श्री विष्णु-षड्-अक्षर-विधिः
अस्य श्री विष्णु षडक्षर महा मन्त्रस्य.
ब्रह्मा ऋषिः , देवि गायत्री छन्दः ,
श्रीमहाविष्णुः देवता, प्रणवं बीजम्.इम् शक्तिः ,
मम् कीलकम्. कुमुदादिवर्णः , उदात्तादि स्वरः ,
भगवत्समाराधनार्थे जपे विनियोगः। (श्री विष्णु सान्निध्यर्थे इति पा)
करन्यासः
ओम् ओम् ओम् अङ्कुष्टाभ्याम् नमः
ओम् नम् ओम् तर्जनीभ्याम् स्वाहा
ओम् मोम् ओम् मध्यमाभ्यां वषट्।
ओम् विम् ओम् अनामिकाभ्याम् हुम्
ओम् ष्णम् ओम् कनिष्टिकाभ्याम् फट्।
ओम् वेम् ओम् नख मुखैर्वौषट्।
अथ देह न्यासः
ओम् ओम् ओम् ज्ञानाय हृदयाय नमः
ओम् नम् ओम् ऐश्वर्याय शिरसे स्वाहा
ओम् मोम् ओम् शक्त्यै शिखायै वषट्।
ओम् विम् ओम् बलाय कवचाय हुम्।
ओम् ष्णम् ओम् तेजसे नेत्राभ्याम् वौषट्।
ओम् वेम् ओम् वीर्याय अस्त्राय फट्।
ध्यानम्
विष्णुम् सारथ चन्द्र कोटि सदृशम् शङ्खम् रथाङ्गम् गदा। .
अम्बोजम् दधतम् सिताब्ज निलयम् कान्तम् जगन्मोहनम्।
आपद्दाङ्गत हार कुण्डल महा शोभा स्पुरद्वक्षसम्।
श्रीवत्सङ्गमुदार कौस्तुभ धरम् वन्दे मुनीन्द्रावृतम्।
19
इति ध्यात्वा
द्वादशाक्षर, अष्टाक्षर; विष्णु षडक्षरान् अक्ष
मालया अष्टोत्तर शतंवा, अष्टा विंशतिर्वा,
अष्टौवा पूजाद्यन्ते सम्पुटितम् जपेत्।
मानसाराधनम्
हृदब्जे मूल भेरात् भगवन्तम् वासुदेवम् ध्यात्वा।
ओं नमोभगवते वासुदेवाय मन्त्रासनम् समर्पयामि।
ओम् अर्घ्यं समर्पयामि, पाद्यम् समर्पयामि,
आचमनीयम् समर्पयामि, दिव्यस्नानम्
समर्पयामि. प्लोत वस्त्रम्, कस्तूरि तिलकम्,
ब्रह्म सूत्रम् समर्पयामि. गन्ध, सर्वाभरण,
पुष्
पाक्षतान्, समर्पयामि. धूप,दीपम्,समर्पयामि.
क्षीर गुल पायसान्नम् निवेदयामि. पानक पानीय
आचमनीयम् समर्पयामि.
समस्त राजोपचार पूजान् समर्पयामि।
भगवन् पुण्डरीकाक्ष शरणागत वत्सल।
गृहाण
मानसीम् पूजां यथार्ह परिभाविताम्।
इति तुलसी जलम् भूमौ निक्षिप्य.
अथ भाह्य याग विधिः
ओम् घण्टाधि दैवताय ओम् कं बृह्मणे नमः।
इति घण्टाम् सञ्चाल्य। चालयित्वा। धूप पात्राधि
दैवताय ओम् पावकाय नमः। दीप पात्राधि दैवताय
ओम् भास्कराय नमः। वर्धन्यादि अर्चन पात्राधि
दैवताय ओम् वम् वरुणाय नमः। इत्यभ्यर्च्य।
20
विष्णु गायत्रिया सर्वाणि द्रव्याणि प्रक्षाल्य।
“शुचीवो हव्या” इति मन्त्रम् पठित्वा.
ओम् त्रिपादुकाधिदैवताय ओम् त्रेथाग्नये नमः।
ओम् रम् बालाग्नये नमः, ओम् रम् यौवनाग्नये नमः,
ओम् रम् वृद्धाग्नये नमः, पात्रादाराधि
दैवताय ओम् लम् पृथ्व्यै नमः,
तदुपरि आग्नेयादि कोणेषु अर्घ्य, पाद्य,
आचमनीय, स्नानीय पात्राणि मध्ये शुद्धोदक
पात्रान् संस्थाप्य. गालितोदकैरापूर्य.
प्रणवेन स्पृष्ट्वा.ओम् अर्घ्यम् परि कल्पयामि. ओम् पाद्यं
परिकल्पयामि.ओम् आचमनीयम् परिकल्पयामि.
ओम् स्नानीयम् परि कल्पयामि.ओम् शुद्धोदकम्
परि कल्पयामि. इतितुलसीम् निक्षिप्य.
कुशाग्राक्षत, पुष्प, फल, चन्दन ,तिल ,सिद्धार्थ,
यवान् अर्घ्य पात्रे.
