श्रीः
श्रीमते रामानुजाय नमः
Sanskrit
KRIYASAGARAM Vol. - 35
Critically Edited & Reprinted By
Sri Pancharatra Agama Vidwan
Sri. U. Ve. K.Sriraman Battacharyar
[[ii]]
First e-Print 16th October 2020
This book is published on the occasion of Manavala manigal 650th
Thirunakshatram and National Conference on Sri Pancharatra Agama – IV held
via online from October 4th to 16th of 2020
இந்த புஸ்தகம் ஸ்வாமி மணவாளமாமுனிகளின் 650 வது திருநக்ஷத்திரத்தை
முன்னிட்டு, இணயதளம் மூலமாக நடைப்பெற்ற அகில பாரத ஶ்ரீபாஞ்சராத்ர ஆகம
வித்வத் ஸம்மேளனம் – 4 இல் வெளியிடப்பட்டது.
இடம் : ஶ்ரீரங்கம்
நாள் : புரட்டாசி 30 ஸார்வரி வருடம்
Copies Available at :
Sri. U. Ve. K.SRIRAMAN BATTACHARYAR,
CG1-214, East Adayavalanjan St,
Sriranagam, Trichy,
Tamil - Nadu. 620-006.
+919791 702 035 +91 8608 794 034(whatsapp)
[[sriramanbattachar@gmail.com]]
[[iii]]
श्रीः
श्रीमते रामानुजाय नमः
श्रीभूमिनीला कोमलवल्लिनायिकासमेत अपर्याप्तामृतस्वामि परब्रह्मणे नमः
श्रीपाञ्चरात्र आगमे क्रियासुधाब्धि
ஶ்ரீபாஞ்சராத்ர ஆக₃மே க்ரியாஸுதா₄ப்₃தி₄
சுமார் 80 வருடங்களுக்கு முன் க்ரந்தாக்ஷரத்தில்
கையெழுத்துப்ரதியாக எழுதிய புஸ்தகத்தைக்கொண்டு கணினி
மூலம்(5 அக்ஷரங்களில்) அச்சிட்டு வெளியிட்டவர்.
இந்த நூலை கொடுத்து உதவியவர்.
திருக்குடந்தை ஶ்ரீ.உ.வே ரா. நாராயணபட்டாசார்யார்
ஸ்வாமி
சார்வரிவருஷம் வைகாசி விசாகம்
Therazundur,
K.Sriraman Battacaryar,
Srirangam,
Sarvari Vaisakham
28-5-2020
<<<<____>>>>
[[iv]]
[[v]]
श्री पाञ्चरात्र आगमोक्त क्रियासुधाब्धि
विषयाणुक्रमणिका
बिन्दुः विषयम् पुठ सं
1. स्वयंव्यक्तसीमा निर्णयम् 1
2. प्राच्यादि दिङ् निर्णयम् 2
3. स्नान विधिः4
4. आचमनविधिः 4
5. उत्तरीयधारण विधिः 6
6. ऊर्ध्वपुछ्विधिः7
7. आचार्य अलङ्करणम् 10
8. पवित्रधारण विधिः12
9. तालत्रयकाल विवरणम् 13
10. यवनिकाच्छादन विधिः14
11. पञ्चशुद्धि विवरणम्15
12. निर्माल्य विसर्जनक्रमः, बिम्बशोधन क्रमं च15
13. बिम्बशोधन क्रमः16
14. तुलस्याः प्राधान्यता17
15. आचार्यपत्न्या भगवत्प्रसाद करणीयम्18
16. बिम्बादिषु आवाहनमुख्यत्व विधिः 19
17. स्वयंव्यक्तादिभेदेन अर्घ्यसमर्पण भेदाः 20
18. कूर्चनिक्षेपण परिवारार्चनविधिः 21
19. मन्त्रजपविधिः 23
20. विभवहीने बिम्बमात्रोत्सव विधिः 25
[[vi]]
21. आचार्यस्वीकरणाऽनन्तरम् अन्येषां सम्प्रदानक्रम निरूपणम्
25
22. अर्चकस्य तीर्थ प्राशन, पादुकाधारणं पूर्वमितिनिरूपण क्रमः
26
23. भगवन्निवेदिताऽन्नादि प्राशन महिमा 28
24. पूजाकाले, आचार्यस्थिति निर्णयः 31
25. आराधन भेदक्रम निरूपणम् 32
26. रक्षाबन्धन कर्तव्य आचार्य निर्णयम् 35
27.
आचार्य ऋत्विजाम् आशौच विधिः 36
28.
29. मूलमन्त्र प्रशंसा विधिः 39
30. पादुकाधि देवता निर्णयम् 42
31. अर्चावतार जन्मर्क्ष निर्णयम् 45 `
32. तिथि नक्षत्र निर्णयम् 46
33. काम्योत्सवादि भक्तबिम्बोत्सव दिन निर्णयम् 48
34. ध्वजस्तम्भ निर्णय, लक्षण विधिः 51
35. महोत्सवाद्युत्सवक्रम निरूपणम् 54
[[vii]]
श्री रामाऽमृतं
कल्लोलः विषयम् पुठ सं
1. श्री पाञ्चरात्र प्रशंसा वर्णनम् 57
2. तनियन् 58
3. भूकर्षण विधिः 60
4. भूपरीक्षा विधिः 61
5. गर्भगेहादि स्थान शङ्कुस्थापन विधिः 61
6. खातहोम विधिः 62
7. आधारशक्तिस्थापन विधिः 63
8. बालबिम्ब प्रतिष्ठा विधिः 64
9. विमानादि लक्षण विधिः 65
10. विमान, ध्रुवबिम्बस्य द्रव्य निरूपण विधिः 67
11. इष्टका निर्माण विधिः 67
12. शिलालक्षण निरूपणविधिः 68
13. शिलासङ्ग्रहण विधिः 69
14. दारुलक्षण विधिः 71
15. दारुसङ्ग्रह विधिः 72
16. इष्टका स्थापन विधिः 73
17. आलय निर्माण विधिः 75
18. गर्भन्यास विधिः 75
19. मूर्धेष्टका विधिः 77
20. स्थूपिकाकुम्भ निर्माण विधिः 78
21. स्थूपिका, कीलस्थापन विधिः 78
[[viii]]
22. पञ्चतल विमानान्त दिक् देवताकल्पन विधिः 79
23. ध्रुवादि प्रतिमा निर्माणविधिः 80
24. कर्मार्चादि कौतुकनिर्माणक्रमः 81
25. ध्रुवादिबिम्बस्थापनक्रम निरूपण विधिः 82
अनुबन्धम् अभिवलजम् 83
चाटुश्लोकानि
1. चाटुश्लोकानि 85
<<<<_____>>>>
[[1]]
श्रीः
श्रीमतेरामानुजाय नमः
श्री पाञ्चरात्र आगमोक्त क्रियासुधाब्धि
1 - स्वयंव्यक्तसीमा निर्णयम्
* श्रीप्रश्नं
सालग्राव्णि च दिव्ये च स्वयंव्यक्ते मम प्रिये।
एतेषु नित्यं तिष्ठामि तस्माच्छ्रेष्ठतमो भुवि।
सिद्धादिषु प्रतिष्ठायां पवित्रारोपणेऽपि च।
तेभ्य एव समावाह्य पूजयेद्देशिकोत्तमः।(श्रीप्रश्नम्)इति वचनात्.
*त्रैलोक्य विजयसंहितायां
स्वयंव्यक्तविमानानां दिव्यानां मुनिपुङ्गव।
विमानानां च परितो क्षेत्रं परमपावनम्।
योजनद्वयमित्याहुःसैद्धस्यार्षस्य योजनम्।
विमानस्य च याक्षस्य गन्धर्वस्य द्विगोपनम्।
विद्याधरस्य दैत्यस्य गोपनं राक्षसस्य च।
मानुषस्य चतुःक्रोशं गेहमात्रं गृहार्चने।
*पुरुषोत्तम संहितायां
स्वयंव्यक्तविमानानां परितो योजनद्वयम्।
क्षेत्रं मुक्तिप्रदं प्राहुः दिव्यानां च मुनीश्वर।
योजनं सैद्धदेशानां यक्षाणाम् अर्धयोजनम्।
मानुषाणां विमानानाम् अभितः क्रोशमात्रतः।
गृहमात्रं प्रशस्तस्तु गृहार्चा यत्र विद्यते।
आवाहनादिकं कृत्वा तत्तत्क्षेत्रान्तरस्थले।
ऊहापोहविधानेन करणीयं समर्चनम्। इति।
[[2]]
एभिर्वचनैः स्वयंव्यक्त, दिव्य, विमानयोः पेत योजनद्वयपर्यन्तं तत्क्षेत्रसीमा इति निर्दिष्टः। अतः
तदन्तस्थापित सैद्धादिमानुषान्त भगवत्प्रतिष्ठादि, उत्सव, चतुस्थान यजनेषु-पवित्रभूषण प्रतिष्ठासु च
स्वयंव्यक्ताद्वा, दिव्याद्वा भगवदादिदेवान् आवाह्य पूजयेत्॥
गृहार्चा आराधने च पूर्ववद् आवाह्य अर्चयेत्। सति सालग्रामे सन्निहिते तस्माद् गृहार्चायाम्
आवाहयेत्।
आह्निकादि ग्रन्धेषु सूर्यमण्डलात्,
क्षीरसागरात्,श्रीरङ्गात्,स्वाभिमतदिव्यदेशाद्वा भगवन्तमावाह्य
अर्चयेत्। इति गृहार्चाराधने उक्तमपि तद्विषयं पूर्वोक्त स्वयंव्यक्त,दिव्यक्षेत्रसीमा,बहिस्स्थित गृहार्चा
आवाहन विषयम् इति निर्णीतः।
आह्नीकग्रन्धकर्तॄणाम् अभिप्रायः.(वङ्गीशकारिका व्याख्याने)एवमेव।
इति प्रथमबिन्दुः
<<<<____>>>>
2. प्राच्यादि दिङ् निर्णयो नाम द्वितीय बिन्दुः
* श्रीप्रश्नम्
अन्यत्रचोपचारेषु स्थितमासीनमेव वा।
प्राङ्मुखञ्चिन्तयेद्विद्वान् देवप्राची क्रमेण तु।
*सिद्धान्ततिलक संहितायाम्
महोत्सवाद्युत्सवेषु प्रतिष्ठा प्रोक्षणादिके।
धामाभिमुखमाश्रित्य प्राग्दिशं परिकल्पयेत्।
इन्द्रादिपरिवाराणां हवनं बलिकर्म च।
दिग्बन्धनादिकं चैव कुर्याद्देशिकसत्तमः।
लैर्घ्य संहितायाम्
महोत्सवाद्युत्सवेषु मण्टपादिषु देशिकः।
ऊर्ध्वदेवाभिमुख मारभ्य दिशं प्राचीं प्रकल्पयेत्।
इन्द्रादिपरिवाराणां पूजनं पात्रसाधनम्।
आचार्यादेस्संस्थितिश्च पूजाकाले समाचरेत्।
[[3]]
विष्णुतत्वे
देवमण्डलयोरन्तः स्नपने कुम्भबिम्बयोः।
आचार्यो शिष्ययोरन्तः पूर्वेशादिगिहोच्यते।
तत्प्राचीन्दिशमाश्रित्य स्नानकुम्भस्य पश्चिमम्।
वह्निं प्रकल्पयेद्विधिवत् हुत्वा स्नपनमाचरेत्॥
एभिर्वचनैः देवधाम दक्षिणाभिमुखं चेत् प्रतिष्ठाकाले दक्षिणदिशमारभ्य इन्द्रादिदेवता
स्थापनं,वास्तुपरिकल्पनं च कुर्यात्।महोत्सवादि उत्सवेषु वीधीषु च दक्षिणदिशमारभ्य इन्द्रादीनां
बल्यादिकं दद्यात्।इत्युक्तत्वाद् एवमेव धामाभिमुखी यासैव धामप्राची इति
विख्याता।
किञ्च महोत्सवादिषु मण्टपेषु देवाभिमुखी यासैव प्राचि इति निश्चित्य
तत्क्रमेणैव
आचार्यसंस्थितिम्,पात्रादिसाधनं,स्नपनकुम्भस्थापनं च इन्द्रादिबलिक्षेपणं च कुर्यात्।कुम्भस्य पश्चिमे
हवनं कुर्यात्।इत्युक्त विषये- बिम्बकुम्भयोः अन्तः प्राच्यान्दिशः निर्णीतत्वात्, देवाऽभिमुखमेव कुम्भस्य
पश्चिमं भवति।
अनेन स्नपन कुम्भस्थापनं तु बिम्बाग्निमध्ये स्थापितव्यमिति निश्चितं भवति।
अनुबन्धं
जपस्य चतुरङ्गं
जपमात्रं पदातीस्यात् तर्पणं हय उच्यते।
होमवर्ग इभः ख्यातो रथः पुष्पाञ्जलीयकम्।
अन्नदानं तु कोशादि नृपो मन्त्रवदब्जज।
तस्माद् विष्णवर्चनार्थाय जपध्यानपरो भव।
आचार्यत्वार्थममलं जपेद् द्वय जपादिकम्।
लभेत विष्णुसायुज्यं मन्त्ररत्न जपात् सदा॥पराशरे-14अ-17
इति 2-प्राच्यादि दिक् निर्णयोनाम द्वितीय बिन्दुः
<<<<____>>>>
[[4]]
3. स्नान विधिः नाम तृतीय बिन्दुः
* श्रीप्रश्नं
देहशुद्ध्यादिकं कृत्वा ततस्स्नायाद्यथाविधि।
अथवा देशकालादि शरीरस्यगुणानपि।
समालोच्य ततो देवि!ह्युष्णोदस्नानमाचरेत्।
मन्त्रस्नानादि वा कृत्वा नित्यकर्मसमाचरेत्। इति पाद्मे
अनन्त संहिता
वाप्याद्यासम्भवेनैव कूपेष्वाप्लवनं भवेत्।
स्नानं वा तप्ततोयेन दोषवैषम्यसम्भवे।
नाभेरधस्थाद्वादेहं क्षालयित्वात्मनस्तनुम्।
आचम्य प्रोक्षयेद्देहं वारिभिर्मन्त्रवित्तनुम्।
स्नानाचमनशौचेन प्राणायामेन वै द्विज।
अन्तर्बहिश्शरीरस्य देशिकस्यविशुद्ध्यति।
स्नानमूलाह्क्रियास्सर्वाः स्नानसंसिद्धिहेतवः।इति
अनिरुद्ध संहितायां
स्नानाचमनेनैव देहशुद्धिर्भविष्यति।
सत्वेन ध्यानयोगेन मनश्शुद्धिरिहोच्यते।
एभिर्वचनैः परार्थभगवदाराधन विषये नद्यादौ अवगाहस्नानं वा, शरीरसौकर्यार्थम्
आलोच्य
तप्ततोयेन स्नानं वा कृत्वा।भगवन्तम् अर्चयेत्।सायाह्नादिपूजने दिव्य, आग्नेय, पार्थिव, वायव्य, मान्त्र,
मानसान्तेषु षट् स्नानेषु एकेन देहं संशोध्य । भगवन्तमर्चयेत् । पूर्वोक्त स्नानषट्केषु एकं कृत्वा, नित्यकर्म,
गृहार्चापूजनं च करणीयम्। इति निश्चयतम्।
<<<<____>>>>
4. आचमनविधिः
* श्रीप्रश्नम्
प्रक्षाल्य पाणिपादं च गोपुरस्य बहिस्थले।
आचम्यान्तर्महापीठं प्रादक्षिण्येन वै ततः।
[[5]]
अर्धमण्टपमासाद्य द्वादशार्णं समुच्चरन्।
*कपिञ्जले
पादप्रक्षालनं कृत्वा आचम्य च जितेन्द्रियः।
गेहं प्रदक्षिणी कृत्य द्वारपार्श्वं समाश्रयेत्।
*महासनत्कुमारे
आजानुपादौ प्रक्षाल्य कूर्परान्तंशयं ततः।
आचम्य देवसदनं प्रविश्य गुरुसत्तमः।
भूतशुद्धिंसमारभ्य ह्युत्सवान्तं प्रपूजने।
होमान्तप्रापणान्तं च पुण्याहादिषु कर्मसु।
श्रवणाचमनं कृत्वा द्वदशाक्षरविद्यया।
सङ्कल्पितानि कर्माणि कुर्यान्नक्ताशनं द्विज।
नासाश्रवणयोस्पर्शे श्रोत्राचमनमिष्यते।
*वासुदेवे-परमपुरुषे च
स्वार्थे परार्थयजने भूतशुद्ध्यादि कर्मसु।
आराधनेषुसर्वेषु श्रोत्राचमन पूर्वकम्।
सङ्कल्प्य तत्तत्कर्माणि कुर्यात् पूजकसत्तमः।
*स्मृतिरत्नाकरे
अग्निरापं च वेदां च चन्द्रसूर्यानिलस्तथा।
सर्व एते हि विप्राणां कर्णे तिष्ठन्ति दक्षिणे।
किञ्च- गङ्गाद्यादक्षिणे कर्णे श्रोत्रे नासिकायां हुताशनः।
उभावपि सकृत्स्पृष्ट्वा तत्क्षणादेव शुद्ध्यति।
एभिर्वचनैः महाबलिपीठाद् बहिः पादप्रक्षालनं तोयमाचमनं च कुर्यात्।
महाबलिपीठाद्
अन्तस्थलेषु भगवदभिमुखे च द्वादशाक्षरविद्यया श्रोत्राचमनं कृत्वा।सङ्कल्पपूर्वकं भगवदाराधनादि
सकलकर्माणि कुर्याद् इति निर्दिष्टम्॥
इति(श्रोत्र) आचमनविधिःनाम चतुर्थ बिन्दुः।
<<<<____>>>>
[[6]]
5. उत्तरीयधारण विधिः
* श्रीप्रश्नम्
आत्मानं वस्त्रयुग्मेन कुण्डलादिविभूषणैः।
पारमेश्वरे
गन्धैस्रग्भिरलङ्कारैः सोत्तरीयैश्च भूषितैः। इति
*जयोत्तरे
निष्कामश्च सकामश्च वैष्णवाः ब्राह्मणादयः।
देवधाम प्रवेशे च प्रणामे पुण्ड्रधारणे।
प्रदक्षिण पूजने च यजनेचोत्सवादिषु।
उत्तरीयं वेष्टयेयुः नाभेराच्छादनं यथा।
भागवत संहितायाम्
परदीक्षा संस्कृतस्तु वासुदेवसमर्चने।
हवने कुम्भयजने स्नपनेचोत्सवादिके।
संवेष्टयेदुत्तरीयं नाभिश्रोणि प्रदेशयोः।
मनु संहिता
भगवत्पूजने होमे बलिकर्मणिचोत्सवे।
प्रदक्षिणे प्रणामे च कट्याम् उत्तर्यधारणम्।
अन्यदेवार्चनाया च योग स्वाध्यायकर्मणि।
उत्तरीयं द्विजैर्या(य?)दि उपवीतवदब्जज।
विष्णु संहिता
काम्यार्थी स्वार्थयजने वैश्वदेवादि कर्मसु।
यज्ञोपवीतोत्तरीयः स्थित्वा कर्म समाचरेत्।
मध्यप्रदेशोत्तरीया तानि कुर्युः मुमुक्षुवः।इति
* सच्चरित्रसुधानिधौ
प्रदक्षिण प्रणामं च देवतागुरुसन्निधौ।
वस्त्रनिष्पीडने स्नाने ह्युपस्थानेऽभिवादने।
[[7]]
धार्यं कट्यामुत्तरीयं पितृकार्ये सुरालये। इति
एभिर्वचनैः ऊर्ध्वपुण्ड्रधारणकाले भगवदाराधनादि कैङ्कर्येषु भगवत्सन्निधौ आचार्यसन्निधौ च
प्रणामे, अनुयात्रे सर्वेऽपि कट्याम् उत्तरीयं धारयेयुः।काम्यार्थीनस्तु स्वार्थयजने तथा ब्रह्मादिदेवतापूजने
वैश्वदेवादि यजनेषु च उपवीतवदुत्तरीयं धारयेयुः।इति निश्चितः॥
इति 5-उत्तरीयधारणविधिः नाम पञ्चम बिन्दुः।
<<<<____>>>>
6 ऊर्ध्वपुण्ड्रधारण विधिः
* श्रीप्रश्नं
वामहस्ततले पूर्वं निक्षिपेत्प्रणवेन तु।
गन्धद्वारेतिमन्त्रेण निघर्षेन्मृदमुत्तमाम्।
वाञ्छितार्थप्रदायिन्या अङ्गुल्या नामहीनया।
ऊर्ध्वपुण्ड्रम् ऋजुंरम्यं हरेःपादद्वयाकृती।
(किञ्च) *ललाटादिद्वादशसु धरेत्पुण्ड्राणि वै द्विजाः।
षट्पुण्ड्राण्यथावाप्येकं ललाटादिषु वै रमे।
अभिषिक्तां हरेःपूर्वं रजनीचूर्णमुत्तमम्।
पुण्ड्राणां मध्यमेस्थाने ऋजुं दीर्घं च धारयेत्।
विन्यस्तेषु पुण्ड्रेषु केशवादीन् सशक्तिकान्।इति
*विष्णुरहस्ये
सर्ववर्णेषु मद्भक्ताः हरिपादद्वयाकृती।
ऊर्ध्वपुण्ड्रं तु कुर्वीरन् निशाचूर्णान्तरालकम्।इति
जयाख्ये
एकपुण्ड्रे वासुदेवं फालेपुण्ड्रद्वयं पुनः।
नारायणस्कन्दपृष्ठे संस्मरेद्द्विजसत्तमः।इति
*पारमेश्वरे
ललाटेवासुदेवं च हृदि सङ्कर्षणं ततः।
प्रद्युम्नं दक्षिणेचांसे अनिरुद्धोत्तरांसके।
[[8]]
जलनिर्मधितेनैव ऊर्ध्वपुण्ड्र चतुष्टयम्।
*विष्णुसद्भाव संहितायाम्-
षट्पुण्ड्रेश्रीवासुदेवं फाले नारायणं हृदि।
सङ्कर्षणाम्बुजमुख्ये तु प्रद्युम्नं वामके भुजे।
अनिरुद्धस्कन्दपृष्ठे च पद्मनाभं त्रिके स्मरेत्।
पाद्मे
आसनं ब्रह्मणो यस्मात् पद्ममादावभूत्ततः।
अन्येषामपि देवानाम् आसनम् पद्ममिष्यते।
*शाण्डिल्ये-11अ
ततः प्रक्षालयेत्पाणी आचम्यासनसंस्थितः।
कुङ्कुमस्योर्ध्वपुण्ड्राणि द्वादशाङ्गेषु धारयेत्।35
नासिकामूलमाश्रित्य दण्डाकारं सुशोभनम्।
सान्तरालं दधेद्फालं(भालं) केशवाय नमोस्त्विति।36
उदरे कुमुदाकारं नमोनारायणाय च।
हृदये कमलाकारं माधवाय नमोस्त्विति।37
शङ्खाकृतिं कण्ठकूपे गोविन्दाय नमोऽस्त्विति।
कट्यां तु विष्णुर्मत्स्याकारो व्यवस्थितः।38
दक्षिणेऽथ भुजे वंशत्रये स्यान्मधुसूदनम्।
दीपवर्तिसमे दक्षकर्णप्रान्ते त्रिविक्रमः।39
वामकट्यां वामनाय नमो वामभुजाय च।
श्रीधराय नमः कर्णे हृषीकेशाय वै नमः।40
कूर्मकारो पृष्ठदेशे पद्मनाभाय वै नमः।
दामोदरं ककुद्देशे गदाकारेऽभिधारयेत्।41
वासुदेवं निराकारो मूर्ध्नि भक्तोऽभिधारयेत्।
सङ्कर्षणादिभिः कृष्णे एवं नामभिरर्पयेत्।42
केचिच्छ्रियं वामवक्षो मण्डनां धारयन्ति हि।
[[9]]
चरणाम्बुमृदःपुण्ड्रं विरक्तस्य सदा भवेत्।43…
स्त्रीशूद्राणां सदैकाङ्गं शिरोंसगलहृत्सु वा।
सम्प्रदायानुसारेण पुण्ड्रं मुद्रास्त्वनेकधा॥49
*विष्णुतिलके
आसपिण्ड्यं तु दाहादि न हरिद्रां कथाचन।
अतः परत्र पुण्ड्राणि स हरिद्राणि धारयेत्।
एभिर्वचनैः सहरिद्रान्तराल हरिपादद्वयाकारं स पद्मासनानि।
श्वेतमृत्स्नोर्ध्वपुण्ड्राणि
ललाटादिद्वादशस्थानेषु धृत्वा।सशक्तिकान् ऊर्ध्वपुण्ड्राधि देवान् वक्ष्यमाण क्रमेण ललाटादि पुण्ड्रेषु
विचिन्तयेत्।
इति ऊर्ध्वपुण्ड्रधारणविधिर्नाम षष्ठम बिन्दुः॥
<<<<____>>>>
पारम्पर्य अर्चकस्य प्राधान्यता
श्रीप्रश्नम्
[भारद्वाजान्वयो वेदशिराः कौण्डिन्यसन्ततिः] ॥136॥
कवषस्तु वसिष्ठाभिजनो भार्गवनामकः।
विश्वामित्रान्ववायश्च मरीचीति महर्षयः॥137॥
शरणागतिधर्मज्ञाश्चत्वारो द्वयचिन्तकाः।
परमैकान्तिनो शङ्खशार्ङ्गचक्रगदांशजाः॥138॥
चक्राद्यायुधसम्भूताश्चत्वारो मुनिसत्तमाः।
ते त्वां समागमिष्यन्ति भगवद्दीक्षिता मुने॥139॥
तेभ्य एतमुपादिश्य वैकुण्ठं सूरिसेवितम्।
आयाहि भगवत्प्रीत्यै मोदतां नित्यसूरिवत्॥140॥
[त्वच्छिष्यवर्गान्वयजो यस्तु मूढोऽपि दीक्षितः।
स एवाराधने योग्यः पावनो ब्रह्मविन्महान्॥141॥
[[10]]
ईश्वरे
पूजयेद् द्विज ! तत्रापि ज्ञानिभिस्तत्वदर्शिभिः ॥ 36॥
वासुदेवैकनिष्ठैस्तु देवतान्तर(वि)वर्जितैः ।
वंशपारम्परेणैव विष्ण्वर्चन परायणान्।
परमपुरुष सम्हितायां
सर्वावयव सम्पूर्णान् सदारोग्यशरीरकान्।
वंशपारम्परेणैव विष्ण्वर्चन परायणान्।
अदीक्षितश्चानाचारी पञ्चसंस्कार वर्जितः।
पाद्मसंहिता चर्यापादे
शिष्यं सुतं वा सर्वज्ञमनसूयं जितेन्द्रियम् ।88।
आचार्यवंशजन्मानं निग्रहानुग्रहे क्षमम् ।
शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम् ।89।
एभिस्संहिता वचनैः उत्तमोत्तमादि दिव्यदेशेषु वंशपारम्पर्य अर्चक एव
पूजनीयम् इति निश्चयः।
तेष्वेव प्रतिष्ठादिकार्याणि सिद्ध्यन्ति. न तु अन्यत्र योग्यः॥इति
ज्ञातव्यम्॥
7 आचार्य अलङ्करणं
श्रीप्रश्नम्
आत्मानं वस्त्रयुग्मेन कुण्डलादिविभूषणैः॥
श्वेतमृत्स्नोर्ध्वपुण्डैश्च चन्दनाद्यैस्सुगन्धिभिः।
हेमोपवीतैस्रग्भिश्च भूषयेद्देशिकोत्तमः।
मुखवास समोपेतैः ताम्बूलैश्शोधयेन्मुखम्।
पारमेश्वरे
गन्धैस्स्रग्भिरलङ्कारैः सोत्तरीयैश्च भूषितैः।
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः।
अभावेत्वाङ्गुलीयेन अलङ्कृत्य तु देशिकः।
[[11]]
शुक्लवासस्सवेषं च शुक्लदन्तश्शुचिर्वृतः।
एवमुक्तगुणैर्युक्तो बोदयेत् पुरुषोत्तमम्।
पाद्मे
अञ्जनालेपनैस्रग्भिः वासोभिर्भूषणैर्युतम्।
अलङ्कृतरशाड्यैश्च ताम्बूलीमुख शोधनैः।
उपेतोमङ्गलाद्यैश्च नयेदभिगमन॑ क्रियाम्।
विहगेन्द्रे
दुकूलैस्सूक्ष्मवस्त्रैश्च उष्णीषमुखवाससः।
कटकैर्वलयैश्चैव केयूरैः पट्टबन्धनैः।
वस्त्राभरणमाल्यैश्च चन्दनाद्यैरलङ्कृतः।
अभुक्ता वाऽपि भुक्ता वा कृतकृत्याश्च देशिकः।
पराशरे
धृत्वा कण्ठे स्वशिरसि पवित्रं विष्णुधारितम्।
श्रीकृष्णतुलसीकाष्ठ अक्षमालाङ्गलैस्तथा।
सहपद्माक्षमालाभिः युक्तहारादिकं शुचिम्।
शिखायां विष्णुनिर्माल्यं चन्दनस्याऽनुलेपनम्।
अहर्निशं धारयतो न पुनर्जननं भवेत्।
एभिर्वचनैः आचार्यः अन्तरीय उत्तरीयऊर्ध्वपुण्ड्र अङ्गुलीयकादिविभूषण,
गन्धानुलेपन,
ताम्बूलतुलसी, नलिनाक्षपवित्रमालादिभिः अलङ्कृतं वासुदेवगेहं प्रविशेत्।इति अभुक्तोवापि भुक्तो वा
इत्युक्त विषयं क्रतुपरं(आतुरं)इति निर्णीतम्।
इति सप्तमम्
<<<<____>>>>
[[12]]
8 अष्टमबिन्दुः पवित्रधारण विधिः
*श्रीः
नित्यकर्मणिदर्भाभ्यां पवित्रं धारयेत्क्रमात्।
त्रिभिस्तु पितृकार्येषु चतुर्भिश्चाभिचारिकम्।
पञ्चभिर्दैविके षड्भिःशान्तिकार्येषुभोजने।
पवित्रं वलयं द्वाभ्यां सप्तभिस्सर्वकमसु।
इत्यारभ्यद्व्यङ्गुलं वलयं प्रोक्तं ग्रन्धिरेकाङ्गुली भवेत्।
*चतुरङ्गुलमायामःपञ्चमुष्टिमिताःकुशाः
करशुद्धिं पुरा कृत्वा पवित्रं धारयेत् करे॥
**पारमेश्वरे
चतुरङ्गुलमग्रं तु सदाविष्ण्वधिदैवतम्।
महाविष्ण्वधिदैवं तु ग्रन्धिरेकाङ्गुलीमता।
विष्ण्वधिदैवं तु तद्द्वयाङ्गुलमुच्यते।
पवित्रं हस्तयुग्मे च अनामिक्यां नियोजयेत्।
*किञ्च-
अर्चनं जपहोमं च दानं च पितृ तर्पणम्।
अपवित्रानु पाणिं च तत्सर्वं विनश्यति।इति.च
स्मृतिमुक्ताफले
हैमेन सर्वं सर्वदा कुर्यादेवाविचारयन्।
*अग्रन्धिकं च हेमं च तथा लोहत्रयो भवेत्॥
एभिर्वचनैःभगवत्कैङ्कर्यादिषु अनामिकाभ्यां पवित्रे धारयेत्।यद्वा दक्षिणहस्ते अनामिकया पवित्रं
धृत्वा सङ्कल्पित कैङ्कर्याऽनन्तरं पवित्रग्रन्धिं विसृजेत्। परित्यजेत्।
