्वा।
पालिकासुओं मूर्धानमिति मन्त्रेण मृत्स्ना
वालुकाञ्च गो करीष चूर्णेन सहपूरयित्वा।
आम्र पल्लवादीन्‌ बद्वा। धान्यानिच सम्पूर्य।
58
सम्पादाज्येन ओं धं नमःपराय स्पर्श तन्मात्रात्मने नमः
इति कूर्चेन स्पर्शयित्वा। स्विष्टकृद्धवनं
कृत्वा। पञ्चोपनिषदन्मन्त्रेण शान्ति होमं कृत्वा।
पूण
Ѐ्हुतिं कृत्वा। अग्निमुद्वास्य। याग शालायाम् ऐशान्य
दिग्भागे धान्य पीठे सोमकुम्भादीनि सम्स्थाप्य.
नीराज्य।
रक्षाबन्धनकार्यक्रम विधि रुच्यते।
शुभे शोभने मुहूर्थे आचार्यः धान्य पीठे सप्त पञ्च तन्तुणा
निर्मित सूत्राणि सुवर्ण रजत सूत्राणि च गृहीत्वा।
ताम्बूल क्रमुखानि फलानिच गुळापूपेन सहितं
प्रादक्षिण्येन गर्भ गेहं प्रविश्य। पुण्याह जलेन
प्रोक्ष्य। अपराजित मन्त्रं जपित्व।
अपराजित मन्त्रः
अस्य श्री अपराजित महा मन्त्रस्य। प्रद्युम्न ऋषिः।
अदितीश्छन्दः। श्री विश्व रूपि नारायणो देवता।
अं बीजम्। उं शक्तिः। मं कीलकम्। भगवत्प्रतिसराभि
मन्त्रणार्थे जपे विनियोगः।
ओं नमो भगवते अनन्ताय सहस्र शीर्षाय सुगन्धि
क्षीरोदार्णव शायिणेनाग भोग पर्यङ्‌काय गरुडवाहनाय
वासुदेवाय नमः।
पीत वाससे सङ्‌कर्षण प्रद्युम्न अनिरुद्ध हयशीर्ष
वराहनारसिम्ह वामन त्रिविक्रम राम राम राम कृष्णः
कल्कि परम्बृह्म नमोस्तुते।
असुरादैत्य यक्ष राक्षस भूत प्रेत पिशाचाऽपस्मार सिद्ध
59
योगिनी शाकिनि डाकिनि बृम्हराक्षस विनायक पूतना
रेवतीस्कन्द पुरोगण नवग्रहादि नक्षत्र ग्रहान्‌ अन्यांश्च
महाग्रहान्‌ हण हण पतीन्पतीभ्यः।
अख्यातुमाख्यातु ं गृहाण गृहाण आविश आविश
ध्वम्सय ध्वम्सय.त्रासय त्रासय द्रुह्य द्रुह्य चक्रेण गदा
वज्रेण भस्मी कुरु भस्मीकुरु स्वाहा।
चक्र गदा वज्र सहस्रार मुख्य सर्व प्रहरणायुध बाहो
जयजय विजय विजय अनन्तापराजित अप्रतिहत
सहस्र नेत्र प्रज्वल प्रज्वल ज्वलज्वल विश्वरूप
मधुसूदन महापुरुष वैकुण्ठ नारायण पद्मनाभ हृषीकेश
सर्वभूत वशङ्कर शङ्‌ख चक्र गदाधर सर्वभूत नमस्कृत
सर्वनाग प्रमर्धन सर्वासुरोत्साधन सर्व देव नमस्कृत
सर्वग्रह निवारण सर्व यन्त्र प्रभञ्जन सर्वदुःख प्रशमन
सर्वज्वर विनाशन सर्व भूतापकर्षण सर्व दुस्वप्न
नाशन सर्वभक्त प्रदायक जनार्दन नमोस्तुते।
इति मन्त्रजपादनन्तरं भगवतः श्रीवत्सात्‌ सूत्रेषु
श्रियमावाह्य। श्रीसूक्तेनपूर्ववत्‌ षोडशोपचारान्‌ सम्पूज्य
नीराज्य। ओं सहस्रारहुम्फट्‌’ इति सप्तवारमभिमन्त्र्य.
भगवन्तम् अर्घ्यादिभिस्सम्पूज्य।
भगवन्पुण्डरीकाक्ष करिष्ये कौतुक क्रियाम्।
महोत्सवार्थं देवेश तदर्थं त्वम्प्रसीद ओम्। .
इति प्रार्थ्य। अस्यदेव देवस्य ःःःरक्षा बन्धन कर्म
करिष्ये इति सभ्यनुज्ञां कुर्यात्‌।
ओं विश्वेत्ताते सवनषु प्रवाच्यया याचकर्थ
मघवन्निन्द्र सुन्वते पारावतम्यत्पुरुसम्भृतं
60
वत्स्वभावृणो श्शरभाय ऋषि बन्दवे।
इति भगवद्धक्षिण हस्ते देव्याः वाम हस्तेच बध्वा।
ओं बृहत्सामक्षत्रभृत्वृद्ध वृष्णियं
तृष्ठुभोजश्शुभित मुग्र वीरम् इन्द्रस्तोमेन पञ्च
दशेणमध्यमितम्वातेन सगरेणरक्षा।
इति धूपेन रक्षां कृत्वा। गुळापूपं निवेद्य। नीराज्य।
आचार्यादीनाञ्च बद्वा। दक्षिणानि दत्वा। गरुड
प्रतिष्ठां कारयेत्‌।