ध्यानश्लोक-रत्नावलि
[[1]]
श्रीः
श्रीमते रामानुजाय नमः
1 - श्री रङ्गनाथ ध्यानम्
आर्तापाश्रयमर्थिकल्पकमसह्यागस्करक्ष्मातलम् ।
सद्यस्संश्रितकामधेनुमभियत्सर्वस्वमस्मद्धनम् ।
श्रीरङ्गेशरमाश्रयेम कमलाचक्षुर्महीजीवितम् ।
श्रीरङ्गे स सुखाकरोतु सुचिरं दास्यं च धत्तां मयि ।
चैत्रे रेवतिसञ्जातं सौम्यजामातरं प्रभुम् ।
वन्देवात्सल्यनिलयं कल्याणगुण सागरम्॥
लक्ष्मीकल्पलतोत्तुङ्गस्तन्यास्तभक चञ्चल ।
श्री रङ्गराजभृङ्गो मे रमतां मानसं भजे ।
2-श्री रङ्गनायकित्तायार् ध्यानम्
चतुर्भुजां महालक्ष्मीं द्विनेत्रां चारुकुण्डलाम् ।
श्वेतमाल्याम्बरधरां हारकेयूर भूषिताम् ।
सर्वलक्षणसम्पन्नां पीनोन्नत पयोधराम् ।
प्रफुल्लोत्पलविस्तीर्ण लोचनां सुस्मिताननाम् ।
लसल्ललाटतिलकां विदृमाधर पल्लवाम् ।
कृष्णकुञ्चितकेशान्तां वंशमुक्ताफलद्विषाम् ।
पद्मगर्भोद्भवमाकारां सुमुखीं भावयेत् सदा ॥
3 - श्वेतगिरि (तिरुवेल्लरै) श्री पुण्डरीकाक्षस्य धयानम्
आस्तां चेतसि मे निरन्तरमसामम्बोधरश्यामलः ।
पुण्ये श्रीमतिपुण्डरीकनयनः श्वेताचलेतस्तिवान्।
[[2]]
मार्कण्डेय विहङ्गराज भुजगादीश क्षमासेवितः ।
चन्द्राऽऽदित्य विधूतचामरयुगो लक्ष्मीसहायो हरिः ।
4-(रथमघ्नपुरि) तेरलन्दूर् श्री देवाधिराजस्वामि ध्यानम्-
कृष्णारण्ये जगत्यामुपरिचरवसोः स्यन्दनं यत्रमघ्नम्।
तस्मिन् देवाधिराजः सततसहचरी रक्तपद्मावितानम् ।
तीर्थं दर्शप्रसिद्धं कलिमलहरणं गारुडं तद्विमानम् ।
कावेरीकुम्भजाभ्याम् उपरिचरवसोःप्राङ्मुखस्तुप्रसन्नः ।
अभ्रश्यामलकान्तमूर्तिमनिशं रक्ताब्जपत्न्यान्वितम्।
श्रीमत्तार्क्ष्यविमान मध्यमतटे श्री कृष्णपुर्यांस्थितम् ।
मार्कण्डेय कवेरकलशजप्रह्लाद तार्क्ष्यान्वितम् ।
श्रीमद्दर्शसरस्तटे निवसितं देवाधिराजं भजे ।
5 - श्री सारनाथस्वामि ध्यानम्-
भक्ताभीष्टफलप्रदाङ्घ्रियुगलं कौशॆयराजत्कटिम्।
लक्ष्मीमङ्गलमन्दिरॊरविलसन् मुक्तावलीकौस्तुभम्।
हस्तैःशङ्खरथाङ्गपङ्कजगदाबिभ्राणमप्राक्ऱृतिम्।
राकाचन्द्रमुखं सुजातमकुटं श्रीसारनाथं भजॆ।
6 - अपूपघटनायकस्वामि ध्यानम्- அப்பக்குடத்தான்
पलाशविपनान्तरे ह्रदनिवास इन्द्राजले।
विमानवरमाश्रितं विमलमीश इन्द्राश्रितम्॥
विरिञ्चमुखदैवतं विजनतं शरण्यं सताम्।
अपूपघटनायकं सततमादिरङ्गं भजे॥
[[3]]
7 -वैकुण्ठ नारायण ध्यानम्।-1
सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा।
जानुन्यादाय सव्येतरमितरभुजं नागभोगेनिधाय।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे।