अथवा वलयरूप स्वर्णादि पवित्रं धृत्वा।भगवत्कैङ्कर्यादि नित्य कर्म च
कुर्यात्।न तं
परित्यजेत्।तेनैव सर्वकर्माणि ,कुर्यात्।
इति पवित्रधारण विधिर्नाम अष्टमबिन्दुः
<<<<____>>>>
[[13]]
9 तालत्रयकाल विवरणम्
*श्रीः
वामे करतलेपूर्वं ततो हस्तेनदक्षिणे।
पुनर्वामतले कुर्याद् अङ्गुलीभिस्तु ताडनम्।
तालत्रयाख्यमुद्रैषा कवाटोद्घाटनादिषु।
पात्रस्थापनकाले च नैवेद्यान्ते च ताडयेत्।श्रीः
*विहगेन्द्रे
दक्षिणेवामं सन्ताड्य वामहस्तेनदक्षिणम्।
वामे पुनर्दक्षिणेन कुर्यात्तालत्रयं बुधः।
एकतालेन मरणं द्वितालं व्याधि पीडनम्।
त्रितालं सुखमाप्नोति तस्मात्तालत्रयं शुभम्।(कुरु)
एभिर्वचनैः
कावाटोद्घाटने,भगवत्प्रबोधने,अर्घ्यादिपात्रपरिकल्पने,निवेदनान्ते च
तालत्रयं कुर्यात्।
घण्टानाद विषयं श्रीः
*ततः पूजोपकरणं कारयेल्लक्षणान्वितम्।
इत्यारभ्य शब्दब्रह्ममयीघण्टा हस्तोच्छ्रेदा समुच्छ्रया।
पूजादिसर्वकार्येषु सर्वदैवोपयोगिनी।
*जयसंहितायां
स्तुतौ यवनिकोद्धारे पद्मनाभप्रबोधने।
पुण्योदप्रोक्षणे पूजारम्भेह्यर्घ्यादि कल्पने।
आवाहने कर्मभेरे मन्त्रन्यसनकर्मणि।
अर्घ्ये धूपप्रदीपे च मधुपर्कसमर्पणे।
होमादिपूजकोदाने स्नपने केशशोषणे।
भूषाऽलङ्करणे गन्धयज्ञसूत्र समर्पणे।
ऋक्षदीप प्रदर्शे च हविरादि निवेदने।
नीराजने पूर्णहोमे घण्टाचालनमिष्यते।इति
[[14]]
पाद्मे
उद्घाटने कवाटस्य प्रस्तुते पूजने तथा।इत्यारभ्य
भूतबल्यौ कर्मण्युद्वाहे चलनं मणेः।
एभिर्वचनैः पुण्यतीर्थप्रोक्षणे,पूर्वोदित उपचारकालेषु पूर्णाहुति
बलिप्रदानकालेपि घण्टाचालनं
करणीयम् इति निश्चितः। इति नवमबिन्दुः
<<<<____>>>>
10
यवनिकाच्छादन विधिः
श्रीः
अन्तःपूजन काले तु पिदध्याच्च कवाटकम्।
बाह्यमण्टपपूजायां महाजनसमीपतः।
अनच्चाद्यैव देवस्य पूजां कुर्याद्विचक्षणः।
अन्यत्राच्छादनं नित्यम् अन्नाद्यादि निवेदने।
वाहनादिष्वलङ्कारे नोचेद्दोषो भविष्यति।श्रीः।
पारमेश्वरे
प्रच्चन्नपटसंयुक्तं यथाकाले प्रपूजयेत्।
पूजाकाले तु देवानां पुष्पाऽलङ्करणे तथा।
मुद्रादर्शन काले च हेमरत्नसमर्पणे।
एवमेतेषु कालेषु पटमाच्छाद्य वाससा।
निर्माल्योद्वासने चैव स्नानाऽलङ्करणान्तरे।
भोज्यासनान्त देवस्य अपनीयपटं तथा।
स्नपने दीपकाले च प्रच्छादनपटं त्यजेत्।
वाक्यार्थम्-भगवदाराधनार्थं,निवेशितां यवनिकां,अलङ्कारासने नक्षत्रदीप
दर्शनकाले यवनिकां
व्यपोह्य।तदनन्तरं भोज्यासने विस्तृतां यवनिकां भोज्यासनान्ते जपानन्तरं नित्यहोमान्ते जपादनन्तरं वा
व्यपोहयेत्।महोत्सवादि उत्सवेषु मण्टपादिषु एकान्तकाले एकान्तस्नपनकाले च यानादिषु अलङ्कारकाले
भोज्यासनपूजनकाले च यवनिकाऽऽच्छादनपूर्वकं कैङ्कर्याणि कुर्यात्।इति निर्णयः-
इति यवनिकाच्छादन विधिर्नाम दशम बिन्दुः।
<<<<____>>>>
[[15]]
11 पञ्चशुद्धि विवरणं
श्री
पूजाकाले पुरा कुर्यत् पञ्चशुद्धिः गुरूत्तमः।
स्थानशुद्धिं पात्रशुद्धिं बिम्बशोधनमेव च।
आत्मनोभूतशुद्धिश्च मन्त्रवर्णान् ततो रमे।
जयोत्तरे
सम्मार्ज्यगर्भसदनं चन्दनाऽगरुकर्दमैः।
आलिप्यविकिरेत्पुष्पान् अक्षतान् स्थानशुद्धये।
स्वर्णादि लोहपात्राणि तिन्त्रिणीपङ्कभस्माना।
शोधयित्वाऽथ संक्षाल्य बिम्बशोधनमारभेत्।
पुरार्पितानि गन्धानि परिहृत्यसुमानि च।
वर्ममन्त्रेणवस्त्रेण बिम्बानां रेणुमार्जनम्।
कृत्वाऽथभूतसंशुद्धिः मन्त्रवर्णानि शोधयेत्।
एवं पञ्चशुद्धिं कुर्यात्।
इति एकादश बिन्दुः।
<<<<____>>>>
12 निर्माल्य विसर्जनक्रमः, बिम्बशोधन क्रमं च
*श्रीप्रश्नम्
अलङ्कृतानि पूर्वेद्युः वस्त्रं माल्यं च चन्दनम्।
मूलबेरादिबिम्बेभ्यो परिहृत्य ततो रमे।
अनन्ताख्ये- दीपान् सन्दीपयित्वा तु निर्माल्यमपकृष्य च।
विष्वक्सेनालयं गत्वा प्रणमेद्दण्डवत् क्षितौ।
निर्माल्यं निक्षिपेत् पश्चाद् विष्वक्सेनस्य मूर्धनि।
रञ्जयेद्विविधैर्माल्यैः रञ्जयेच्च चमूपतिम्।
[[16]]
*शाण्डिल्ये
न भारं मेरुशिखरं न भारं सप्तसागरम्।
रात्रौ पूजित-निर्माल्यं प्रभाते भारमद्भुतम्।
अहोरात्री च निर्माल्यं प्रातः काले विसर्जयेत्॥
*नलकूबरे
पुरार्पितानि वस्तूनि तदनन्तर पूजने।
भारमित्यिष्यते तस्मात् तं परित्यज्य पूजयेत्। इति
एभिर्वचनैः प्रभात काल पूजनात्पूर्वं पूर्वदिनार्पित गन्धपुष्पमाल्यादिभिर्वस्तूनि
मूलबिम्बादिबिम्बेभ्यः समादाय विष्वक्सेने समर्पयित्वा।प्राबाधिकीं पूजां प्रारभेत्।नोचेन् महान्दोषो
सम्भवन्ति।
इति द्वादशबिन्दुः
<<<<____>>>>
त्रयोदशबिन्दुः
13 बिम्बशोधन क्रमः
श्रीप्रश्नम्
अलङ्कृतानि पूर्वेद्युः वस्त्रं माल्यं च चन्दनम्।
मूलबेरादि बेरेभ्यो परिहृत्य ततो रमे।
तच्छंयोरिति मन्त्रेण शुद्धवस्त्रेण शोधयेत्।
नारदीये-पीठस्थं पत्रपुष्पाद्यं वस्त्रेणाहृत्य मन्त्रवित्क्ष्
गव्यैर्वा चामरैर्वालैः शिखिपक्षिर्दुकूलकैः।
कुशैस्सम्मार्ज्य बिम्बानि शुद्धीकृत्वा समर्चयेत्।
एभिर्वचनैः निर्माल्य विसर्जनानन्तरं गोवालैः, चमरीमृगवालैः, मयूरपिच्छैः,
क्षौमवस्त्रैः,
कुशपुञ्जैर्वा बिम्बानि सम्मार्ज्य।विशोधयेत्।ततः पूजां प्रारभेत्।
इति त्रयोदशबिन्दुः
<<<<____>>>>
[[17]]
14
तुलस्याः प्राधान्यता
श्री
आवाहनपदम्पात्रं पूरयेद्गन्धवारिभिः।
मूलमन्त्रेण तुलसीं तस्मिन्निक्षिप्य वै ततः।
तत्पात्रं हस्तयुग्मेन ललाटान्तं समुद्धरेत्।
*नारदीये
तुलसीमञ्जरी ग्राह्या तदभावे तु पल्लवम्।
तदभावे तु पत्रं वा पत्राऽभावे तु काष्टकम्।
काष्ठाभावे तु मूलं वा मूलाभावे तु तन्मृदम्।
मृदाभावे स्थले विप्राः तुलस्युच्छारणम् मतम्।
यत्र स्थितापि ता ग्राह्या यद्दिने वा हरिप्रिया।
विष्ण्वर्चनाय सा ग्राह्या शूद्रजान् वैष्णवान् मुने॥
*वासिष्टे
ब्राह्मणैःक्षत्रियैर्वैश्यैःशूद्रैर्वा कृत लक्षणैः।
आहृता तुलसी ग्राह्या म्लानापि प्रीतिदो हरेः।
पूजावस्तुषु सर्वेषु निक्षिप्य तुलसीं पुरा।
ततो देवाय वस्तूनि दद्याद्देवस्य सन्निधौ॥
*वासुदेवाख्य श्रीकृष्णसंहितायां
तुलसीरहिता पूजा निष्फला विष्णुकोपदा।
तुलसी सहितापूजा विष्णुप्रीतिप्रदा शुभा॥
प्रक्षालयेन्न तुलसीं पुष्पादीनि विशोधयेत्।
*दत्तात्रेये
रत्नवैडूर्य मुक्ताभिः प्रवालादिभिरर्चितः।
न तुष्यति सदा विष्णुः तुलसी पूजनाद्यथा।
वाक्यार्थम्-आराधकः पूजा द्रव्येषु तुलसीं निक्षिप्य।भगवते समर्पयेत्।सा
तुलसी
आर्द्रा,अम्लाना,शुष्का,पर्यूषिता शूद्रैरानीता इति न वर्ज्या।सापि ग्राह्या।तुलसीरहिता पूजा निष्फला
[[18]]
भवेत्।भगवत्कोपप्रदायिनी च।तस्मात् तिथि, वार, नक्षत्र, निश्यादिकाले दोषादिकम् अविचार्य
भगवदाराधनार्थं तुलसी ग्राहितव्यम्।मञ्जर्यादि मृदान्तम् अलाभस्थले पूजनकाले पूजा द्रव्येषु तुलसी
निक्षेपणं स्मृत्वा। भगवते समर्प्य। इति निर्दिष्टम्॥
इति चतुर्दशम बिन्दुः
<<<<____>>>>
15 आचार्यपत्न्या भगवत्प्रसाद करणीयमिति पञ्चदशबिन्दुः
*शाण्डिल्ये
प्रथमावरणे कुर्याद् द्वितीयावरणेऽपि वा।
पचनालये तु नैवेद्यम् अर्चकस्य गृहेऽथवा।
अन्यगेहे तु यत्पाकं तद्भोज्यं राक्षसं स्मृतम्।इति वचनात्
*पाद्मे-12अ
साधयेद्दीक्षितः पाकं विधिनोक्त तत्स्रियः।
यद्वा तूष्णीं साधयेयुः उपदंशाश्चचोदनात्।
*पौष्करे
प्राक् साधितं च यागार्थं देवतानां प्रयत्नतः।
तत्समर्पणपर्यन्तं यावद्देवान्नमुच्यते।
अन्यथा भक्षणं तस्य यदि मोहात्कृतं द्विज।
प्रायश्चित्तशतैश्चीर्णैः शुचिर्भवति मानवः।
तत्र सन्तर्पणादन्ते याजिनां याजिनांवर।
गर्वबुद्धिविमुक्तानां भक्षणं सर्वशुद्धिकृत्।
पावनं पुण्यदं शश्वद् भूरिभूत्यभिवृद्धिदः।
एभिर्वचनैः देवालये वा अर्चकगृहे वा अर्चकपत्न्या वा
भगवन्निवेदनार्थंसोपदंशं निवेदनं
करणीयम्।अन्यगेहे अन्यस्त्रिया च नैवेद्यं कृतं चेत् तदासुरं भवेत्।तस्माद् आचार्यपत्न्यैव कर्तव्यमिति
निर्णीतम्।एवं साधितान्नं भगवन्निवेदनात्पूर्वं यो भुञ्जिते सचीर्णैः प्रायश्चित्तपूर्वं शुद्ध्यति।तस्माद्
भगवन्निवेदनाऽनन्तरं सर्वमङ्गलप्रदम्।वैष्णवान्नं भक्तवर्यैः
भोक्तव्यम्।इति निर्दिष्टम्।
इति आचार्यपत्न्या भगवत्प्रसाद करणीयमिति पञ्चदशबिन्दुः।
<<<<____>>>>
[[19]]
16 बिम्बादिषु आवाहनमुख्यत्व विधिः
*श्रीप्रश्नं
ज्वलनस्सूर्यकान्तेन यथाभाति दिवाकरात्।
तथाऽर्चकप्रार्थनया मूलात्कर्मणि कौतुके।
त्रिस्थाने स्नानकुम्भे च हरिस्सन्निहितो रमे॥इति
सात्वते
गोरङ्गेषुसमस्तेषु क्षीरं यद्वद्व्यवस्थितम्।
दुग्धंस्थनमुखे द्रष्टं तद्वद् आवाहनं भवेत्।इति
*ईश्वरे
ततस्सर्वगतं देवं मन्त्रमूर्तित्वमागतम्।
समाहूय सु मन्त्रेणत्वागच्छान्त्यपदेन तु।
यथा सर्वगतो वायुं व्यजनेन महामते।
वृत्तिमभ्येति भगवान् आहूतस्तद्ववदेव हि।
*पाद्मे
यथा च वह्निर्दहनो न दन्व्याप्यतिष्ठति।
अरणीमथनाद्भूयो जायमानः प्रदृश्यते।
दहनादीनि कर्माणि करोति च यथा तथा।
दृश्यते च प्रतिकृतौ मन्त्रिणा मन्त्रगौरवात्।इति
वाक्यार्थम्-एभिर्वचनैः गो व्याप्तक्षीरं स्तनमुखाद् यथा द्रष्टम्।सर्वस्थितवायुः व्यजनाद्यथा
स्फुटम्।दार्वन्तरित वह्निः अरणीमथनाद् यथा दाहकम्,अश्मा अन्तरित वह्निः सूर्यकरस्पर्शाद् यथा
प्रज्वलनं च भवति।तथा सर्वव्यापकः भगवान् अर्चकप्रार्थनया बिम्बात् सर्वफलप्रदः।प्रकाशकं च
भवति।इति निर्णयः॥
कूर्चे भगवदावाहन क्रमः
*श्रीः
आवाहयेद्बिम्बहीने कूर्चे सम्प्रार्थयेद्धरिम्।इति वचनात्।
*ईश्वरे-अभावे बलिबिम्बस्य हेतुना सन्निधीकृते।
[[20]]
कूर्चेनवाऽन्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः।
*नलकूबरे-
अभावे स्नपनार्चायां हेतुनासन्निधावपि।
कूर्चे वा पादुकायां वा देवमावाह्यमूलतः।
तत्तद्बिम्बोक्तकर्माणि कृत्वा मूले नियोजयेत्।
इति एभिर्वचनैः एककर्मभेराऽभावे पूर्वकर्मबिम्बेन तत्तत्कर्मा समाचरेत्।
तद्बिम्बमप्यभावे कूर्चे वा
पादुकाभ्यां वा आवाह्य। तत्तत्कर्मसमाचरेत्। इति निर्णीतव्यम्।
इति षोडशबिन्दुः
<<<<____>>>>
सप्तदश बिन्दुः
17 स्वयंव्यक्तादिभेदेन अर्घ्यसमर्पण भेदाः
*श्रीः
अर्घ्यं पाणिप्रक्षालनं च पाद्यम् आचमनं तथा।
गन्धं माल्यं धूपदीपौ मधुपर्कं निवेदयेत्।इति
विष्णुतन्त्रे
अर्घ्यं शिरसिविन्यस्य पाद्यं पादतले न्यसेत्।
हस्तेष्वाचामं चैव गन्धं वक्षसिलेपनम्।
पुष्पं मूर्ध्निप्रदेशे तु भोज्यं करतले न्यसेत्। इति
* अनिरुद्धे
पाद्यादि दानं तु विप्रेन्द्र द्विर्देया दैव पदाम्बुजे।
वस्त्रेण मार्जनं कृत्वा चन्दनालेपनं चरेत्।
आचामं तु स्त्रिःप्रदद्याच्च विमृज्य च सकृत्स्पृशेत्।इति
*विष्णुतिलके
गृहीत्वाम्बु सकृद्देव शिरस्यर्घ्यं समर्पयेत्।
कूर्चेन प्रोक्षणं कुर्यात् तच्चेषं तु प्रतिग्रहे।
[[21]]
पात्रे विन्यस्य च ततः पाद्याम्बु ग्रहणं ततः।
प्रोक्षणं पादयोर्विष्णोः तच्छेषं पूर्ववत्क्षिपेत्।
तच्चेषेणात्मशिरसि प्रोक्षयेच्छ्रद्धयासह।
एवं द्विःपाद्याऽर्घ्यदानं स्यात्तोयमाचमनीयतः।
गृहीत्वा देववदने दद्यादाचमनत्रयम्।
न तत्र कूर्च विन्यासः आचामन्तं स्मरेत्ततः।
प्रतिग्रहे क्षिपेच्चेषं मधुपर्कं निवेदयेत्।
*सङ्कर्षण संहितायां
कूर्चाग्रेण तुलस्या वाह्यर्घ्याद्यं च समर्पयेत्।
स्वयंव्यक्तदिव्ययोर्दद्याद् अर्घ्यं मूर्ध्नित्रयं तथा।
शोधयोर्हस्तशुद्धिं च पादयोः पादसेचनम्।
आचामं वदने चैव हस्तशाट्या तु मार्जयेत्।
सैद्धदि मानुषान्तानां देवानां दक्षिणे करे।
सकृदर्घ्यं द्विपाद्यं च त्रियाचामं समर्पयेत्।इति
एभिर्वचनैः दिव्य स्वयंव्यक्तस्थान भगवन्मूर्तीनां मूर्ध्नि त्रिवारम्
अर्घ्यं,हस्तयोः त्रिवारम्।
हस्तशोधनम्। पादयोः त्रिः पाद्यम्।तुलस्या समर्पयेत्। सैद्धादिमानुषान्त
प्रतिष्ठित भगवद्बिम्बानां हस्ते
एकवारम् अर्घ्यम्, हस्तशोधनं च द्विवारम्। पाद्यं त्रिवारम् आचमनं समर्पयेत्।एवमेव स्वयंव्यक्तादि
मानुषप्रतिष्ठान्त स्थानान्तस्थित ब्रह्मादि देवबिम्बानां भक्तबिम्बानां च अर्घ्यादिकं दद्याद् इति निर्णयः॥
इति स्वयंव्यक्तादिभेदेन अर्घ्यसमर्पण भेदाःनाम सप्तदश बिन्दुः
<<<<____>>>>
18 कूर्चनिक्षेपण परिवारार्चनविधिः
*एकैकस्मिन् घटेकूर्चं नारिकेलफलं तथा।
आम्रपल्लवगुच्छैश्च कलशानपि धापयेत्॥
*ईश्वरे
सर्वरत्नोदकं चैव शुद्धोदकमनन्तरम्।
[[22]]
न्यसेत्कूर्चं कुशन्दार्भमुदगग्रं षोडशाङ्गुलम्॥
जयसंहितायाम्- पुण्याहे स्नपनेकुम्भे स्थापनेचान्य कर्मसु।
ऊर्ध्वग्रन्धिम् उत्तराग्रं कूर्चं कुम्भमुखे न्यसेत्।
अग्रेण प्रोक्षयेद्विद्वान् अवागग्रं न निक्षिपेत्।
*स्मृतिरत्नाकरे
ऊर्ध्वाग्रं प्रक्षिपेत्कूर्चं गलन्त्यां कलशेषु च।
ततस्सम्प्रोक्षणं कुर्यात् तदग्रेण द्विजोत्तमाः।
एभिर्वचनैः सर्वकर्मसु कुम्भादिषु ऊर्ध्वग्रन्धिम् उत्तराग्रं कूर्चं
विन्यसेत्। ग्रन्ध्यग्रेण प्रोक्षणं
कुर्यात्।अधोग्रन्धिं न निक्षिपेत्। इति निर्दिष्टम्॥
परिवारार्चने विधिः
*तथैव गोपुरद्वार दिङ्मूर्तिषु च मण्टपे।
सान्निध्यं चैव यातासु शक्त्या नित्यं समर्चनम्।
कुर्यादष्टोपचारैस्तु तथा नैमित्तिकेष्वपि।
त्रिकालं वा द्विकालं वा सङ्कटेत्वेककालिकम्॥
*ईश्वरे
पुरा प्रधानमूर्त्यैर्वा पूजनात्समनन्तरम्।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च।
प्रतिष्ठितानां बिम्बानां पूजनं समुदीरितम्॥
*विष्णुतिलके
देवार्चन समाप्तेऽथ देवीनामर्चनं मतम्।
आलयाश्रितदेवानाम् अर्चनं तदनन्तरम्॥
एभिर्वचनैः देवदेव्योः आराधनात् परं विष्वक्सेनादि सर्व परिवाराणाम्
अष्टोपचारपूजनम्।त्रिकालं,द्विकालं,एककालं वा कुर्याद् इति निर्णीतम्।
इति अष्टादशबिन्दुः
<<<<____>>>>
[[23]]
एकोनविंशति बिन्दुः
19 मन्त्रजपविधिः
*ततो नीराजनं कुत्वा गर्भगेहं नयेद्विभुम् ॥
मूले संयोजयेत् पश्चान्मन्त्रन्यासं पुरा कृतम् ।
मनुना येन देवस्य स्वस्य चापि वरानने ॥ 84॥
तन्मन्त्रवर्णान् संशोध्य शोषणादिभिरात्मवान् ।
प्रबुद्धीकरणं कुर्याद्वर्णानि निगमादिना ॥ 85 ॥
अष्टोत्तरशतं वारान् अष्टाविंशतिमेव वा ।
अष्टौ वापि जपेन्मन्त्री नलिनाक्षादिमालया ॥ 86 ॥
यत्सङ्ख्यया जपः पूर्वं मानसाराधने कृतः ।
तत्सङ्ख्ययैव बाह्येऽपि जपेद्यागे गुरूत्तमः ॥ 87 ॥
[जपं तु सर्वपूजान्ते कुर्यात् क्षुद्रे तु नाचरेत् ।]
*विष्णुतिलक संहितायां
यथा शक्ति जपं कुर्याद् येन विष्णुस्समर्चितः।
आवाहन क्रमेणैव पुनरुद्वासनं मतम्।
इति वचनात् श्रीप्रश्न विष्णुतिलकसंहिता वचनैः नित्योत्सवान्ते जप ईरितः।
द्वादशाक्षर. अष्टाक्षर,
षडक्षर, मन्त्ररत्नत्रयेषु भगवदाराधनान्ते किंयन्मन्त्रेण जपः कर्तव्यः? इति निर्णयविषये भूतशुद्ध्यनन्तरं
सृष्टिस्थितिसंहारेषु न्यासत्रयेषु आचार्यदेहे यन्मन्त्रं यथान्यसितं तत्क्रमेण तन्मन्त्रेणैव अन्तर्यागे
मन्त्रन्यसनम्, जपं च आचरेत्।बहिर्यागेऽपि तन्मन्त्रेण तत्क्रमेण भगवद्बिम्बे मन्त्रन्यसनम्,
मानसाराधनजपसङ्ख्यावत्, मन्त्रजपं च कुर्यात्। इति निर्णीतः॥ क्षुद्राराधनं विना अन्य समस्त
आराधनान्ते जपं कुर्यात्।इत्यत्र विषये विवरणमाह।
*श्रीप्रश्ने
नित्योत्सवान्तं दैत्यारेः पूजनन्तूत्तमोत्तमम्।
होमान्तञ्चोत्तमं विद्धि प्रापणान्तं च मध्यमम्।
अधमं धूपदीपान्तं क्षुद्रमर्घ्यादि पूजनम्। इति वचनात्।
[[24]]
*पाद्मे
उत्सवावसितं श्रेष्ठमाराधनमुदाहृतम्।
होमान्तं मध्यमं प्रोक्तं प्रापणान्तमथाधमम्।
क्षुद्रन्तु धूपदीपान्तम् अधमाराधनं भवेत्।एभिर्वचनैःभूतशुद्ध्यादि
नित्योत्सवान्तमनुष्टितम् आराधनं,
उत्सवान्तमाराधनमिति, तथा होमान्तम् आचरितम् आराधनं, होमान्तमाराधनम् इति तथैव भोज्यासनमिति
क्रियमाणम् आराधनम्, प्रापणान्तमाराधनमिति च व्यवह्रियते॥ तस्माद् उक्तत्रय आराधनं कर्तव्यम्-
क्षुद्रपूजा विवरणम्
*अर्घ्यं पाद्यं तथाचामं ब्रह्मसूत्रं च चन्दनम्।
मालां धूपं दीपिकां च फलनीराजनं तथा।
एलादि चूर्णसम्मिश्रं ताम्बूलं च निवेदयेत्।ई
*ईश्वरे
आसनार्घ्यैः ततःपाद्यम्आचामं सम्प्रतिग्रहम्।
गन्धमाल्यं तथा धूपं दीपम् मात्रा क्रमेण तु।
दत्वा भोज्यासनान्तं तु क्रमाद्दद्याद् विधानतः।इति
*पाद्मे
आवाहनासने पूर्वम् अर्घ्यम्पाद्यमनन्तरम्।
उपस्पर्शं तथा स्नानं वस्त्रं यज्ञोपवीतकम्।
गन्धालेपस्तथा भूषा माला धूपप्रदीका।
मधुपर्कं प्रापणं च विसर्जनमनन्तरम्।
इति श्रीप्रश्न, ईश्वर, पाद्मसंहितावचनैः। मन्त्रासनादि भोज्यासनान्त
क्रमाराधनं विना
आवाहनपूर्वक बहिर्मण्टपपूजादिषु आवाहन रहितं वा अनुष्ठितं पूजनं षोडशोपचारादि पूजनं
च॥क्षुद्राराधनं तच्च अधमाराधनम्।इति निर्णीतम्।एतदारानान्ते जपः न करणीयम्।इति निर्दिष्टम्॥
मन्त्रन्यासादि मन्त्रजपान्त निर्णयं नाम एकोन विंशतिबिन्दुः॥
<<<<____>>>>
[[25]]
20 विभवहीने बिम्बमात्रोत्सव विधिः
*चतुः स्थानार्चनं कृत्वा स्नापयेच्च ततो हरिम् ॥132॥
एष मुख्योऽभिषेकस्ते कथितः कमलेक्षणे ।
विना होमं मध्यमः स्यात् तथा चक्राब्जमण्डले ॥133॥
पूजाहीनोऽधमो भद्रे कर्याज्ज्ञात्वा विचक्षणः ।
चतुस्थान विहीने तु नाचरेदङ्कुरार्पणम्।
रक्षासूत्रञ्चाऽवभृथं बिम्बमात्रोत्सवं चरेत्।
महता हविषा चैव चतुस्थानेषु पूजयेत्।
कुम्भे च मण्डले बिम्बे वह्नौ च यजनं विभोः।
मुख्यकल्पे प्रकुर्वीत ह्यनुकल्पे तु मण्डलम्।
विना कुम्भादिषु यजेद् बिम्बवह्न्योस्तु वा यजेत्।
एभिर्वचनैः यस्मिन् उत्सवेषु चतुस्थानार्चनं नाचरेत् तस्मिन् उत्सवादिषु
चतुस्थानार्चनं
नाचरेत्।तस्मिन् उत्सवादिषु अङ्कुरप्रतिसरबन्धं विना त्रिस्थान यजनपूर्वकं त्रिस्थान,द्विस्थान, बिम्बमात्र
आराधन पूर्वकम् उत्सवादिकम् आचरेत्।इति निर्णीतम्।
इति विंशतिबिन्दुः समाप्तम्
<<<<____>>>>
21 आचार्यस्वीकरणाऽनन्तरम् अन्येषां सम्प्रदानक्रम निरूपणम्
*श्रीप्रश्ने-30अ
क्रमशो देवदेवस्य पादतीर्थं प्रदापयेत् ।
विष्णोस्तीर्थं प्रसादं च पूजान्ते देशिकोत्तमः॥ 103।
अपीत्वा यदि वान्येभ्यो दद्यात् पूजा हि निष्फला ।
पिबन्ति ये पादतीर्थं जिघ्रन्ति तुलसीदलम् ॥ 104।
ते यान्ति पापनिर्मुक्ताः शाश्वतं परमं पदम् ।
पारमेश्वरे-नैवेद्यं पुरतो न्यस्तं चक्षुषा परिगृह्यते।
[[26]]
रसान् भक्तस्य जिह्वाग्रे अश्नामि कमलोद्भव।
आचार्यभोजनाहीने देवपूजा च निष्फला।
यथाचाग्निमुखे भुङ्क्ते तथा कारिमुखो हरिः।
आचार्यः सुप्रसन्ने तु देवदेव प्रसीदति।इति
किञ्च
*कपित्थस्य फलं यति यद्वत्कुञ्जर भक्षितम्।
तद्वत्सारं तु गृह्णीयात् तथा भोज्या हरिस्स्वयम्।
तद्वत्सारस्तु गृह्णीयात् तथा भोज्यो हरिस्स्वयम्।
पाठभेदः
*कपित्थस्य फलं याति यावत्कुञ्जर भक्षितम्।
तद्वत्सारस्तु गृह्णीयात् तथा भोज्या हरिस्स्वयम्॥
*पाद्मे-3अ-
विज्ञाप्य देवदेवेशं पूजकः प्रणमेत्स्वयम्।
आददीताऽवशिष्टानि पूजावस्तूनि कृत्स्नशः।
तेनात्मपूजनं कुर्यात् तुष्यामि कमलोद्भव।
एभिर्वचनैः होमान्तपूजने अग्निमुख आराधनेन भगवान् यथा तुष्यति आचार्याय
सम्प्रदानं च
हवनवद् उक्तत्वात्। आचार्यादेः भोजनेन भगवान् तुष्यति।आचार्यादीनां पुरा प्रसादादिकं दत्वा
ततःपरमेव अन्येषांसर्वत्र प्रसादादिकं विनियोज्य।इति निर्णीतम्।
इति एक विंशतिबिन्दुः समाप्तम्।
<<<<____>>>>
22 अर्चकस्य तीर्थ प्राशन, पादुकाधारणं पूर्वमितिनिरूपण क्रमः
*श्रीः
[निवेदनान्ते त्वन्नानि भक्ष्याणि विविधानि च ।
विष्वक्सेनादिपूजार्थमर्धभागं त्यजेत्ततः ॥303॥
प्रतिग्रहोदकं पीत्वा पादुकां मूर्धनि स्वके ।
भुक्तानि पत्रपुष्पाणि विदध्याद् विनयान्वितः ॥304
[[27]]
विष्णुतिलके-पदुकाशिरसा धार्या बाह्वोरसिचाविधे।
अश्नीयात्पादतुलसीं कर्णयोरुभयोरपि।इति.
