श्रीः
श्री मते रामानुजाय नमः
अथ** **अग्नि-कार्य-विधिर् उच्यते
आचार्यः अग्नयागार द्वारे ओं द्रां चण्डाय नमः। ओं द्रों
प्रचण्डाय नमः। मध्ये ओं क्षं गरुडाय नमःइत्यभ्यर्च्य ।
अन्तःप्रविश्य। अग्नि कुण्डस्य पश्चिमे भागे प्राङ्मुख
मासने उपविश्य।
ओम् असुरान्त चक्राय स्वाहा अस्त्राय फट्; इति कुण्डस्य
सम्मार्जनालेपने कृत्वा।
प्राच्यां शिरस्समाख्यातं बाहु युग्मं व्यवस्थितम्।
ऐशान्याग्नेय कोणेतु जङ्घे वायव्य नैऋते।
उदरं कुण्ड मित्युक्तं योनिर्योनौ विधीयते।
कुण्ड मेवं ध्यात्वा। अस्य देवे देवस्य्स भगवतो वासु
देवस्य श्री भूमि नीळा नायिका समेत श्रीनिवास स्वामि
सन्निधौ नित्याराधनाङ्गं होमम् करिष्ये। इति सङ्कल्प्य।
पुण्
याहं वाचयित्वा। तज्जलेन
ओं भूर्भुवस्सुवः इति प्रोक्षणा अवोक्षणा अभ्युक्षणानि कृत्व।
आत्मनो दक्षिने पार्श्वे पुष्प भाजनं;वामेच ।
अन्यानि निक्षिप्य। ओम् आचक्राय स्वाहेति स्वस्व मन्त्र
न्यासं कृत्वा। प्रागग्रान् षड्दर्बान्
आस्तीर्य। तेषु १. आज्य पात्रं २. चरु स्थालि ३. प्रोक्षणी
४. प्रणीता ५. समित् ६. कुश ७. तण्डुल ८.परिधि
९. स्रुक्१०. स्रुव ११. दर्वी १२. अग्नेर्विहरण १३.व्यजन
१४. मेक्षण १५. शुष्ककाष्ठ १६.घण्ट १७. अक्षत
31
१८. गन्ध द्रव्यानि यथासम्भवम् न्यञ्चिन्निधाय।
कुण्ड मध्ये ओं नमो नारायणायेति
तिस्रो रेखाःदक्षिण मारभ्य उत्तरान्तं प्रागायताः
पश्चिमादि पूर्वान्तम् उदगायताः तावति र्लिखित्वा।
ओम् इडायै नमः । ओं पिङ्गळायै नमः। ओं सुषुम्णायै नमः।
इत्यभ्यर्च्य। दर्भ मुष्टिभिः कुण्डस्य पर्यग्नि करणं कृत्वा।
कुण्ड मध्ये भद्रासनं कल्पयित्वा। ओं भद्रासनाय नमः
ओं विमलासनाय नमः। इत्यभ्यर्च्य। तस्मिन्
कुण्ड मध्ये तथा लक्ष्मीं सर्वाभरण भूषिताम् ।
सर्वावयव सम्पूर्णाम् ऋतुस्नातां विचिन्तयेत्।
देवं नारायणं ध्यात्वा सर्व लक्षण लक्षितम् ।
हार केयूर सम्युक्तं किरटेनोप शोभितम्।
एवं ध्यात्वा। तत्रतयोः सङ्गमं विचिन्त्य।
अरणेः सूर्यकान्ताश्मनोवा अग्निन्द्वादशाक्षरेण मथित्वा।
श्रोत्रिया गाराद्वा समाहृत्य। भूर्भुवस्सुवरिति प्रोक्ष्य।
ओं रम् अग्नये नमः । इति दिव्याग्निं ध्यात्वा। ओं राम्
इत्यादि षडङ्ग न्यासं कृत्वा। ओम् असुरान्त चक्रायस्वाहेति
इन्धनान्यग्नौ निक्षिप्य। वायु बीजस्य। किष्किन्धऋषिः
जगतीचन्दः । वायुर्देवता।
अग्नि उद्दीपने विनियोगः । इति कुण्ड मद्ये अग्निं
निक्षिप्य। *