तिलम्,दूर्वान्, विष्णुपर्नी, श्यामाक, पद्म,
अक्षतानि पाद्य पात्रे.
एला, लवङ्ग, जाती, तक्कोल, चन्दन, पुष्पाणि
आचमनीय पात्रे.
गन्ध, सर्वौषधीः, रत्न, फल, बीज, कुश, तिल ,अक्षत,
दधि, क्षीर, घृत, रजनी, द्वादश द्रव्याणि स्नानीय पात्रे.
कोष्टम्, माम्सी, हरिद्र, मुरा, शैलेय, चम्पक, वचा,
कच्चोर, मुस्ता, सर्वौषधीः शुद्धोदक पात्रे निक्षिप्य.
दक्षिण हस्ते ओम् रम् द्वादशाराय चक्राय नमः,
तन्मध्ये ओम् हम् सूर्याय नमः, दीप्तैःतद्रश्मिभिः द्रव्याणि
21
दग्धानि ध्यात्वा.
वाम हस्ते ओम् षोडश दलयुताय विकस्वराय
श्वेत पद्माय नमः,तन्मध्ये ओम् वम् षोडशकलायुताय
अमृतमयाय चन्द्रमसे नमः,
दीप्तैः तद्रश्मिभिः द्रव्याणि सिक्तानि ध्यात्वा.
तानि याग योग्यानि विचिन्त्या.हस्तयो रुभयोः
देवम् नारायणम् ध्यात्वा .ताभ्यान्द्रव्याणि
सकृत्सकृत्;सस्पृश्य। विष्णुगायत्रिया अभिमन्त्रिय.
ओम् सुम् सुरभ्यै नमः इति सुरभि मुद्राम्
प्रदर्श्य. तद्धुग्दैः अमृताम्बुभिः पूरितानि
विचिन्त्या. अर्घ्य पात्रात् किञ्चिज्जलम् अन्यस्मिन्
पात्रे गृहीत्वा. आधार स्तलिकोपरि विन्यस्य.
अर्घ्यपात्रे ओम् श्रियै नमः, पाद्य पात्रे ओम्
पितृभ्यो नमः,आचमनीय पात्रे ओम् सरस्वत्यै
नमः, स्नानीय पात्रे ओम् वरुणायनमः,
शुद्धोदकपात्रे
ओम् नमो भगवते वासुदेवाय
शान्त्यै नमः इत्यावाह्य. धूप दीपम् समर्प्य.
पात्रान्तरस्तमर्घ्य जलम् वाम हस्ते निदाय.
दक्षिण हस्तेन पिदाय. ओम् नमो नारायणायेति
सप्त वारम् अभिमन्त्रिय. तज्जलेन ओम् सहस्रार
हुम् फट्; इति सर्वाणि द्रव्याणि आत्मानञ्च
प्रोक्ष्य। मूलभेरस्य पादयोः तुलसीं समर्प्य.
ओम् नमो भगवते वासुदेवाय सपर्यासनं समर्पयामि.
इतिप्रार्थ्य।
22
योग पीठार्चन विधिः
अर्चनं योग पीठस्य मन्त्रन्यसन मेवच.
बिम्बे स्थिरे सदा कार्यम् पूजारम्भे चतुर्मुख.
इति वचनात् मूल भेरस्य पादयोः योग पीठार्चनं कुर्यात्ः
तद्विवरणमाह
ओम् ह्रीम् आधार शक्त्यै नमः
ओम् ञ्रौम् ष्ट्रूं काल पावक कूर्मायनमः
ओम् हं सहस्र फणाधृत चतुरश्र भूमण्डलाय अनन्ताय नमः
ओम् भूम् भूम्यै नमः . तदुपरि आग्नेयादि कोणेषु.
ओम् धर्माय नमः ,ओम् ज्ञानाय नमः ,
ओम् वैराग्याय नमः , ओम् ऐश्वर्याय नमः ,
एतान् योगासनाङ्घ्रिरूपान् पुरुषाकृतीन्
चतुर्भुजान् सिम्ह वक्त्रान् स्थितान् ध्यायामि.
ओम् अधर्माय नमः ,ओम् अज्ञानाय नमः ,
ओम् अवैराग्याय नमः , ओम् अनैश्वर्याय नमः ,
मध्ये ओम् सदा शिवाय नमः .
एतान् अरुण वर्णान् अञ्जलि हस्तान्
पूर्वोक्त रूपान् ध्यायामि.
योगासनाङ्घ्रि अन्तरान्तर प्रागादिषु,
ओम् ऋग्वेदाय नमः , ओम् यजुर्वेदाय नमः .
ओम् सामवेदाय नमः , ओम् अथर्व वेदाय नमः .
ओम् कृत युगाय नमः , ओं त्रेता युगाय नमः ,
ओम् द्वापर युगाय नमः, ओम् कलियुगाय नमः .
ओम् वैकारिक अहङ्काराय नमः,
23
ओम् तैजसिक अहङ्काराय नमः,
ओम् भौतिक अहङ्काराय नमः,
एतान् पाश रूपयुतान् ध्यायामि.
ओम् सत्व गुणाय नमः ,
ओम् रजो गुणाय नमः ,
ओम् तमो गुणाय नमः .