देवीभूषादिजुष्टो जनयतिजगतां शर्म वैकुण्ठनाथः।
8-अष्टलक्ष्म्याः मङ्गलाचरणं
वक्त्राब्जेभाग्यलक्ष्मीः।करतलकमलेसर्वदादानलक्ष्मीः ।
दोर्दण्डे वीरलक्ष्मीः।हृदयसरसिजे भूत कारुण्यलक्ष्मीः।
खड्गाग्रे शौर्य लक्ष्मीः निखिलगुणगणाडम्बरे कीर्तिलक्ष्मीः
सर्वाङ्गे सौम्यलक्ष्मीः सकलविजयते सर्वसाम्राज्य लक्ष्मीः। ।
9-श्री सरस्वति देवी ध्यानं
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनेकेनपद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासाकुन्देन्दु शङ्खस्फटिकनिभा भासमानासमाना।
सा मे वाग्देवतेयं निवसतुवदने सर्वदा सुप्रसन्ना ॥
10-श्री हयग्रीव ध्यानम्-1
तुषाराद्रिसमच्छायं तुलसीदामभूषणम्।
तुरङ्गवदनं वन्दे तुङ्गसारस्वतः प्रदम्।
11-श्री हयग्रीव ध्यानम्-2
-वन्दे तुरङ्गवदनं शशिबिम्ब संस्तम्- चन्द्रावदातममृतात्म करैस्समन्तात्। अण्डान्तरं
बहिरपि प्रतिभासयन्तम्- शङ्खाक्ष पुस्तकसुबोध युताब्जबाहुम्।
[[4]]
11 श्री हयग्रीव ध्यानम्-3
वन्दे लक्ष्मीपतिन्देवं शङ्खचक्रगदाधरम्।
विद्यामूर्तिं हयग्रीवं शब्दार्थ ज्ञान लब्धये।
अ मृताध्मात मेघाभम् अमृताहरणं विभुम् ।
पाञ्चरात्रागमाचार्यं वन्दे वैकुण्ठभूपतिम् ।
12-श्री हयग्रीव ध्यानम्-4 -हयशीर्षसंहिता-22-अ
ममैव लक्षणं वक्ष्ये तन्निबोध सुरोत्तम ।
सटाविभूषिताग्रीवा शिरश्चालकभूषितम् ।
शेषञ्चतुर्भुजं देहं नृसिंहस्येव कीर्तितम् ।
वामहस्तेऽस्यकुर्वीत वेदाश्चत्वार सुव्रत ।
त्वञ्चाप्यग्रे स्थितःकार्यो वेदग्रहपुरस्सरम्।
अपरे वामहस्ते तु शङ्खं दद्यात्सुरोत्तम ।
दक्षिणद्वितये दद्याद् गदां चक्रं विचक्षणः ।
13-श्री हयग्रीव प्रार्थना-
ज्ञानानन्दमयन्देवं निर्मल स्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवम् उपास्महे ।
1``4``-श्री पाञ्चरात्रागमस्य लक्षणम्- 1
सृष्टिश्चप्रलयश्चैव देवतानां समर्चनम् ।
साधनं चैव सर्वेषां पुरश्चरणमेव च ।
षट्कर्मसाधनञ्चैव ध्यान योगश्चतुर्विधः ।
सप्तभिर्लक्षणैर्युक्तोत्वागमं तद्विदुर्भुदाः ।
15-श्री पाञ्चरात्रागमस्य लक्षणम्- 2
आगतं शिववक्रेभ्यो गतञ्च गिरिजाशृतौ ।
[[5]]
मतं श्रीवासुदेवस्य तस्मादमाम उच्यते । (तत्ववैशारदी)
16 - रात्रशब्दस्य निर्वचनं
रात्रं च ज्ञानवचनं ज्ञानम् पञ्चविधं स्मृतम् ।
तेनेदं पाञ्चरात्रं च प्रवदन्ति मनीषिणः ।
ज्ञानं परमतत्वं च जन्ममृत्युभयापहम्।
ज्ञानन्द्वितीयं परमं मुमु क्षूणाञ्च वाच्छितम् ।
ज्ञानं शुद्धं त्रितीयं च मङ्गलं कृष्णभक्तिदम् ।
चतुर्थं यौगिकञ्ज्ञानं सर्वसिद्धिप्रदं परम् ।