ओं वैश्वानराय विद्महे लालीलाय
धीमहि। तन्नो अग्निःप्रचोदयात्।
ओं नमो भगवते वासु देवाय रम् अग्नये
32
नमः। इत्यभ्यर्च्य। कुण्डस्य परितः त्रिभिर्दर्भैः परिस्तीर्य।
ओं वासु देवायनमः । .ओं सङ्कर्षनाय नमः। ओं प्रद्युम्नाय
नमः।
ओम् अनिरुद्धाय नमः इत्यभ्यर्च्य।
प्रणीता पात्रम् आत्मनःपुरतः निक्षिप्य। प्रोक्षणीम्
आत्मनःअग्रे निदाय। द्वि दर्भ कृत प्रादेश मानकूर्चं
निक्षिप्य। त्रिभिर्दर्भैः पवित्रैः आच्छाद्य।
अङ्गुष्टाऽनामिकाभ्यां त्रि रुत्पूर्य। तज्जलेन सत्यन्त्वर्तेन
परिषिञ्चामि इति कुण्डस्य प्रादक्षिण्येन
स्रावयित्वा। प्रणीता पात्रं पुनरद्बिः सम्पूर्य। ओं कौमोदकी
पद्मधराय वासुदेवाय नमः।
इत्यावाह्य। अग्नेरैशान्यां दर्भ विष्टरे तां सम्स्थाप्य।
। ब्रह्म पूजनम् ।
अग्नेर्दक्षिणतो दर्भेषु द्वादश दर्भ कृत कूर्चं निधाय।
तस्मिन्
चतुर्मुखं भुज द्वन्द्वं साक्ष माल कमण्डलम्।
हेमाभं शक्ति सहितं ब्रह्माणन्तु विचिन्तयेत् ।
ओं कम् ब्रह्मणे नमः । इत्यावाह्य अभ्यर्च्य ।
। आज्य सम्स्कारम्।
अग्नेरुत्तरतो अङ्गारान्निरूप्य। तेषु आज्य पात्रं निधाय।
“ओम्आप्यायस्वसमेतुते
। विश्वतस्सोमवृष्णियम्। भवावाजस्य सङ्घते। ” इति मन्त्रेण
निषिच्य। त्रिभिर्दभैः आछाद्य। दर्भ युग्म निर्मितं प्रादेश
सम्मितं कूर्चम् निधाय। दर्भानादीप्य दर्शयित्व।
33
श्रीमन्नरायण चरणौ शरणं प्रपद्ये।
श्रीमते नारायणाय
नमः। इति त्रि परिभ्रमणम् कृत्वा। विसृज्य। आज्यं सुरभि
मुद्रया अमृती कृत्य। चक्र मुद्रां प्रदर्श्य। अङ्गारान् पुनः
अग्नौ सम्योज्य। अग्नेः अष्टासु दिक्षु इन्द्रादीन् आवाह्य।
सम्पूज्य।
। स्रुक्; स्रुव संस्कारम् ।
उष्णोदकेन स्रुक्स्रुवौ प्रक्षाळ्य। दर्भ पञ्च कृत कूर्चेन स्रुक्
स्रुव
योः मूलं मूलेन मध्यं मध्येन अग्रम् अग्रेण अस्त्र मन्त्रेण
सम्मार्ज्य।
आत्मनः उदीच्यांस्रुक्स्रुवौ निधाय। कूर्च ग्रन्धिं विसृज्य
अग्नौ निक्षिप्य। स्रुवेनआज्य मादाय। होम द्रव्येषु चरूञ्च
ओम् आप्यायस्वेति मन्त्रेन सम्सिच्य .। ओम् अं विष्णवे नमः
। इति अभ्यर्च्य।
। परिधि पूजनम् ।
कुण्डस्य पश्चिमे कुण्डायाम सदृशम् अङ्गुष्ट नहनं ;
दक्षिणे तस्मात् अङ्गुलि हीनं मद्यमाङ्गुलिनाहं
;उत्तरे तस्मात् अङ्गुलि हीनं कनिष्टा नहकं परिधि त्रयम्
क्रमेण
ओं श्रीधराय नमः । ओं नृसिम्हाय नमः। ओं हयग्रीवाय
नमः। इत्यावाह्य अभ्यर्च्य।
मध्यमं परिधीं प्रणवेन उप स्पृश्य। अग्नीशान