एतान् गुणरूपेन ध्यायामि. ओम् ङं घं गं खं कं तूलिका
रूपेभ्यो पृथिव्यप्तेजोवाय्वाकाशात्मने नमः .
ओम् मम् आस्तरण रूपाय जीवात्मने नमः
तदुपरि ओम् रम् अग्नि मण्डलाय नमः
ओम् वम् सोम मण्डलाय नमः
ओम् हम् सूर्य मण्डलाय नमः
उपरि ओम् श्वेताय द्वादश दल युताय विपुल
कर्णिका केसरयुताय गुण त्रयात्मकाय अव्यक्त
पद्माय नमः
ओम् भद्रासनायनमः इत्यासनान्तस्थ देवताश्च
आवाह्य अभ्यर्च्य.
पीठस्य दक्षिणे पार्श्वे ओम् ब्रह्मणे नमः
ओम् विष्णवे नमः ओम् ईश्वराय नमः .
उत्तरे ओम् सनत्कुमाराय नमः ओम् सनकाय नमः
ओम् सनन्ताय नमः .
पस्चिमे ओम् दुर्गायै नमः ,ओम् विघ्नेशाय नमः ,
ओम् नारदाय नमः .
अग्रे ओम् अस्मद्गुरुभ्यो नमः , ओम् अस्मत्परम
गुरु
भ्यो नमः , ओम् अस्मत्सर्व गुरुभ्यो नमः .
24
इत्यात्मान गुरुञ्च ध्यात्वा.
(सकल वेदान्त सारार्थ पूर्णाशयम्।
विपुल वादूल गोत्रोद्भवानाम् वरम्।
रुचिर जामात्रु योगीन्द्र पादाश्रयम्
वरद नारायणम् मद्गुरुम् संश्रये.)
इत्यभ्यर्च्य. धूप दीपम् समर्प्य.
आवाहन पात्रम् अद्भिरापूर्य. तुलसीम् निक्षिप्य.
हृदयस्तम् देवम् ओम् नमो भगवते वासु देवाय
श्री भूमि नीला समेताय श्रीनिवासस्वामिणे नमः इति
तुलसीम् मूल भेरस्य मूर्ध्नि समर्प्य.
सुस्थितो
अभि मुखो भव इति प्रार्थ्य।
प्रतिमा मुद्राम् प्रदर्श्य।
नाभ्यादि हृदयान्तम् द्वादशाक्षरेण स्थितिन्यासम् कुर्यात्.
किरीटादि मुद्रान् प्रदर्श्य। .
श्रीदेव्याः
शब्द ब्रह्म स्वरूपिणीम् सर्व शक्ति मयीम्
ओम् श्रीम् श्रियै नमः पद्मासनं समर्पयामि.
ओम् श्राम् ज्ञानाय हृदयाय नमः ,
ओम् श्रीम् ऐश्वर्याय शिरसे स्वाहा ,
ओम् श्रूम् शक्त्यै शिखायै वषट् ,
ओम् श्रैं बलाय कवचाय हुम् ,
ओम् श्रौम् तेजसे नेत्राभ्याम् वौषट्;
ओम् श्रः वीर्याय अस्त्रायफट् .
इति षडङ्गञ्च कृत्वा। किरीट,कमल, वनमाल मुद्राञ्चप्रदर्श्य।
25
ध्यानम्।
श्रियञ्च दक्षिणे पार्श्वे चिन्तयेत् पद्मसम्भवाम्,
तप्त हाटक सङ्काशाम् पद्म पत्रायतेक्षणाम्,
तिसृभिः परि चूडाभिःललाटोपरि शोभिताम्,
सपद्म वाम हस्तान्ताम् कक्ष्या बद्ध गण स्तनीम्,
त्रिभङ्गीम् कोमलाम् कान्ताम् सुमुखीम् भावयेत्सदा.
इति ध्यात्वा धूप दीपम् समर्प्य.
भूदेव्याः
शब्द ब्रह्म स्वरूपिणीम् सर्व शक्तिमयीम्
ओम् ह्रीम् भूम्यै नमः पद्मासनम् समर्पयामि.
ओम् ह्राम् ज्ञानाय हृदयाय नमः,
ओम् ह्रीम्ऐश्वर्यायशिरसे स्वाहा,
ओम् ह्रूम् शक्त्यै शिखायै वषट्; ओम् ह्रैम्
बलाय कवचाय हुम् , ओम् ह्रौम् तेजसे
नेत्राभ्याम् वौषट्; ओम् ह्रः वीर्याय अस्त्रायफट्.
इति षडङ्गञ्च कृत्वा. किरीट,कमल, वनमाल मुद्राञ्च प्रदर्श्य।
ध्यानम्.
वाम पार्श्वे महीम् देवीम् द्वि हस्ताम् श्यामळ प्रभाम्। .
स्तन बन्ध विहीनाङ्गीम् लक्ष्मीवन् मकुटो ज्वलाम्.
त्रिभङ्गीम् कोमळाम् कान्ताम् सुमुखीम्
भावयेत्सदा इति ध्यात्वा.धूप दीपम् समर्प्य.