एभिर्वचनैः भगवदाराधनान्ते क्षुद्रपूजनान्ते च आचार्यः प्रथमतः तीर्थं पीत्वा,शिराद्यङ्गेषु
पादुकाधारणम्,कर्णयोः तुलसी धारणं च कृत्वा।तुलसीम् अश्नीयाद् इति निर्दिष्टम्॥
इति प्रसाद स्वीकरण, तीर्थ प्राशन,पादुकाधारण क्रमः नाम एकविंशतिबिन्दुः॥
*पीत्वा स्वयं चोद्धतरिण्या पात्रेणान्येन वा गुरुः ।
सिद्धानां च महर्षीणां यतीनां ब्रह्मवादिनाम् ॥ 101
वैष्णवानां ब्राह्मणानां वेदवेदार्थसेविनाम् ।
क्षत्रियाणां च वैश्यानां भक्तानां पादजन्मनाम् ॥ 102
क्रमशो देवदेवस्य पादतीर्थं प्रदापयेत् ।
*परमपुरुषे-3अ-
तीर्थं प्राश्यादेकवारं पूजान्ते पूजकोत्तमः।
निष्कामः पावनार्थं तु धार्या शिरसि पादुके।
अश्नीयात् पादतुलसी अन्येभ्यो दापयेत्क्रमात्।इति
*मार्कण्डेये
देवदेव्योश्च पूजान्ते स्नपने देशिकोत्तमः।
तीर्थं प्रसादं स्वीकृत्य स्वाचार्याय प्रदापयेत्।
दीक्षितब्राह्मणानां च दापयेत् क्रमयोगतः।
क्षत्रियाणां विशाञ्चैव शूद्रादीनां यथाविधि।
निष्कामानामेकवारं तीर्थप्राशनमिष्यते॥इति
*विष्णुतिलके
अर्घ्यादि मधुपर्कान्तं कृत्वा काण्डपटे ततः।
व्यपोह्य देवं नीराज्य प्राशयेत् पाद्यमम्बु तत्।
प्राशने विष्णुपादस्य त्रिःखलूक्तं चतुर्मुख।
*ईश्वरे-6अ
नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ।
[[28]]
पादोदकं समादाय विग्रहं सेचयेत्स्वकम्॥ 58॥
भुक्तानि पत्रपुष्पाणि विदध्यान्मूर्धनि स्वके ।
पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति ॥ 59॥
विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ।
मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च ॥ 60॥
कीर्ति कान्ति श्रियारोग्यसिद्धिं समुपयाति च ।
एभिर्वचनैः अभिषेकान्ते,पूजान्ते च आचार्यः स्वयं तीर्थप्रसादादिकं
स्वीकृत्य।स्वशिरसि पादुकां
धार्य।तदनन्तरं स्वाचार्यादारभ्य वर्णाश्रमक्रमेण तीर्थप्रसाद विनियोगं
कुर्यात्।
इति द्वाविंशतिबिन्दुः
<<<<____>>>>
23 भगवन्निवेदिताऽन्नादि प्राशन महिमा नाम त्रयोविंशतिबिन्दुः
*देवं सम्पूज्य भक्ष्यादि विनिवेद्य ततःपरम्।
भक्तबिम्बान् पूजयित्वा तेभ्यस्तानि निवेदयेत्।
गाधा पाठक भक्तेभ्यो वैष्णवेभ्यश्च दापयेत्॥इति
यत्र भक्तश्चसेनानि स्वतन्त्रेण प्रपूज्यते।
तन्निवेदित वस्तूनि नाश्नीयाद्वैष्णवोत्तमाः॥
*पाद्मे
ब्रह्मेशानादिदेवानां नैव भोज्यं निवेदितम् ।78।
न स्पृश्यं लङ्घनीयं च चण्डादीनां तथैव च ।
देवीनां च श्रियादीनां विनतानन्दनस्य च ।79।
चक्रादीनामायुधानां वस्तु यद्यन्निवेदितम् ।
भोक्तव्यमेव सर्वेषां विप्रादीनामशङ्कितम् ।80।
विष्णोर्निवेदितं शुद्धं पावनानां च पावनम् ।
प्रापणं दुर्लभं भोज्यं न त्याज्यं स्यात्कदाचन ।81।
भुञ्जानानामेधते श्रीः त्यजतां परिहीयते ।
[[29]]
व्रतोपवासस्तुलितं त्वशनं तस्य पावनम् ।82।
शुनामिव पुरोडाशो न नीचेषु तदिष्यते ।
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ।83।
पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते ।
*विष्णुतिलके
विष्णुपादोदकेनैव पितृश्राद्धं समाचरेत्।
विष्णोर्निवेदितान्नेन श्राद्धकर्माणि कारयेत्।
भुञ्जीत विष्णुनैवेद्यं देवीभ्योपि निवेदयेत्।
चण्डादि परिवाराणां यदन्नं च निवेदितम्।
तं न भुञ्जित मनुजः जलेऽग्नौवापि निक्षिपेत्।
आलयस्थतदेवाय यद्यत्तस्मै निवेदितम्।
तेनैव स्वगृहेविष्णुं तोषयेद्विधिवद्गुरुः।
*उमामाहेश्वरे
एकादशीसहस्रं तु अमासङ्क्रम कोटिभिः।
तुलापुरुषदानाद्यैः कोटिब्राह्मणभोजनम्।
तत्फलं समवाप्नोति सुभोक्तव्यं व्रतादिषु।
अन्नन्त्वामलकं न्यूनम् एकवारं तु पादुकाम्।
प्राश्य श्राद्धादिकर्तव्यं तेन तुष्यो जनार्दनः।इति वचनात्
*अनन्तसंहितायाम्
प्रासादं कृपया दत्तं विष्णुभुक्तोज्झितं यदि।
उपवासच्छलान्नाति तमाहु ब्रह्मघातुकम्।
आर्द्रामलकमात्रं तु नैवेद्यं पुरतो हरेः।
नाचामेनाग्निसंस्कारो प्राशयेदविचारतः।
अन्यवर्णैहीनवर्णैः शाङ्करप्रभृतैरपि।
द्रष्टं जगत्पतेरन्नं भुञ्जेत्सर्वाघनाशनम्॥
[[30]]
*पारमेश्वरे
मधुरादिरसोपेतं दधिक्षीरादिकस्य च।
दूषणं न प्रयोक्तव्यं सद्देशै प्रतिपत्तिजैः।
निर्माल्यबुद्ध्या देवं यं पावना दूषयन्ति ये।
ते यान्ति नरकं मूढाः तत्प्रभावा पलापिनः।
प्रत्येक्षेणप्रमाणेन लोकदृष्टेण हेतुना।
शिष्टैरनुष्टिता चैव वैष्णवस्य पवित्रतः।
सिद्धापादोदकां तस्य महता देवपूजितः।
*ब्राह्मपुराणे
विष्णोर्नैवेदितं शुद्धं मुनिभिर्भोज्यमुच्यते।
अन्यैर्निवेद्यं निर्माल्यं भुक्तो चान्द्रायणं चरेत्। इति
एभिर्वचनैः श्रीभगवतः श्रियादिदेवीनां चक्रादिपञ्चायुधानां ,गरुडस्य च यद्वस्तु निवेदनं
तद्वैष्णवैर्भोज्यं स्नानादा इत्युपक्रम्य पादोदक अन्तस्येत्युपसंहराद् भगवदभिषिक्त दधिक्षीरमध्वादि
द्रव्यस्य भगवदुपयुक्त गन्धपुष्पमाल्यादीनि सर्वस्यापि सङ्ग्रहः प्रतीयते।तस्माद् अभिषेचनादि
सर्वद्रव्यमपि ग्राह्यं भोज्यमिति निर्णीतम्।
विष्वक्सेनादि भक्तानां च पृथक् पाचितान्नं पूजनं चेद् अन्य अन्नादीनि
अग्नौ,जले वा
निक्षिप्य।तानि न भुञ्जित।भगवन्निवेदितान्नेन तेषां पूजनं चेत् तानि अन्नादीनिसर्वं वैष्णवैः
भोजयेयुः।आलय भगवन्निवेदितान्नेन स्वगृहार्चा भगवतः पूजनं कार्यम्।श्रीभगवत्पादोदकेन पितृणां
तिलतर्पणं कृत्वा। श्रीभगवन्निवेदितान्नेन श्राद्धादिषु पितृभोजनं कारयेत्।पूर्वोक्त श्रीभगवदादि
तार्क्ष्यनिवेदनं विना अन्यनिवेदितं यो भुञ्जित सः चान्द्रायणं व्रतेन
शुद्धी भवति।
श्रीभगवन्निवेदितं तीर्थम् अन्नादिकं च यो प्राशयेत् सः सहस्रैकादशी
व्रतफलम्, कोटिअमासङ्क्रान्ति
श्राद्धफलं च प्राप्नोति।
एकादशी श्राद्धव्रत गौरवत्या तीर्थं प्रसादं च यो न प्राशयेत् सः
ब्रह्मघातुकः। इति
दोषप्राप्तिः,श्राद्धदिनेष्वपि भोक्तव्यं,भगवान् तुष्यति।भगवत्सन्निधौ यदृच्छया प्राप्ततीर्थं,अन्नादिकं सङ्गृह्य
भगवदभिमुखे एकवारं तीर्थम् आमलकात्किञ्चिन्यूनं प्रसादं च प्राश्य श्राद्धादि व्रतमनुष्ठेयम् इति निर्दिष्टम्॥
[[31]]
केचितेकवारं तीर्थं प्राश्य, अन्नादीनि घ्राणेन स्वीकरणं कुर्याद् इति प्राहुः॥
इति भगवन्निवेदिताऽन्नादि प्राशन महिमा नाम त्रयोविंशति बिन्दुः
<<<<____>>>>
24 पूजाकाले, आचार्यस्थिति निर्णयः
(अभिवलजं स्थितिः)
*श्रीः
तिरस्करिण्या सञ्छाद्य तद्द्वारं गुरुसत्तमः।
देवस्य दक्षिणं पार्श्वं गत्वा विष्टरमास्थितः।
विष्वक्सेने
निष्कामो दक्षिणेपार्श्वे स्थित्वा देवं समर्चयेत्।
पश्वादिफलकामस्तु सुखासीनो यजेद्धरिम्। इति
*जयोत्तरसंहितायां
देवस्य दक्षिणेपार्श्वे त्वासीनस्स्वार्थपूजनम्।
तिष्ठन् परार्थयजनं कुर्याद्देशिकसत्तमः।इति
*भार्गव संहितायां
स्वार्थेज्यायां समासीनः यजेद्देवं परार्थके।
आसीनस्वार्थयज्ञार्थं ततो स्थित्वा यजेद्धरिम्।इति
*याज्ञवल्ख्य संहितायाम्
आसीनो वा स्थिता वापि हृद्यागान्तं समाचरेत्।
भोगयागं तु स्थित्वैव कुर्याद्देशिकसत्तमः।
*ईश्वरे
श्रीदेवस्याग्रतो वापि दक्षिणम् भागमाश्रयेत्।
ईश्वरप्राग्वशादेवह्युत्तराभिमुखो द्विजाः।
*सच्चरित्रसुधानिधौ
सेवाजपं प्रणामं च स्तुतिम्पूजां च सर्वदा।
[[32]]
देवस्य दक्षिणेपार्श्वे कर्माण्यन्यान् समाचरेत्। इति
एभिर्वचननिचयैः भगवदभिमुखं प्राचीदिग्चेद् भगवदाराधकः भगवद्दक्षिणेपार्श्वे उत्तराभिमुखः
तिष्ठन् भगवन्तम् आराधयेत्।भवान् इतर दिगभिमुखीचेत् तदा देवप्राची क्रमेण देवस्य दक्षिणपार्श्वमासाद्य
भगवन्तम् अर्चयेत्।
परार्थ यजनपूजकः देवस्य सव्येतरेस्थितः वा आसीनो वा भूतशुद्ध्यादि
मानसयागान्तं कृत्वा।
अथ तिष्ठन् बाह्याराधनं कुर्यात्।निष्कामस्येवमेव आराधयेत्।काम्यार्थीनस्तु
स्वार्थपूजने देवस्य
दक्षिणेपार्श्वे सुखासीनस्सन् भूतशुद्ध्यादि बाह्ययाग पूजनान्तं
भगवन्तमर्चयेत्॥इति निर्णीतम्।
इति पूजाकाले,आचार्यस्थिति निर्णयःनाम चतुर्विंशतिबिन्दुः ।
<<<<____>>>>
25. आराधन भेदक्रम निरूपणं नाम पञ्चविंशतिबिन्दुः
*पौष्कर संहितायाम्
आराधनादिभेदानि वक्ष्यामि श्रुणु पौष्कर।
स्वान्तर्यागादि उत्सवान्तं समाराधनमुच्यते।
*श्रीप्रश्ने
नित्योत्सवान्तं दैत्यारेः पूजनन्तूत्तमोत्तमम्।
*पाद्म संहितायाम्
उत्सवावसितं श्रेष्ठमाराधनमुदाहृतम्।
इति अन्तर्यागानन्तरं मन्त्रासनादि नित्योत्सवान्तम् आसनपञ्चकयजनं समाराधनम्
इति निर्णीतम्।
तथा बल्यान्त यजनमाराधनमथश्श्रुणु।
अत्र पाद्मे
अवश्यं भाविनौ तेषु बलिनित्योत्सवावुभौ।
जयाख्ये- बल्यन्तमर्चनङ्कुर्याद् द्विकाले वा मुनीश्वर।
पूर्वोक्त नित्योत्सवान्तयजने नित्योत्सवबिम्बस्य उत्सवरहितं
बलिप्रदानान्तं कृतंयजनं,
आराधनमिति निर्दिष्ठम्।तथैव हवनान्ते तु यजनं सम्पूजनम् इति नाम।
[[33]]
श्रीप्रश्ने
होमान्तञ्चोत्तमं विद्धि पाद्मे मानसयागादि होमान्तम् अनुष्ठितं यज्ञं सम्पूजनमिति निश्चितम्।तद्वद्
भोज्यान्तयजनं पूजनाख्यमितीरितम्॥
एवं चतुर्विधं प्रोक्तं गर्भगेहे विधीयते।इति
प्रापणान्तं च मध्यमम्, पाद्मे-प्रापणान्तं तथाऽधमम्, इति चित्तसमर्चनात्परं मन्त्रासनादि
भोज्यविष्टरान्तयजनं,पूजनम् इति उक्तम्। एतेषु चतुर्विधपूजनेषु एकन्त्वाराधनं प्राह्न,
रात्र्याख्य कालद्वये वा, विभवानुगुणं यजनम् आचरेत्।
मन्त्रन्यासादि भोज्यान्तं यज्ञमभ्यर्चनाह्वयम्।
तत्र गर्भगेहे पूर्वमेव भगवद्बिम्बे भगवदावाहितत्वाद् बहिर्मण्डपादिषु
हृद्यागादि आवाहनान्त
कर्मरहितं मन्त्रन्यासादि भोज्यान्तं यजनम् अभ्यर्चनम् इति नाम।
त्रिविष्टरयुतस्नान हीनमर्चनमिष्यते।इति अत्र स्नानासनं विना आसनत्रयपूजनम्
अर्चनम् इति
निश्चितम्। भोज्यासनसमर्चा तु प्रपूजनमिति प्रकीर्तितम्। अत्र भोज्यासनोक्त उपहारैः उपचारैश्च कृता
अर्चा प्रपूजा इति विख्याता।
आसनादि अन्नदानान्तयजनं क्षिप्रपूजनम् इति आसन,अर्घ्य,पाद्य,आचमन,
सप्रतिग्रह,गन्धमाल्य,धूपदीप मात्रादान अर्हण,निवेदन, पानीय,ताम्बूल, नीराजन, नमस्कारान्त
षोडशोपचारार्चनं क्षिप्रपूजनम् इति उच्यते॥ (षोडशोपचारलक्षणम् इति) इत्यत्र-
*ईश्वरसंहितायाम्
आसनार्घ्यो ततः पाद्यम् आचामं स प्रतिग्रहम्।
गन्धम्माल्यं धूपदीपं मात्रादानं क्रमेण तु।
दत्वा भोज्यासनान्तं तु क्रमाद्दद्याद्विधानतः।इति वचनात्।
*जयसंहितायाम्
अष्टाष्टकैस्तदर्धैर्वा तस्यार्धैर्वा यथारुचि।
[[34]]
क्षिप्रकर्म प्रसिद्ध्यर्थं पूजयेत्पुरुषोत्तमम्।इति आसनसमर्पणादि निवेदनान्त षोडशोपचार
यजनम्॥क्षिप्रपूजन मिति निर्णीतम्। यज्ञागारे मण्डपे च एतेष्वेकेन पूजयेत्।
इति।
व्याख्यानम् अत्र पूर्वोक्त अभ्यर्चन, अर्चन, प्रपूजा, क्षिप्रपूजा,
यजन,चतुष्टयेषु
देशकालसमय,विभवादिकम् अनुसृत्य एकेन पूजनेन मण्टपे भगवन्तं यज्ञागारे कुम्भमण्डलादींश्च
पूजयेदिति निश्चितम्।
अर्घ्यादि मधुपर्कान्तमर्चा पूजेति विश्रुताः। इत्यत्र
*श्रीप्रश्ने
अर्घ्यं पाणिप्रक्षालणं चैव पाद्यमाचमनं तथा।
गन्धम्माल्यन्धूपदीपं मधुपर्कं निवेदयेत्। ।
पञ्चामृतं वापि ततः श्रीभूम्योरर्चनं चरेत्।
*पाद्मे
इति विज्ञाप्य देवेशं यजेदर्घ्यादिभिःक्रमात्।
उपचार्योपचारेण मधुपर्कादिना हरिम्।
(इति अर्घ्यादिपूजन नवोपचारायुक्ता।)
अर्घ्यादि मधुपर्कान्त चतुष्कोपचारसहितार्चा च।पूजा।
क्षुद्रपूजा विवरणम्
अर्घ्यादि फलपूजान्ता क्षुद्रपूजेति कीर्तिताः।
श्रीप्रश्ने
अधमं धूपदीपं च क्षुद्रमर्घ्यादिपूजनम्।
किञ्च- उपरागोत्सवे स्नानविष्टरे यानगेपि च।
हविर्विना क्षुद्रपूजां कृत्वा शर्करयान्वितम्।
तिलचूर्णं मुद्गदलं पृथुकं वा निवेदयेत्।
*याज्ञवल्क्यसम्हितायां
यागागारद्वारपूजा स्नपने कुम्भपूजनम्।
क्षुद्रेण कारयेद्विद्वान् तत्तत्कर्मानुसारतः।
[[35]]
*जयसंहितायां
क्षुद्रार्चायां फलादीनि मुद्गादि च निवेदयेत्।
इति वचनात् क्षुद्रं तु धूपदीप फलादि निवेदनान्त,उपचार चतुष्टययुतात्
क्षुद्रपूजा इति
निर्णीतम्।एषा पूजा ग्रहणादि पुण्यकालयजने स्नानार्चायां वा वाहनस्थित कालार्चने यागशालादि
द्वारपूजायां स्नपनकाले कुम्भादिपूजने पुण्याहसपर्यायां परिवारार्चनादि
पूजासु च अनुष्टीया।
इति आराधन भेदक्रम निरूपणं नाम पञ्चविंशति बिन्दुः।
<<<<____>>>>
26. रक्षाबन्धन कर्तव्य आचार्य निर्णयोनाम षड्विंशद्बिन्दुः
श्रीः
मात्रापित्रोर्दीक्षितश्च विधुरो मलिनीपतिः।
श्राद्धकर्ता च पत्न्यान्तु गर्भिण्यामपि दीक्षितः।
कङ्कणं तु न बध्नीयात् तदाचार विगर्हितः। इति
*शाण्डिल्ये-विधुरो ब्रह्मचारी च वानप्रस्थोऽथ बिक्षुकः।
परार्थं कर्मकुर्वाणो पातयन्ति पतन्ति च।
*पाद्मे
अनाचार्यप्रतिष्ठायां पुनस्थापनमाचरेत्।
आचार्यो पादमारूढो वैधुर्योद्यल्पदोषवान्।
अधिकार्येव विज्ञान पारंयातयदि स्वयम्।
*विष्वक्सेने
कर्षणादिप्रतिष्ठान्तं प्रतिष्ठाद्युत्सवान्तिके।
प्रायश्चित्ते च दीक्षायां चक्रमण्डलसञ्ज्ञिके।
आचार्यत्वे च ऋत्विक्च विधुरं बृह्मचारिणम्।
न वृणीयाद्वनप्रस्थाः गृहस्था वृणुयात्सुधीः।
विधुरादि कृता कर्म निष्फलं दुःखदं भवेत्।
नित्याराधन मात्रं तु तैःकार्यं सङ्कटादिषु।
[[36]]
*विष्णुतिलके
परार्थयजनं कुर्यान् मध्यमाश्रमिणो मतौ।
नाद्यन्ताश्रमिणौ ब्रह्मन् प्रतिष्ठोत्सव कर्मसु।
आचार्यगुणसम्पन्नाः ऋत्विजो वरयेत्ततः।
एभिर्वचनैः बृह्मचर्य वानप्रस्थः मातृपित्रोर्दीक्षिताः गर्भिणीपति च
दीक्षादिकर्मसु च प्रतिष्ठादि
उत्सवान्त कर्मसु अनर्ह एव।किञ्च
परार्थ विषये
गृहस्थाश्रमिणः आचार्यत्वादिकं निर्दिष्टम्।
विधुरादीनाम् आचार्यत्वं गर्हितमेव, गुरुणादिष्टैः तैःनित्याराधनमात्रं
कार्यम्। भगवद्वंशजेन
अदीक्षितेन भगवद्वंशरहितेन दीक्षितेन गृहस्थेन च अनुष्ठिभिः अनाचार्यप्रतिष्ठायाः पुनः
करणमेव।प्रायश्चित्तं भवति।तदपेक्षया भगवद्वंशजाः दीक्षिताः विधुरादयः आचार्याः वैधूर्यादि
अल्पदोषयुक्ताऽपि प्रतिष्ठादिकं कुर्युः। गृहस्थ आचार्याऽलाभे तु विधुरादयः
कुर्युः।
मुख्यकल्पाधिकारिणः स्थिते अनुकल्पाधिकारिणः आचार्यत्वं न सिद्ध्यति।
इति रक्षाबन्धन कर्तव्य आचार्य निर्णयो नाम षड्विंशद्बिन्दुः (26)
<<<<____>>>>
सप्तविंशति बिन्दुः (27&28)
आचार्य ऋत्विजाम् आशौच विधिः
*सूतकं वा मृताशौचं पूजारम्भे श्रुतं यदि।
आशौचमाचरेद्विद्वान् पूजान्ते विधिवद्रमे।श्रीः-ईश्वरे।
**पाद्मे
कर्मणिस्नपनादौ तु प्रवृत्ते देशिकोत्तमः।
सूतकं वा मृताशौचं श्रुणुयान्नाऽशुचिर्भवेत्।
एभिर्वचनैः सङ्कल्पपूर्वकम् अनुष्टीयमान कर्मसु सङ्कल्पाऽनन्तरं वा पूजा
मध्ये वा स्नपन मध्ये वा
सूतकाऽऽशौचं मृताशौचं श्रुतं चेत् तत्तत्कर्माऽनन्तरमेव आशौचानुष्ठानम्।
[[37]]
किञ्च
*श्रीप्रश्नसंहितायाम्.रक्षामङ्गलसूत्रं वा बध्नन्वर्तेत देशिकः।
शावाशौचं सूतकं च तस्य नास्ति जलोद्भवे॥
*ईश्वरे
महोत्सवाद्युत्सवेषु प्रतिष्ठा प्रोक्षणादिके।
कर्मणिस्नापनादौ वा बद्धप्रतिसरो गुरुः।
ऋत्विजं च तथा भूताःमध्येप्याशौच सम्भवे॥
भवन्ति नैवाशुचयः तत्तत्कर्मावसानकम्।
शावं वा सूतकाशौचं कर्माऽनन्तरमाचरेत्।
कर्ममध्ये स्नानमात्रं कार्यं शावस्य सम्भवे।
एभिर्वचनैः प्रतिष्ठादिषु महोत्सवादिषु वा बद्धप्रतिसरे गुरुः प्रतिसरबद्धम्
आचार्यः तथा भूताः
ऋत्विजाश्च प्रतिसरबन्धनाऽनन्तरम् आशौचम् आचरेयुः।
अन्यत्र आशौचसम्भवे स्नानमात्रं कुर्यात्॥इति निर्णीतम्।
*श्रीप्रश्ने
स्नानानमात्रं भवेत्येव।किञ्चिद्भेदस्त्वथ ऋत्विजाम्।
कर्म मध्येपि चा शौचं मृतेत्वात्मान्वितं भवेत्।
पितामाता ज्येष्ठपुत्रभार्या चात्मान्विताः स्मृताः॥
तत्कार्ये देशिकस्त्वन्यं दीक्षयित्वा नियोजयेत्।इति
तदा गुरोरभ्यनुज्ञांलब्ध्वाऽन्यो देशिकोत्तमः।
तद्दोषस्य प्रशान्त्यर्थम् उत्तमोत्तम मार्गतः।
देवं संस्नाप्य शान्त्यर्थं हुत्वाऽऽहुति सहस्रकम्।
गो भूतिलादिकं दत्वा ब्राह्मणान् भोजयेद्बहून्।
ततस्समापयेत्कर्म पूर्णाहुति समन्वितः॥
*श्रीप्रश्ने
प्रतिष्टादिषु कार्येषु दीक्षितो गुरुसत्तमः ।
एकपुत्रस्तस्य पिता प्राप्नुयात् पञ्चतां यदि ॥
[[38]]
बद्धप्रतिसरो गत्वा श्मशानं पादुकां धरन् ।
अस्थिसञ्चयनान्तं च कर्म कृत्वा यथाविधि ॥
स्नात्वा चालयमागत्य घटैः षोडशभिस्ततः ।
अभिषिक्तो मन्त्रविद्भिर्देवकार्यं ततश्चरेत् ॥
उत्सवान्ते देवकार्यं समाप्य च यथाविधि ।
आशौचं कर्मकाण्डोक्तं दशरात्रं समाचरेत् ॥
तर्पणं पिण्डदानं च श्राद्धं चापि सपिण्डनम् ।
पाञ्चरात्रोक्तमथवा कुर्याद् देशिकसत्तमः ॥इति
* वासुदेवसंहितायाम्
उत्सवे वर्तमाने तु देवदेवस्य शार्ङ्गिणः।
दीक्षितस्य पितुर्मातुःमरणं सम्भवेद्यदि।
एकपुत्रोभवेत्वापि संस्कारं पितृ कानने।
पादुकारोहणं कृत्वा द्वादशाक्षरमन्त्रतः।
अग्निं दत्वा स्वहस्तेन स्नानं कृत्वा विशेषतः।
आचार्येणाऽभिषिच्याथ ध्यान धारणपूर्वकम्।
देवालयं सम्प्रविश्य शेषकर्म समाचरेत्।
यावत्कर्मावसानं तु तावत्कालं न बाध्यते।
पितृकार्याणि सर्वाणि पश्चात् स्मार्तानिचाचरेत्।इति
*शण्डिल्ये
ज्येष्ठस्य तु कृतोर्मध्ये मातापित्रोर्मृते यदि।
संस्कृत्य शालामागत्य यज्ञशेषं समापयेत्।
*सनत्कुमारे
महोत्सवाद्युत्सवेषु शावं सूतकमेव वा।
आपतेद्यदि सर्वेषां सद्यश्शौचं विधीयते।
मातापित्रोर्मरणे भार्यापुत्रादि मारके।
गुरोर्नाशौचमन्यानाम् आशौचं भवति ध्रुवम्।
[[39]]
एभिर्वचनैः पादुकाधारन पूर्वकं द्वादशाक्षरमन्त्रेण प्रेतोपरि वह्निं निक्षिप्य। नद्यादिषु पादुका
विसर्जनपूर्वकं स्नपयेत्। ततः परं षोडशकलशस्नानेन आत्मानं शुद्धीकृत्य भगवत्सन्निधिमासाद्य,पूर्ववत्
प्रायश्चित्तपूर्वकं शेषकर्माणि कुर्यात्। परमेव आशौचानुष्ठानम्.।तस्मात् कर्मान्ते प्रतिसरविसर्जनाऽनन्तरं
जवेन बहिरागत्य आशौचकर्माणि आचरेत्।मातृ पितृ विषये दहनादि कार्योक्तत्वात्, पुत्र
भार्यादीनामनुक्तत्वात् तेषां मरण विषये दहनसञ्चयनादि कर्माणि अन्येन
बन्धुना कारयेत्।
*सनक संहितायां
दीक्षितो क्षौरमभ्यङ्गं सङ्घान्नं पैतृकं तथा।
मलिनीदर्शनं चैव वर्जयेन्मर्दनादिकम्।
एभिर्वचनैः बद्धप्रतिसरयोर्वर्तते सः
दशाहादिसङ्घान्नं,इष्ठपङ्क्तौ,पितृशेषान्नं, विवाहादि
सङ्घान्नम्,असच्छूद्रद्रव्यान्नं,क्षौरम्,अभ्यङ्गं,स्त्रीसङ्गमं,बहिष्ठास्त्री
दर्शनं च सन्त्यजेत्। इति निर्दिष्टम्।
इति प्रतिसरबन्धन आचार्यनियमाः नाम(27&28) अष्टाविंशति बिन्दुः।
<<<<____>>>>
29 एकोनत्रिंशति बिन्दुः
मूलमन्त्र प्रशंसा विधिः
श्रीपाञ्चरात्र आगमशास्त्रेषु सर्वकर्मसु सर्वत्र आवाहन,स्नपन, आराधन, होमादिषु पूर्णाहुत्यादिषु च
मूलमन्त्रेन कुर्यात्. इत्यादि श्रूयते।तत्र मूलमन्त्रशब्देन किं द्वादशाक्षरमन्त्र इत्यर्थः।तत्र अष्टाक्षरमन्त्र एव
इति केचित्।अपरे पुनः द्वादशाक्षर मन्त्र एवेति सङ्गिरन्ते।द्वादशाक्षर मन्त्रग्रहणं न्यायम्।इति
प्रतिपाद्यमाह।तथा हि मूलमन्त्र इत्यत्र द्वादशाक्षरमन्त्र एव इति उपपत्तेः न च तत्प्रमाणाऽभावः श्रीप्रश्न,
पारमेश्वरादि संहितादिषु स्पष्टतया प्रतिपादितत्वाद् वासुदेवप्रतिपादितस्य, एकायनवेदस्य तन्मूलक
पाञ्चरात्र शास्त्रस्यापि मूलशास्त्रत्वं मूलवेदत्वमपि प्रतिष्ठापयन्ति। पाञ्चरात्रप्रवर्तकाः एकतादिमहर्षयः-
[[40]]
*श्रीप्रश्ने
जगन्मूलं वासुदेवं मुख्यतः प्रत्यपादयत् ॥ 471 ॥
तच्छास्त्रं मूलवेदाख्यमित्यपि प्रोच्यते बुधैः ।
*पारमे-ईश्वरेऽपि
जगन्मूलस्य देवस्य वासुदेवस्य मुख्यतः ।
प्रतिपादकतासिद्धा मूलवेदाख्यता द्विज ! (द्विजाः॥)
इत्यादि वचनैः जगन्मूलकारणभूतस्य वासुदेवप्रतिपादकशास्त्रस्य मूलशास्त्रत्वं ,मूलवेदत्वं,
उक्तत्वात् तत्प्रतिपादक द्वादशाक्षर मूलमन्त्रत्वं सिद्धम्। श्रीप्रश्ने मूर्तिभेद,मुद्राभेद,कथनावसरे अष्टाक्षर
रूपिणः, नारायणस्य वासुदेव आविर्भूतस्य उक्तत्वेनापि न मूलमन्त्रशब्देन। अष्टाक्षरमन्त्रः गृहीतं
शक्यते।
द्वितीयं वासुदेवं च तदुत्पन्नौ च तावुभौ।
वासुदेवस्तथान्योपि नारायण इति स्मृतः।
*पाद्मे
वासुदेवात्ततो जाता वासुदेवस्तथाऽपरः।
आत्मानं सद्विधा चक्रे पुनः केनापि हेतुना।
तयोरेको वासुदेवः शुद्धस्फटिकविग्रहः॥
नारायणद्वितीयोस्तु नीलाम्बुध समप्रभः।
*विष्णुतिलके
भानुचक्रान्तरगतं द्विहस्तं चक्रधृक्परम्।
तद्ध्येयं योगिभिर्नित्यं वासुदेवाह्वयं महः।
चत्वारो जज्ञिरे तस्माद् व्यूहाख्याः पुरुषोत्तमः।
एभिर्वचनैः श्रीप्रश्न, पाद्म, विष्णुतिलक, वचनैः परवासुदेवाद्
व्यूहवासुदेव नारायणादि
भगवन्मूर्तीनाम् आविर्भावोक्त्या च वासुदेवमन्त्रस्यैव मूलमन्त्रम् इति न्याय्यम्।
[[41]]
*पारमेश्वरे
अथ हस्तद्वये न्यस्य दीप्तिमद् द्वादशाक्षरम् ॥ 5॥
मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः ।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ 6॥इत्यारभ्य
मूलमन्त्रादिजापञ्च इत्युपसंहारान् मूलमन्त्रशब्दम् इति द्वादशाक्षर एव
सिद्ध्यति।
*पाद्मे
मूलमन्त्र इति प्रोक्तः साक्षाद्देवस्य वाचकः।
प्रसूयन्ते मन्त्रलतां प्रसूतिमणिमादिकाम्॥145॥
किं पुनर्धर्मकामार्थी सिद्धिं कमलसम्भव।
नासाध्यमस्ति मन्त्रेण द्वादशाक्षररूपिणा॥146॥
सर्वलोकेषु सर्वत्र सत्यमेतद्ब्रवीमि ते।
नास्मात्परतरो मन्त्रो विद्यते सर्वकामदः॥147॥
इत्यत्र सिद्धये मूलमन्त्रस्य इत्यारभ्य अन्तेद्वादशाक्षररूपिणा।
इत्युपसंहाराद् द्वादशाक्षरस्यैव
मूलमन्त्रत्वं स्पष्टम् प्रतीयन्ते।तस्यैव सङ्कर्षण, नारायणादि भगवन्मूर्तिद्वारा , वासुदेवप्रतिपादिकत्वं विना
अद्वारेण परवासुदेव प्रतिपादिकमपि तत्रैव उच्यते। साक्षाद्देवस्य वाचकः इति अत एव वासुदेव
प्रतिपादकत्वात् प्रसूयते मन्त्रलताम् इत्युक्तत्वाद् भगवन्मन्त्राणां
मूलकारणत्वं च दृश्यते।
*श्रीप्रश्ने
मूलम् अष्टार्णमथवा षडक्षरमथापि वा।
*ईश्वरे
यस्मिन् यस्मिन्नमन्त्रोऽत्र विहितः कर्मणि द्विजाः !