कोणयोः आघार समिधौच तत्तन्मन्त्रेण स्थाप्य।
ओम्
अदितेनुमन्यस्व। अनुमतेनुमन्यस्व। ओंसरस्वतेनुमन्यस्व।
इति मन्त्रेण समन्ततः परिषिच्य। अनुयाज समिधं प्रणीतां
34
मुखे निधाय।
पञ्च दशैकतः गो घृताक्ता समिधः मुष्ठि मुद्रया
प्रजापतिर्यन्तर्यामिने ओं पद्मनाभाय स्वाहा। इति हुत्वा।
कुश कूर्च वेष्टितो वाम कर तले घृत पात्रं निधाय। ओं
प्रजापतये स्वाहा इति प्रथमं नैऋत्यादि ईशानन्तम्।
ओम् इन्द्राय स्वाहा इति द्वितीयं वायव्यदाग्नेयान्तम् ।
आघारं हुत्वा। ततः अग्ना उत्तरे ओम् अग्नये स्वाहा अग्नये
इदं नमम।
दक्षिणे ओं सोमाय स्वाहा। सोमाय इदं नमम। मध्ये ओं भू
स्वाहाअग्नये इदम्नमम। ओं भुव स्वाहा वायवे इदम्
नमम। ओं सुव स्वाहा सूर्याय इदं नमम। ओं भूर्भुव स्सुव
स्वाहा
ओं प्रजापतये इदं नमम। इति व्याहृतिभिश्च हुत्वा।
। ** अग्नि ध्यानम् **।
द्वि शीर्षकं सप्त हस्तं त्रि पादं सप्त जिह्वकम्।
वरदं शक्ति पाणिञ्चबिभ्राणं स्रुक् स्रुवौ तथा।
अभीतिदं चर्म धरं वामे चाज्य धरं करे।
काळी कराळी सुमना लोहिता धूम्र एवहि।
स्फुलिङ्गिनी विश्व रूपा सप्त जिह्वाप्रकीर्तिताः। एवन्ध्यात्व।
ओं रं बालाग्नये नमः। इत्यभ्यर्च्य। तिलान् आघार
सम्मिश्रान् अग्नेर्जात शान्तये द्वादशाक्षरेण
अष्टोत्तर शताहुतीम् हुत्वा। अग्नि मध्ये गर्भादनादि कर्मणा
संस्करिष्ये इति सङ्कल्प्य। ओम् अदितेनुमन्यस्व
इत्यादिना परिषिच्य।
ओम् ओम् ओं स्वाहा । ओं नम् ओं स्वाहा। ओं मोम् ओं स्वाहा।
35
ओं भम् ओं स्वाहा। ओं गम् ओं स्वाहा। ओं वम्ओं स्वाहा। ओं
तेम् ओं स्वाहा।
ओं वाम् ओं स्वाहा। ओं सुम् ओं स्वाहा। ओं देम् ओं स्वाहा।
ओं वाम् ओं
स्वाहा। ओं यम् ओं स्वाहा। इति हुत्वा ।
ओम् अदितेन्व मग्गुस्थाः ओम् अनुमतेऽन्वमग्गुस्थाः।
ओं सरस्वतेऽन्व मग्गुस्थाः।
ओं देवसवित प्रासावीः। इति समन्ततः परिषिच्य। एवं
पुम्सवन, सीमन्तोन्नयन, जातकर्म, नामकरण,
अन्नप्राशन, चौळ, उपनयन,प्राजापत्य, सौम्यक, वैष्णव,
शुक्रीय, गोदान, उपनिषक्रमन, समावर्तन,
विवाहादि कर्मणा सम्स्करिष्ये इति सङ्कल्पादि परिषेचन
पूर्वक
ं प्रत्येकं द्वादशाक्षरेण हुत्वा।
। सप्तजिह्वा हवनम् ।
अग्नेः प्रशमनार्थय सप्त जिह्वा हवनं करिष्ये इति
सङ्कल्प्य। परिषिच्य। काळ्यांसमिधः मूल मन्त्रेण ।
मनोजवायां प्रणवेन आज्यम्। सुलोहितायां वासुदेव मन्त्रेण
अन्नम्। सुधूम्रायां सङ्कर्षण मन्त्रेणलाजम् ।