मन्त्रासन विधिः
ओम् अर्चत प्रार्चत नरः, प्रिय मेधासो अर्चत,
अर्चन्तु पुत्रका उता, पुरामि धृष्णा अर्चत,
इति साम पठन् ओम् नमो भगवते वासु देवाय
26
फलम् भवतु मे पुष्पैर्नम स्वाहा,इति पुष्पाञ्जलिम् कुर्यात्.
विभो सकल लोकेश विष्णो जिष्णो प्रभोहरे.
त्वाम् भक्त्या पूजयांयद्य भोगैरर्घ्यादिभिःक्रमात्.
दिव्येनाऽर्घ्योपचारेण यथा शक्ति यथा विधि.
अर्चयिष्यामि समये भगवन्तम् जनार्दनम्.
ओम् नमो भगवते वासुदेवाय मन्त्रासनम् समर्पयामि.
इति सर्वत्र प्रार्थ्य.
ओम् तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि
धीयो योनः प्रचोदयात्
अर्घ्यम्म् समर्पयामि.इति देवस्य मूर्ध्नि अर्घ्यं समर्प्य।
ओम् त्रीणि पथा विचक्रमे विष्णुर्गोपाऽथाभ्यः
ततोधर्मानि धारय़न्
पादयोः पाद्यं समर्पयामि.इति द्विवारं.
ओम् आपः पुनन्तु पृथ्वीं पृथ्वी पूता पुनातुमा
पुनन्
तु ब्रह्मणस्पतिः ब्रह्म पूता पुनातुमाम्.
इति आचमनीयम् समर्पयामि.
“दासोहम् ते जगन्नाथ सपुत्रादि परिग्रहः
प्रेष्यम् प्रसादिकर्तव्येमाम् नियुङ्क्ष्व हितेसदा। ”
इति देवम् साष्टाङ्गम् प्रणम्य।
मधुक्षीरञ्च दध्याज्यम् मधु पर्कमिति स्मृतम्.
एकाङ्गम् वा समस्तम् वा मधु पर्कम् न लोपयेत्.
इत्युक्तवत् ओम् नमोभगवते वासुदेवाय मधुपर्कम्
निवेदयामि.
ओम् मधु वाता ऋतायते, मधु क्षरन्ति सिन्धवः,
माद्वीर्णस्सन्त्वौषधीः
27
इति मन्त्रेण समर्प्य.
आचमनीयं समर्प्य. हस्त, मुख, पादशाटीम्
विष्णोरराट इतिमन्त्रेण समर्प्य.
योगासनाब्जपत्रेषु, पूर्वादिषु, द्वादश दळेषु.
ओम् श्रीवत्साय नमः , ओम् वनमालायै नमः ,
ओम् योगमायायै नमः , ओं वैष्णव्यै नमः ,
ओम् विमलायै नमः . ओम् सृष्ट्यै नमः ,
ओम् उत्कर्षिण्यै नमः , ओम् प्रज्ञायै नमः ,
ओम् सत्यायै नमः , ओम् ऐशान्यै नमः ,
ओम् अनुकम्पायै नमः ,ओम् पिता मह्यै नमः .
एताः पुष्पाञ्जलि धरम् ध्यात्वा.
ओम् व्याप्त्यै नमः , ओम् का्नन्त्यै नमः ,
ओम् तृप्त्यै नमः , ओम् श्रद्धायै नमः ,
ओम् विद्यायै नमः ,ओम् जयायै नमः ,
ओम् क्षमायै नमः ,ओम् शान्त्यै नमः ,
एताः प्रथमावरणे सूर्य मण्डलस्योपरि
चामर धारिणीम् ध्यात्वा.
द्वितीया वरणे सोम मण्डलस्योपरि
ओम् शङ्खिणे नमः ,ओम् चक्रिणे नमः ,
ओम् गदिने नमः ,ओम् खड्िगिणे नमः ,
ओम् पद्मिने नमः ,ओम् मुसलिने नमः ,
ओम् शार्ङ्गिणे नमः ,ओम् वनमालिने नमः .
एताः आयुध धारिणीम् ध्यात्वा.
त्रितीयावरणे अग्नि मण्डलस्योपरि
ओम्म् इन्द्राय नमः ,ओम् अग्नये नमः ,
28
ओम् यमाय नमः ,ओम् नैऋतये नमः ,
ओं वरुणाय नमः ,ओम् वायवे नमः ,
ओम् सोमाय नमः ,ओम् ईशानाय नमः .
त्रितीयावरणाद्बहिः भगवतः प्रति मुखे
ओम् क्षम् वैनतेयाय नमः .
ऐशान्याम् ओम् विष्वक्सेनाय नमः ,पादुके
ओम् अनन्ताय नमः .इत्यभ्यर्च्य। धूप दीपम् समर्प्य.
कर्मार्चादि बिम्बानाम् पूजन विधिः उच्यते .
कर्मार्चा च, उत्सवार्चा, बल्यर्चाच ,तथापरे.
स्नान, तीर्थोभयार्चाच ,शयनार्चेति. षड्िव्वधाः। ः
इत्युक्तवत् षड्भेर पूजा विषये सर्वत्र
योग पीठार्चनम् पूर्ववत् कृत्वा.
अनन्तरम् वक्ष्यमाणेनविधिना
आवाहनपात्रम् अद्भिरापूर्यतुळसीम् निक्षिप्य.