अष्टाक्षरेणमन्त्रेण तत्तत् कुर्याद्विचक्षणः ।
अथवा सर्वकर्माणि मूलेनैव समाचरेत्। ॥
इत्यादि वचनैः द्वादशाक्षरस्यैव मूलमन्त्रत्वं सिद्ध्यति।
[[42]]
*पारमेश्वरे
यस्मिन् यस्मिन्नमन्त्रोऽत्र विहितः कर्मणि द्विज ! 316॥
द्वादशाक्षरमन्त्रेण तत्तत् कुर्याद्विचक्षणः ।
अथवा सर्वकर्माणि द्वादशाक्षरविद्यया ॥ 317॥
इति द्वादशाक्षरमन्त्र एव मूलमन्त्रः।
*शाण्डिल्य स्मृतौ
देवानामपि सर्वेषां यथा नाथो जनार्दनः।
द्वादशाक्षरमन्त्रोयं मन्त्राणां नाथ उच्यते।
ओमित्येकाक्षरं साक्षाद् वासुदेवस्यवाचकम्।
*श्रीः
स्नात्वा शुद्धाम्बरो मौनी पाणिपादं च शोधयेत्।
मन्त्रमुच्छरन्मूलं यद्वाऽष्टाक्षरमेव वा।
इति मूलमन्त्र निर्णयो नाम एकोनत्रिंशति बिन्दुः
<<<<____>>>>
30 त्रिंशति बिन्दुः
पादुकाधि देवता निर्णयम्
पादुकार्चन विषये- क्रियाकैरवचन्द्रिकाप्रयोगान्तरस्थम् अनन्तपदम् आदिशेषार्थ
बोध्यमिति व्याकुर्वाणाः।
पादुकायाम् अनन्तआवाहन काले आदिशेषमेव ध्यायन्ति। केचित्
**श्रीप्रश्न, ईश्वरसंहितादि अनवलोकन मूलमेव वचनम्-
*तथाहि श्रीप्रश्ने
भद्रपीठे पादुकायां शिबिकायां ध्वजे तथा।
गजाश्वयोःरथेसिंहे हंसे तार्क्ष्यं तु चिन्तयेत्।इति वचनात्
[[43]]
*ईश्वरे
प्रभायां तु प्रभादेवि पीठेऽनन्तादयस्तथा।
पादुकायां वैनतेयं घण्टायां तु सरस्वती।
शिबिकायां तथा याने हंसकेसरिणोस्तथा । 520 ।
गजाश्वयो रथश्चैव गरुत्मानेव देवता ।
*श्रीप्रश्नं
कनकाचलगाम्भीर्यमहीन्द्राभरणोज्ज्वल।
छन्दोमयङ्गरुत्मन्तं पादुकायां विचिन्तयेत्।
पौष्करे-पन्नगाशनगायत्र्या पादुकां पाद्यवारिणा।
प्रक्षाल्य गन्धपुष्पाद्यैः तार्क्ष्य मन्त्रेण पूजयेत्।
अथ स्नानासने देवदेवीभ्यां पादुकार्पणम्।इति
*जयाख्ये
पाद्यात्किञ्चिदादाय पादुके तार्क्ष्य विद्यया।
प्रक्षाल्य स्नातुमुत्थाने समये देवदेव्ययोः।
ते दत्वा पादुकारोहं स्मृत्वा स्नपनमाचरेत्।इति
एभिस्संहितावचनैः पादुकाधिदैवताय गरुड इति निर्णीयते।
एवं च अनन्तपदस्य गरुड इति प्रतिपाद्यमाह.
*श्रीभागवते दशमस्कन्धे
विज्ञाय भगवान् तत्र बभूव गरुडध्वजः।
गिरिपादविनिष्पिष्टान् विलोक्यामरदानवान्।
कटाक्षैर्जीवयामास निर्झरान्निर्वृणान्यथा।
गिरिश्चारोप्य गरुडे हस्तेनैकेन लीलया।
आरुह्य प्रययावाब्धिं सुरासुरगणैर्युतः।
अवरोप्य गिरिस्कन्धात् सुपर्णः पततांवरः।
ययौ जलान्तमुत्सृज्य हरिणानु विसर्जितः।
इत्यादिवचनैः गरुडेनाहृतः मन्दरगिरि इति
[[44]]
*श्रीभारते आदिपर्वे –आस्तिकपर्वणि
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः।
ततोऽनन्तं समुत्थाय ब्रह्मणा परिचोदितः।
नारायणेनचाप्युक्तः तस्मिन् कर्मणि वीर्यवान्।
अतः पर्वतराजानं तमनन्तो महाबलः।
इत्यत्र व्याख्याने- फणीनाम् ऐश्वर्यं द्रावयतीति व्युत्पत्या फणीन्द्रः।
गरुडः इति श्रीवादिराजस्वमि
व्याख्याने अयमत्र अवगन्तव्यः।फणीन्द्र अनन्तपादयोः पर्यायत्वेन प्रयोग
इत्येषः।
अतः गरुडेन आह्वतः मन्दरगिरिः इति निर्णीतः।
महाभारत निर्णयग्रन्धे-तदाज्ञया नित्यबलत्वहेतुतो यो अनन्तनामा
गरुडस्यांसके उत्पाट्यचैकेन
करेणमन्धरो निधाय तस्तं सहसात्वया सह इत्यत्र।
*मध्वाचार्यकृत व्याख्यायां मन्धरः-अनन्ते निधापितः इति।
ग्रन्धान्तरविरोधं,परिहरन्नाह नित्ये
निधापितः स्थापितः। गरुडः त्वयासह मन्धरम् अवहत्॥इति
*ब्रह्माण्डपुराणे
अनन्ताड्यो मन्धरस्तु यदा वैवस्वतान्तरे।
अमृतार्थस्सुपर्णोढः चाक्षुषस्यान्तरे मनोः।
इति ब्रह्माण्डपुराण वचनाविरोधः नित्यबलत्वहेतो योऽनन्तनामा गरुड इति
अनेनैव परिहृतः।
*श्रीमद्भागवते दशमस्कन्धे
अव्याकृतमनन्ताख्यम् आसनं यदधिष्ठितम्।
त्रिवृद्वेदस्सुपर्णाख्या यज्ञं वहन्ति पूरुषम्।
इति वीरराघवीय व्याख्याने-अनन्ताख्यं शेषाख्यम् आसनं यज्ञं यज्ञाराध्यं
परमपुरुषं वहन्ति
तद्वाहनरूप इत्यर्थः।कोसौ सुपर्णाख्यः गरुडः सः त्रिवृद् वेदः वेदाभिमानि गरुडः इत्यर्थः।
[[45]]
*श्रीभागवते- श्रीभारत,महाभारतनिर्णयग्रन्धा,ब्रह्माण्डपुराण वचननिचयैः व्याख्याभिश्च परिवारेषु
शेषस्य आसनार्थत्वं गरुडस्य। वाहनार्थस्य च स्पष्ठं प्रतीतेः।गमनसादिनीभूत गरुड एव देवता।इति
पाञ्चरात्र वचनैश्च स्पष्ठं प्रतीयन्ते।
अतः प्रकृतेः पादुकावाहन प्रकरणस्थस्य अनन्तपदस्य अन्यपदस्य च वैनतेय एव
अर्थ इति
निश्चितमैवेतत्॥
इति पादुकाधिदेवता निर्णयम्- नाम त्रिंशति बिन्दुः
<<<<____>>>>
31 एकत्रिंशति बिन्दुः
अर्चावतार जन्मर्क्ष निर्णयम्
*श्रीप्रश्ने
बिम्बाविर्भाव ऋक्षे वा प्रतिष्ठातारकेपि वा।
तत्तिथौ वा तीर्थयात्रां निश्चित्याङ्कुर पूर्वकम्।
*सनन्दनसंहितायां
स्वयंव्यक्ते तथा दिव्ये देवाविर्भावदिनं शुभम्।
सैद्धादिमानुषान्तेषु प्रतिष्ठा तारकेपि वा।
तत्तिथिश्च शुभा प्रोक्ता तासु तीर्थोत्सवं शुभम्।
पञ्चदश्योरवभृथं सागरेत्वाचरेद्बुधः।
एभिर्वचनैः स्वयम्व्यक्तस्थलेषु भगवदाविर्भाव नक्षत्रं ,दिव्यस्थानेषु
ब्रह्मादिदेवतादीनां भगवत्प्रत्यक्ष
दिन नक्षत्रं,सैद्धादि मानुषान्त प्रतिष्ठित स्थानेषु प्रतिष्ठादिन नक्षत्रं
च भगवदर्चावतार जन्मनक्षत्रमिति ग्राह्यम्।
तथैव आविर्भाव तिथिः प्रतिष्ठातिथिश्च भगवदर्चावतार जन्मतिथिरिति
ग्राह्या।तयोः नक्षत्रे वा तिथौ
वा अवभृथं निश्चित्य महोत्सवादिकं कुर्यात्।समुद्रे अवभृथे सति दर्शे,पौर्णिमायां वा अवभृथं निश्चित्य
महोत्सवादि उत्सवं समारभेत्॥
इति अर्चावतार जन्मर्क्ष निर्णयं नाम एकत्रिंशति बिन्दुः॥
<<<<____>>>>
[[46]]
32 तिथि नक्षत्र निर्णयं नाम
द्वात्रिंशति बिन्दुः
*श्रीप्रश्नं
सम्पूर्णा रोहिणी यस्याम् अष्टमीकलयायुता।
सम्पूर्णायं तथाऽष्टम्यां रोहिणीकलयायुता।
पूजनं तद्दिनेकार्यं महत्पातकनाशनम्।
कृत्तिकाकलयायुक्ता सप्तमी कलयायुता।
अष्टम्यां वापि रोहिण्यां पूजनं निष्फलं भवेत्।
ईश्वरे
सूर्योदयेपि सप्तम्या तथा कृत्तिकायापि च ।
कलयापि ह्यविद्धा या रोहिणी द्विजपुङ्गवाः ॥ 5
अष्टमीसहिता वापि अष्टमीरहितापि वा ।
तथैव बुधवारेण सहिता रहितापि वा ॥ 6
जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ ।
अष्टम्यां वा नवम्यां वा दशम्यां वापि रोहिणी ॥ 7
अविद्धा यदि लभ्येत कलामात्रापि वैष्णवैः ।
ग्राह्या कदापि विद्धा तु न ग्राह्या वैष्णवोत्तमैः ॥ 8
मृगशीर्षं तु वा ग्राह्यं शुद्धर्क्षस्य ह्यभावतः ।
सिह्मभाद्रपदे मुख्या जयन्ती सिंहगापि वा ॥
*विष्णुतिलके
नक्षत्रेवा तिथौ यद्वा नद्यादौ तीर्थमाचरेत्।
तिथि नक्षत्रयोगे तु तीर्थं सर्वगुणोत्तरम्।
कलयावापि विद्धा चेत् तिथिर्वा यदि तारकम्।
वर्जयित्वा च तां विद्धां परेद्युः तीर्थमाचरेत्।
[[47]]
कलामात्रावशेषं चेत् तिथिर्वा यदि तारका।
तत्रोत्सवं तु कुर्वीत सा हि सर्वगुणोत्तरा।
तीर्थोत्सवं विनिश्चित्य ध्वजारोहणमाचरेत्। इति
*परमपुरुषे
पूर्व ऋक्षे तु विद्धा चेत् तां तारां सम्परित्यजेत्।
तदन्येद्युस्तथे ऋक्षे कुर्यादवभृथं तथा।
याज्ञवल्क्यसंहिता
दिनद्वितययुक्तं यत् तदृक्षं पूर्वतस्त्यजेत्।
परेद्युश्चेत्कलामात्रं सङ्ग्राह्यं वैष्णवोत्तमैः।
एभिर्वचन निचयैः भगवन्महोत्सवादि उत्सवेषु अवभृतार्थं वा तद्रहितोत्सवं वा
उत्सव समापनार्थं
वा एकदिनोत्सवार्थं वा पूर्वनक्षत्रेण अविद्धा नक्षत्रं ग्राह्यम्।
सूर्योदये कलामात्रेण पूर्वऋक्षेण विद्धा चेत् तं नक्षत्रं न
गृह्णीतम्।दिनद्वयं व्याप्तनक्षत्रविषये
पूर्वदिन नक्षत्र विद्धं वा अविद्धं वा इत्यविचार्य पूर्वदिन नक्षत्रं सम्परित्यज्य परदिनसूर्योदयकालस्थितं
कलामात्रमपि तं नक्षत्रमेव गृहीतव्यम्। दिनैकव्याप्त नक्षत्रं विद्धा चेद्वा दिनद्वय व्याप्त नक्षत्रं विजातीय
वेधया विद्धं चेद्वा परेद्युस्थितम् अन्यनक्षत्रं गृहीतव्यम्।
श्रीजयन्ति उत्सवविषयेषु कृष्णजन्मदिन उत्सवे सूर्योदये कलया सप्तम्या
विद्धा रोहिणी च
सन्त्याज्य। अपरेद्युस्थ मृगशीर्ष नक्षत्रं ग्राह्यम्।
*ईश्वरे
तस्मिन् मासे मुनिश्रेष्ठाः यदा ऋक्षद्वयं भवेत् ।
परत्रैवोत्सवं कुर्यान्महापातकनाशनम् ॥ 10
पश्चाच्चेद्रोहिणी विद्धा पूर्वत्रैव समाचरेत् ।
एवमेव हि सङ्क्रान्तिवेधत्यागोपि शस्यते ॥ 11
दिवा सङ्क्रान्तियोगश्चेज्जयन्तीं पूर्वतस्त्यजेत् ।
[[48]]
परतो निशि योगे तु त्यजेद्योगान्वितामपि ॥ 12
उभयोः क्रान्तिवेधश्चेज्जयन्त्यो र्मुनिसत्तमाः ।
उत्सवं मृगशीर्षे वा पूर्वमेव समाचरेत् ॥ 13
इति वचनाद् एकमासे नक्षत्रद्वय सम्भवे परनक्षत्रं ग्राह्यम्।परनक्षत्रं विद्धा चेत् पुर्वनक्षत्रं
ग्राह्यम्।नक्षत्रद्वयं च विद्धा चेन् मासान्त्यनक्षत्रं परेद्युस्थितम् ऋक्षं गृहीतव्यम्। परेद्युः अन्यमासं चेत्
पूर्वनक्षत्रात् परदिननक्षत्रं ग्राह्यम्। एवमेव दिवासङ्क्रान्तियोगं पूर्वनक्षत्रं त्याज्यम्। निशिसङ्क्रान्तियोगं
पूर्वनक्षत्र त्याज्यम्।उभयनक्षत्रं च सङ्क्रान्तिदुष्टं चेत् तदा पूर्व सङ्क्रान्ति दुष्टनक्षत्रात् परेद्युःस्थितं नक्षत्रं
परिगृहीतव्यम्।इति नित्योत्सवार्थं नक्षत्र निर्णयो ईरितः॥
इति द्वात्रिंशतिबिन्दुः
<<<<____>>>>
33 त्रयस्त्रिंशति बिन्दुः
काम्योत्सवादि भक्तबिम्बोत्सव दिन निर्णयम्
*यजमानादि जन्मर्क्षे चैत्रादि विषुवद्वये।
आचरेद्देवदेवस्य विशेषयजनं गुरुः।
नक्षत्रभेद सम्प्राप्ते पूर्वमेव फलप्रदम्।
परेद्युर्दशनाडी चेत् परमेव शुभं भवेत्।इति वचनात्
*पौष्करे
पश्वादिफलकामेन अनुष्ठितेह्युत्सवादिके।
भक्तोत्सवे च तीर्थायां यन्नक्षत्रं विनिश्चितम्।
तन्नक्षत्रं परदिने ग्राह्यं द्वादशनाडिकम्।
*वैजयन्ति संहिता
भक्तबिम्बाद्युत्सवेषु तथा काम्योत्सवादिषु।
[[49]]
परे द्विषट्कनाडिभं ग्राह्यं तं न्यूनभं त्यजेत्।
कुर्यात्तीर्थोत्सवम्पूर्व दिवसर्क्षे गुरूत्तमः।
पूर्णसम्हितायाम्
भक्तार्चा जन्म ऋक्षे तु ग्राह्यं द्वादशनाडिकम्।
कांयोत्सवार्थं नक्षत्रं परेद्युर्दशनाडिकम्।
एभिर्वचनैः परमैकान्तिभिः अनुष्ठित पराङ्कुशादि भक्तबिम्बोत्सवविषये
परेद्युः द्वादशनाडिकं नक्षत्रं
ग्राह्यम्।काम्यार्थी स्वनक्षत्रस्यानुगुण्यादिकं पर्यालोच्य अवभृथो निश्चितः। तस्मिन् काम्योत्सव विषये
परदिने दशनाडियुक्तं नक्षत्रं ग्राह्यम्।इति नक्षत्रनिर्णय विधिः
अथ तिथि निर्णयम्
*श्रीप्रश्नं
ता तिथौ वा तीर्थयात्रां निश्चित्याङ्कुरपूर्वकम्।
कुशलसंहितायाम्
पूर्णिमान्ताश्चान्द्रमानं दर्शान्तस्सौरमानकम्।
सौरमासा पितृणां तु देवानां चान्द्रमानकम्। इति वचनात्
* श्रीः
वसन्त समयेवापि ग्रीष्मे वा शुक्लपक्षके।
पूर्णिमायाम् अवभृथम् अविद्धयां वरानने।
विद्धा चेत् प्रथमायां वा निश्चित्याऽवभृथं गुरुः॥ इति
*विष्णुधर्मोत्तरे
प्रथमादयस्तु तिथयो ह्युदयादुदयाद्रुवेः।
सम्पूर्णं चेति विख्याताः हरिवासर वर्जिताः।इति वचनात्।
[[50]]
*काश्यप संहितायाम्
उदयादुदयाद्भानोः सम्पूर्णाः प्रथमादयः।
एकादशी तु सम्पूर्णा सूरसूतोदयान्मुने।
तस्मादरुणोदये पूर्वे तिथिगन्ध विवर्जिताः।
सा तिथिर्वैष्णवी ज्ञेया तस्यामुत्सवमाचरेत्। इति वचनात्
*सनत्कुमारतन्त्रे
उदयात्प्राक्चतस्रस्तु घटिका अरुणोदयः।
चतस्र घटिका प्रातः अरुणोदय उच्यते।इति वचनात्
*सनन्दन संहितायां
दशमीगन्ध रहिता सूरसूतोदयस्तथा।
ग्राह्यो ज्येष्ठतिथिस्तस्याम् आचरेदुत्सवं हरेः।
उपोषणं च कर्तव्यम् अविद्धायां हरिप्रियम्।
अरुणोदये सा विद्धा चेत् तां त्यक्त्वा द्वादशीदिने।(पाठः)
तिथौ एकादश्युत्सवं कुर्यात् त्रयोदश्यां तु पारणम्।
*कण्वतन्त्रे
अरुणोदयकाले तु दशमी यत्र दृश्यते।
सा विद्धैकादशी तत्र नोपवासार्चनादिकम्।
कुर्याच्छेत्तद्व्रतफलं मोहिनी प्रीतिदं भवेत्।
एभिर्वचनैः अरुणोदयकाल स्थित शुद्ध एकादश्यां भगवदुत्सवादिकम् उपोषणं च
कुर्यात्।
अरुणोदयकाले कलामात्र दशमीगन्धयुताम् एकादशीं सन्त्यज्य द्वादशी तिथ्याम्
एकादश्युत्सवम् उपोषणं च
आचर्य।त्रयोदश्यां पारणं कुर्यात्।विद्धायाम् एकादश्याम् उत्सवादिकम् उपोषणं च अनुष्ठितं चेत् तत्फलं मोहिनी
प्रीतिकरमेव।पूर्वोक्त शुद्धतिथिषु अवभृथोत्सवं कुर्यात्।अवभृथ रहित उत्सवेषु
उत्सवसमाप्तिमाचरेत्।एकदिन उत्सवं चेत् तच्छ समाचरेत्। किञ्च
[[51]]
विजयदशमि
*श्रीप्रश्ने
सायाह्नव्यापिनी या स्याद् दशमी विजयाभिधा ॥57॥
नवमी शेषयुक्तापि सा ग्राह्या वैष्णवोत्तमैः ।
ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुद्भिन्नतारकः ॥58॥
विजयो नाम कालोऽयं सर्वकर्मार्थसिद्धिदः ।
तस्मात् सायाह्नसंयुक्तदशमी क्षेमदा नृणाम् ॥59॥
तत्काले तु मया प्रोक्तस्तुरगारोहणोत्सवः ।
*याज्ञवल्ख्ये-तिथ्यादिदिष्टनिर्देश कारणाद् एवं नित्यात् पाञ्चरात्रे
कालविशेषश्रवणं तस्मिन्नेव उत्सवं
कुर्यादिति भावः॥
इति काम्योत्सव,भक्तोत्सव,नक्षत्र दिन निर्णयो नाम त्रयस्त्रिंश बिन्दुः।
<<<<____>>>>
34. चतुः स्त्रिंश बिन्दुः
ध्वजस्तम्भ निर्णय, लक्षण विधिः
उक्तेषुचान्तस्सारेषु स्फुटितादि विवर्जितम् ।
एकं वृक्षं मन्त्रवच्च शाश्वतस्तम्भकल्पने ॥5॥
गृह्णीयाच्छततालं स्यान् मुख्यं मध्यमकल्पने।
वाहनानि रथादीनि चण्डादिद्वार्स्थितानपि ॥79॥
ध्वजस्तम्भं च भक्तार्चास्तटाकादीनि पद्मजे ।
महाकुम्भजलेनैव प्रोक्षयेत् स्वस्वविद्यया ॥80॥
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः ।
तदात्व ध्वजदण्डं च तद्वस्त्राणि गुरूत्तमः ॥100॥
यागावशिष्टद्रव्याणि स्वकीयानि स्वयं हरेत् ।
[[52]]
एभिर्वचनैः नित्य नैमित्तिक उत्सवार्थम् अन्तस्सारेण सम्स्थापितं
ध्वजस्तम्भः।
शाश्वतध्वजस्तम्भमिति, फलकामेन अनुष्ठित काम्योत्सवार्थं बहिस्सारवृक्षेण
कल्पितः, ध्वजस्तम्भः
तदात्वम् इति च दृश्यते। भगवत्प्रतिष्ठान्ते चण्डादिद्वारपाल भक्तबिम्ब वाहन,रथ तटाक द्रुववर्गेषु
ध्वजस्तम्भस्य च प्रतिष्ठा परिगणितत्वाद् आलयकल्पनकाले संस्थापित ध्वस्तम्भः
शाश्वतध्वजस्तम्भमिति।
प्रतिष्ठान्ते तस्मिन् ध्वजस्तम्भे ध्वजारोहणपूर्वकं महोत्सवं कृत्वा तदारभ्य
प्रतिसंवत्सरं प्रतिष्ठानक्षत्रे
अवभृथं निश्चित्य ध्वजारोहणपूर्वकम् उत्सवकरणार्थं ध्वजस्तम्भ कल्पनीयमित्यर्थः॥
किञ्च- *श्रीप्रश्ने
नित्योनिमित्तिकःकाम्यो त्रिविधस्स महोत्सवः।
तदात्व ध्वजदण्डश्च तद्वस्त्राणि गुरूत्तमः।
यागावशिष्टद्रव्याणि स्वकीयाणि स्वयं हरेत्।इति वचनात्.