ज्ञानञ्च पञ्चमम्प्रोक्तं तद्वै वैषयिकं नृणाम् । ( नारदपञ्चरात्रम्)
17 परवासुदेवध्यानम्-
आनन्द लक्षणं रूपम् आदिरूपमविक्रियम् ।
सुसूक्ष्मं स्ववशं स्वैरं प रञ्ज्योतिरनामयम् ।
ध्रुवमेकं चिदानन्दं चिद्रूपं सर्वगं परम् ।
स्वभावनिर्मलं नित्यं निस्तरङ्गन्निराकुलम् ।
निर्मर्यादं गुणातीतं स गुणं सर्वकामदम् ।
अध्येयं ध्येयमाश्चर्यमवाङ्मनसगोचरम् ।
षाड्गुण्यविग्रहं देवं वासुदेवाह्वयं विभुम् ।
सहस्रफणसंवीत रत्नकान्तिविचित्रिते ।
शेषासने सुखासीनं सव्यम्पादम्प्रसारितम्।
दक्षिणङ्कुञ्चितम्पादं तज्जानु न्यस्ततद्भुजम्।
वामबाहुं शेषपीठे न्यस्तं वक्षसि च श्रियम्।
किरीटकुण्डलोपेतं वनमालाविराजितम्।
पीताम्बरधरं सौम्यं कटकाद्यैरलङ्कृतम्।
[[6]]
(परिवारैः सेव्यमानं मध्यकुम्भे स्मरेद् गुरुः ।)
वासुदेवजगद्योनेसच्चिदानन्द विग्रह ।
यावद्बिम्बे प्रार्थयामि तावत् कुम्भे स्थिरो भव.
अत्र पूजां मया दत्तां गहाण पुरुषोत्तम। (श्रीः)
18-परमपदस्य वर्णनम्-1
परमानन्दनामानं वैकुण्ठं परमं पदम् ।
कोटियोजनविस्तीर्णं तावदायाममुच्छ्रितम् ।
दिव्यरत्नमयैश्चित्रैः प्राकारैर्गोपुरैर्युतम् ।
दिव्यैर्नानामणिमयैर्गृहपङ्क्ति विराजितम् ।
शक्रचापौघसङ्काशैः प्रोच्चैः सौधैरलङ्कृतम् ।
सुधाकरसहस्राभैः पुरुषैरुपशोभितम् ।
सर्वे चतुर्भुजाः शुद्धाः स्वात्मेशसमविग्रहाः ।
शङ्खचक्रधराः सर्वे स्रग्विणः पीतवाससः ।
अप्राकृतमया नित्याः पुनरावर्तिवर्जितः ।
एकायनारव्यवेदेन जितन्तादि स्तवैरपि ।
शरच्चन्द्रसहस्राणां कोटितुल्य तनुप्रभाः ।
पुण्डरीकेक्षणाः सर्वा नित्ययौवन शोभिताः ।
सर्वलक्षणसम्पन्ना लक्ष्मीतुल्याश्च योषिताः ।
मोदन्ते परमे व्योम्नि नित्यानन्दमयेक्षये ।
एता अपि रमानाथं पूजयन्ति स्तुवन्ति च । (श्रीः)
(अन्यत्र)
19-शङ्खं चक्रं गदां पद्मं चतुर्भिर्धारयेद् भुजैः ।
अर्चनीया परो देवः शुद्धस्फटिकसन्निभः ।
[[7]]
सृष्टिबीजं तथा पद्मं चक्रं स्थितिनिबन्धनम् ।
गदां संहारबीजं तु शङ्खं मुक्ति निबन्धनम् ।
20-द्वादशाक्षर ध्यानम्-
चतुर्बाहु मुदाराङ्गं सर्व लक्षणलक्षितम्।
शुद्ध स्पटिक वर्णाभम् अयुतेन्दु समप्रभम्।
चारुहासं सुताम्रोष्टं कर्णान्तायतलोचनम्।
निर्धूत पद्म रागाभ दन्तच्छविसुशोभितम् ।
महोरस्कम् महाबाहुम्प्रसन्नेन्दुनिभाननम्।
सुभू ललाटम्सुमुखङ्घनकुञ्चित मूर्धजम्।
तटिच्छत सहस्राभं पीत निर्मल वाससम् ।
पाणिपादतलाम्भोजम् पुण्डरीकायतेक्षणम्।
श्रीवत्साङ्गं किरीटादि सर्वाभरण भूषितम् ।