मूल भेरात् यच्चक्तिम्ओम् नमोनारायणाय
आगच्छागच्छेति वारचतुष्टयम् उक्त्वा.
कर्म भेरस्य मूर्ध्नि सत्तोयं तुळस्या समर्प्य.
प्रतिमा मुद्रां प्रतर्श्य.. आवाहितो भव
,स्थापितो भव, सन्निधानो भव, सन्निरुद्धो भव,
साम्मुख्यो भव, प्रार्थितो भव। .
स्वामिन् सर्व जगन्नाथ यावत्पूजावसानकम्.
तावत्वम् भक्ति भावेन बिम्बेस्मिन् सन्निधिम् कुरु;
इति यागावसानिकम् प्रार्थ्य। . नाभ्यादि
हृदयान्तम् अष्टाक्षरेण स्तिति न्यासम्
कृत्वा.किरीटादि मुद्रान् प्रदर्श्य। . एवम् षड्भेर
29
विताने कर्मार्चा उत्सवार्चा/बल्यर्चा/स्नानार्चा/तीर्थार्चा
पर्यन्तम् अष्टाक्षरेणैव स्थिति न्यासम्
आवाहनादि मुद्रा प्रदर्शन पूर्वकम् कारयेत्. शयन भेर
मात्रमेव आवाहनादि मुद्रा पूर्वकम्.
ओम् नमो विष्णवे आगच्छा इत्यावाह्य.
विष्णुषडक्षरेण स्तिति न्यासम् कृत्वा. किरीटादि
मुद्राम् प्रदर्श्य। . पूर्ववत्
श्री भू देव्योरपि आवाहनम् कृत्वा .
अरविन्दासनेदेवि पद्मगर्भ समुद्भवे.
आगच्छाऽऽवाहने पात्रे गोविन्द गृह मेधिनी.
इति श्री देव्या; मूलभेरात्
आवाह्या आवाहनादि षण्मुद्राम् प्रदर्श्य। .
ओम् श्रामित्याति षडङ्गञ्च कृत्वा. किरीट, कमल,
वनमाल मुद्रांश्च प्रदर्श्य। .
भूदेव्याः ओम् ह्रीं भूम्यै नमः आगच्छेति
आवाह्य. प्रतिमा मुद्राम् प्रदर्श्य। . आवाहनादि
षण्मुद्राम् प्रदर्श्य। .
ओम् ह्राम् इत्यादि षडङ्गञ्च कृत्वा. किरीटादि
मुद्राम् प्रदर्श्य। .
श्री, भूदेव्याः विषये- मूल भेरम् नास्ति चेत्
भगवतः श्रीवत्सात् आवाह्य.
ओम् क्लीम् कृष्णाय गोविन्दाय गोपी जन
वल्लभाय नमः इति सन्तान कृष्ण स्वामिणम्
आवाह्य. पूर्ववत् मुद्रा दर्शन ओम् क्लाम् इत्यादि
षडङ्ग न्यास पूर्वकम्, किरीटादि मुद्राञ्च कृत्वा.
30
ओम् नमो भगवते महासुदर्शनाय आगच्छेति
सु
दर्शनम् आवाह्य.पूर्व वत् मुद्राप्रदर्शन ओम् आचक्रायेति
षडङ्गञ्च कृत्वा. किरीटादि मुद्राञ्च प्रदर्श्य।
सर्वेषाम् मूलभेर पूजनवत् पुष्पाञ्जलि पूर्वक,
मन्त्रासन प्रार्थन,अर्घ्य पाद्यादि उपचार, धूप,दीपान्तम्
सम्पूज्य.इतिमन्त्रासनम्.
स्नानसन उपचारान् प्रारभेत्.
स्नानसनविधिः।
स्नान काल स्त्वयम् प्राप्तः तवेच्चा वर्तते यदि।
अभ्यञ्जयित्वा देवेश सुस्नानम् कर्तुमर्हसि.
सपाद पीठ मपरम् शुभं स्नानासनम् महत्.
आसादयाशुस्नानार्थं मदनुग्रह कांयया.
इति देवेशम् प्रार्थ्य। .
ओम् पादुकाधि दैवताय ओम् अम् अनन्ताय नमः
इति पादुकारोहणम् स्मृत्वा. अभिषेचनम्.
उत्थिष्ट ब्रह्मणस्पते देवयन्तस्त्वेमहे;उपप्रयन्तु
मरुतस्सु दानवःइन्द्र प्राशुर्भवासच,प्रैतुब्रह्मणस्पतिः
इति देवम् उत्थितम् स्मृत्वा.
भद्रम् कर्णेभिःश्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्कैस्तुष्टु वागुम्सस्तनूपिः व्यशेम देवहितम् यदायुः
इति स्नानासन वेदिकायाम् निविष्टम् विचिन्त्य.
”ओम् तद्विष्णोः परमम् पदगुम्सदापश्यन्ति
सूरय
>>>>> gd2md-html alertः Definition ↓↓ outside of definition list. Missing preceding term(s)?