स्फुलिङ्गिन्यां प्रद्युम्न मन्त्रेण तिलम् । विश्वरूप्याम् अनिरुद्ध
मन्त्रेण दुग्धं कराळ्यां पुम्सूक्तेन
मधुना । प्रत्येकं षोडशाहुतिर्हुत्वा। परिषिच्य।
। अग्नौ आराधनम् ।
तदनु अग्नि मध्ये योग पीठं सङ्कल्प्य। अस्य देव देवस्य
भगवतो वासु देवस्य श्री भूमि नीळानयिका समेत श्री
वेङ्कटेस्वर
36
स्वामि सन्निधौ नित्य होमाङ्गम् आधारादि पद्मान्त होमम्
करिष्ये ।
इति सङ्कल्प्य।
ओं ह्रीम्आधार शक्त्यै स्वाहा। इत्यादीना मारभ्य ….. ओम्
अव्यक्त पद्मायै स्वाहा। इति पर्यन्तं प्रत्येकम् आज्येन
हुत्वा।
तन्मध्ये हृदयस्थं देवम् आवाह्य। आवाहनादि षण्मुद्रां
प्रदर्श्य।
“स्वामिन् सर्व जगन्नाथ यावद्धोमावसानकम् ।
तावत्वं भक्ति भावेन वह्नौ त्वं सनिधिं कुरु।
इति यागावसानिकं प्रार्थ्य। नाभ्यादि हृदयान्तं पूर्ववत्
अष्ठाक्षरेण न्यासं कृत्वा। किरीटादि मुद्रां प्रदर्श्य।
अर्घ्यादि नैवेद्यान्तं तत्तन्मन्त्रेन सकृत्सकृत्आज्येन हुत्व।
जपार्ताञ्च जुहुयात्। परिषेचनम्।
समिद्दळ पुष्प बीज फलैश्च परिवार मन्त्रेण हुत्वा।
तद्विषये।
ओं श्रीं श्रियै स्वाहा। इति तुळसी दळैः अष्ट वारं हुनेत्।
ओं चण्डाय स्वाहा। ओं प्रचण्डाय स्वाहा। इति समिधा
अष्टाहुतिर्हुत्वा।
ओं जयाय स्वाहा ओं विजयाय स्वाहा। इति बीजैः
अष्टाहुतिर्हुत्वा।
ओं कुमुदाय स्वाहा ओं कुमुदाक्षाय स्वाहा ओं
विष्वक्सेनाय स्वाहा। इति फलैः पृथक्पृथक्
अष्टाहुतिर्हुत्वा।
आज्यावसिक्तं चरुं पुरुष सूक्तेन मूल मन्त्रेण सह ग्रास
37
मुद्रया पलाश पत्रेन वा प्रत्यर्धं षोडशाहुति र्जुहुयात्।
आज्याव सिक्तम् स्रुवेण समित्सङ्ख्यया
जुहु
यात्। परिषिच्य। मातुलङ्ग
फलाकारं चरोः पिण्डं स्रुगावर्ते निक्षिप्य। समिद्दर्भ कुसुमं
नासिकाग्रान्तम् उधृत्य।
”ओम् अतो देवा अवन्तुनो “इति मन्त्रेण ओम्
अग्नये स्विष्टकृते स्वाहा इति हुत्वा। परिषिच्य।
एतत् कार्य मध्ये सम्भावित मन्त्र लोप तन्त्र लोप द्रव्य
लोप
क्रिया लोप स्वर लोप प्रायश्चित्तार्थं
पञ्चोपनिषण्मन्त्रेण शान्ति होमङ्करिष्हे। इति सङ्कल्प्य।
परिषिच्य।
ओं षौम्नमःपराय परमेष्ट्यात्मने वासु देवाय स्वाहा।
ओं यां नमः पराय पुरुषात्मने सङ्कर्षणाय स्वाहा।
ओं रां नमःपराय विश्वात्मने प्रद्युम्नाय स्वाहा।
ओं वां नमः पराय निवृत्यात्मने अनिरुद्धाय स्वाहा।
ओं लां नमः पराय सर्वात्मने श्रीमते नारायणाय स्वाहा।
इति प्रत्येकं चतुराहुतीर्हुत्वा। परिषिच्य। पूर्णाहुतिम्
कृत्वा। परिषेचनं .