पद्म चक्र गदा शंरवधारिणं कौस्तुभोरसम् ।
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम् ।
शेषाहिभोगे विपुले सुखासीनं चतुर्मुख ।
श्रीभूमि सहितं देवं ललाटे श्वेतमृत्स्नया ।
कृतोर्ध्व पुण्ड्रतिलकैः मण्डितं चण्ड भानुभिः ।
नियुतै रयुतैश्चन्द्रैः विद्युत्कालाग्निकोटिभिः ।
समवेतैरिवैकत्र तेजःपुञ्जैः विसर्पिभिः ।
भ्राजमानन्दुरालोकं देहमण्डल निर्गतैः ।
भासयन्तञ्जगत्सर्वं ध्यायेत् प्रक्षीण कल्मषः ।
सितं कृष्णं च धूम्राभं श्यामं तारानिभं तथा । ।
स्पटिकाभं च शङ्खाभं रक्तं शुक्लं च लोहितम् । ।
[[8]]
तमोरूपम् पीतवर्णं ध्यायेन् मन्त्रद्विषाक्षरम् ।
21-श्रीमन्नारायणस्य ध्यानम्-
-चतुर्भुज मुदाराङ्गञ्चक्राद्यायुध सेवितम्।
कालमेघ प्रतीकाशम् पद्मपत्रायतेक्षणम् । ।
पीताम्बरधरम्सौम्यम् प्रसन्नेन्दुनिभाननम्।
चारुहासं सुताम्रोष्टं रत्नोज्वलितकुण्डलम्। ।
सुभ्रुललाटमकुटं घनकुञ्चितमूर्धजम्।
ललाटतिलकं सौम्यं दीपवत् श्वेतमृत्स्नया । ।
स्फुरत्कटककेयुर हारकौस्तुभभूषितम्।
स्फुरत्भास्वरवर्णाभं शोभितं वनमलया ।
प्रद्योदनसहस्राभं भूषणैरपि मण्डितम् ।
दिव्यचदनलिप्ताङ्गन्दिव्यमाला विभूषितम् ।
श्रीभूमिभ्यां सुखासीनं स्वर्ण सिंहासने शुभे ।
ध्यात्वैवं देवदेवेशम् मन्त्रजापपरो भवेत् । ।
शुक्लंहिरण्मयं कृष्णं रक्तङ्कुङ्कुम सन्निभम्।
पद्मकिञ्जल्क सदृशं सर्ववर्णकमष्टकम् ।
21-श्रीदेव्याः ध्यानम्-1
रक्तपङ्कजवर्णाभां लक्ष्मीं नीलाम्बुजेक्षणाम् ।
देव भ्रू समसन्मानां द्विभुजां नक्रकुण्डलाम्।
स्वर्णचेलसमायुक्तां ब्रह्मसूत्रविराजिताम्।
करण्डमकुटोपेतां स्तनबन्ध समन्विताम् ।
कटकाद्यैरलङ्कारैः नूपुरान्तैरलङ्कृताम्।
पद्मपीठे सुखासीनां वामेन चरणेन तु ।
[[9]]
प्रसारितेन दक्षेण चरणेनाति शोभनाम् ।
अभयं दक्षिणेनैव सनालं च अर्थपुल्लकाम् ।
कमलं वामहस्तेन बिब्रतीं च श्रियं स्मरेत् ।
22- श्रीदेव्याः ध्यानम्-2
श्रियं च दक्षिणेपार्श्वे चिन्तयेत्पद्मसम्भवाम् ।
तप्तहाटकसङ्काशां पद्मपत्रायतेक्षणाम् ।
तिसृभिः परिचूडाभिः ललाटोपरिशोभिताम् ।
स पद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीम् ।
प्रसारितेतरकरां सर्वाभरण भूषिताम् ।
प्रसन्नवदनां देवीं भगवत्पादवीक्षणाम्।
त्रिभङ्गीं कोमलाङ्कान्तां सुमुखीं भावयेत्सदा ।
23-भूदेव्याः ध्यानम्-1
दुग्धौघ दवलां पुष्टीम् आनन्दाङ्गुलिताननाम्।
लक्ष्मीमान समोच्छ्रायां द्विभुजां नक्रकुण्डलाम् ।
करण्डमकुटोपेतां स्तनबन्ध विवर्जिताम् ।
नीलकौशेय वसनां यज्ञसूत्रविराजिताम् ।