(Back to top)(Next alert)
>>>>>
ः ,दिवीवचक्षुराततम्. तद्वि प्रासो
विपन्यवो जाग्रु वाम् सस्समिन्धते.विष्णोर्यत् परमम् पदम्.,,
ओम्नमो नारायणायदन्त दावनम् समर्पयामि.
31
ओम् नारायणाय विद्महे वासु देवाय धीमहि
तन्नो विष्णुःप्रचोदयात्।
इति जिह्वा निर्लेपनम् समर्पयामि.
ओम् हस्त प्रक्षाळणम् समर्पयामि.
शन्नो देवीरभिष्टय आपो भवन्तु पीतये
शम्यो रभिस्रवन्तुनः
इति गण्डूषं समर्पयामि.
ओं पिशङ्कपृष्टिमम्रुणं पिशाचमिन्द्र
संवृणा सर्वम् रक्षो निबर्हय।
इति मुख मञ्जनम् समर्पयामि.
हस्त प्रक्षाळणम् समर्पयामि.
विष्णोरराटमसि….विष्ण वेत्व।
इतिहस्त; मुख पादशाठीम् समर्पयामि.
ओम् वामदेवाय नमो ज्येष्टायनमो रुद्राय नमः
कालाय नमःकलवि करणायनमो बलवि
करणायनमो बल प्रमथनायनमो सर्वभूत तमनाय
नमो मनोन्मनायनमः।
इति अभ्यञ्जनं समर्पयामि.
ओं विष्णोर्णुकम् वीर्याणि
इति आमलक स्नानम् समर्पयामि.
नते विष्णुर्जाय मानो नजातो देव महिम्नः ,
परमन्त आप उदस्तभ्ना नाकमृष्टम् बृहन्तं
दातर्थ पृथिवी मभितो मयूखैः।
इति अभिषेचनम् समर्पयामि.
आपोहिष्टामयोभुवः……..आपोजनयताचनः।
32
इतिस्नानंसमर्प्य.
ओम् अतोदेवा अवन्तुनो ……..पृथिव्यासप्त दामभिः
इति कनक कङ्कतेन केश शोधनम् समर्पयामि.
कलश स्नपनम् स्नानीयतीर्थेनवा सम्स्नाप्य.
ओम् हिरण्य वर्णाम् ………जात वेतोम आवह
इति हरिद्राभिषेचनम् समर्प्य.
ओम् हिरण्य वर्णाश्शुचयः पावकायासुजातः
कस्यपोयास्विन्द्रः। अग्निंया गर्भन्दधिरे
विरूपास्तान आपःसग्गुस्योनाभवन्तु।
यासागुम् राजा वरुणोयातिमध्ये
सत्यानृतेऽवपश्यञ्जनानाम्.।
मधुश्चुतश्शुचयोयाः पावकाःस्तान
आपःसग्गुस्योनाभवन्तु.।
यासाम् देवा दिविकृण्वन्ति पक्षम् या अन्तरिक्षे
बहुदाभवन्ति. याःपृथ्वीगुम् पयसोन्दन्तुशुक्रास्तान
आपःसग्गुस्योनाभवन्तु.। शिवेनमा चक्षुषापश्शिवया
तनुवोपस्पृशन्तु त्वचम्मे. सर्वागुम् अग्नीगुंरप्सुषेमो
मयि वर्च्चो बलमोजो निधत्ता।
इति गन्धाभिषेचनम् समर्प्य.
विष्णु गायत्रिया कुङ्कुमाभिषेचनम् समर्प्य.
ओम् पवमानस्सुवर्जनः ,पवित्रेण विचर्षणिः,
यःपोतासपुनातुमा पुनन्तु मनवोधिया।
इति महाभिषेचनम् समर्पयामि.
ओम् तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि
33
धीयोयोनः प्रचोदयात्। इति देवम् परिषिच्य.
ओं सहस्र धाराधि दैवताय ओं पूर्णचन्द्राय नमः
ओं शङ्ख धाराधि दैवताय ओं शङ्खिणे नमः
ओं पद्म धाराधि दैवताय ओं पुष्ट्यै नमः
इत्यभ्यर्च्य। पुरुष सूक्तेन संस्नाप्य। ’’
अग्निर्मूर्धा दिवःककुत्पतिः पृथिव्या अयम्।
अपागुं रेतागुम्सिजिन्वति।
इति प्लोत वस्त्रेण अङ्गाम्बु मार्जनं समर्प्य.
विष्णुगायत्रिया’दौत निर्मल वस्त्र द्वयं समर्पयामि.
ओम् इति यज्ञोपवीतम् समर्प्य.ओम् उत्तरीयं समर्पयामि.
ओम् नमो नारायणाय अर्घ्य पाद्य आचमनीयादीन् समर्पयामि.
अलङ्कारासनम्
सम्पन्नम् देव सद्वस्त्र भूषा स्रग्चन्दनादिकम्.
अलङ्कारासनम् भद्रम् अधि तिष्ठ त्रितीयकम्.
ओम् नमो भगवते वासुदेवाय अलङ्कारासनम्
समर्पयामि. इति सर्वत्र प्रार्थ्य।
अर्घ्य पाद्यादि उपचारान् समर्प्य.।
ओं मूर्धानम् दिवोअरतिम् पृथिव्यावैस्वा नरमृताय जातमग्निम्,
कविगुंसम्राजमतितिञ्जनाना मासन्ना पात्रञ्जनयन्ततेवाः।
इतिआर्द्रान् केशान् अगरुधूपेन शोषयामि.