१. ’ओं पूर्णाहुतिमुत्तमां जुहोति। सर्वं वै पूर्णाहुतिः।
सर्वमेवाप्नोति।
अतो इयं वै पूर्णाहुतिः अस्यामेव प्रति तिष्ठति।
२.पूर्णमदः पूर्णमिदः पूर्णात्पूर्णमदुच्यते। पूर्णस्य पूर्ण
मादाय पूर्णमेवाव सिश्यते। इति
३.ओं सप्तते अग्ने समिधस्सप्तजिह्वा स्सप्त ऋषय स्सप्तधाम
38
प्रियाणि ।
सप्त होत्रास्सप्त धा त्वायजन्ति सप्तयोनीरापृणस्व घृतेन
स्वाहा। इति च पूर्णाहुतिं कृत्वा।
ओम् अदितेऽन्व मग्गुस्थाः । ओम् अनुमतेन्व मग्गुस्थाः। ओं
सरस्वतेन्व मग्गुस्थाः। देवसवितःप्रासावीः।
इति समन्ततः परिषिच्य। आज्य पात्रं पुरतः कृत्वा दक्षिणे
स्रुवम्
उत्तरे स्रुचौ निधाय उपयुक्त कुशान् सर्वान् हस्तेनादाय
।
अज्य पात्रे मूलं स्रुचोर्मध्ये मध्यं स्रुग्गर्ते अग्रम् । एवं त्रिः
कृत्वा। अग्नौ
निक्षिप्य।
। अग्नि उद्वासनम् ।
आत्मनः अग्रे प्रणीतां सम्स्थाप्य। प्रोक्षणी जलं
सम्योज्य। पूर्वादि सोमान्तं परिषिच्य आत्मानञ्च प्रोक्ष्य।
ओं कं ब्रह्मणे नमः यथास्थानं प्रतिष्ठापयामि। इति
ब्रह्माणमुद्वास्य। अग्नि मध्यस्थं देवं हृदि
विसृज्य। उप युक्त कुशान् सर्वान् अग्नौनिक्षिप्य। स्रुचं
जलेन सम्पूर्य वर्मणा परिषिच्य । शिरसि भस्मना ’
’ओं बृहत्साम क्षत्र भृत् वृद्दवृष्णियम् । तृष्टु बोज श्शुभित मुग्र
वीरम् । इन्द्र स्तोमेन पञ्च दशेन मध्यमिदं वातेन सगरेण
रक्षा”। इति मन्त्रेन तिलकं कृत्वा।
”ओं यज्ञेन यज्ञं ” इति मन्त्रेण नीराज्य ।
”ओम् अग्ने नय सुपथाराये अस्मान् विश्वानि देव वयुनानि
विद्वान्.। युयोध्यस्मान् जुहुराण मेनो
भूयिष्ठान्ते नम उक्तिम्विदेम। ” इति प्रार्थ्य ।
39
ओं भक्त्य। यदग्नौ विहितं यथा शक्ति यथा विधि ।
आराधनं तवै वेदम् गृहाण पुरुषोत्तम।
इति भगवन्तं प्रार्थ्य।
ओं नमस्ते गार्ह पत्याय नमस्ते दक्षिणाग्नये ।
नम आहवनीयाय महा वेध्यै नमोनमः।
काण्डद्वयोप पाद्याय कर्मब्रह्मस्वरूपिणे।
स्वर्गापवर्ग रूपाय यज्ञेशाय नमो नमः।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्णविष्णो हृषीकेश वासुदेव नमोऽस्तु ते।
मन्त्र हीनं क्रिया हीनं भक्ति हीनं हुताशन।
यद्धुदन्तु मया देवा परि पूर्णं तदस्तु ते.।
प्रायश्चित्तन्यशेषाणि तपःकर्मात्मकानिवै।
यानि तेषामशेषाणां कृष्णानुस्मरणम् परम्।
श्री कृष्ण कृष्ण कृष्ण।
इति । अग्निउपस्थाणं कुर्यात् । इति अग्नी कार्यसङ्ग्रहः।