कटकाद्यैः नूपुरान्तैः आकल्पैस्तु विभूषिताम् ।
पद्मपीठे सुखासीनां दक्षेण चरणेन तु ।
प्रसारितेन वामेन चरणेनातिशोभनाम् ।
दक्षहस्तेन कल्हार सनालं वामपाणिना ।
वरदं बिभ्रतीं भूमिं स्मरेदेवं तु देशिकः ।
24-भूदेव्याः ध्यानम्-2
वामपार्श्वे महीन्देवीं द्विहस्तां श्यामलप्रभाम् ।
[[10]]
स्तनबन्धविहीनाङ्गीं सर्वाभरण भूषिताम् ।
त्रिभङ्गीङ्कोमलाङ्कान्तां लक्ष्मीवन्मकुटोज्वलाम् ।
वहन्तीं दक्षिणेहस्ते लसत्कल्हारकुड्मलाम् ।
प्रसारितेतरकरां प्रसन्नेन्दु निभाननाम् ।
भक्ताभीष्टप्रदां देवीं सुमुखीं भावयेत्सदा ।
भूदेव्याः ध्यानम्-3
25-नीलषट्पदपुञ्जाभ कुटिलालककोमले ।
कल्हारदक्षिणकरे भोगशक्ति स्वरूपिणी ।
समस्त चिदचिद्भेद मन्त्रयन्त्र विधायिनी ।
भूदेवी त्वां प्रार्थयामि सान्निध्यं कर्तुमर्हसि । (जयोत्तरे)
2``6``-नीलादेव्याः ध्यानम्- 1
नमस्सम्पूर्णषाड्गुण्य विग्रहायै किटिप्रिये ।
स्वतन्त्रं विश्वसिद्धानां हेतिश्चात्र महाद्भुते ।
तत्वाऽरविन्दसन्दोह विहार चतुरश्रमे ।
नीलजीमूतसङ्काशे हेमाम्बरसुमध्यमे ।
कल्हारकुड्मलकरे सर्वभूषणमण्डिते । (विष्णुतत्वे) ]
27-नीलादेव्याः ध्यानम्-2
श्रीमत् श्रीतुलसीरूपां विष्णुपत्नीं हरिप्रियाम्।
सर्वाभरणसंयुक्तां नीलादेवीमहं भजे । (पराशरे) -
28-श्रीविष्णुषडक्षर( शयनबेर) ध्यानं
विष्णुं सारथचन्द्रकोटिसदृशं शङ्खं रथाङ्गं गदा ।
अम्बोजं ददतं सिताब्जनिलयं कान्तं जगन्मोहनम् ।
आबद्धाङ्गद हारकुण्डलमहा शोभास्फुरद्वक्षसम्।
[[11]]
श्रीवत्साङ्गमुदारकौस्तुभधरं वन्देमुनीन्द्रावृतम्।
29-व्यूहवासुदेव ध्यानम्।
चतुर्भुजमुदाराङ्गैः शङ्खचक्रादिचिह्नितैः ।
नानाध्वज विचित्राङ्गैर्वासुदेवादि सञ्ज्ञितैः ।
व्यूहैः स्वं प्रविभज्यास्ते विभुर्नाम स्वलीलया ।
तत्राद्यं भगवद्रूपं हिमकुन्देन्दु कान्तिमत् ।
चतुर्भुजं सौम्यवक्त्रम् पुण्डरीकनिभेक्षणम् ।
पीतकौशेयवसनं सुपर्णध्वज भूषितम् ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम्।
तथाविधेन वामेन दधानं शङ्खमुत्तमम् ।
अपरेण दधानं च दक्षिणेन सुदर्शनम् ।
वामेन च गदां गुर्वीं निषण्णां वसुधातले ।
सञ्चिन्तयेत् पुरोभागे वासुदेवमितीदृशम् ।(लक्ष्मी तन्त्रम्
30-सारूप्य(सम्मोदन)वैकुण्ठे विराजित सङ्कर्षण ध्यानम्।(वर्णनम्)
ध्यायेत् सारूप्य वैकुण्ठं सम्मोदनमुदाहृतम् ।
विरजापरिघोपेतं सप्तावरण शोभितम् ।
अयुतैर्योजनानां च विस्तारायाम सम्मितम् ।
सूर्य लक्ष समप्रख्यैः प्रासादादिभिरुज्ज्वलम् ।
शङ्ख चक्रधरैर्दिव्यैश्चतुर्भुज समन्वितैः ।