विष्णु गायत्रिया तिलक धारणम् समर्पयामि.
इदं विष्णुः इति मन्त्रेण दिव्य गन्धं समर्प्य.
जितन्ते दक्षिणतो वृषभयेति हव्यः
इन्द्रो जयाति नवराजयात .
अधि राजो राजसुराजयाति।
34
इति मन्त्रेण सर्वाभरणान् समर्पयामि.
ओम् तद्विष्णोः इति मन्त्रेण दिव्य परिमळ
पुष्
पाणि समर्पयामि.
ओम् इरावती धेनुमतीहि भूतम् सूयवसिनीमनवेदशस्ये
व्यष्टब्णाद्रोतसी विष्णवेते दातर्त्त पृथ्वीमभितो मयूखैः
इतिदेवस्य पादयोः अक्षतान्समर्पयामि.
विष्णु गायत्रिया अञ्जनम् समर्प्य.दर्पणाधि दैवताय ओं श्री
महालक्ष्म्यै
नमःइत्यावाह्य.व्याहृत्या दर्पणं समर्प्य.
ओम् धूरसि धूर्व धूर्वन्तं धूर्वत तन्धूर्वयम्
वयन्धूर्वामह इति धूपंसमर्प्य.
नक्षत्र दीपाधि दैवताय
तारावृत चन्द्रमसे नमः
ओम् उद्दीप्यस्वजातवेतोह्यपघ्नन्निरुरुतिं मम,
पशूगुम्स्च मह्यमावह जीवनञ्च दिशोदश।
इतिदीपारोपणम् कृत्व। .
घट दीपाधि दैवताय ओम् लक्ष्म्यै नमः इति दीप
मुद्रया सह घट दीपान् समर्प्य.
नीराजनञ्च समर्प्य. मन्त्र पुष्पं पठित्वा
मात्रादानम्
तिलान्वस्त्रम् तथा हैमम् ताम्बूलम् तण्डुलानपि.
फलानि गव्यमाघारम् गाश्च धान्यम् यथा वसु.
गोग्रासम् देशिकायैव दद्याद्देवस्यसन्निधौ।
इतिवत् मात्रादानम् कृत्व. ओम् इति गृहीत्वा.
इति अलङ्कारासनम्
35
अथ भोज्यासन विधिः
प्रभूत मेध्यान्नन्नानि भक्ष्य भोज्यान्यनेकशः,
सम्पन्नानि जगन्नाथ भोज्यासनमुपाश्रय.
ओं नमो भगवतेवासुदेवाय भोज्यासनं समर्पयामि.
इतिसर्वत्र प्रार्थ्य। . पुनर्मन्त्रासनम् समर्प्य.
स्थलानि संशोध्य। . सर्व विध भक्ष्य भोज्यानि
देवस्य पुरतः विनिवेश्य. शुद्धोदक जलेन
ओम् अस्त्रायफट् इति प्रोक्ष्य। .
ओम् यं नमः शोषयामि ओम् रन्नमः दाहयामि
ओम् वं नमः प्लावयामि इति शोषणादीनि कृत्वा.
ओम् बलाय कवचाय हुम् इतिपरिषिच्य.
ओम् सुम् सुरभ्यै नमः इति सुरभि मुद्रां
प्रदर्श्य.. तुळसीम् निक्षिप्य.
शीतळोदक सम्पूर्णम् एला कर्पूर सम्युतम्,
मन्दोष्णम् वासनायुक्तम् अर्हणाम्बु इति स्मृतम्.
इत्युक्तवत् ओम् इति अर्हण पानीयम्समर्प्य.
अन्वारब्दस्सव्येन दक्षिण करेण दर्शित ग्रास
मुद्रयाओम् देवस्यत्वा सवितु प्रसवे.
अस्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णातु..
ओम् नमो भगवते वासुदेवाय क्षीरगुळपायसान्नं स्वाहा.
इति सप्त वारम् उक्त्वा निवेद्य। . सर्वत्रच
विनिवेद्य। पूर्ववत् आचमनीयम् समर्प्य हस्त मुख
पाद शाठीं समर्प्य.ताम्बूलादीन्निवेद्य। .
इति भोज्यासनम्।
36
पाक शालायां नित्याग्नि कुण्डे नित्य होमं कृत्वा।
द्वार बलि विधिरुच्यते.
१. गर्भ गृहद्वारे ओम् वास्तु पुरुषाय नमः
ओम् क्षेत्र पालाय नमःओं द्वार श्रियै नमः ओम् द्वार भूम्यै
नमः
सोदकं बलिम् ददामि इति तुळसी जलेन सह प्रसादं
समर्प्य.
२. अर्ध मण्डप द्वारे ओम्.द्रां चण्डाय नमःओम् द्रों
प्रचण्डायनमः
मध्ये ओम् क्षम् गरुडाय नमः सोदकं बलिम् ददामि
३ . महा मण्डप द्वारे ओम् धात्रे नमः
ओंविधात्रे नमः सोदकं बलिम् ददामि। .