*ईश्वरे
वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः ॥ 4
भूमिकम्पे दिशां दाहे महोत्पातेषु सत्सु च ।
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे ॥ 5
अनावृष्टौ च सर्वत्र नक्षत्रपतने च खात् ।
हसने भगवन्मूर्तेरङ्गानां चलने सति ॥ 6
रोदने चासनाद्बिम्बे परिभ्रमति सत्तमाः ! ।
व्यत्सासे शशिसूर्यस्य तथान्येष्वेवमादिषु ॥ 7
शान्त्यर्थं यत्प्रकुर्वित स नैमित्तिक उच्यते ।
चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम् ॥ 8
उत्सवोऽनुष्ठितः काम्यः सङ्कल्पितफलप्रदः ।
[[53]]
पाद्मे
अवरोप्य ध्वजस्तम्भमुत्पाट्य च महानिशि ।
स्तम्भं ध्वजं च गृह्णीयाद्देशिकेन्द्रः स्वयं ततः ।257।
ग्रहणं देशिकेन्द्रेण तार्क्ष्यतृप्तिकरं भवेत् ।
ध्वजदण्डं ध्वजपटं तद्यष्टि तत्प्रपां तथा।
आचार्यस्स्वयमादद्याद् यागोपकरणान्यपि॥
*सनन्दन संहितायाम्-
देवोत्सव ध्वजस्तम्भे काम्योत्स खगध्वजम्।
नारोहयेत् पृथक् स्तम्भं स्थापयेत् क्रमुकादिना।
तस्मिन् ध्वजं समारोप्य हरेरुत्सवं विधिवच्चरेत्।
उत्सवान्ते ध्वजपटं ध्वजस्तम्भं स वेदिकाम्।
यागद्रव्याणि सर्वाणि गृह्णीयाद्देशिकस्स्वयम्।
नित्योत्सव ध्वजस्तम्भं न गृह्णीयात्कदाचन। इति वचनात्
*काश्यपसंहितायां
काम्योत्सवे पृथक्स्तम्भं ध्वजार्थं वेदिसम्युतम्।
तालवृक्षादिना स्थाप्य ध्वजारोहादिकं चरेत्।
उत्सवान्ते ध्वजस्तम्भं तद्वेदिं तत्प्रपां तथा।
यागद्रव्याण्यशेषाणि ग्राहयेद्देशिकोत्तमः।
न ग्राहयेद् ध्वजस्तम्भं शाश्वतन्तूत्सवान्तिमे॥
एभिर्वचनैः नित्यनैमित्तिकः काम्यः इत्युक्त उत्सवत्रयेषु नित्य नैमित्तिक महोत्सवयोः
नित्यध्वजस्तम्भे ध्वजारोहणं करणीयम्।तद् ध्वजस्तम्भम् उत्सवान्ते नोद्वासयेत्।स्वार्थार्थिना अनुष्टीय
काम्योत्सवार्थं तत्कालेस्थापित ध्वजस्तम्भे ध्वजम् आरोप्य महोत्सवं कृत्वा उत्सवान्ते तत्कालस्थापन
[[54]]
ध्वजस्तम्भ, ध्वजं च आचार्यः स्वयं गृह्णीयात्।इत्यर्थः। किञ्च काम्योत्सवार्थं शाश्वतध्वजस्तम्भे
ध्वजारोहो न कार्यः।
श्रीप्रश्न, ईश्वरादि संहितासु काम्योत्सव उक्तत्वाद् वचनार्थ निर्णये
आचार्येण ध्वजस्तम्भ ग्रहणं
काम्योत्सव विषयमिति निर्णीतम्॥
इति चतुस्त्रिंशद्बिन्दुः
<<<<____>>>>
35. पञ्चत्रिंशद्बिन्दुः
महोत्सवाद्युत्सवक्रम निरूपणम्
महोत्सवाद्युत्सवेषु तथा देव्युत्सवादिषु ॥ 358
पञ्चपर्वाद्युत्सवं तु नाचरेद् गुरुसत्तमः ।
पञ्चपर्वाद्युत्सवेषु प्राप्ते काव्यदिनोत्सवे ॥ 359
तदा काव्यदिनं त्यक्त्वा पञ्चपर्वादिकं चरेत् ।
महोत्सवे वर्तमाने ग्रहनाद्युत्सवं त्यजेत्।
आचरेद्यदि मोहेन तद्दोषस्य प्रशान्तये।
द्वादशैःकलशैःस्नानं कुर्याच्छास्त्रोक्त वर्त्मना॥
एभिर्वचनैः शुक्रवारोत्सव वारोत्सवात् पञ्चपर्वोत्सवाः षडध्वोत्सवः मुख्यः। पञ्चपर्वोत्सवादि
उत्सवाद् देवी महोत्सवादयः मुख्यः। इति उत्सवादिकं विभज्य। तेषु मुख्योत्सव मध्ये प्राप्तग्रहणोत्सवः
त्याज्यः। तथा महोत्सव मध्ये प्राप्त नैमित्तिकोत्सवं च त्याज्यः। इति निश्चितः।त्याज्यपदस्य महोत्सव
मध्ये प्राप्त नैमित्तिकादि उत्सवे प्रतिसर बन्धनादिकं त्याज्यम् इत्यर्थः।
*श्रीप्रश्नं
[एकं कर्म समुद्दिश्य रक्षाबन्धं कृतं यदि ॥ 235
तेनैव सर्वकर्माणि कुर्याद् देशिकसत्तमः ।]
यदि बध्नीत मोहेन तत्कर्म पुनराचरेत् ॥ 236
[[55]]
एकपदस्य मुख्यमित्यर्थः। सर्वाः क्रियाः प्रतिसरबन्धनमूलाः। यत्र प्रतिसरबन्धनमनुक्तं तत्र
रक्षाबन्धन, कुम्भस्थापन,पूजन,हवन, अवभृथाः त्याज्याः।तेन महोत्सव मध्ये प्राप्त सर्वकर्माणि
नित्यनैमित्तिक काम्यकर्मादि सकल उत्सवादि च कुर्यात्। यदि बध्नीत मोहेन अज्ञातया ते उत्सवाः
महान्दोषो भवन्ति। तस्मान् नित्यनैमित्तिक काम्यकर्मादि सकल उत्सवादि च रक्षाबन्धन,
कुम्भस्थापन,पूजन,हवन, अवभृथाःरहितं स्नपनं च आचरेत्।
किञ्च
*श्रीः
एवं वीथीष्वहरहर्भ्रामयित्वा रमापतिम् ॥37॥
भक्तप्रार्थनया देवं तत्कृतं मण्डपं नयेत् ।
तत्र स्नानासने देवं स्नापयेद् गन्धवारिभिः ॥38॥
*विष्णुतिलके
नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पद्मज।
तेषां तु यौगपद्ये चेत् कर्मतन्त्रेण कारयेत्।
नित्ये नैमित्तिक काम्यादि उत्सव युगपद्विषये कर्म तन्त्रेण कारयेत्।
एभिर्वचनैः प्रधानोत्सवमध्ये
अन्योत्सव प्राप्ते नित्योत्सवाविरोधेन प्रधानपूजन, अलङ्करणादि कैङ्कर्यैस्सह बिम्बमात्रोत्सवं कुर्यात्॥
आलयद्वय, युगपद्गतोत्सव निर्णयः
स्वयंव्यक्तस्य दिव्यस्य ह्युत्सवे समुपस्थिते ॥18॥
ग्रामालयाश्रयाणां च विष्णवादीनां च वै प्रिये ।
न कर्तव्योत्सवस्तावद्यावत्तीर्थावसानकम् ॥19॥
यदि स्यादुत्सवस्तेषां ध्वजारोहण वर्जनम् ।
वीथीषु भ्रमणं तेषां स्वयंव्यक्तेन कारयेत् ॥20॥
बलिप्रदान तीर्थादि न कुर्यात् कमलोद्भवे ।
अन्यथा यदि कुर्वीत नश्येद्राष्ट्रं स राजकम् ॥21॥
[[56]]
ग्रामाश्रयादिदेवानामुपक्रान्ते महोत्सवे ।
तत्तदावरणेष्वेव कुर्यात्तच्छेषमुत्सवम् ॥22॥
*सात्वते-ईश्वरेपि च
भगवद्भक्तिनिरतैर्मनुजेन्द्रैः प्रतिष्ठितात् । 9 ।
माहात्म्यं स्याद्दशगुणं राक्षसेन्द्रप्रतिष्ठिते ।
ततः शतगुणं प्रोक्तमसुरः स्थापिते विभो । 10 ।
सहस्रगुणितं प्रोक्तं विद्याधरकृते द्विजाः ।
ततो दशगुणं विप्राः! माहात्म्यं यक्षकल्पिते । 11 ।
ततो दशगुणं प्रोक्तं गन्धर्वैश्च प्रतिष्ठिते ।
आर्षे कोटिगुणं प्रोक्तं सैद्धे दशगुणं ततः । 12 ।
कोटिकोटिगुणं प्रोक्तं स्वयंव्यक्ते मुनीश्वराः! ।
माहात्म्यं स्यादसङ्ख्येयमिति शास्त्रेषु निश्चितम् । 13
*पाद्मे
स्वतन्त्रं परतन्त्रं च आश्रयं समुदाहृतम्।
उत्तमादि विभेदेन आलयस्त्रिविधो भवेत्।इत्यारभ्य
स्वतन्त्रे परतन्त्रे च ह्युत्सवादौ कृते सति।
पूर्वं स्वतन्त्रे कर्तव्यं वास्त्वङ्गे द्विगुणार्चनम्।
आश्रयादिषु बिम्बेषु उत्सवादि कृते सति।
तत्तदावरणे कुर्याद् बाह्यवीथ्यां तु नाचरेत्।
एभिर्वचनैः- विष्णुतिलकादि संहिता वचनैः स्वयंव्यक्त, देवतास्थापित, देवस्य
च एकस्मिन्नेव दिने
ध्वजारोहणादि उत्सवसमये स्वयंव्यक्त दिव्यस्थानस्थ विष्णोः पूर्वमेव
ध्वजारोहणादि अवभृथान्तं कृत्वा।
तदनु तस्मिन् दिने समनन्तरमासि वा अवभृथं निश्चित्य महोत्सवादिकं चरेत्।
तस्मादन्यथा न कुर्यात्।
इति पञ्चत्रिंशति बिन्दुः
<<<<____>>>>
[[57]]
श्रीः
श्री रामाऽमृतं
क्रियासुधाब्धि ग्रन्धः
श्रीपाञ्चरात्र प्रशंसा वर्णनम्
अशेषचिदचिद्वस्तु शेषिणे शेषशायिने।
निर्मलानन्दकल्याण निधये विष्णवे नमः।
प्रथमं ब्रह्मरात्रं तु द्वितीयं शिवरात्रकम्।
तृतीयम् इन्द्ररात्रं तु चतुर्थम् ऋषिरात्रकम्।
तद्बृहस्पतिरात्रं तु पाञ्चरात्रं प्रशस्यते।
रात्रिभिः पञ्चभिःप्रोक्तं श्रुतं शिष्यैस्तु पञ्चभिः।
तस्मात्तु पाञ्चरात्राख्यं शास्त्रं (साक्षात्)विष्णुमुखोद्गतम्।
पाञ्चरात्रात्परं शास्त्रं न भूतं न भविष्यति। इति अनिरुद्धसंहितायां
द्वितीयोऽध्यायः
श्रीभगवानुवाच
पाञ्चरात्रं समादाय दीक्षितेनैव मार्गतः।
अनिरुद्धप्रसादेन पाञ्चरात्रं प्रदीयते।
पाञ्चरात्रं विधिः कीदृक् तद्वदस्व महामुने।
पाञ्चरात्र महाज्ञानं नारायणमुदीरितम्।
पाञ्चरात्रात्परं शास्त्रं न भूतं न भविष्यति॥
प्रार्थना
नमः कण्वायमुनये संवर्ताय नमोनमः।
पाद्मतन्त्रप्रणेत्रे च पद्माय महते नमः।
नमः कपिलरूपाय योगिनेऽनन्तशक्तये।
[[58]]
पाञ्चरात्रमहाम्बोधि पारगब्रह्मणे नमः।
लक्ष्मीशाय नमस्तुभ्यं पाञ्चरात्रप्रवर्तिने।
वन्दे लक्ष्मीपतिं देवं शङ्खचक्रगदाधरम्।
विद्यामूर्तिं हयग्रीवं शब्दार्थ ज्ञानलब्धये।
श्रीपाञ्चरात्रस्य लक्षणम्।
पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्वकम्।
वासिष्ठं नारदीयं च कापिलं गौतमीयकम्।
परं सनत्कुमारीयं पाञ्चरात्रं च पञ्चकम्।
पञ्चकं संहितानां च कृष्णभक्ति समन्वितम्।
ब्रह्माणं च शिवस्यापि प्रह्लादस्य तथैव च।
गौतमस्य कुमारस्य संहिताः परिकीर्तिताः। इति श्री ब्रह्मवैवर्तपुराणे
प्रथमं पञ्चभूताख्यं कर्णिकादि यथा क्रमम्।
द्वितीयं कर्णिकां चैव केसरांवायुवस्तथा।
बिन्दु ओजो विन्यस्य नेम्यादौ तु कला भवेत्।
मध्ये तथा भूमिं पूजयित्वा समं ततः।
<<<<____>>>>
क्रियासुधाब्धि ग्रन्धः
श्री हयवदनपरब्रह्मणे नमः
2. तनियन्
कौण्डिन्यगोत्रामृतसिन्धुजातम्।गोपालभट्टाह्वय पूर्णचन्द्रम्।
श्रीपाञ्चरात्रार्थविदं प्रशान्तम्। वन्दे गुरुं शार्ङ्गिणमर्चयन्तम्॥
कौण्डिन्यवंशकलशोदधि कौस्तुभेन।श्रीरामभट्टार्य विचक्षणेन।
श्रीविष्णुसौधवरणादि (परिष्क्रियार्थ)प्रकल्पनार्थम्।
[[59]]
क्रियासुधाब्धि क्रियते बुधां मुदे॥
आचार्य वरणविधिः- (श्रीप्रश्ने)यजमान ल क्षणं च
आस्तिकः कर्मकाण्डोक्तकर्मानुष्ठान तत्परः॥13॥
श्रद्धावाननसूयश्च दाता धान्यधनैर्युतः।
मद्भक्तो देवपूजादौ प्रीतिमानपरैर्गुणैः॥14॥
संयुक्तो ब्रह्मणो वैश्यः क्षत्रियः शूद्र एव वा।
अनुलोमो भवेद्वापि यजमानो भवेद्रमे॥15॥
एवं विध गुणविशिष्टः यजमानः श्रीभगवद्वासुदेव धामकल्पनार्थम्
आचार्यलक्षणं
कल्याणहस्तमक्रोधं शान्तं ब्राह्मणपुङ्गवम्।
मयोक्तगोत्रिणं शुद्धं पारम्पर्येण दीक्षितम्।
पाञ्चरात्रार्थतत्त्वज्ञं भट्टाचार्यमतन्द्रितम्।
भुवः परिग्रहाद्यावत् प्रतिष्ठान्तां च या क्रिया।
असहायेन तां कर्तुं शक्तुं ज्ञात्वा प्रणमेत्सुधीः।
इत्यादि विलक्षण कल्याणगुणान्वितं भट्टाचार्यं ज्ञात्वा। तं
प्रणम्य।नालिकेर फलद्वय हस्तः यजमानः-
अहं भगवतो विष्णोर्मन्दिरं कर्तुमुद्यतः॥19॥
लक्षणज्ञो भवान्सौधं कर्तुमर्हति शिल्पिभिः।
आलयस्य प्रतिष्ठां वै गुरो त्वं कर्तुमर्हसि।
इति वारद्वयम् उच्चार्य। हस्तयोः नालिकेरफलं
समर्प्य।प्रणमेत्।आचार्यवर्यास्तु “तथैव करोमि’’ इति
प्रतिब्रूयात्। ततः परमाचार्यादि सर्वेषां गन्धताम्बूलादिकं प्रदाय।
हरिद्राक्षतां गृह्णीयात्।
इति श्री पाञ्चरात्रे क्रियासुधाब्धौ आचार्यवरणन्नाम प्रथम,द्वितीय कल्लोलः॥
<<<<____>>>>
[[60]]
3. भूकर्षण विधिः
तदारभ्य कुशिकवृक्षोत्थित हलयुग पलाश प्रवहणदण्ड परिष्कृत वृषभद्वय गोग्रासैः
पूर्वोदितोपकरणैः यजमानेन च परिग्रह भुवमासाद्य।तत्र नैॠतवारुणयोर्मध्ये, धान्यपीठे हलादीन्,
तद्वामे वृषभौ च निधापयित्वा। स्वयम् उत्तराभिमुखः आसने उपविश्य।प्राणानायम्य।अस्य देवदेवस्य
स्वामिसन्निधौ आलयनिर्माणार्थं भूकर्षण कर्मकरिष्ये। तदङ्ग उपकरण हलादीनां शुद्ध्यर्थं
शुद्धिपुण्याहवाचनं करिष्ये इति सङ्कल्प्य।पुण्याहं कृत्वा,तज्जलेन भुवं हलादीन् वृषभौ आत्मानं च
प्रोक्ष्य।तद्भूम्यां ब्रह्मपदे भूवराहम् अभ्यर्च्य। तत्प्राच्यां लौकिकाग्नौ वराहमन्त्रेण भूमन्त्रेण च लाज
समिदाज्याऽन्नैः पृथक् षोडशाहुतीः हुत्वा। पायसान्नं निवेद्य। पूर्णाहुतिं
जुहुयात्।
तदनु पायसान्नहस्तः आचार्यः
नागाः पिशाचा यक्षाश्च भूमावत्र वसन्ति ये।
सर्वेः प्रयान्तु रक्षोभिः हरेस्सौधं करोम्यहम्।
इत्युच्चरन् पूर्वादि मध्यपदान्तं पूर्ववद् बलिं क्षिप्त्वा।अथ मूलविद्यया
वृषभस्कन्धयोर्युगं युगे हलं च
बध्वा। हलप्रवहण दण्डधरः आचार्यः भगवन्तं ध्यायन् शाकुनसूक्त पुरुषसूक्त, विष्णुसूक्त,
नारायणानुवाक, विष्णुगायत्री, पञ्चोपनिषण्मन्त्रैः, भूसूक्तादि सप्तमन्त्र पाठकैः, दक्षिणादुत्तरावधि,
पश्चिमात्पूर्वावधि प्रादक्षिण्येन सप्तवारं कर्षयेत्।
कर्षणमध्ये वृषभशयन,लाङ्गलादि भेदन,रज्जुच्छेदनादि
सम्भवे,तद्दोषपरिहारार्थं पञ्चोपनिषधा
शतवारं हुत्वा। भूवराहं, अग्निं च उद्वासयेत्। यजमानस्तु आचार्यादीनां
सम्मानयेत्।
इति श्री पाञ्चरात्रे क्रियासुधाब्धौ भूकर्षणविधिर्नाम तृतीय कल्लोलः।
<<<<____>>>>
[[61]]
विश्वकर्म प्रार्थन
आवाहयाम्यहं देवं विश्वकर्माणमच्युतम्।
सर्वासां मदवातानान्तु सदा शिल्प प्रवर्तकाः।
एहि देववराचिन्त्य सर्वशिल्प प्रवर्तकाः।
त्वयि सर्वैवसर्वेषां कर्मणामाश्रितङ्गतिः।‘
<<<<____>>>>
4. भूपरीक्षा विधिः
आचार्यः परिग्रहभूम्यां शालि मुद्ग,यव,बीजानि निवाप्य।तदभिवृद्ध्यर्थं महदम्भसेचन पूर्वकं रक्षणं
कारयित्वा। सस्ये भूरिफला तद्देवधाम दीर्घकालं भविष्यति।अल्पफले तु किञ्चित्काले हरेस्सान्निध्यं
दर्शयति। तस्माद्दोषपरिहारार्थं सहस्रब्राह्मणभोजनं, गोदानादिकां च
कृत्वा।पञ्चगव्येन तद्भुवं प्रोक्षयेत्।
अथ परिगृहीत भूम्यात् पश्चिमे खनित्रेण किञ्चिन् मृदमादाय। तद्मृदम् अम्बसा
सम्पूर्य।पुष्पाणि विकिरेत्।
पुष्पाणि अप्रदक्षिणावर्तानि सन्ति चेत् तत्परिहारार्थं प्राच्यां
लौकिकाग्नौ मूलमन्त्रेण आज्येन पुरुषसूक्तेन,
चरुणा पुरुषसूक्तेन, मुलमन्त्रेण च आज्येन,गुग्गुल,तिल,नीवारैः, पृथक् पृथक्, शताहुतीर्हुत्वा। सम्पातं
सङ्गृह्य।शालिभारे निक्षिप्य। तच्छालिं भूसूक्तेन भूपरितः विकीर्य। पुण्याह
जलेन प्रोक्षयेत्।
इति श्री पाञ्चरात्रे क्रियासुधाब्धौ भूपरीक्षा विधिर्नाम तुरीयः कल्लोलः।
<<<<____>>>>
5. गर्भगेहादि स्थान शङ्कुस्थापन विधिः
ऋजु यवाऽष्टकायामम् उत्तममानाङ्गुलम्।
तथा यवसप्तकायामं मध्यममानाङ्गुलम्।
यवषट्कयामम् अधममानाङ्गुलम्।
द्विषट्कआयामं तालं तालद्वयं हस्तम्।
[[62]]
एतत् शिल्पोक्त हस्त पूर्वोक्तमानाङ्गुलरीत्या उत्तम मध्यमाधमम् इति
त्रिविधम् उच्यते।
उत्तमहस्ताष्टकं धनुर्दण्डमिति चाहुः। दण्डद्वयं क्रोशम् एतन्मानेन गर्भगृहम्
आवरण रथ्यावीध्यत
आवरणानि प्रकल्पयेत्। गर्भगृह भूपरिमाणं तु त्रिहस्तान्न्यूनं दशहस्तादधिकं विना गर्भगृहविस्तारम्
आयामं च युग्माऽयुग्म हस्तक्रमेण निर्णयीत।यजमानः चतुर्विध पुरुषार्थकामश्चेद् गर्भगेहविस्तारम्
आयामं च युग्महस्तः।केवल मुमुक्षुश्चेद् अयुग्मैर्हस्तैः प्रकल्पयेत्। चतुरश्र, षडश्र, अष्टाश्र,वृत्त गर्भगृह
विषये त्रिहस्तायामं त्रिहस्त विस्तारं युग्मविषये चतुर्हस्तायामं चतुर्हस्त विस्तारं च
चतुरश्रायत,षडश्रायत, वृत्तायत गर्भगेहविषये पञ्चहस्तायामं त्रिहस्त विस्तारं युग्मे तु षड्डस्तायामं
चतुर्हस्त विस्तारम् एवं विधं भुवं ब्रह्मस्थाने गर्भगेहार्थं विभजेत्।
गर्भगेह पुरतः अर्धमण्टप, महामण्टपार्थं भुवं तत्परितः
अन्तर्मण्डलं,तद्बहिः अन्तर्हारं,ततः
मध्यान्तर्हारं,पश्चान् मर्यादा,तदनु महती, इति पञ्चप्राकारार्थं भुवं च।तत्परितः रथ्यावीथ्यर्थं भुवं च
वास्तुशास्त्र निष्णातेन शिल्पिना विभजनं कारयित्वा।
अथ तत्स्थान निश्चयीकरणार्थं परितः क्षीरवृक्षोत्थित शङ्कुसंस्थापन पूर्वकं
रज्जुभिः परिस्तरणं च
कारयित्वा। तदनन्तरं श्रियादि परिवार आलयानां मध्यमहस्त मानेन च
विस्तारायामं कल्पयित्वा।
वास्तुहोमं कुर्यात्।
इति गर्भगेहादि स्थान शङ्कुस्थापन विधिः नाम पञ्चमकल्लोलः।
<<<<____>>>>
6. खातहोम विधिः
तदनन्तरं प्रथमावरणायाम विस्तारम्। यावत्तावधस्सलिल दर्शनान्तं भुवं खनेत्। खननकाले
भस्माङ्गार तुष,सर्प,वृश्चिकादि दुर्निमित्तदर्शने सति तद्दोषपरिहारार्थं खातहोमं करिष्ये इति
सङ्कल्प्य।खातस्थलाद् बहिः प्राच्यां स्थण्डिलेऽग्नौ पुरुषसूक्तेन, पञ्चोपनिषदा च समिदाज्यान्नैः
अष्टोत्तरशताहुतीः पूर्णाहुतीश्च जुहुयात्। गर्भगृहद्वार प्राचीक्रमेण प्राच्यादि दिङ्निर्णयं कृत्वा। आधारशक्ति
कुम्भस्थापनादिकम् आचरेत्।
[[63]]
यजमानः चतुर्विध पुरुषार्थकामो यदि प्राच्यां द्वारकल्पनं, धर्मार्थकामो पुरुषार्थत्रयं चेत् पश्चिमद्वार
कल्पनम्। धर्मार्थ पुरुषार्थद्वयकामो यदि उत्तरदिशि द्वारकल्पनं,
मुमुक्षुश्चेद् द्वारकल्पनं च दक्षिणमीरितम्।
गर्भगृहद्वारादि पुरद्वारान्तं दाराणि प्रकल्पयेत्।
किञ्च गर्भगृहादि अन्तर्मण्डलावधि, एकद्वारकल्पनं,अन्तर्हारादि
रथ्यावीथ्यन्तम् आवरणानां दिक्षु
द्वारद्वयं द्वारत्रयं द्वार चतुष्टयं निर्माणं कुर्यात्।
इति खातहोम विधिःनाम षष्टम कल्लोलः।
<<<<____>>>>
7. आधारशक्तिस्थापन विधिः
अथ खातभूतलमध्यदेशम् आसाद्य.।प्राङ्मुखे कूर्मासने उपविश्य। प्राणानायम्य। अस्य देवालयस्य
निर्माणसिद्ध्यर्थम् आदौ आधारशक्तिस्थापनं करिष्ये।तदङ्गोपकरण शुद्ध्यर्थं शुद्धिपुण्याहवाचनं करिष्ये। इति
सङ्कल्प्य।पुण्याहं वाचयित्वा।तज्जलेन खातभुवम् आधारादिद्रव्याणि आत्मानं च
प्रोक्ष्य।
ततः गर्भगृह मध्यमस्थाने धान्यपीठे ताम्रजं कुम्भनवकं द्वारप्राचीक्रमेण
संस्थाप्य। सौवर्णीम्
आधारशक्तिं मध्यकुम्भे द्वादशबीजानि प्राच्यां पञ्चलोहानि.आग्नेयां सर्वधातूनि,दक्षिणे
सर्वपुण्यतीर्थमृदः,निॠत्यां सर्व मधूनि,वारुणे गोघृतं, वायव्ये नवरत्नानि, उत्तरे पुण्यशैलमृदः,ऐशान्ये
धान्यानि एवं प्राच्यादि कुम्भाष्टके निक्षिप्य।शालिक्षेत्र ह्रद, वल्मीकमृद्भिः,उत्पलादि कन्दैः, रत्नैश्च
घटानापूर्य। सकूर्च शरावाष्टकेन कुम्भाष्टकं पिधापयेत्।
तदनु मध्यकुम्भोपरि तादृशं कुम्भं निधाय।तस्मिन् पुरा हैमं कूर्मं तदुपरि
हिरण्मयं कालानलं,
पश्चात् सुवर्णमयं भुवं च विन्यस्य।गन्धोदकेनापूर्य।सकूर्चाम्रपल्लव
नालिकेर,शरावैः कुम्भवक्त्रं पिदाय।
ओं ह्रीम् आधारशक्त्यै नमः,ओं ज्ञां कूर्माय नमः,ओं रं कालाग्नये नमः,ओं
ह्रीं भूम्यै नमः,
आगच्छागच्छ, इत्यावाह्याऽभ्यर्च्य। तत्कुम्भोपरि हस्तमानं,यावत् तावत्खातहोमं भुवं
[[64]]
खातमृद्भिर्वालुकाभिश्च सम्पूरयित्वा। जलेन संसिच्य।दन्तिपादैः सुधृढं भुवं कारयित्वा। पुनश्च जलेन
आपूरयेत्।तदनन्तरं पक्वेष्टकाखण्डानि सुधां च मिश्रीकृत्य।खातभुवम् अर्धहस्तोन्नतमानं सम्पूर्य। पुनश्च
मत्तमातङ्गपादन्यसनैः दृढीकरणं कुर्यात्।
इति आधारशक्तिस्थापन विधिःनाम सप्तमकल्लोलः
<<<<____>>>>
8. बालबिम्ब प्रतिष्ठा विधिः
ततो बालालयं कुर्यात् सर्वदोषोपशान्तये॥इति वचनाद् आरभ्यमाण,देवधामक्रियादीनाम्
अविरोधेन बहिः आवरण द्वारपार्श्व समीपे कुमुदादि पदे स्थाने पञ्चहस्तं
त्रिहस्तं वा बालगेहं कल्पयित्वा।
स्थित आसीन यानारूढ, शयन, त्रिविक्रम,विश्वरूप मूर्तिषु करिष्यमाणमूलबेरं
यद्वत् तद्वत् पञ्चाङ्गुलान्न्यूनं
चतुर्विंशाङ्गुलादधिकं विना यजमान ऋक्षानुगुण्य अङ्गुलोन्नतं बालबिम्बं
कारयेत्।
त्रिविक्रम, विश्वरूप, ध्रुवबेरे तु स्थितं चतुर्भुजं शङ्खचक्रगदा पद्मधरं,
बालबिम्बं कुर्यात्।
बालबिम्बकरणाऽनन्तरं जलाधिवास्यादि संस्कारपूर्वकं बालबिम्बं
प्रतिष्ठाप्य।बालगेहाभ्यन्तरे ब्रह्मपदे
वेदिमध्ये बालबिम्बं संस्थाप्य। पुष्पाञ्जलिधरः आचार्यः.