पीताम्बरैः पृथूरस्कैः पद्मपत्र निभेक्षणैः ।
स्तुवद्भिश्चैव नृत्यद्भिर्गायद्भिश्चैव भक्तितः ।
तैः संवृतो जगन्नाथस्तस्मिन् लोके जगद्गुरुः ।
आस्ते सङ्कर्षणो देवः कीर्त्यासह सुखासने ।
[[12]]
31- सामीप्य (आमोदन)वैकुण्ठे विराजित प्रद्युम्न ध्यानम्।(वर्णनम्)
स्मरेत् सामीप्यवैकुण्ठमामोदनमथोपरि ।
पूर्ववत्तु विमानाद्यैर्गोपुराद्यैः सुशोभितम् ।
सूर्यायुतसमप्रख्यैः शतयोजनमुच्छ्रितैः ।
प्राकारैः पञ्चभिर्दिव्यैः शोभितं परमाद्भुतैः ।
योजनानां सहस्रैस्तदायामं चापि तत्समम् ।
इतस्ततश्च धावद्भिः भगवत्कर्मतत्परैः ।
अलङ्कृतं विष्णुभक्तैः शतशोऽथ सहस्रशः ।
तस्मिन् लोकवरे दिव्ये भगवान् भक्तवत्सलः ।
सुखमास्ते हि लोकेशः प्रद्युम्नोजयया सह ।
32-प्रमोदनवैकुण्ठे (सालोक्यपदेविराजित अनिरुद्धमूर्ति ध्यानम्)वर्णनम्
अव्यक्तं च ततो ध्यायेत् प्रमोदनमुदाहृतम्।
तत्तु सालोक्यवैकुण्ठं विमानैः स्वर्णनिर्मितैः ।
नानारत्नमयैश्चित्रैः प्रासादैर्गोपुरैरपि ।
अप्राकृतैर्मनोहार्यैः कल्पवृक्षैश्च संवृतम् ।
मणिकुट्टिम सोपान महार्हमणिवेदिकम् ।
शतयोजन विस्तारम् अनेक शतमायतम् ।
तस्मिन् लोकोत्तरे दिव्ये प्रथमे देवपूजिते ।
आस्तेऽनिरुद्धो भगवान् मायादेवी समन्वितः ।
3``3``-क्षीराब्धिनाथध्यानम्-1
आमोदेभुवने प्रमोदउत सम्मोदे च सङ्कर्षणम् ।
प्रद्युम्नं च तथानिरुद्धमपि तान् सृष्टि स्तिथीचाप्ययन् ।
कुर्वाणानतिमुख्यषड्गुणवरैर्युक्तास्त्रियुग्मात्मकैः ।
[[13]]
व्यूहाधिष्टितवासुदेवमपि तं क्षीराब्धिनाथं भजे ।
3``4``- क्षीराब्धिनाथध्यानम्-2
अथापश्यत्परं देवं क्षीरसागर शायिनम् ।
अनन्तभोगशय्यायां शयितं पङ्कजेक्षणम् ।
शङ्खचक्रगदापद्मान्धारयन्तं चतुर्भुजम्।
श्रिया चरणयोर्जुष्टं श्यामलं पीतवाससम् ।
श्रीवत्साङ्कं प्रसन्नाभं कौस्तुभोज्वल वक्षसम् ।
सेवितं वैनतेयेन सन्निविष्टेन पार्श्वतः ।
35- वैकुण्ठनाथध्यानम्
सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा ।
जानुन्यादाय सव्येतरमितरभुजं नागभोगेनिधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे ।
देवीभूषादिजुष्टो जनयतिजगतां शर्म वैकुण्ठनाथः ।
[[14]]
36 सूर्यमण्डल मध्यस्तिथ नारायणध्यानम्-
ध्येयस्सदासवित्ऱु(द्रु)मण्डल मध्यवर्ति नारायणः
सरसिजासनस्सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान्
किरीटिहारि हिरण्मयवपुः धृतशङ्ख चक्रः।
(शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्दपुण्डरीकाक्ष रक्ष मां शरणागतम् ।)