४. नृत्त मण्डप द्वारे ओम् कुमुदाय नमः ओं
कुमुदाक्षाय नमः सोदकं बलिम् ददामि.
५. वाद्य मण्डप द्वारे ओम् जयाय नमः ओं
विजयाय नमः सोदकं बलिम् ददामि.
प्रथमावरणे ओम् इन्द्राय नमः ,ओम् अग्नये नमः
,ओम् यमाय नमः, ओम् नैरुतये नमः ,ओं वरुणाय नमः,
ओम् वायवे नमः,ओम् कुबेराय नमः, ओम्
ईशानाय नमःसोदकं बलिम् ददामि.
द्वितीया वरणे ओम् कुमुदाय नमः,ओङ्कुमुदाक्षाय नमः,
ओं पुण्डरीकायनमः, ओंवामनाय नमः,
ओं शङ्कु कर्णाय नमः, ओम् सर्व नेत्राय नमः,
ओं सुमुखाय नमः ,ओं सुप्रतिष्टाय नमः सोदकं बलिम्
ददामि.
37
महाबलि पीठे सर्वेभ्यो विष्णु
पार्षदेभ्यो नमःसोदकं बलिम् ददामि।
ध्यानम्.
मुख पञ्च सम वक्त्र सम नासि नयने,
दश कर्ण दशबाहु दश चक्र दश सृक्,
अति रक्त तनु वर्ण गळ मेक हृदयम्,
द्वय पाद हित भूत बलि पीठ देवम्. इति ध्यात्वा.
.इतिअन्नम्पूर्णेनसमर्प्य.
गर्भगृहम् गत्वा. मूल भेरस्य पादयोः तुलसी
पुष्
पाणि च समर्प्य.यथा शक्ति मूल मन्त्रं जप्त्वा.
अपराध** शतम् चैव सहस्र मयुतम् तथा.**
अर्भुतम्** चाप्यसङ्ख्येयम् करुणाब्धेक्षमस्वमे.**
इति भगवन्तम् प्रार्थ्य। वेददीन् समापनं कुर्यात्। भगवत्
तीर्थानि प्रथमम् आचार्यः स्वयमेव गृहीत्वा। अन्येभ्यो
दद्यात्।
शयनासन विधिः उच्यते.
भगवन् पुण्डरीकाक्ष कृपाळो पुरुषोत्तम,
आसादय मया दत्तम् पर्यङ्कासनमुत्तमम्.
इति भगवन्तं प्रार्थ्य। ओम् नमोभगवते वासुदेवाय
शयनासनं समर्पयामि.ओन्नमो नारायणाय शयनासनम्
समर्पयामि.ओम् नमोविष्णवे शयनासनम् समर्पयामि.
इतिप्रार्थ्य। सर्वत्र अर्घ्य,पाद्य, आचमनीयादीन् समर्प्य।
शाल्यान्न शुष्क क्षीरम् निद्य। क्षौम वस्त्र कार्पास उपदानानि
पर्यङ्के निदाय. तेषुअनन्तम् आवाह्य. शयनभेरम् शाययित्वा.
38
वीणा वेणु वाद्यानि वादयित्वा.शनैःशनैः कवाट बन्धनं
कुर्यात्। .द्वारे सुदर्शनम् ध्यात्वा. प्रादक्षिण्येन स्व गृहम्
प्रविश्य। .इति शयनासन विधिः।
नित्याराधन विधिः सङ्ग्रहम् सम्पूर्णम्
अपराध क्षमापण श्लोकाः (श्री पाञ्चरात्रे)
पुण्डरीकाक्ष विश्वात्मन् मन्त्र मूर्ते जनार्दन।
गृहाण मत्कृतां पूजां जपान्तां भक्तवत्सल।
नमस्ते निस्तरङ्गाय नमस्ते सर्व साक्षिणे।
नमस्ते वासुदेवाय नमस्ते परमात्मने।
दुर्मा
निनममर्यादं कृतघ्नं पाप कारिणम्।
अशुचिं निर्दयं क्रूरं शठं चलितमानसम्।
अविनीतिनिधिं नात्मवेदिनं लोभ मन्दिरम्।
पराऽवमानिनं दम्भम् अभक्तं दुर्जना ग्रगम्।
परनिन्दापरङ्क्षुद्रम् आत्मश्लाघा परंसदा।
पिशुनं काम वशगम् असूया गर्भ मन्दिरम्।
नृशंसं वञ्चकं दुष्टम् अपराध सरित्पतिम्।
भव दुग्धाब्दि कल्लोलजालमग्नस्थ मप्लवम्।
हतन्दीनमनाथं हे शरण्य शरणार्थिनाम्।
त्वत्पाद पद्मपोतेन मामुद्धर्तुं त्वमर्हसि।
म्य्यनाथे दया सिन्धो बन्धो सर्व जगद्धित।
प्रसीद कमलाकान्त वात्सल्य जलधिःकिल।
मयार्पित प्रणामांस्त्वां गृहाण पुरुषोत्तम।
भूमौ स्खलित पादानां भूमिरेवावलम्बनम्।
त्वयिविप्रतिपन्नानां त्वमेव शरणं विभो।