आ मूलधामप्रारम्भादा समाप्तेर्हरे विभो॥65॥
पूजां गृह्णीष्व भगवन्नस्मिंस्त्वं बालसद्मनि।
शमयन् मूलधिष्णस्य विघ्नकृद्दैत्यसंहतिम्॥66॥
इति भगवन्तं सम्प्रार्थ्य पायसान्नं निवेद्य। बालगेहद्वार पार्श्वयोः चण्डप्रचण्डं च वेदिका
प्रथममेखला मध्ये भगवदभिमुखं गरुडम् ऐशान्ये विष्वक्सेनं, द्वितीय मेखलायां कुमुदादीन्
(तृतीय)?प्रथममेखलायाम् इन्द्रादींश्च बलिपीठे विष्णुपार्षदांश्चावाह्य बलिं दद्यात्।एवं प्रतिदिनं कालद्वयं
सम्पूजयेत्।बालबिम्बं लोहजं चेत् तेनैव महोत्सवादि उत्सवं कुर्यात्। शैलदारु बालबिम्ब विषये तु
उत्सवार्थं लोहबिम्बं कारयेत्। बालबिम्बं शिला दारुमयं चेत् शिला,दारु सङ्ग्रह पूर्वकं प्रतिष्ठापयेत्।
[[65]]
सङ्कल्पक्रमः
आचार्यः प्राङ्मुखः आसने उपविश्य। प्राणानायम्य। अस्य देवदेवस्य— स्वामिसन्निधौ
आलयनिर्माणक्रियादीनाम् अविघ्नेन परिसमाप्त्यर्थं पुरा बालबिम्ब प्रतिष्ठा
कर्मकरिष्ये इति सङ्कल्प्य।
बालप्रासाद प्रतिष्ठा विधिः
बालबिम्ब प्रतिष्ठाकाले बालप्रासादादि प्रतिष्ठार्थम् ऋत्विगेकः नागर,द्राविड,वेसराख्य त्रिविधमानेषु
करिष्यमाण विमानवत् फलकादिषु पञ्चवर्णैः लेखयित्वा।
छायाधिवास पूर्वकं विमानं प्रतिष्ठाप्य।बालबिम्बस्य पश्चात् फलकां
संस्थापयेत्।
इति बालालय प्रतिष्ठा विधिः नाम अष्टम कल्लोलः॥
<<<<____>>>>
9. विमानादि लक्षण विधिः
विमानादि लक्षण विधिरुच्यते। अमलस्थानं, अनन्तभुवनं, कल्याणकं, कौबेरं, जयावहं, पर्वतं,
प्रणवं, पुष्करं, पुष्पकं, भद्रकोष्टं, मन्दरं, मनोहरं, लम्बपुञ्जरं, वृत्तकूटं, वैजयन्तं, श्रीकरं, श्रीभोगं,
श्रीविशालं, स्वस्तिकं, स्वस्तिबन्धं,सुदर्शनं,सोमच्छन्दम् इति विमानानि
द्वाविंशतिभेदानि।
तेषु चतुरश्रं, चतुरश्रायतं, नागरं, षडश्रं, अष्टाश्रम्, षडश्रायतम्,
द्राविडम्, वृत्तम्, वृत्तायतं, वेसरम्
इति विमान विभागं त्रिविधम्।
त्रिविधविमानेषु मूलबिम्बं स्थितम् आसीनं, यानारूढं वा कल्पितं यदि चतुरश्रं
षडश्रम्,अष्टाश्रं
वृत्तं वा विमानं गृहीतव्यम्।
मूलबिम्बं शयनं, त्रिविक्रमं, विश्वरूपं वा कल्पितं चेच् चतुरश्रायतं,
षडश्रायतं, वृत्तायतं वा विमानं
सम्पादनीयम्॥
किञ्च- विमानादि तलकूट विषये तु सोपपीठाऽधिष्टानं,तदुपरि उपानहं वा। उपपीठं विना
साधिष्टानोपानहं वा अधिष्टानं विना सोपपीठोपानहं वा। अधिष्टानं विना सोपपीठोपानहं वा उपपीठं विन
साधिष्टानोपानहं वा प्रकल्प्य।
[[66]]
तदुपरि पादं, ततः प्रस्तरं, पश्चाद्ग्रीवा, तदनु शिखरं, एवं यथाक्रमं षडङ्गयुतं वा सप्ताङ्गसहितं वा
अधिष्टानं विना सोपपीठोपानहं वा प्रकल्प्य।
तदुपरि पादं, ततः प्रस्तरं, पश्चाद्ग्रीवा, तदनुशिखरं, एवं यथाक्रमं
षडङ्गयुतं वा सप्ताङ्गसहितं वा
एकतल विमानं कल्पयेत्।
किञ्च पूर्वोक्तसप्ताङ्गेन अधिष्टान चरणं,प्रस्तरकूटशाला संस्थानपञ्जरं,
प्रस्तरवेदिकाख्य पञ्जरं,
प्रस्तर वेदिकाख्य पञ्चाङ्गसम्युतं,
द्वादशाङ्गसम्युतं द्वितलादि द्वादश तलान्तं विमानगोपुरादिकं कल्पयेत्।
पञ्चतलाद् उपरि विमानं, त्रितलान्न्यूनम्।पुरद्वार प्रासादं च न कल्पयेत्।
किञ्च 1.उपपीठ, 2.अधिष्ठानं, 3.उपानहं, 4-पादः, 5.प्रस्तरं, 6.अधिष्टानं,
7.प्रस्तरकूटासाला,
8.संस्थानपञ्जरं, 9.प्रस्तरवेदिका, 10.उपानजगती, 11.कुमुदपट्टिक, 12.कण्ठपट्टिका, 13.महतीपट्टिका,
14.वाजनवेदिका, 15.चरणतलोत्तरहंसमाला, 16.कपोत प्रतिप्रतिवेदिका, 17.कण्ठं,
18.शिखराणि।
क्रमशः अष्टादशाङ्गयुतं त्रयोदशतलादि एकोनविंशति तलान्त,गोपुरादीनि
प्रकल्पयेत्।
एकतलविमान, त्रितलगोपुरं विना गोपुर, विमानतल निर्माणविषये यजमान
नक्षत्रानुगुण सङ्ख्यया
तलकल्पनं कुर्यात्।
<<<<____>>>>
[[67]]
10. विमान, ध्रुवबिम्बस्य द्रव्य निरूपण विधिः
विमान ध्रुवबिम्बकल्पनं तु आधारादि पीठान्तं प्रतिमाया सह शैलेन कल्पितं तथा इष्टकया
कल्पितं,तथैव दारुकल्पितं,विमानं सञ्चितं, शैलेष्टकाभ्यां,तथा इष्टका
दारुभ्यां निर्मितं विमानम् असञ्चितम्।
शैलेष्टका दारुभिः, परिकल्पितं विमानम् उपसञ्चितं, अचलबिम्ब कल्पनस्य च एवमेव
विधीयते। तस्माद्
विमानबिम्ब प्रकल्पनार्थम् इष्टकानिर्माणं-शिलासङ्ग्रहणं, दारुसङ्ग्रहणं च कुर्यात्। शैलेष्टका दारुषु गर्भादि
दोषयुतानि,देवतान्तर अलयगतादि दोषांश्च वर्जयेत् ।
इति विमान,ध्रुवबिम्बस्य द्रव्य निरूपण विधिःनाम दशमः कल्लोलः
<<<<____>>>>
11. इष्टका निर्माण विधिः
इष्टका निर्माणार्थम् आचार्यः रथकारेण निर्दिष्टभुवं गत्वा। प्राङ्मुखः आसने
उपविश्य।
प्राणानायम्य।अस्य देवदेवस्य _______ स्वामिसन्निधौ आलयादिकरणार्थम्
इष्टकाकल्पन मृच्छुद्ध्यर्थं
तदङ्गं पुण्याहवाचनं करिष्ये। इति सङ्कल्प्य। पुण्याहजलेन नीरस काष्ट, ताडन, मर्दित, मृत्समूहं, तद्भुवं
च प्रोक्ष्य। स्थण्डिले लौकिकाग्नौ मूलमन्त्रेण आज्येन, शताहुतीः, मूलमन्त्रेण समिदाज्येन पृथक् पृथक्
शताहुतीः हुत्वा।
ओं कुमुदादि पार्षदेभ्य स्वाहा। ओं वास्त्वीशक्षेत्रपालाभ्यां स्वाहा। ओम्
इन्द्रादि दिक्पालेभ्य
स्वाहा। ओं सप्तऋषिभ्य स्वाहा।इति आज्येन हुत्वा।सम्पातं सङ्गृह्य।मृत्समूहे
निषिच्ये।
अथ वास्तुनाथ क्षेत्रपाल,इन्द्रादीनां बलिं दत्वा। वह्निं विसृजेत्।इष्टकां
तु चतुर्विंशाङ्गुलायामं श्रेष्ठा।
चतुर्विशाङ्गुलायामं मध्यमा, षोडशाङ्गुलायामम् अधमा।आयामार्धविस्तारा,
विस्तारार्धा घना, इष्टका
अयुग्माऋजुरेखान्विता पुरुषेष्टका। तिरश्चीनयुग्मरेखायुता स्त्री इष्टका, पार्श्वयोः वक्ररेखा सहिता
नपुंसकेष्टका।
[[68]]
आयाम विस्तारसमा एकाङ्गुलघना आच्छादनेष्टका।एवम् इष्टका लक्षणाज्ञाः। आचार्येण नियमिताः
कुलालाः प्राङ्मुखोपविष्टाः। इष्टका निर्माणं कृत्वा।ताः शोषणपूर्वकं
दहेयुः।तासु पक्वबिम्ब फलवत्।
एकवर्णाः काम्स्यवत्।सुस्वराः सुपक्वाः सुधृढाः निम्नोन्नतरहिताः समाः
इष्टकाः गृह्णीयात्।
इति -इष्टका निर्माण विधिः- एकादशः-कल्लोलः
<<<<____>>>>
12. शिलालक्षण निरूपणविधिः
सिद्धामहर्षयो यत्र तपस्यन्ति द्विजातयः।
मर्त्यागम्ये देवसेव्ये परिपक्वशिलामये।
पर्वतेषु प्रशस्तेषु गृह्णीयात् प्रतिमाशिलाम्।
इति वचनात् शिलाच्छेदनकाले शिरप्रदेशे कांस्यघण्टाध्वनिः पादप्रदेशे
तालध्वनिः,अभूच्छेत् सा
पुंशिला। तद् ध्वनिनः किञ्चिन् न्यूनध्वनिसहितः सा स्त्रीशिला पक्वबाण्डध्वनियुता या सा
नपुंसकशिला। एताः गृहीतव्याः।
मिश्रध्वनिः स्पर्शे उष्णयुक्ता यासा गर्भशिला त्याज्या। तथा सङ्कीर्णवर्णा
भूपतना च निन्द्या।
किञ्च दवल, पाटल,पीत,कृष्णवर्णैः शिला चतुर्विधाः।ब्राह्मणादि चतुर्वर्ण
पराः।यजमानश्चेद्
दवलादिवर्णक्रमेण बिम्बनि करणीयानि।यद्वा ब्राह्मणस्य दवलादि चतुर्वर्ण शिलाभिः,क्षत्रियस्य
पाटलादिवर्णत्रय शिलाभिः,वैश्यस्य पीतादिवर्णद्वय शिलाभ्यां,शूद्रस्य कृष्णशिलाया बिम्बादिकं
करणीयम्।बिम्बादि निर्माणे तु शीतलकाले सोष्णा,उष्णकाले शीतला, एकवर्णशिला
सङ्गृहणीयाः।
मासादिकालनियमं विना सदा शिलासङ्ग्रहणं कुर्यात्।
पुरुषबिम्बानि पुंशिलायाः तत्पीठानि स्त्रीशिलाया, रत्नन्यसनाधारं
नपुंसकशिलाया।स्त्रीबिम्बानि
स्त्रीशिलायाः तत्पीठानि पुंशिलायाः, आधारं नपुंसकशिलायाः च कल्पयेत्।
दारु पक्वेष्टका बिम्बनिर्माणं च एवमेव कारयेत्।
[[69]]
प्रासादादि निर्माणे तु मूलेष्टकास्थापने पीठादि करणे च स्त्री शिला। उपानादि स्थूप्यन्तं करणे
पुंशिला,गर्भन्यसनकाले मूर्धेष्टका स्थापने च।नपुंसकशिला। एवं शिला सम्पादनीयाः।पक्वेष्टका दारु
प्रासादादि कल्पनं च एवमेव आचरेत्।
इति शिलालक्षण निरूपणविधिः नाम द्वादशकल्लोलः
<<<<____>>>>
13. शिलासङ्ग्रहण विधिः
आचार्यः यजमानेन स्थपतिभिः शिल्पिभिश्च शिलासङ्ग्रहे शैलतटं प्रविश्य। तत्र सवेदिकान्त प्रपां
कल्पयित्वा। प्राङ्मुखः आसने उपविश्य। प्राणायामपूर्वकं, सङ्कल्पविधिना-प्रासाद,बिम्बकल्पनार्थं
शिलासङ्ग्रहणं करिष्ये। तदङ्गोपकरण शुद्ध्यर्थं पुण्याहं वाचयित्वा। तज्जलेन प्रपादिकं,शिलासङ्ग्रहदेशं च
प्रोक्ष्य। अङ्कुरार्पण पूर्वकं वेदिकोपरि धान्यपीठं स्वलङ्कृतान् कुम्भान् संस्थाप्य। अथप्राक्कुण्डे लौकिकाग्निं
प्रतिष्ठाप्य। मध्यकुम्भे वासुदेवं, करके सुदर्शनं, प्राच्यादिकुम्भेषु
इन्द्रादि अष्टदिक्पालान् आवाह्य।
अभ्यर्च्य। परमान्नान्निवेद्य। मूलमन्त्रेण पुष्पफल, घृत,पल्लवैः पृथक्
पृथक् अष्टोत्तरशताहुतीश्च
हुत्वा।पुरुषसूक्तेन चरुणा षोडशाहुतिं हुत्वा।सर्पिषा ओं वनदेवताभ्यस्स्वाहा। ओं पर्वतेभ्यस्स्वाहा। ओं
गण्डशैलेभ्यस्स्वाहा। ओं तटेभ्यस्स्वाहा। ओं शृङ्गेभ्यस्स्वाहा। ओं निर्झरेभ्यस्स्वाहा। ओं
समुद्रेभ्यस्स्वाहा। ओं वृक्षेभ्यस्स्वाहा। ओम् ओषधीभ्यस्स्वाहा। ओं जरायुजेभ्यस्स्वाहा। ओम्
अण्डजेभ्यस्स्वाहा। ओं स्वेदजेभ्यस्स्वाहा। ओम् उद्बीजेभ्यस्स्वाहा। ओं सर्वेभ्योभूतेभ्यस्स्वाहा। ओं
भूर्भुवस्सुवस्स्वाहा।इति पृथक् पृथक् षोडशाहुतीर्हुत्वा।सम्पातं सङ्गृह्य।पूर्णाहुतिं कृत्वा।सम्पातं शिलायां
विसृज्य। अपूपादि भक्ष्यमिश्रितान्नैः सर्वेभ्यो भूतेभ्यो नमः इति बलिं
प्रक्षिपेत्।
सायाह्ने स्वप्नाधिपति मन्त्रेण आज्येनाष्टोत्तरशताहुतिं हुत्वा।
दर्भसंस्तरे आचार्यः यजमानश्च स्वपेताम्।
ततः प्रभाते नित्यकर्माऽनन्तरं दुस्स्वप्नं चेत् शान्तिहोमं कृत्वा।
अस्त्रमन्त्राभिमन्त्रित सिद्धार्थहस्तः
आचार्यः शिलासङ्ग्रहस्थलं गत्वा। (श्लो)-
[[70]]
यक्षाः पिशाचा नागाश्च येऽत्रतिष्ठन्ति नित्यशः।
सर्वे ते व्यपगच्छन्तु सन्निधत्तां सदा हरिः।
इति मन्त्रेण सिद्धार्थान् विकीर्य।
ओं लान्नमःपराय सर्वात्मने नम इति सर्वभूतेभ्यो बलिं ददामि।इति दशदिक्षु
बलिं दत्वा। ओं
यान्नमःपराय पुरुषात्मने नमः इति शिलां सम्स्पृश्य।मूलमन्त्रेणाभ्यर्च्य।
शिलासङ्ग्रहणकाले विज्ञापणं
त्वं सर्वदेवगणधामनिधे विशा?।
अस्मद्गृहेष्वमरपर्वत नाशयाशु।
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमान्नः।
सम्पूजितःपरमभक्तिमतामयाहि
त्वमेव भगवानीशो ब्रह्मविष्णु दिवाकरः।
मूर्ताऽमूर्तात्परं बीजमतःपाहि सनातन।
यस्मात्त्वं लोकपालानां विश्वमुर्तेश्च मन्दिरम्।
रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे।
यस्मादशून्यममरैः नारीभिश्च शिवेन च।
तस्मान्माम्उद्धराशेष दुःखसंसारसागरात्। इति विज्ञाप्य।
लक्ष्मी विज्ञापनं
क्षीरोदार्णवसम्भूते कमले कमलालये।
विष्णुवक्षस्थलस्थेमे सर्वकामप्रदाभव।
2-क्षीरोदार्णवसम्भूते महालक्ष्मी मनोहरे।
पीयूषधामरोहिण्याः सहितोऽर्घ्यं गृहाण मे।)
मूलमन्त्रम् अष्टोत्तरशतवारं जप्त्वा। प्रतिमामानानुगुणं सूत्राणि निपात्य। शिलाच्छेदनार्थं स्थपतीन्
शिल्पिं च आज्ञापयेत्।तेपि शिलां छिन्द्युः।
[[71]]
तदनन्तरं शिलामुद्धृत्य।पुण्याहजलेन शिलाः प्रोक्ष्य।पुरुषसूक्तेन वेदिस्थकुम्भस्थजलेन
अभिषिच्य।करकतोयेन परिषिच्य। शिलाः सङ्गृह्णामीति शिलाः संस्पृशेत्।ततः शिला शकटादिषु
आरोप्य।धाम निनयेत्।
पृथक्काले देवीनां शिलासङ्ग्रहणं चेद् देवीनां तु
श्रीमन्त्रेण,ब्रह्मादिदेवानां तत्तन्मन्त्रेण च, कुम्भे
समावाह्य।अन्यत्सर्वं पूर्ववत् कुर्यात्।
पुं स्त्री नपुंसकशिलासु गर्भवत्यः शिलाः अग्राह्याः।गर्भस्वन्तरवर्तितो
दोषः। माहिषीं नवनीतं
मेषशृङ्गचूर्ण कुरुविन्द,चूर्णयुतं, गोक्षीरेणसम्पेष्य।शिलायां दारौ च
लिम्पेत्।
तदा गर्भो दृश्यते। वीथिकामण्डलवर्तकानि यासु यासु शिथिलो ध्वनिः स्पर्शे
सत्यौष्ण्यं वा जायते ताः
गर्भवति इति मत्वा।तं यत्नेन निरीक्ष्य।उत्पाटयेत्।
किं च रथकारः शिल्पशास्त्ररीत्या च विविधप्रकारेण गर्भपरीक्षां
कृत्वा।गर्भम्
उद्धरेत्।मोहाद्वा,लोभाद्वा सगर्भशिला दारुभ्यां देव धाम [प्रतिमा च कृता यदि राजराष्ट्र यजमानां च
विनश्यति।
गर्भरहित शिलादारुभ्यां देवधाम प्रतिमादिकं करणीयम्।
इति शिलासङ्ग्रह विधिर्नाम त्रयोदश कल्लोलः।
<<<<____>>>>
14. दारुलक्षण विधिः
वृश्चिकादि मिथुनान्तेषु मासेषु दारुसङ्ग्रहणं कुर्यात्।दारुषु अशोकालर्क,
वेशिक,काश्मर्य,केसर,खदिर,चन्दन,तिनिश, पुन्नाग,रोहिक, शैलूष, सप्तपर्ण
हरिचन्दनादयः। पुंवृक्षाः।
आमलक,इङ्गुदी, फलैरुहा फलिनीवयस्था, विशालिका, शिंशुपा, श्रीपर्णिका,
सक्तुफला, हारीतका,
क्षीरिकादयः स्त्रीवृक्षाः।
अगरु, उलूखल, ककुब, कन्दराल, कुन्द, जाम्भव, तमाल, देवदारु, ब्रह्मदार्वादयः
नपुंसक वृक्षाः।
एते अन्तस्सारा वृक्षाः प्रशस्ताः सङ्गृह्णीयात्।
[[72]]
स्वयं शुष्काः दग्ध भग्न, हत, त्वग्वक्र, घुणग्रन्धियुत,कोटर, पक्षिनिवसित, चण्डालादि
अधमसेवित, प्रतिलोमादि वासस्थितमार्ग, देवालय, स्मशान, तटाकादीनां तीरस्थाः, सुषिरादि
सर्वदोषयुक्ताः वृक्षाः त्याज्याः।
सर्वदोष विवर्जितैः घनीभूतैः,सारयुतैः, वृक्षैः बिम्बानि प्रासादादीं च
कल्पयेत्।
पुं स्त्री, नपुंसक,दारूणां सम्योजनं शिलार्घा आचरेत्।
(विज्ञापणम्)
विष्णुसंहितायाम् (14पटले 54-56)
वृक्ष! लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम्।
देवत्वं यास्यसे तत्र दाहच्छेद विवर्जितम्।
जलपुष्पप्रदानेन सधूपैर्बलिभिस्तथा।
लोकास्त्वां पूजयिष्यन्ति ततो यात्स्यसि निर्वृतिम्।
गन्धपुष्पैश्चसम्पूज्य बलिं दत्वा च पूर्ववत्। इति विज्ञाप्य
इति दारुलक्षणविधिर्नाम चतुर्दशकल्लोलः।
<<<<____>>>>
15. दारुसङ्ग्रह विधिः
शिलासङ्ग्रहवद्देशमासाद्य।तदनतरं
प्रपादि बलिदानान्तं, शिलासङ्ग्रवच्चरेत्।
शिलासङ्ग्रवद्धोमो सर्वकार्या यथा विधि।
इति वचनाद् आचार्यः रथकारैः स्थपतिभिः यजमानेन पूर्वोक्त उपकरणैश्च,
दारुसङ्ग्रहदेशमासाद्य। प्रपाकल्पनादि, अपूपान्न बलिप्रदानान्तं शिलासङ्ग्रहवत् कृत्वा। वृक्षमूलम्
अभिषिच्य। सदर्भवस्त्रेण प्रादक्षिण्येन वृक्षम् आवेष्ट्य। वह्नौ आज्येन केशवादि द्वादशनाम्ना मत्स्यादि
दशनाम्ना सप्तव्याहृत्या च सकृद्धुत्वा। पुष्पाञ्जलिपूर्वकं वृक्षसमीपमासाद्य।
[[73]]
कर्मणा पूर्ववृत्तेन स्थावरत्वमुपागतः।
वृणोमि विष्णोर्बिम्बार्थं तव मोक्षाय वै द्रुम।
स्थावरत्वादितो गच्छ दिव्यंरूपमनुत्तमम्।
प्राप्य भोगांश्च विपुलान् वासुदेव प्रसादतः।
अनुभूय ततो मोक्षं याहि सूरि निषेवितम्॥
इति वृक्षमूले पुष्पान् विकीर्य।रक्षासूत्रं बन्धयेत्।अथ सायाह्ने
स्वप्नाधिपतिमन्त्रेण होमादि कृत्वा।
परेद्युः मूलमन्त्रजपान्तं शिलासङ्ग्रहवत् कृत्वा।
शुभे मुहूर्ते कुठारहस्तः आचार्यः कुठारेण,गुणमन्त्रेन वृक्षमूलं त्रिवारं
छेद्य।रथकारहस्त कुठारैः
वृक्षमूलानि छेदनं कुर्युः।ततः गुरुः छिन्नं वृक्षं भगवत् स्वरूपं विचिन्त्य।वेदिका कुम्भजलेन वृक्षान्
प्रोक्ष्य। करकजलेन परिषिच्य।पुष्पान् विकिरेत्।
तदनु यजमानः आचार्यादीन्, रथकारांश्च सम्मानयेत्।तदनन्तरं वृक्षान्
शकटादिषु आरोप्य।धाम
निनयेत्।
इति दारुसङ्ग्रविधिर्नाम पञ्चदश कल्लोलः।
<<<<____>>>>
16. इष्टका स्थापन विधिः
शिलया कल्पित आलयस्य शिला पक्वेष्टकाभ्यां कल्पनालयस्य च।शिलया
इष्टकास्थापनं,पक्वेष्टकया कल्पनालयस्य पक्वेष्टका, दारुभ्यां कल्पितालयस्य दारुणा इष्टकास्थापनं च
कारयेत्। मूलेष्टका द्रव्येणैव मूर्धेष्टकां संस्थापयेत्।प्रथमतः मूलेष्टकास्थापनं प्रथमावरणे, सवेदिकां,
कुण्डयुतां, प्रपां कारयित्वा।तत्र प्राङ्मुखः आसने उपविश्य।
श्रोत्राचमनपूर्वकं प्राणानायम्य. सङ्कल्प्य।
मूलेष्टकास्थापनार्थं सर्वद्रव्य शुद्ध्यर्थं पुण्याहवाचनं करिष्ये इति
सङ्कल्प्य। वाचयित्वा तज्जलेन
इष्टकास्थापन भुवं, सर्वद्रव्यां च प्रोक्ष्य।अथ वेदिका धान्यपीठे वस्त्राद्यलङ्कृतान् गन्धाम्बुपूरितान्
नवकुम्भान् करकां च संस्थापयेत्।
[[74]]
तद् वामवेदिकाधान्यपीठेमध्ये चतस्रः स्त्री इष्टकाः,तत्परितः बहवः स्त्री इष्टकाश्च निधाय। तदुत्तर
धान्यपीठे घृत। क्षीर,दधि, गन्ध,पञ्चगव्य,फलरस, गन्ध,लोह,मधुपूरितान् नवकुम्भान् ब्रह्मस्थानाद्
ईशानान्तस्थानेषु क्रमशः विन्यस्य।तेषु स्नपनकुम्भेषु वासुदेव,पुरुष,सत्य,अच्युत,अनन्त केशव,
नारायण, माधव, गोविन्दानभ्यर्च्य। इष्टका चतुष्टये वासुदेव,सङ्कर्षन,प्रद्युन्न,अनिरुद्धान् आवाह्य॥
क्षीरादिघृतान्तैः कुम्भैः इष्टकाः अभिषिच्य।॥सदर्भ वस्त्रयुग्मेन इष्टकाः
आवेष्ट्य। द्वारपूजां कुर्यात्।
प्रतिसरपूर्वकं चतस्रःइष्टकाःशाययित्वा।तदनु वेदिकामध्यकुम्भे
वासुदेवं,परितः
कुम्भाष्टकेविष्ण्वादिमूर्तीः,करके सुदर्शनं च सम्पूज्य। वेदिका प्राक् स्थण्डिले लौकिकाग्नौ मूलमन्त्रेण्ण
समिदाज्यचरुभिः अष्टोतरशताहुतीः श्रियादिपरिवारमन्त्रेण समिदाज्यतिल
पुष्पैः पुरुषसूक्तेन चरुणा च।
पृथक् पृथक् षोडशाहुतीश्च हुत्वा।ओं ह्रीं स्वप्नाधिपतये स्वाहा इति
सर्पिषा अष्टोत्तरशताहुतीर्हुत्वा।सम्पातं
सङ्गृह्य।पूर्णाहुतिं हुत्वा।इष्टकाः सम्पातेन न्यस्य।आचार्यः यजमानौ दर्भशय्यायां निमित्त ज्ञानार्थं
शयीत।
अतः प्रभाते तु आचार्यः नित्यकर्मादिकं कृत्वा।रात्रौ स्वप्नफलम् अशुभं चेत्
शान्तिहोमं कृत्वा।शुभे
मुहूर्ते वेदघोषैः वाद्यघोषैस्सह इष्टकाः समादाय। गर्भद्वारदक्षिणशाखा अधोभागे मुलेष्टका
चतुष्टयम्।तत्परितः प्राच्यादि ईशानान्तं पुरुषसूक्तेन इष्टकाः संस्थापयेत्।श्रियादि आलयानां तु ऋत्विजः
श्रीसूक्तेन इष्टकाः संस्थापयेत्।इष्टकान्यसनं तु दक्षिण पश्चिमयोः मूलम्।
पूर्वोत्तरयोः अग्रम्।यथा भवति।
तथा इष्टकाः सन्न्यसेत्।
इति इष्टका स्थापन विधिःनाम षोडशकल्लोलः
<<<<____>>>>
[[75]]
17. आलय निर्माण विधिः
इष्टका स्थापनाऽनन्तरं ब्रह्मस्थाने गर्भगृहम्।तत्पुरतः अर्धमण्डपं,महामण्डपं च, अन्तर्मण्डले
भगवदभिमुखे गरुडालयं, कौबेरे आकल्पालयम्,सोमेशानयोर्मध्ये विष्वक्सेन आलयं, अन्तर्मण्डलादि
माध्यान्तर्हारान्त आवरणेषु आग्नेयां, सकूपां पाकशालां,ऐशान्ये सवेदिका,कुण्डान्वितां,यागशालां मध्ये
ऐन्द्रे सबलिपीठं,ध्वजस्तम्भमण्डपं च।अन्तर्मण्डलादि महत्यान्तावरणेषु,नैॠत्यां श्रियालयं,वायव्यां
नीलालयं, सुदर्शनालयं च ,एतेषाम् अविरोधेन परितः। अन्तराः स्थानेषु
भक्तबिम्ब आलयानि।
आस्थानमण्डप, वाहनमण्डप,गरुड, वसन्तादिमण्डपाः,विविधमण्डपाः सकूपोद्यानानि
धान्यादिशालाः,
सद्वारावरण भित्तयः,विमान गोपुराणि तटाकानि च शिल्पशास्त्र विचक्षणैः
शिल्पिभिः कारयेत्।
इति आलयनिर्माण विधिःनाम सप्तदश कल्लोलः।
<<<<____>>>>
18. गर्भन्यास विधिः
गर्भगृहद्वार निर्माणकाले द्वारदक्षिणशाखा पार्श्वे गर्भन्यासं कुर्यात्।स्वयंव्यक्त,दिव्यालय,
जीर्णोद्धारे पट्टिकोपरि।ब्राह्मणश्च यजमानश्चेत् पट्टिकामधस्थात्,क्षत्रियश्चेत्,कुमुदोपरि,वैश्यायदि कुमुदाद्
अधोभागे,शूद्र यदि जगत्याः समेहस्तायामं,तावद् विस्तृतं,तावन् निम्नं,नपुंसकेष्टकया गर्भस्थानं
कल्पयित्वा।तत्पश्चिमे कुण्डं,वेदिं च कारयेत्। सुवर्णादिना दारुणा वा तालायामं तावद् विस्तृतं चतुरङ्गुल
निम्नं चतुःपादयुतं, नवगर्तान्वितं, सापिधानं,गर्भभाजनं,दशमृत्तिकाः, पञ्चकन्दान्, सप्तधातून्, नवरत्नानि,
नवबीजानि,षट् लोहानि, स्वर्णमय कूर्म,शङ्खचक्राणि च, पुरा सम्पादयेत्।
तदनु आचार्यः सुप्रभाते पूर्वोदित उपकरणैः,
एतैर्द्रव्यैः,शिल्पिभिः,यजमानेन
चगर्भन्यासस्थलमासाद्य। तत्र वेदिका धान्यपीठे सदर्भवस्त्रवेष्टित गर्भभाजनं,तत्पुरतः दशमृत्तिकादयश्च
निधाय।प्राङ्मुखः आसने उपविश्य। प्राणानायम्य। अस्यदेवदेवस्य— स्वामिसन्निधौ धामाऽभिवृद्ध्यर्थं,
गर्भन्यासं करिष्ये। तदङ्गोपकरणशुद्ध्यर्थं पुण्याहवाचनं करिष्ये इति सङ्कल्प्य। तज्जलेन गर्भभाजन
द्रव्याणि प्रोक्षयेत्।
[[76]]
तदनु वेद, वाद्य घोष प्रवर्तिते प्रजापतिं मनसाध्यायन् मूलमन्त्रेण गर्भभाजन मृत्तिकादयश्च
अभिमन्त्य।गर्भभाजने भुवं, आत्मानं भगवन्तं ध्यात्वा।गर्भभाजन नवगर्तेषु
समुद्रमृत्तिकाः विन्यस्य।
अथ प्राचीन गर्ते शैलमृत्, उत्पलकन्द, मनश्शिला,वज्र, शालि, हिरण्यानि।
दक्षिणे- पुण्यतीर्थमृत्, कुमुदकन्द, हरिताल, वैडूर्य, नीवार, रजतानि,।
पश्चिमे-नदीमृत्, नीलोत्पलकन्द, अञ्जन, मौक्तिक, कङ्कु, ताम्राणि।
उत्तरे-ह्रदमृत्, कशेरुकन्द, श्याम, पुष्यराग, प्रियङ्गुधान्यानि ।
आग्नेये-कुलीराशयमृत्, सीस, स्फटिक, माष, त्रपूणि ।
नैॠत्ये-वल्मीकमृत्, सौराष्ट्र, मौक्तिक, तिल, कांस्यानि ।
वायव्ये- हलमृत्तिका, रोचना, चन्द्रकान्त, मुद्ग, सौवर्ण, कूर्मप्रतिमाः ।
ऐशान्ये- गजदन्तमृत्तिका, गैरिक, महानील, यवधान्य, सौवर्ण,
शङ्खान्दन्तिदन्तमृत्,
गैरिक, महानील, वेणुधान्य, हिरण्मय, शङ्खाणि।
मध्यगर्ते- वृष, विषाणमृत्, पद्मकन्द, पद्मराग, यव, महारजत, चक्राणि च
मूलमन्त्रेण
विन्यस्य। विष्णुगायत्र्या सप्तवारमभिमन्त्य।
अथ कुण्डमध्ये अग्निं प्रतिष्ठाप्य।भगवन्तम् आवाह्य।मूलमन्त्रेण समिदाज्येन
च
अष्टोत्तरशताहुतीर्हुत्वा।सम्पातं सङ्गृह्य।पुरुषसूक्तेन चरुणाषोडशाहुतीर्हुत्वा।आज्यमिश्रित तिलेन ओम्
इन्द्रादि दिक्पालेभ्यस्वहा।ओं भुवनेभ्यस्स्वाहा। ओं पर्वतेभ्यस्वाहा। ओंसमुद्रेभ्य स्वाहा। ओम्आदित्येभ्य
स्वाहा। ओं वसुभ्यस्वाहा। ओम्मरुद्भ्य स्वाहा। ओम् ऋषिभ्यस्वाहा। ओं
वेदेभ्यस्वाहा।
ओंसर्वशास्त्रेभ्य स्वाहा।ओं पुराणेभ्य स्वाहा।ओं दशदिग्भ्य
स्वाहा।ओन्नागेभ्य स्वाहा। ओं गणेभ्य
स्वाहा।
ओं सर्वभूतेभ्य स्वाहा।ओन्नरेन्द्रेभ्य स्वाहा।ओङ्ग्रहेभ्य स्वाहा। ओं
नक्षत्रेभ्य स्वाहा।
इत्येवं समिदाज्येन च हुत्वा।सम्पातं सङ्गृह्य।सम्पातद्वयं च गर्भभाजन
गर्तेषु मूलमन्त्रेण निषिच्य।ओम् इति
पिधानेन गर्भभाजनं पिदाय।पूर्णाहुतिं प्रायश्चित्ताहुतीश्च हुत्वा।वह्निं विसृजेत्।
[[77]]
ततः रजन्यां सुमुहूर्ते उपोषितवान् सर्वालङ्कारसंयुक्तः आचार्यः सवेदवाद्यघोष आज्यदीपं,
गर्भभाजनमादाय। देवसदनं प्रदक्षिणी कृत्य।गर्भस्थानमासाद्य।गर्भनिम्नधान्यपीठस्थे कूर्चे ओं ह्रीं भूम्यै
नमः आगच्छाऽऽगाच्छा इत्यावाह्य। भुवम् ऋतुस्नातां विचिन्त्य।आत्मानं विष्णुं
ध्यात्व।
सर्वभूतधरेकान्ते पर्वतस्तनमण्डिते।
समुद्रपरिधानीये देवी गर्भं धरे धर॥
इति प्रार्थना पूर्वकं गर्भभाजनं निम्नमध्ये निधाय।पुष्पान् विकीर्य।अथ
नपुंसकैष्टकया सुधया च
निम्नमाच्छाद्य।दृढीकरणं कारयेत्।गर्भन्यासाऽनन्तरं द्वारशाखा स्थापनादि, विमानमस्तकान्तं स विमानं
गर्भगेहं कारयेत्।
गर्भन्यासात्परं शैलेन मूलबेराणि द्वारपालका देवता बिम्बानि,
श्रियादिपरिवारालय,ध्रुवप्रतिमा च
…….कर्मार्चादि कौतुकानि च कारयेत्।
इति गर्भन्यास विधिः-नाम अष्टादश कल्लोलः।
<<<<____>>>>
19. मूर्धेष्टका विधिः
ततो मूर्धेष्टकादानं कुर्याद्देशिकसत्तमः।
मूर्धेष्टका विधिश्चापि मूलेष्टक समो भवेत्।॥
इति वचनाद् विमानादीनां मस्तक निर्माणाऽनन्तरं मूर्धेष्टकार्थ नपुंसक
इष्टकानां सर्वं कर्म कृत्वा।
प्रभाते शुभे मुहूर्ते वेदवाद्यघोषपुरस्सरम् ऋत्विग्भिस्सह इष्टकां समादाय।
प्रादक्षिण्येन विमानं
प्राप्य।पुण्याहजलेन प्रोक्ष्य। प्राङ्मुखःस्थित्वा विमानमस्तके प्रागादि प्रादक्षिण्येन मूलमन्त्रमुच्चरन् इष्टकाः
संस्थाप्य।प्रणवेन मूर्धेष्टकया ब्रह्मरन्द्रम् आच्छादयेत्।एवम् ऋत्विजस्तु श्रियादिदेवि विमानादीनां मूर्धेष्टका
अंस्थाप्य। अथ यजमानस्तु आचार्यादीन् सम्मानयेत्। शिल्पि प्रमुखाः, विमानगोपुरादीनां मस्तकोपरि
यावत् स्थूपिकाकुम्भं,तावत् कीलगर्तयुतं स्थूपिका पीठपद्मं कुर्युः।
इति मूर्धेष्टका स्थापनविधिर्नाम एकोनविंशति कल्लोलः।
<<<<____>>>>
[[78]]
20. विंशति कल्लोलः स्थूपिकाकुम्भ निर्माण विधिः
स्थूपिका कुम्भनिर्माणार्थं विमान चुबुकादि मस्तकान्तोन्नतिं द्विभागी कृत्य। भागेनैकेनायामं तावद्
विस्तीर्णं तावदुन्नतं,समेखलामध्यमं स्थूपिकाकुम्भं कृत्वा।तत्कुम्भोन्नतिं दशधा विभज्य।अधं दशभाग
विस्तारं तावद् आयाम उपरिषड्भागायामां तावद् विस्तारं मध्ये पञ्चभागोन्नतं, विकच कमलाकृतिं,
तदुपरिषड्भागायामं तावद् विस्तारं त्रिभागोन्नतं शङ्खोदराकारं,तस्ये पुराकल्पितं कुम्भं तदनु पञ्चभाग
विस्तारं तावदायतं, भागद्वयोन्नतं,नाभिदेशे कूर्मपृष्ठाकारं,षोडशारे नेमिद्वयं,पश्चान् मूलचतुर्भाग विस्तारं
तावद् दीर्घं,पञ्चभागोन्नतम्।
किञ्च- स्थूपिकाकुम्भम् अश्रे अश्रं,वृत्ते वृत्तं,कुर्यात्।यद्वा
वृत्ताश्रविमानयोः वृत्तं वा एवं स्थूपिकां सुवर्णादि
लोहजं,शैलजं दारुजं वा.पक्वेष्टका, सुधामयं वा कारयेत्।
इति स्थूपिकाकुम्भ निर्माण विधिःनाम विंशति कल्लोलः॥
<<<<____>>>>
21. स्थूपिका, कीलस्थापन विधिः
चतुरश्रादि अश्र, वृत्त, विमानेषु स्थूपिका कुम्भमेकम्। कीलं च एकमेव। चतुरश्रादि आयत,
वृत्तायत, विमानेषु गोपुरादि प्रासादेषु च युग्मानि अयुग्मानि वा कीलानि
स्युः।
विंशतिं यावद् युग्मानि,एकोनविंशतिं यावद् अयुग्मानि। यजमानः
मोक्षकामश्चेद् युग्मानि।
भुक्तिकामश्चेद् अयुग्मानि।कीलानि स्थापयेत्।यावत् स्थूपिकोन्नतं
तत्द्विगुणायामं, तत्पादमानं घनं,
चतुरश्रं, अष्टाश्रं, वृत्तं वा स्थूपिकाकुम्भं न्यसनयोग्यम्।कीलं लोहजं दारुजं वा कारयेत्। आचार्यः
विमानादीनां कीलस्थापनार्थं कीलानि सङ्गृह्य।तेषां मूलेष्टकावत् संस्कारं कृत्वा।सुमुहूर्ते वेदवाद्यघोषैः
कीलानि विमानादि अग्रदेशं प्रापयेत्।
तदनु आचार्यः विमानाग्रदेशम् आसाद्य।पुण्याहजलैः प्रोक्ष्य। प्राङ्मुखस्सन्
कीलस्थापन गर्ते लोह,
रत्न, बीजानि निक्षिप्य। सदर्भ, वस्त्र, आम्रपल्लवं, कीलं प्रतिगर्ते प्रणवेनसंस्थापयेत्। ऋत्विजश्च श्रियादि
विमानगोपुरादि द्वारप्रासादं च एवं कीलानि स्थापयेयुः।ततः शिल्पिवरः कीलानि दृढीकरणं कुर्यात्।
[[79]]
स्थूपिकाकीलस्थापनात्परं दारुमयानि मूलादिबिम्बानि स्नानपीठादि. पूजोपकरणानि, भद्रपीठादि
रथान्तानि, वाहनानि, गर्भगेहादि द्वारकवाटानि,अन्योपकरणानि च
दारुलक्षणज्ञैः, रथकारैः कारयेत्।
इति स्थूपिकाकुम्भ कीलस्थापन विधिःनाम एकविंशति कल्लोलः-।
<<<<____>>>>
22. पञ्चतल विमानान्त दिक् देवताकल्पन विधिः
नागर, द्राविड, वेसराख्य विमान कण्ठस्थानेषु हस्ताभ्यां विमानमस्तकधारिणः, वीरसेनः,
सुषेणः, भद्र, सुभद्रकान्, विमान बाहुमूलकोणेषु साञ्जलि गरुडम्,
पञ्चतलविमानस्य पञ्चतलदिक्षु वासुदेव, सङ्कर्षण, प्रद्युम्न, अनिरुद्धान्, चतुर्थदलदिक्षु पुरुष, सत्य,
अच्युत, अनन्तादीन्, तृतीयतलदिक्षु - नारायण, नृसिंह, श्रीधर, शेषपीठान् ।
द्वितीयतलदिक्षु - उपेन्द्र,वाराह,पद्मनाभ,हयग्रीवान्।
प्रथमतलदिक्षु – गरुडारूढ लक्ष्मीनृसिंहः, विश्वरूपः, श्रीभूविशिष्ट
शेषपीठस्थान् कारयित्वा।
विभवावतारबिम्बादीनि च कारयेत् ।
किञ्च- चतुरश्रायत विमानमस्तक पार्श्वयोः दक्षिणोत्तरमहनासिकयोः मध्ये
यवनिकास्पर्श वीरसेन,सुषेणौ
च।वृत्तायत विमान प्राङ्मुखस्थित महानासिकामध्ये तद्वद् वीरसेनम्,सुषेणम्,विमानतल प्राङ्कणेषु-
वीणाफणवधारिणः, किन्नरोरगान्,नृत्यतस्सु विद्याधरान्, तत्तत् स्थलपुराण कथाप्रदर्शन प्रतिमांश्च
कल्पयेत्।
एकतलादि चतुस्थलान्त विमान कल्पने तु- पञ्चतलविमानवत् पञ्चतलादि स्थूप्यन्तं
दिक्
देवतादिसहितं, विमानप्रकल्पनं यत्, तद् एकतलविमानम् इति। तथा चतुर्थतलादि स्थूप्यन्तं निर्मितं
विमानं द्वितल विमानम् इति-
तथैव त्रितीयतलात् स्थूप्यन्तं परिवृतं विमानं त्रितलविमानम् इति- तद्वच् चतुस्थतलमारभ्य
स्थूप्यन्तं कल्पितं विमानं चतुस्थल विमानम् इति च उच्यते।
एवं चतुरश्र,चतुरश्रायत,वृत्त,वृत्तायतादि प्रतिमासहितानि। एकतलादि
पञ्चमतलान्तानि
विमानानि प्रकल्प्य। अथ आवरण द्वार,प्रासादादिकं कारयेत्।
[[80]]
देवधाम प्रथमावरणादि आवरण पूर्वादिद्वारादिषुप्रकल्पितेषु त्रितलादि एकोनविंशत्तलान्त
प्रासादादिषु-प्रतितल पूर्व,पश्चिमतलयोर्मध्यदेशे गवाक्ष परिकल्पनं कृत्वा। गवाक्ष पार्श्वयोः-
जय,विजय,चण्ड,प्रचण्ड-शङ्ख,पद्मनिधौ द्वाराध्यक्षान्।
प्रासाद प्रतितल दक्षिणोत्तरतल मध्यदेशेषु-नृसिंह,अनन्तासन भगवन् मूर्तिः।
प्राङ्कणान्तरस्थलेषु
भगवदवतार प्रतिकृतयः। स्थलपुराणकथाप्रदर्शन, देवबिम्बानि च कारयेत्। श्रियं विना अन्य देवीनां
विमानेषु-तुष्टिस्थाने तत्तदालय देवीं च कल्पयेत्।अन्यत्सर्वं श्रियालयवत्
कारयेत्।
इति पञ्चतल विमानान्त दिक् देवताकल्पन विधिः नाम द्वाविंशति कल्लोलः
<<<<____>>>>
23. ध्रुवादि प्रतिमा निर्माणविधिः
ध्रुवादिप्रतिमा निर्माण विधिरुच्यते
शिला, सुधा, दारु, मृत्, हेमादिलोह, रत्न, स्फटिकरूपप्रकृति द्रव्यभेदेन सप्तविध शिला। शिला सुधादि
दारु, मृद्भिःप्र कल्पितं बिम्बं ध्रुवबिम्बमिति वक्ष्यते। तत् स्वार्थ,
परार्थसम्पत्प्रदं भवेत्।
ध्रुवार्चा निर्माणविषये गर्भविस्तारायामं गर्भगेहद्वारोच्छ्रायं,
विमानहस्तोच्छ्रायं, पादोच्छ्रायं वा,
गर्भद्वारोच्छ्रायं नवधा बध्वा। भाग एकं सन्त्यज्य। अष्टभागोन्नतं गर्भद्वारोच्छ्रायं पञ्चधा विभज्य। भागम्
एकं त्यक्त्वा।चतुर्भागोन्नतं वा ध्रुवभेरोन्नतमिष्यते।
शिलाच्छेदे तु- यत् शिरप्रदेशे कांस्यघण्टा ध्वनिः,पादमूले तालध्वनिः,सा
पुंशिला।
किञ्चिन् न्यूनध्वनि यदि सा स्त्रीशिला,नादहीन,मन्दध्वनि चेत् सा नपुंसकशिला
भवति।
भगवतः, देव्यादिबिम्बानि शीतलयाशिलया कारयेत्।
किञ्च चतुर्भुजं,द्विभुजं वा शयानम् आसीनम्,स्थितम्,यानारूढं वा, त्रिविक्रम
विश्वरूपं वा,यजमान इच्छया
बिम्बानि करणीयानि।
परतन्त्रश्रियादिदेवीः देवस्कन्धोन्नताः,द्विभुजाः सौम्यवक्त्राः।
तथा स्वतन्त्रदेवीश्च, तादृशोन्नताः,चतुर्भुजाः,द्विभुजा वा कारयेत्॥
[[81]]
पुरुषशिलया भगवदादि पुरुषबिम्बानि।स्त्रीशिलया श्रियादिदेवि बिम्बानि च
कारयित्वा।
पुरुषशिलादीनां स्त्रीशिलया आधारपीठम्, स्त्रीबिम्बानां पुरुषशिलया
आधारपीठं च प्रकल्प्य।
पुंस्त्रीबिम्बयोः स्थापनार्थं बिम्बशङ्कुद्वारपरितः अष्टदिक्षु
रत्नन्यासगर्तसहितःपद्मवत् परिष्कृताः।
नपुंसकशिलया आधारपीठोपरि स्थापयेत्।
एवं पुंस्त्री दारुभिः भगवद्देवि बिम्बादीनि कारयेत्।
इति ध्रुवादि प्रतिमा निर्माणविधिःनाम द्वात्रिंशत् कल्लोलः।
<<<<____>>>>
24. कर्मार्चादि कौतुकनिर्माणक्रमः
कर्मार्चादि कौतुकनिर्माणक्रमेण हेमादि लोहैः कारयेत्।
मूलबेरोच्छ्रायं दशधा विभज्य।भागद्वयेन कर्मार्चां कल्पयेत्।यद्वा
मूलबेरसमुच्छ्रायं त्रिंशोत्तरशतभागं
कृत्वा। तेषु षड्विंशभागोन्नतां, चतुर्विंशभागोन्नतां,
अष्टादशभागोन्नतां,वा कर्मार्चाम्।
एकादशभागोन्नतं नित्योत्सवकौतुकाख्य मखबिम्बम्।
नवभागोन्नतं बलिबेरम्। अष्टभागोन्नतम्=तीर्थकौतुकम्,
सप्तभागोन्नतम्-स्नानप्रतिमा। षड्भागोन्नतं
चातुर्मास्य योगशयनोत्सवार्थं शयन प्रतिकृतिम्। दशभागोन्नतं नित्यपूजन भोगशयनार्थम्। स्वाप
प्रतिमानां च कारयेत्।
एकबेरस्थापने तु कर्म,स्नानबिम्बं विना चतुष्टयबिम्बानि कल्पयेत्।
भोगशय्या कौतुकं विना कर्मार्चाद्यन्यबिम्बानि स्थितानि,आसीनानि वा
प्रकल्पयेत्।
सुवर्णनिर्मितार्चा, सर्वसम्पत्करी।रजतबिम्बं धनं,यशो,विजय, विज्ञानदम्।
रत्न, स्फटिकार्चा,= वैराग्य,
ज्ञानदायिनी भवति। ताम्रकौतुकं=ऋद्धि,शान्ति,
विज्ञान,यशस्,कीर्तिं,धान्यादि,समस्त सौभाग्यदायी।
देवधाम पूजने तु तत्तत्कर्मार्थबिम्बानि हेमादिलोहैः करणीयानि।
स्वगृहपूजायां तु हेमादिलोहार्चा रत्नस्फटिकार्चा च पूजायोग्या भवेत्।
परत्वादि विभवान्त भगवद्रूपेषु
यजमानेच्छयानुगुणं भगवद्रूपम्। ध्रुवबिम्बं कर्मार्चादि बेरं च शिल्पिवर्यैः कारयेत्।
[[82]]
तत्तत् कर्मार्थबिम्बेषु चतुर्भुजं द्विभुजं वा कर्मभेरं सौम्यवक्त्राणि चतुर्भुजानि,नित्योत्सवादिबिम्बानि
सौम्यवदनं,द्विभुजं,सृष्टिशयनवद् बालवपुषं,भोगशयन कौतुकं च प्रकल्पयेत्॥
इति कर्मार्चादि कौतुकनिर्माणक्रमःनाम चतुर्विंशः कल्लोलः॥
<<<<____>>>>
25. ध्रुवादिबिम्बस्थापनक्रम निरूपण विधिः
देवधामनिर्माणाऽनन्तरं मूलबिम्बं स्थापनार्थं पदकल्पनं कारयेत्।
गर्भगेहाभ्यन्तरे प्राङ्मुखानि दश उदङ्मुखानि तावन्ति सूत्राणि निपात्य। तैः
सूत्रपातैः प्रदर्शितेषु
एकोत्तराशीति स्थानेषु मध्यमंस्थानं ब्राह्मम्। तत्परितः द्वितीयं दैवं,तृतीयं पैतृकं,तुरीयं मानुषं, पञ्चमतं
पैशाचं, एवं स्थानानि विभज्य।ब्रह्मस्थानाद् गर्भगेहद्वारावधि भागस्थानानि
सन्त्यजेत्।
मूलबेरकल्पनं तु एकबेरं-बहुबेरं, इति च द्विविधम् उच्यते।तयोः श्रियादिदेवि
रहितं ब्रह्मस्थानस्थापितं
शैलजं, स्थितबिम्बमात्रम् एकबेरम्।
श्रियादिदेवि सहितं दिव्यस्थाने स्थापितं शिलामयादि स्थितबिम्बं,किञ्चिद्
दिव्यमानुषम् आश्रित्य।
पैतृकस्थाने स्थापितम् आसीनबिम्बं दिव्यादि मानुषान्त,स्थानत्रये
संस्थापितम्।
शयनबिम्बं= मानुष, पैशाच स्थानद्वये संस्थापितम्।
यानारूढबिम्बं, त्रिविक्रमः, विश्वरूपं च बहुबेरम् इति इष्यते।
शैलजानि, मूलबिम्बानि प्रतिष्ठारम्भात् पूर्वं गर्भगेहे
रत्नन्यासादिपूर्वकं संस्थापयेत्।मूलबिम्बम्
इष्टका,सुधादिभिःनिर्मितं चेद् विमान मूर्धेष्टका स्थापनानन्तरं मूलबिम्बानुगुणं स्थानं सङ्गृह्य।तद्भुवं
खात्वा। बिम्बानुगुणं स्त्री इष्टकया पुरुषेष्टकया वा पीठं प्रकल्प्य।नपुंसकेष्टकया गर्तम्परिकल्प्य।तस्मिन्
मूलमन्त्रेण रत्नादिपूरितकलशं निधाय।इष्टकया सुधया च गर्तम् आच्छाद्य।समभुवं कृत्वा।तदुपरि
पुरुषेष्टकया शूलस्थापनार्थं गर्तं परिकल्पयेत्।ततःपरम् आचार्यः जलाधिवासादि शय्यान्तकर्मणा
सम्स्कृतानि ध्रुवबेरानुगुणानि लोहजानि दारुजानि शिलाजानि भगवदवतार रूपायुधादि लक्षणज्ञेषु
उपलगण्ढवर्धा(र्ध)न्तेषु शिल्पिषु दत्वा। मूलबिम्बं कारयेत्।
[[83]]
किञ्च शैलज, इष्टकादि निर्मित बहुबेराख्य मूलबिम्ब विषये स्थिते सुखासीने शयनाद्यवसरे,त्रिविक्रम,
विश्वरूपे च। श्रियादिदेवीः ब्रह्मादि देवान् प्रह्लादादि भक्तवर्यां च ध्रुवभेर पश्चाद्भागे-पार्श्वयोः,
भगवदभिमुखे पार्श्वयोश्च प्रकल्पयेत्।
शङ्खचक्राद्यायुधदेवाधिपान् मानुष पैशाचस्थानेषु स्थितान्वा, आसीनान्वा
साञ्जलिहस्तान्
कारयेत्। ध्रुवबेराभिमुखे गर्भगेहद्वारावधि अन्तस्थ पदेषु बिम्बादिकं न
कल्पयेत्।
किञ्च गर्भगृह द्वारपार्श्वयोः चण्ड,प्रचण्ड अन्तर्मण्डलद्वारपार्श्वयोः
जय,विजयौ।अन्तर्हारादि द्वारपार्श्वयोः
धात्रादिद्वारपालाः। महामण्डपादि मण्टपमध्ये भगवदभिमुखे साञ्जलिहस्तं गरुडम्। श्रियादिदेव्यालयेषु
श्रियादिदेवीः-तद्द्वारपार्श्वयोः चण्डीं,प्रचण्ड्यौ, चामरधारिण्यौ स्थाप्य। तस्मिन् आवरणस्थिते
विष्वक्सेनाऽऽलये सेनपं, तद्द्वारपार्श्वयोः गजाननं, सिंहवक्त्रं,
तर्जनीमुद्रान्वितं, द्वाराध्यक्षम्।
तद्बहिःआवरणस्थ भक्तबिम्ब आलयेषु भक्तबिम्बानि तत्तद्द्वारपार्श्वेषु
तत्तत् शिष्यान् अञ्जलिहस्तांश्च
कारयेत्।
इष्टकादि निर्मित ध्रुवबिम्बानि गन्धतैलेन आलेपयेत्।अन्यानि द्वाराध्यक्षादि
बिम्बानि
पञ्चवर्णादिभिः रञ्जयेत्।
इति ध्रुवादिबिम्बस्थापनक्रम निरूपण विधिः नाम पञ्चविंशः कल्लोलः॥
अनुबन्धम्
अभिवलजम्
प्राच्यां तु प्राङ्मुखो भूत्वा नैवेद्यं तु निवेदयेत्।
आग्नेया प्राङ्मुखं चैव याम्यायां दक्षिणामुखः।
नैॠत्यां च प्रदीच्यां च पश्चिमाभिमुखो भवेत्।
प्रत्यङ्मुखस्तु पवने सौम्यायाञ्चोत्तरो मुखः।
प्राङ्मुखं च तथा सर्वान् पूजयित्वा द्विजोत्तम।
देवं प्रपूजयेत् पश्चान् नैवेद्यान्ते विशेषतः।
<<<<____>>>>
[[84]]
इति श्रीपाञ्चरात्रे क्रियासुधाब्धेः पूर्वभागः समाप्तः
<<<<____>>>>
[[85]]
श्रीः
चाटुश्लोकानि
कुम्भघोणे विराजमान त्रिमूर्ति स्वरूप ध्यानं
श्रीरामभद्र रघुनन्दन चक्रपाणे,श्रीपद्मनाभ पुरुषोत्तम शार्ङ्गपाणे।
युष्मान् विहाय मम नास्ति गतिश्च कापि युष्माभिरेव परिपालयितव्य एषः।
वेदान्ताचार्य ध्यानं
सर्वतन्त्रस्वतन्त्रत्वात् शास्त्रदीप प्रदानतः।
श्रीवेङ्कटाद्रि नाथोऽसौ साक्षाद्वेदान्तदेशिकः।
तातदेशिक तनियन्
श्रीमद्वेङ्कटनायकेन जगतां तातेन वाक्यात्परम्।
तातेत्यादरतो हि यस्य महिमा लोकप्रसिद्धङ्गतः।
तं तातस्य च तातमार्यशरणं श्रीशैलपूर्णं गुरुम्।
भारद्वाजकुलीनमाश्रितनिधिं प्रज्ञानिधिं संश्रये॥
आगमार्य प्रार्थना
आगमान्त गुरुपादपङ्कजं वज्रकल्पसरोरुहाञ्चितम्।
रम्यमर्धित फलप्रदं नृणाम् आश्रये सकल भव्य सिद्धये।
अमुदाऽभिमान चातुर्गोत्रिणः (अर्चकाः)
भारद्वाज वसिष्ठश्च विश्वामित्र तपोधनः।
कौण्डिन्यश्चापि मुनयो अस्मद्गोत्रप्रवर्तकः।
कोमलाम्बा ध्यानम्
*शुकौद्वौ सहित महालक्ष्म्याः(कोमलाम्बा) ध्यानम्
पातालाताऽधस्ताद्विलसित भुवन व्यूह आतस्तुषाणाम्।
विज्ञातु स्व प्रजानां कुशलमविकलं प्रेरितःकीर एकः।
[[86]]
एकस्तुर् प्रतिखन करुणे प्रेषितान् हि त्व याथा।
तद्वृद्यप्सयाकि निशि तवयेत्य भाता शुकौ द्वौ॥
2- अपर्याप्ताऽमृतोनन्दो सुधासिन्धु सितांशवः।
कोमलाम्बा कटाक्षा नः कल्पयन्तु शुभं तथा॥
कोमलाम्बा ध्यानम्
3-सिन्धूरारुण कान्तिमब्जवसितं सौन्दर्यवारा निधिम्।
कोटीराङ्गतहारकुण्डल कटिसूत्रादिभिर्भूषितम्।
हस्ताब्जैः वसुपत्रमब्जयुगलादर्शैर्वहन्तीं पराम्।
आसीनां परिचारिकाभिरनिशं ध्यायेत् प्रियां शार्ङ्गिणः।
3-न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो।
न चाह्वानं ध्यानं तदपि च न जाने स्तुति कथा।
न जाने मुद्रास्ते तदपि च न जाने विलपनम्।
परं जाने माते! स्त्वदनु शरणं क्लेशहरणम्॥
राकाचन्द्रनिभाननां भगवतीं फुल्लासितेब्जेक्षणाम्।
तन्वीतुङ्ग पयोधरां प्रविलसत् हेमाऽरविन्दासनाम्।
अब्ज द्वन्द्व मथाऽभयं च वरदं हस्तैर्वहन्तीं सदा।
वन्दे वाञ्छितदायिनीं श्रियमहं श्रीशार्ङ्गिणः प्रेयसीम्।
शार्ङ्गपाणिस्वामि ध्यानम्.(मूलवर्)
1-कावेरी ब्रह्मनद्याः सलिलविलसिते मध्यगे कुम्भघोणे।
दीप्रेऽस्मिन् विमाने कनक कमलिनी पूर्वतो वैदिकाख्ये
शेषाङ्गोत्थानशायी शुभसुभग तनुः कोमलाम्बा पतिर्नः।
कल्याणं शार्ङ्गधन्वा कलयतु सततं स्वाश्रितानां शरण्यः॥
[[87]]
2-वेद्यं वेदगुरुं विरिञ्चिजनकं वेदान्तमूर्तिस्फुरत्।
वेदं वेदकलापमूलमहिमा धारान्त कन्दाङ्कुरम्।
वेदशृङ्गसमानशेषशयनं वेदान्तवेदात्मकम्।
वेदाराधित पादपङ्कजमहं श्रीशार्ङ्गराजं भजे॥
3- कुम्भघोणपुराधीशं श्रियाध्यासित वक्षसम्।
श्रितचेतनमन्दारं श्रीशार्ङ्गिणमहं भजे।
4-शान्तं शारदचन्द्रकोटिसदृशं चन्द्राभिरामाननम्।
चन्द्रार्काग्नि समानकान्तिसहितं हेमर्षिवाञ्छा प्रदम्।((शालीशुकाभीष्टदम्।)
हेमाभिख्य सरस्तटे विलसितं(साराख्ये सरसस्तटे निवसितम्)
श्रीकोमलाम्बायुतम्।श्रीशं शार्ङ्गराजमहं भजे॥(श्रीसौन्दर्यराजं भजे।)
4-a शार्ङ्गीति वर्णद्वयनामयुक्तः षडक्षरी मन्त्रपदैकवाच्यः।
स्वाष्टार्णमन्त्रं जपतां बुधानां विष्णुर्ददात्यक्षरमात्मबोधम्।
5-आपीठान् मौलिपर्यन्तम् आभिरूप्यं विलोकयन्।
अपर्याप्तमृतं वन्दे इष्टसिद्धि समृद्धये॥
6- सुवर्ण मकुटानन्द तुलसीमाल्यशोभित।
समस्तजगदाधार शङ्खचक्र गदाधर।
दामोदर नमस्तुभ्यं त्रयीमय जनार्दन।
दानवारे जगन्नाथ! शार्ङ्गपाणे नमोस्तु ते।
7–जयति जयति नित्यं कुम्भघोणादिदेवः।
जयति जयति नित्यं कोमलाम्बा सहायः।
जयतु जयतु नित्यं तृप्तिदूरोऽमृतात्मा।
जयतु जयति नित्यं शार्ङ्गराजः प्रसन्नः।
[[88]]
8- वन्दे कोमलवल्लीशं चक्रशङ्खाब्ज धारिणम्।
हेमाब्जनी तटचरं शार्ङ्गपाणिमहर्निशम्।
खगासनारुणारूढमीदृशं सोमभूषितम्।
अकलङ्गेन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे।
9- दण्डके आर्या वृत्तम्-
माता कोमलवल्ली मान्यः श्रीशार्ङ्गपाणीरेवः पिता।
क्षेत्रं च कुम्भघोणं स्यात् कावेरी सलिलमेव तत्।
10-सोपानारोहण ध्यानम्।
श्रीशार्ङ्गराज गजराज मतीव मत्तम्।यान्तं यदस्तु निलये नयनेप्य सिन्धुम्।
सोपानमार्गःपरिरोहणास्युः गानसान्त्व लालैश्चिरेण चतुरा निलयं विनिन्युः॥
अमुदन् कृपा
11-सकलभुवन मध्ये निर्धनाश्चाति धन्या।
निवसति हृदियेषां श्रीहरे भक्तिरेका।
हरिरवि निजलोकं सत्वरं संविहाय।
प्रविशति हृदि तेषां प्रेमसूत्रापि नद्धः।
क्षेत्रप्रशंसा
2-जयजय कोमलतिलके कराब्जे
जयजयजम्भारिसेवित पदाब्जे।
जयजय जलजाक्षि शार्ङ्गिणे कान्ते।
<<<<____>>>>
[[89]]
संस्कृतभाषा वर्धनि आयुश्च
यावद् भारतवर्षं स्याद् यावद्विन्द्य हिमाचलम्।
यावद्गङ्गा च गोदा च तावदेव हि संस्कृतम्।
अमृतं मधुरं सम्यक् संस्कृतं हि ततोऽधिकम्।
योगलक्ष्म्याः ध्यानं
काञ्चनाम्बुरुहप्रख्यां पद्मोत्पलसुगन्धिकाम्।
सुनेत्रां द्विभुजां सौम्यां नीलालक विभूषिताम्।
रक्तपादाम्बुजतलं सुरक्तकरपल्लवाम्।
श्रीमद् विशाल सद्वृत्त ललाट तिलकोज्ज्वलाम्।
भूषितं चारुसर्वाङ्गं भूषणैरपिशोभिताम्।
दधानं सरसां मालां विशालां हेमनिर्मिताम्।
ईषत्स्थितां सुबिम्बोष्टीं नूपुराम्बर शोभिताम्।
प्रसन्नवदनां दिव्याम् अनन्तमहिमास्पदाम्॥
लक्ष्म्याः स्वस्तिवाचनं
धन्या यशस्या चायुष्या सर्वकिल्बिषनाशिनी।
प्रयुञ्जतस्सम्यगिमां नरेन्द्र इव भूतले।
न जातु लोके भयमस्ति किञ्चिद्
आरोग्यमासाद्य चिरं च जीवेत्।
प्राप्नोति लक्ष्मीं सकलां च भोगान्॥?
अष्टलक्ष्मि प्रार्थना
हस्ते ते त्यागलक्ष्मीः नयन सरसिजे किं तु कारुण्यलक्ष्मीः।
श्रोत्राग्रे शास्त्रार्थलक्ष्मीःनिवसतु सततं मोहने कान्ति लक्ष्मीः।
बाह्वोस्साम्राज्यलक्ष्मीः शिरसि विजयते वीरकोटीर लक्ष्मीः।
[[90]]
वक्त्रस्था सत्यलक्ष्मीः वसतु तव गृहे सन्ततं राज्यलक्ष्मीः॥
लक्ष्मीः
द्विभुजा व्यूह लक्ष्मीस्स्याद् बद्धपद्मासन प्रिया।
श्रीनिवासाङ्गमध्यस्था सुतरां केशव प्रिया।
लक्ष्म्याभिषेकस्तु वासरे भार्गवे हरे।
सान्निध्यकारी सततं सर्वसम्पत्प्रदायकम्।
नीलादेवि ध्यानं
देवस्य वामपार्श्वे तु नीलां श्यामल सन्निभाम्।
धम्मिल्लसहितां देवीम् पूर्णचन्द्रनिभाननाम्॥
स्तनबन्धविहीनाङ्गीं सर्वाभरण भूषिताम्।
नीलोत्पलं वामकरे धारयन्ती सु विस्मिताम्॥
प्रसारितेतरकरां प्रसन्नेन्दु निभाननाम्।
भक्ताभीष्टप्रदां देवीं सुमुखीं भावयेत् सदा॥
पट्टाभिरामःध्यानम्।(एकश्लोकी रामायणम्)
पुत्र त्वं प्राप्य विष्णुर्दशरथनृपते रेत्यसीतापति त्वम्।
तादाज्ञो मुक्तराज्ञो हृदनुजदयितो दत्त गृध्रापवर्गः।
कृत्वा सुग्रीव सख्यं सुरपति सुतभिज्ञातसीता प्रवृत्तिः।
सेतूत्तीर्णाब्धिरस्मान् निहतदशमुखः पातु पट्टाभिरामः।
अवतार गायत्रि
ओं क्लीं कृष्णाय विद्महे ह्रीं रामायधीमहि।
तन्नो देवः प्रचोदयात्।
[[91]]
ओं शं नृसिंहाय विद्महे श्रीकण्ठाय धीमहि। तन्नो विष्णुः प्रचोदयात्।
ओं वासुदेवाय विद्महे देवकीसुताय धीमहि।
तन्नो कृष्णः प्रचोदयात्।
*सुदर्शनाय विद्महे सहस्राक्षायधीमहि।
तन्नश्चक्र प्रचोदयात्॥
*हंसपुरुषाय विद्महे सोहं हम्साय धीमहि।
तन्नो हंसःप्रचोदयात्॥
नृसिंहः
1-भक्तभयापह तदपेक्षा समक्षण प्रतिपन्न यथाकाम दिव्य महा नृसिंह सम्हननः॥
दंष्ट्राकरालं सुरभीति नाशनं कृत्वा वपुर्दिव्य नृसिंहरूपिणम्॥
श्रीनृसिंहः
नृसिंह उत्सङ्ग समुद्रजा माम्। समुद्रज द्वीप गहने निषण्ण।
समुद्रजो सदा ख्यातु…….?।समुद्रभक्ताऽखिल सिद्धिदायी॥
3- सन्तानसम्भवं लक्ष्मीम् आयुरारोग्य पूर्विकाम्।
श्रीनृसिंहपदद्वन्द्वं दद्याद् अद्वन्द्व वैभवम्॥
नास्तिविष्णु समो नाथो नास्ति विष्णुसमागतिः।
नास्ति विष्णु समं त्राणं नरस्यार्तस्य भेषजम्।
नास्ति सत्यात्परो धर्मो नास्ति कृष्णसमागतिः।
गायत्र्या च परं नास्ति दिविचेह च पावनम्।
दैवतं विष्णुरेतेषां विष्णुरेव परायणम्।
हृदियेषां सदाविष्णुः विष्णुर्येषां परागतिः।
[[92]]
त्रयत्रय्यन्तयुग्माय पित्रासित विरोधिने।
त्रैविद्या बहुमान्याय त्रय्यन्त गुरवे नमः।
श्रीसुदर्शन ध्यानम्-
षट्कोणान्तर तारमध्यनिलयं दंष्ट्राकरालाननम्।
चक्राद्यायुध षोडशावृतभुजं सज्ज्वालकोज्ज्वालकम्।
वस्त्रालेपनमाल्यभूषणगणैः रम्यं जगत्कारणम्।
प्रत्यालीढपदाम्बुजं त्रिनयनं चक्राधिराजं भजे।
श्रीसुदर्शननृसिंह ध्यानम्।
2-त्रिनेत्रं चतुश्चक्रसंशोभिहस्तं स्थितं तं च पङ्केरुहे योगपीठे।
महोग्राकृतिं कालविद्युत्प्रकाशं नृसिंहं भजे चक्र पश्चात् सुसंस्थम्॥
सर्वं चक्रमयं-
3-ज्योतिश्चक्रं तथाकालं सूर्यचक्रमथेन्दवम्।
कुलालचक्रमिवभ्राम्यं सर्वं चक्रमयं जगत्।
4- सुदर्शनः
निखिलभुवनजन्म स्थेमभङ्गैक हेतुः।भवतु सकलवेत्ता सर्वदृग्सर्वशक्तिः।
अभिमतबहुरूपा दैत्यरक्षांसि निघ्नन्।परिभृत परिवारो वर्तते पूर्णकामः॥
<<<<____>>>>
देवदेव जगन्नाथ जगद्रक्षणतत्पर,।
भवद्गतं क्रमायातं स्वामि त्वं मम केशव।
लक्ष्मीनारायण ध्यानम्। एकतमहर्षेः प्रत्यक्षम्।
1-अस्तु मेधा प्रदं नित्यं वस्तु कौस्तुभ लक्षणम्।
कारणं जगतामासीत् कमलं यस्य नाभिजम्।
नमो नित्याऽनवद्याय जगतस्सर्व हेतवे।
[[93]]
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणं भजे।
2- लक्ष्मीनारायणं देवं शङ्खचक्र चतुर्भुजम्।
अभयं दक्षिणं चैव लक्ष्म्यालिङ्गित वामके।
कुञ्चितं सव्यपादां च लक्ष्मीं द्विभुज संस्थिताम्।
पद्मं च योगहस्ताभ्यां विष्णुमूरुस्थितं भवेत्।
2- राधाकृष्णस्य ध्यानं
सजल जलधनीला विद्युदुल्लासि चेला।
चिकुर विहितमाला कृष्णनाथा स लीला।
सकलित भवमूला विष्णुचित्तानुकूला।
परिवृत मुनिजाला पातु भक्तानु नीला॥
चरमश्लोकं
सर्वधर्मांश्च सन्त्यज्य सर्वकामांश्च साक्षरान्।
लोकविक्रान्त चरणौ शरणं ते व्रजं विभो।
श्रीवेङ्कटेश ध्यानम्-1
भास्वच्छन्द्रमसौ यदीयनयने भार्या यदीया रमा।
यस्माद् विश्वसृडप्य भृत्यमुकुलं यद्ध्यानयुक्तं सदा।
नाथा यो जगतां नगेन्द्रदुहितुः नाथोऽपि याद्भक्तिमान्।
ततो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे।
श्रीवेङ्कटेश ध्यानम्-2
2-ऊर्ध्वौहस्तौ यदीयौ सुररिपुदलने बिभ्रतौ शङ्खचक्रे।
सेव्याङ्घ्रिस्स्वकीयावभिदध दधरो दक्षिणो यस्य पाणिः।
[[94]]
तावन्मात्रं भवाब्धिं गमयतोभजताम् ऊरुगो वामपाणिः।
श्रीवत्साङ्गश्च लक्ष्मीः यदुरसि लसतस्तं भजे वेङ्कटेशम्॥
ध्वजदण्डस्य ध्यानम्।(செங்கோல்)
एकास्यपादं द्विकरं त्रिणेत्रं, रोमावलीराजित दर्भमालाम्।
श्वेताङ्गरूपं शुक नासिकायाम् आरूढ पद्मासन दण्डरूपाम्॥
एकपादं त्रिहस्तं तु त्रिनेत्रं रक्तमूर्ध्वजम्॥
ऊर्ध्वकेशं सुवृत्ताक्षं तद्रूपेण कराय च।
कृत्वा तैतत्स्वरूपिणी भूत्वा फणानामृता।
ध्वजदण्डकराकारा मयि चित्स्फुरणं कुरु।
वेदानाम् उत्पत्ति
युगान्ते तु हरि तान् वेदान् सेतिहासान् महर्षयः।
(युगान्तान्तर्हितान् वेदान् )
तपसा लेभिरे पूर्वम् अनुज्ञाता स्वयम्भुवा।
अभिषेकक्रमः
तैलं पिष्टामलयजनी गव्यपञ्चामृतानि।
क्षीरं पश्चाद् दधि च घृत मधुविक्षुरम्भा फलानि।
पक्षि प्रभवसलिलं नालिकेरान्तगन्धम्।
श्रीकुम्भाख्ये क्रम इति बहुशो चामनं संवदन्ति।
*मम तु यदियं याता लोके विलोचनस्य चन्द्रिका।
नयनविषयं जन्मन्येकः स एव महोत्सवः।
[[95]]
*क्षीरसागरतरङ्गशीकर सारतारकितचारुमूर्तये।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः। (कुलशेखर आल्वार्।)
निन्दावाक्यानि
चतुर्वेदतरो विप्रः वासुदेवं न विन्दति।
वेदपार पराक्रान्तः स वै ब्राह्मण कर्दमाः (गर्दभाः)॥
प्रायश्चित्तानि चीर्णानि नारायण पराङ्मुखैः।
न निष्पुनन्ति राजेन्द्र सुराबाण्डमिवापगाः।
नीतिवाख्यानि
धर्मः स्वानुष्ठितःपुम्सां विष्वक्सेन गतासु यः।
नोत्पातयेद्यति रतिं श्रम एव हि केवलम्।
नाथ योनिसहस्रेषु येषु येषु भवाम्यहम्।
तेषु तेषु अच्युता भक्तिः अच्युतास्तु सदा त्वयि।
शतेषु जायते शूरः सहस्रेषु च पण्डितः।
वक्ता दशसहस्रेषु दाता भवति वा न वा।
शिरुपुलियूर् ध्यानं
दान्तं शान्तमनन्त चिन्तन परिश्रान्तं शुभम्।
स्वान्तं कान्तगुणान्तमन्धकभय ध्वान्तं हरन्तं नृणाम्।
सन्तस्सन्तम सन्ततं तनुभृतां भिन्दन्तमन्दस्थितम्।
भान्तं रङ्गधुरीण सम्यमि धरा धौरेयमीडामहे।
[[96]]
आसनभेद विषयाः
आवाहनासनं योगं स्नाने सिंहासनं तथा।
अर्चनायां महापद्मं विमलं भोजनासनम्।
अनन्ताख्यं विनोदेस्यादेवा तु परिकल्पयेत्।
आधारशक्ति पद्मान्तं स्थिरासनमितिः स्मृतम्।
योगपीठं विभावैवं मूर्तिं तस्मिन्निवेशयेत्।
मूर्तिमीश्वरतत्त्वान्तम् एवं ध्यायन्तु विन्यसेत्।
सर्वस्य दाता प्रवरो महात्मा सर्वात्मगः सर्वजगत्स्वरूपः।
सर्वेश्वरः सर्व विधान यत्नं चकारबुद्ध्या तरुणाम्बुजाक्ष।
<<<<_____>>>>
वरद गायत्रि
ब्रह्मयागसमुद्भूतं दिव्यमाणिक्यसुन्दरम्।जगत्सृष्टिकरं देवं तमहं वरदं
विभुम्।
वपापरिमलोल्लस वासिताऽधरपल्लवम्।
मुखं वरदराजस्य मुग्धस्मितमुपास्महे॥
<<<<____>>>>
चतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने।
नमस्सीता समेताय रामाय गृहमेधिने॥
सन्तानगोपाल ध्यानम्.
उन्मीलन्नवनीलनीरजादौ प्रत्यर्धिलोलेक्षणम्।
प्रोद्यत्पञ्चफणा शिरोमणिलसद् भोगीन्द्रतल्पेशयम्।
[[97]]
हस्ताग्रेणपदाम्बुजं मुखनिशानाथे क्षिपन्तं सदा।
निर्व्याजस्मित चन्द्रिकान्वितमहं श्रीबालकृष्णं भजे॥
खण्डं च शैलजं प्रोक्तं कुण्डं दारुजमेव च।
पिण्डं लोहजं स्यादिति मूर्तित्रया विन्यसेत्।
भोज्यासन प्रार्थना
ब्रह्मेशाद्यैः परितदुरिभिः सूपविष्टैः समेतैः।
लक्ष्म्यासिञ्चन्तु वलयकरया सादरं वीज्यमानः।
नम्रक्ष्वेली प्रहसनमुखैःव्याप्नुवन् पङ्क्तिमध्यम्।
भुङ्क्ते पात्रे कनकघटिते षड्रसं श्रीरमेशः॥
अनेन अन्नादियोगेन सम्यगाराधितेन च।
पद्मनाभोऽरविन्दाक्ष प्रीतिमभ्येतु मेऽच्युत॥
अशुचिम् असत्यनीचम् अपराधैकभाजनम्।
अल्पशक्तिमचैतन्यम् अनर्हं त्वत्क्रिया स्वपि।
मामनाधृत्य दुर्बुद्धिं स्वयमेव कृपा विभो।
अतिप्रभूतमत्यन्त भक्तिस्नेहेवपाचितम्।
शुद्धं सत्वगुणोपेतं सर्वदोष विवर्जितम्।
पायसान्नं गुडान्नं च मुद्गान्नं शुद्धमोदनम्।
दधिक्षीराज्य सम्पन्नं नानापूप फलान्वितम्।
स्वानुन्नापं विशेषेण स्वदेव्या सदृशं गुणैः।
त्वमेवेदं तु स्वीकृत्वा स्वीकुरुष्व सुरेश्वर। इति विज्ञाप्य॥
[[98]]
बलिपीठे प्रसाद समर्पण विधिः
बलिपीठं प्रक्षाल्य।उद्धरिणीं तुलसी च निधाय। हस्ततालादि दशदिग्बन्धनं
कृत्वा।हस्ताभ्यां ललाटान्तम् उद्धृत्य।मूलमन्त्रेण सप्तवारमभिमन्त्य।
ओम् आमोदभूताय भुवनात्मने नमः। ओं प्रमोद भूताय अनिलानात्मने नमः। ओं
प्राङ्मुखभूताय जलात्मने नमः। ओं राजसे नमः। ओं तामसाय नमः। ओं सात्विकाय
नमः।ओं विघ्नकर्त्रे नमः। ओं यक्षेशाय नमः।
ओं राक्षसाय नमः। ओं पैशाचाय नमः। ओं भूताय नमः।ओं गन्धर्वाय नमः।ओं
किन्नराय
नमः।
ओं सुमुखाय नमः।ओं दुर्मुखाय नमः। ऊर्ध्वे ओं सदाशिवाय नमः।
मध्ये ओं पार्षदेश्वराय नमः।ध्यायामि बलिपीठम् अर्चयामि।अर्घ्यादि
दीपान्तमभ्यर्च्य।तत्र
तुलसीं पूर्वभागे विसृज्य।चरुं गृहीत्वा।
ओम् आमोदभूताय भुवनात्मने नमः।इत्यारभ्य पार्षदेश्वराय नमः।इत्यन्तं बलिं
क्षिप्त्वा।
कवचेन परिषिच्य। हस्ततालादि सुरभिमुद्रां दत्वा। मधुवातेति
निवेद्य।हस्तप्रक्षालनं
कृत्वा।प्रणम्य।
ध्यानम्
मुखपञ्च समवक्त्र समनासि नयने.।
दशकर्णदशबाहु दशचक्र दशस्रुक्.
अतिरक्ततनुवर्णगलमेघहृदयम्।
द्वयपादहितभूत बलिपीठ देवम्॥
बलिपिठे सर्वभूतेश्वराय विष्णुपार्षदेभ्यो नमः।इति ध्यात्वा। पात्रजलेन परिषिच्य।अन्तः
प्रविश्य।
[[99]]
2-नमोस्त्वच्युतभूतेभ्यः सर्वेभ्यस्सर्वदैव हि।
स दिक्पतिभ्यस्सास्त्रेभ्यः शान्तिर्नोस्त्वस्य वै शिशोः॥
बलिबेरगतां शक्तिं मूले नियोज्य।
पुण्डरीकाक्ष इत्यारभ्य भक्तवत्सल इति प्रार्थ्य।भगवतः अग्रे सात्विकत्यागं
कृत्वा।
सात्विकत्याग विषयं
सात्वते- श्रीभगवानेव अनेनात्मनास्वकीयकल्याणतम द्रव्यमयान् औपचारिक सांस्पर्शिक
आभ्यवहारिक समस्तभोगान् अखिलपरिजन परिच्छदान्वित स्वस्मै स्वप्रीतये स्वयमेव
प्रतिभादितवान्॥इति अनुसन्धाय॥
सात्वते-24अ प्रपन्न लक्षणं
द्वादशाक्षर सम्युक्तं बलमन्त्रं पुनःपुनः।
वक्तव्यं ब्रह्मनिष्ठैस्त्तु प्रणवान्तं स्वभावतः।
शयनोत्सव काले प्रार्थना।सात्वतं 27अ
त्वमर्चान्तर्गतो देव मया यच्छयनादिषु।
नीतोसि चाभिमुख्यं तु क्षन्तव्यं तन्मयाच्युत।
सर्वं न्यूनातिरिक्तं च मया पूर्वं हि यत्कृतम्।
तत्सर्वं देवदेवेश क्षन्तुमर्हसि मे प्रभो॥
देव! स्वामिन् जगन्नाथ श्रियाभूम्या च नीलया।
जगद्रक्षण जागर्यां योगनिद्रामुपाकुरु। इति प्रार्थ्य।
चतुर्भुज पक्षिराज ध्यानम्
अष्टाभिर्योगिवर्यैः धृतवरमणिभिः भूषितं शातकुम्भैः।
[[100]]
छायाभिर्देहभाभिः दिवस करशतन्द्राक् दिव्य दीप प्रयन्तम्।
शङ्खं चक्रं करैस्स्वैः दधतमनुपमं पुस्तकं ज्ञानमुद्राम्।
वन्दे वेदान्ततत्त्वं सकलविषहरं भावये पक्षिराजम्॥
आञ्जनेयस्य ध्यानम्
आञ्जनेय महाभाग रामभक्ति महोदधे।
प्रसादं रामचन्द्रस्य सङ्गृहाण प्रसीद मे॥
चतुर्भुज हनुमान् ध्यानम्
अतिपाटलनवक्त्राब्जं धृतहेमाद्रि विग्रहम्।
आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि।
पारिजातप्रियो योगी हनुमान् नृहरिप्रियः।
प्लवगेन्द्रो पिङ्गलाक्षश्शीघ्रगामी दृढव्रतः॥
शङ्ख चक्रवराऽभीति पाणिरानन्द दायकः ।
स्थायी विक्रमसम्पन्नो रामदूतो महायशाः ॥चोलसिंहपुरम्।
भगवद्ध्यानम्
अनन्तनागपर्यङ्के सहस्रफणशोभित।
दीप्यमानेऽमलेदिव्ये सहस्रार्क समप्रभो।
योगनिद्रामुपेताय तस्मै भगवते नमः॥
वागीश्वरध्यानम्-1
यच्छरीरं त्रयोवेदाः यच्छेष्ठाऽथर्वणस्स्मृताः।
यदङ्गानि षडङ्गानि तस्मै वागात्मने नमः॥
[[101]]
वागीश ध्यानम्।-2
विद्याकोशस्तु वामेन सङ्गृहीताश्च शङ्खराट्।
पृष्ठगेह्यपरस्मिं च प्रोध्यतो दक्षिणेत्वरी।
तथा विधे गदा वामे निषण्णा वसुधातले।
चिन्मुद्रां दक्षिणे ध्यात्वा वागीश निधिनां पतिम्॥
दुस्स्वप्ननाशन मन्त्रः
दुस्स्वप्न दुश्शकुण दुर्गतिदौर्मनस्य दुर्भिक्ष दुर्व्यसन दुस्सह
दुर्यशांसि।
उत्पाततापे विषभीतिमस्तु ग्रहार्ति व्याधींश्च नाशयतु मे।जगतामधीशः॥
तीर्थशक्ति ध्यानम्
1-सर्वानन्दमयीमशेष दुरितध्वंसां मृगङ्क प्रभाम्।
त्र्यक्षामूर्ध्व करद्वयेन ददतीं पाशं घृणीं वामतः।
अन्तश्चाऽमृतहेमकुम्भ कलशौ मुक्ताक्षमालां वरम्।
गङ्गासिन्धु द्वयादिसहितां श्रीतीर्थशक्तिं भजे।
2-ब्रह्माण्डरससम्भूतम् अशेषरस सम्भवम्।
आपूरितं महापात्रं पीयूषरसमावह।
3-अखण्डैकरसानन्दकरे पर सुधात्मनि।
स्वच्छन्दस्फुरणं मन्त्रं निदेह्यकुलरूपिणी॥
रङ्गमूर्तिध्यानं
सन्तस्सन्तमसन्ततं तनुभृतां बिन्दन्त मन्दस्थितम्।
भान्तं रङ्गधुरीण सम्यमिधरा दौरेयमीडामहे।
[[102]]
आसनभेदेन आसीन भेदाः।
आवाहनासनं योगे स्नाने सिंहासनं तथा।
अर्चनायां महापद्मं विमलं भोजनासने।
अनन्ताख्यं विनोदे स्याद् एतावत् परिकल्पयेत्।
आधारशक्ति पद्मान्तं स्थिरासनमितिस्स्मृतम्।
योगपीठं विभाव्यैवं मूर्तिं तस्मिन्निवेशयेत्।
मूर्तिमीश्वरतत्त्वान्तम् एवं ध्याये तु पूजकः।(पाद्मोद्भवम्?)
श्रीरामचन्द्र सुप्रभातं
श्रीपाञ्चरात्र महतागम पूजिताङ्घ्रे।
त्वयि प्रबुद्धदेवेश तवाग्रे मधुसूदन।
श्रीपावमानी नुत दिव्य कथामृताब्धे.।
आयान्ति देव भवदर्शन दीक्षितार्याः ।
श्रीरामचन्द्र करुणाकर सुप्रभातम्।
त्वयि प्रबुद्ध देवेश तवाग्रे मधुसूदन।
लौकिकानीह यज्ञानि तानि निर्वर्तयाम्यहम्।
वीरसौम्य विबुधस्व कौसल्यानन्दवर्धन।
जागर्थि सर्वं स्वपिति त्वयि सुप्ते नराधिप।
यामिन्यपैति यदुनाथ विमुञ्च्य निद्राम्
उन्मेषुमृच्छति तवो निशेतेन विश्वम्।
जातस्स्वयं खलु जगद्धितमेव कर्तुं
[[103]]
धामप्रवर्तन धिया धरणी तलेऽस्मिन्।
सुखाय सुप्रभातमिदं वास्तु जगत्पते जागृहि नन्दसूनो।
अम्बोजमन्धशमयं जुतार लोलम्ब मुन्मील तु लोचनेत्रे॥
अग्निकार्य विषयं
चुल्यां वा मल्लके वापि होमं कुर्याद् यथाविधि।
आरण्यं लौकिकं वाथ मणिजं दर्पणा ध्रुवम्।
होमानां फलानि
नास्ति होमं स मन्त्राणां तथा पाप विनाशनम्।
होमेन पापं पुरुषो जहाति, होमेन नरकं च भयं विनश्यति।
होमस्तु लोके दुरितं समग्रं विनाशयत्येव न संशयः।
दीपलक्षणं
विष्णुर्नित्याधिदैवं मे विष्णुः पूज्य सदा मम।
विष्णुमेनं सदा ध्यायेन्विष्णुर्मत्तः परो हि सः।
स विष्णुवल्लभो दीपः सर्वदा पापहारकः।
श्रेष्ठतमो पञ्चरात्रः
शुद्धं भागवतास्यातां मिश्रं वैखानसं स्मृतम्।
तस्माद्युक्तेन मार्गेण पाञ्चरात्रेण पूजयेत्।
सम्भाषणं भोजनं च वर्जयेन्मिश्रजन्मसु।
मिश्रजन्म स विप्राणां दर्शनं स्पर्शनं तथा।
न कुर्याद् यदि कुर्याच्चेत् सचेलस्नानमाचरेत्।
[[104]]
अवैष्णवान्न नैवेद्यं यो भुक्ते तान्नचेतसि।
श्वमांसं श्वपचोच्छिष्टम् अदृश्यं सुरपा समम्।
नवग्रह नमस्कार कारणं
सूर्यचन्द्रोपरागश्च बुधो देवगुरुर्भृगुः।
कृपया देवनाथश्च कदाचित् कारणान्तरे।
चरन्ति लोकरक्षार्थं तस्मादेव नमस्कुरु।
श्वेतवाराहरूपेण धरणी चोद्धृताय सः।
श्वेतवाराहकल्पस्तु आख्यया मुनयोह्ययम्॥
कृष्णस्य महिमा
येच वेदविदो विप्राः ये चाऽध्यात्मविदो जनाः।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्।
श्री कृष्णमङ्गलम्
मङ्गलं रुक्मिणी रमणाय श्रीमते- मङ्गलं मूर्तये ते।
मङ्गलंश्रीवत्सभूषणाय शार्ङ्गिणे- मङ्गलं नन्दगोपात्मजाय च।
जय मङ्गलं नित्यशुभ मङ्गलम्।
मुग्धगोपवधूत्तुङ्ग कुचमण्डल मर्धिने।
मुरलीगानलोलाय मुकुन्दायास्तु मङ्गलं
नैवेद्यं पुरतो न्यस्तं चक्षुषा परिगृह्यते।
रसं तु भक्तस्य जिह्वाग्रे अश्नामि कमलोद्भव।
कपित्थस्य फलं यानि यावत्कुञ्जर भक्षितम्।
[[105]]
तद्वत्सारं तु गृह्णीयात् तथा भोज्य हरिः स्वयम्।
*दृश्यं स्पृश्यं तथा दृश्यं त्रिधाऽर्घ्यं परिकल्पयेत्।
अलङ्कारासने दृश्यं स्पृश्यं स्नानासने तथा।
भोज्यासनेमदृश्यं च त्रिधाऽर्घ्यं प्रकल्पयेत्।
*ऋत्विजां दीक्षितानां च यतीनां ब्रह्मचारिणाम्।
आशौचं न भवेत् किं तु मरणे स्नानमिष्यते॥
द्यौर्वायुरग्निश्च पृथिवी पञ्चदार्चनम्।
सर्वतीर्थमयी गङ्गा सर्वतीथमयो हरिः।
सर्वदेवमयीगीता सर्वशास्त्रमयो मनुः॥
*उत्तमं वेदपूर्वोक्तं मध्यमं मन्त्रपूर्वकम्।
अधमं तन्त्ररूपं तु आराधन विधिं चरेत्।
*वेदोक्त प्रथमो धर्मो धर्मशास्त्रेषु चापरम्।
शिष्टाचार्यो त्रितीयस्तु त्रिविधं धर्म लक्षणम्॥
श्रीवीरराघव विभु ध्यानम्
*श्रीभूमि लालितपदं श्रित शेषतल्पं
कल्पान्तयोग्य भुवनावन योगनिद्राम्।
श्रीशालिहोत्र शिरसाधृत हस्तपद्मं
श्रीवीरराघव विभुं श्रयतां मनो मे॥
[[106]]
*गङ्गा आवाहनम्- प्रार्थनम्.
देवी विष्णुपदे शुद्धे सर्वपाप व्यपोहिनी।
नन्दिनीत्येव ते नाम नलिनी मालतीति च।
दक्षपत्न्या च विहगी सर्वभूत प्रियेति च।
शरणं त्वाम् प्रपन्नोऽस्मि पापं मोचय माचिरम्॥
भद्राण्युन्निद्रयन्तु प्रबलतरसुधा सिन्धुकल्लोलमाला।
पारम्पर्याप्रचार्या प्रहसितनिपुणा प्राग्यकान्ति प्ररोह।
निर्मर्यादं सदा नस्त्रिभुवन जनता नन्द सन्दोह दान।
प्रावण्यप्रौढचार प्रघटितविभवा पद्मवल्ली दधाना।
उदयरविसह्स्रज्योतिषं रूक्षवीक्षम्। प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम्।
सुरपतिरिपु वक्षच्छेद रक्तोक्षिताङ्गम्। प्रणतभयहरं तं नारसिंहं नमामि।
विष्वक्सेन महिमा
निर्माल्यधारी विष्णोस्तु विष्वक्सेनश्चतुर्भुजः।
शङ्खचक्र गदापाणिः दीर्घ श्मश्रु जटाधरः।
रक्तपिङ्गलवर्णास्तु सितपद्मोपरिस्थितः।
विष्वक्सेनं च रक्ताभं विधिनैवच कारयेत्।
किरीटिनं चतुर्बाहुं शङ्खचक्र गदादिभिः।
विभूषितं सुखासीनं सर्वमन्यश्च विष्णुवत्।
श्रीवत्सं ब्रह्मसूत्रं च कौस्तुभैश्च विनैव तु॥
[[107]]
இவருடைய பரிவாரங்கள் நால்வர்- கணாதிபர், ஜயத்ஸேநர்,
ஹரிவக்த்ரர், காலப்ரக்ருதி. (ஶ்ரீரங்கத்தில் ஸேவிக்கலாம்)
<<<<_____>>>>
தயாசதகம் 3 வது ஸ்ரீஆளவந்தார் ஸ்தோத்ரரத்னம் 42, காளிதாஸன்
ரகுவம்சம் 15வது ஸர்கம் 13, மாககவியின் சிசுபாலவதம், 10ம்
ஸர்கம், 55 வது ஸ்லோகங்களில் விஷ்வக்சேனர்பற்றி உள்ளது.
கஜானனன் பற்றி கிழ்பாட்டம் அர்சகர் சொன்னது-11-9-1961அன்று
விக்நேசன் பற்றி பாஞ்சராத்ரத்தில் இருப்பதாக.
गजाननं चतुर्बाहुं लम्भकुक्षिं सिताम्बरम्।
करण्डिकामकुटिनं लम्ब यज्ञोपवीतिनम्।
वामहस्तेन मुख्येन सङ्गृहीत महाफलम्।
इतरेण च हस्तेन भग्नदन्त परिग्रहम्।
उभाभ्यां चैव हस्ताभ्यां पाशाङ्कुश धरायुधम्।
भूमिदेवि स्तुति
ग्रहर्क्ष तारकाचित्र गगनाग्नि जलाऽनिलाः।
अहं च विषयाश्चैव सर्वंविष्णुमयं जगत्।
रोग विमोचन विधिः
जन्मान्तरकृतं पापं व्याधिरूपेण बाधते।
तच्छान्ति करणार्थाय एवं कृत्वा यथा विधि।
औषधैर्दानैः कृत होमार्चनादिभिः।
पञ्चाङ्ग पठन श्रवणफलन्.
तिथेस्तु श्रीकरं प्रोक्तं वारातु आयुष्य वर्धनम्।
[[108]]
नक्षत्राद्धरते पापं योगाद् रोग विनाशनम्।
करणात् कार्यसिद्धिं च एवं पञ्चाङ्ग मुच्यते।
अपराधक्षमा
1-मन्त्रेणहीनं क्रियापि हीनं यद्भक्तिहीनं च दयाकृतं ते।
आराधनं शार्ङ्गधर त्वमेव पूर्णं कृपा तत्कुरु वासुदेव॥
2-अपष्टुशब्दैः उतसुष्टुशब्दैः श्लोकैः स्तुतशार्ङ्गधरो हरे।
अशक्तिमन्वीक्ष्य मदुक्तिमेताम् आकर्ण्य नन्दे दितिनिर्भयोऽस्मि॥
சிலப்பதிகாரம்- IlangovatikaL
மூவுலகும் ஈரடியால் முறைநிறம்பாவகை முடியத்
தாவியசேவடி, செப்பத்தம்பியோடும், காண்போந்து
சோவரணும் போர்மடியத் தொல்லிலங்கை
கட்டழித்தச்
சேவகன் சீர்கேளாத செவியென்ன செவியே!
திருமால் சீர்கேளாத செவியென்ன செவியே॥
स्वस्ति श्रद्धां यशः प्रज्ञां विद्यां बुद्धिं श्रियम् बलं
धनधान्य पशुक्षेत्र पुत्रमित्र कलत्रदम्।
तेजो वीर्यायशः कान्ति विद्या विभव भाग्यद।
आयुष्यं तेजसारोग्यं देहि मे शार्ङ्गनायक॥
आवाहन मन्त्रः
देवेश भक्तिसुलभ सर्वाभरणसंयुत।
यावत् त्वां पूजयिष्यमि तावत् त्वं सुस्थिरो भव।.
[[109]]
देवेशि भक्तिसुलभे सर्वाभरणसंयुते।
यावत् त्वां पूजयिष्यमि तावत् त्वं सुस्थिरो भव।इति
मङ्गलं भास्करक्षेत्रपतये परमात्मने।
मङ्गलङ्कोमललताकामिने शार्ङ्गधन्विने।
मङ्गलं हेम योगीन्द्र जामात्रे नित्य मङ्गलम्।
देहि सर्वजनां च मङ्गलं कर्तुमर्हसि।
भगवन् सर्वविजयी सहस्रारापराजित।
शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम्।
सालग्राम निवासाय क्षीराब्धिशयनाय च।
श्रीशैलाद्रि निवासाय शिलावासाय ते नमः( मङ्गलं)॥
चित्स्वरूपां चिदानन्दां वन्दे वासवकन्यकाम्।
कल्याणगुण सम्पन्नां कामितार्थ प्रदायिनीम्।
विमानस्थां महादेवीं सर्वाभरण भूषिताम्।
चतुर्भुजां विशालाक्षीं शरच्छन्द्र निभाननाम्।
वराऽभयकरोदत्त बाहु द्वयविराजिताम्।
ऊर्ध्वबाहुद्वयाभ्यान्तु धृतपद्मशुकीं तथा।
सुस्मिताधर बिम्बोष्टीं द्विनेत्रां चारुकुण्डलाम्।
किरीटहारकेयूर मणिमेखल भूषिताम्।
ज्ञानानन्द्स्वरूपाय कल्याणगुणराशये।
[[110]]
प्रपन्न पारिजाताय सिन्धुजापतये नमः।
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥
तिलस्य वैभवं
काश्यां चैव तु सम्भूताः तिला वै विष्णुरूपिणः।
तिलस्नानेन गोविन्द! सर्व पापं व्यपोह्यतु।
विष्णुदेहोद्भवे देवि महापाप विहारिणी।
सर्वपापं हर त्वं वै सर्वौषधि नमोस्तुते।
फलश्रुतिः
श्रियं विद्यां जयं चैव कीर्तिमायुः परं वसु।
पुत्रपौत्र समृद्धिश्च अष्टैश्वर्यं सदा तव।
सर्वमङ्गलदायी च मनोऽभीष्टमवाप्नुयात्।
शुभमेतत्पदं दिव्यं शुभमेतद्वतोत्तमम्।
जयत्येतत्पदं शौरेः मङ्गलं मङ्गलन्त्विति।
बभूवाऽमानुषोवाणी पुनर्मूलामवष्टधः।
शठकोप ध्यानम्
प्रपद्ये निरवद्यानां निषद्यां गुणसागरम्।
शरणम् भवभूतानां शठकोपमुनीश्वरम्॥
<<<<____>>>>
Books Published by Kriyasagaram for free of cost with Bagavat
and Bagavata Krupa
(All the books are freely available at www.kriyasagaram.in)
Vol. Contents
1
Vasudeva Punyahavachanam,Thiruaradhanam,
Agnikaryam, Mahotsavam and Cakrabjamandala puja
vidhi
2 Prathista vidhi
3 Vacanasaram (I) – Pramanas of Thiruaradhanam
4 Vacanasaram (II) - Pramanas of Mahotsavam
5 Archana (Namavali) of various divyadesa peruma।
6 Dhyana sloka ratnavalai
7 Kriyakairava chandrika (I)
8 Kriyakairava chandrika (II)
9 Snapana Vidhi
10 Paramapurusha Samhitha
11 Bruhadbrumha Samhitha
12 Sriranga Mahatmyam(I)
13 Sriranga Mahatmyam(II)
14 Panchamrutham
15 Panchakala prakriya
16 Thula Kaveri Mahatmyam
17 Nagapattinam Sri Saundaryaraja Perumal Vaibhavam
18 Alwar thirunagari (thirukkurugur) Vaibhavam
19 Jitanta storam (mulam and vyakyanam)
20 Padma Samhitha 1st part
21 Padma Samhitha 2nd part
22 Sri Rajamannargdi Vaibhavam
23 Sriprasna Samhitokta Kriyapaddathi
24 Sri Paramesvara Samhitha
25 Sri Pancharatra Agamokta Iswara Samhita
26 Satvataamrutam & Satvataamruta Saram
27 Vacanasaram (III) - Pramanas of Pratishta vidhi
28 Sri Prashna Samhitha Saram
29 Sri Purushothama Samhita
30 Sri Sri Prashna Samhitha Part - 1
31 Sri Sara Kshetra Mahatmyam
32 Sriprashna Samhitha Vol.2
33 Sri Palasha vana (Thiru Nangur) Vaibhavam
34 Kaliyan Vaibhayam (Bilvaranya kshetram)
35 Kriya Sudabdi
36 Arangan Utsava Mahimai
And many more to come
***************************