37-अश्वत्थनारायण ध्यानम्।
श्वेतवर्णं स लक्ष्मीकं बुजाष्टक विभूषितम् ।
शङ्ख चक्रधरं देवं पीतवाससमच्युतम् ।
अभयं वरदं शान्तं खड्गखेटक धारिणम् ।
धनुर्भाणसमायुक्तं चिन्तयेत् पुरुषोत्तमम्।
38- लक्ष्मीनारायण ध्यानम्-1
त्रैलोक्याधार चक्रं तदुपरिकमलं तत्रचाऽनन्तभोगि ।
तन्मध्ये भूमिपद्माङ्कुश शिखरदलं कर्णिकाभूतिमेरुम् ।
तत्रत्यं शान्तमूर्तिं मणिमयमकुटं कुण्डलोद्भासिताङ्गम् ।
लक्ष्मीनारायणारव्यं सरसिजनयनं सन्ततं चिन्तयामि ।
39- लक्ष्मीनारायणध्यानम्-2
उद्यदादित्य सङ्काशं पीतवासं चतुर्भुजम् ।
शङ्खचक्र गदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ।
[[15]]
40- अभिन्न लक्ष्मीनारायणध्यानम्।
वपुषे दक्षिणेभागे विष्णुः वामेसरोरुहा ।
पीनस्तनतटोवामः श्रीवत्साङ्गस्तथेतरः ।
वामे हेमनिभः श्यामो दक्षिणोभाग इष्यते ।
आसीनं वा शयानं वा गरुडारूडमेव वा । पाद्मसंहिता-क्रियापादम्।
41- अष्टभुज नारायणध्यानम्। (परमसंहिता)
अष्टबाहुस्तदाराध्यो रक्तपद्मो जनार्दनः ।
वाहनेनायुधैश्चापि परिवारैश्च सम्भूतः ।
अनन्तः पन्नगः प्राच्यां पश्चिमायां तु पक्षिराट् ।
देवस्य वामतो लक्ष्मीः दक्षिणेन सरस्वती ।
आग्नेया बुद्धिरेवस्यान् नैऋत्यां सिद्धिरुच्यते ।
वायव्यां मतिरुद्धिष्टा शान्तिरीशानगोचरा ।
शङ्खं चक्रं गदापद्म खड्गं खेटं शरं धनुः ।
इत्यायुधानि देवस्य करेष्वष्टसु पद्मज! ।
उरसा कौस्तुभंरत्नं श्रीवत्सं च समुद्वहन् ।
लोकोपकारसिद्ध्यर्थ अनेकं रूपमाश्रितः । ( परमसंहिता-479 85)
42-सूर्यनारायणध्यानम्-बृहद्वृह्मे-3-7
सूर्यमण्डलमध्यस्थमरविन्दकृतासनम्।
पीनायतचतुर्बाहु मुत्पल्लस्रजमच्युतम्।
दरारिगद्योपेतम् उत्फुल्लकर पङ्कजम् ।
श्रीनिकेतं श्रियं तद्वदनवद्य रुचिंस्मरेत् ।
[[16]]
43-श्रीकरमूर्ति (गरुडारूड लक्ष्मीनारायणध्यानम्)
आदित्यचन्द्रावपि शङ्खचक्रे शङ्खप्रसूनाख्यनिधी ददानः ।
चिन्त्यः कराभ्यां वसुतर्पयन् सः स्वाङ्कस्थलक्ष्मीः गरुडांससंस्थः ।
44-हंसमूर्ति-ध्यानम्-
ध्यायेद् रवीन्दुकरमिन्दुसहस्रलक्ष कान्तिं प्रियासहित मास्थित मिन्दुबिम्बे ।
शङ्खारिदोर्ध्वयमुदर्क महेन्दुबिम्बात् संसिच्यमानममृतेन रमाधिनाथम्
45 दधिवामन (अन्नमूर्ति) ध्यानं
ध्यायेत् सु शुक्लमरविन्द दलायताक्षं
सौवर्णपात्र दधिभोज्यमथामृतं च ।
दोर्भ्यां दधानमखिलैश्च सुरैस्समेतं
शीतांशु मण्डलगतं रमया समेतम् ।
45-मत्स्यमूर्तिध्यानम्- (विष्वक्सेन संहिता)
शतपत्रमयस्याथ पुण्डरीकस्य मध्यमे ।
पद्मासनस्थं मत्स्याष्टपरीतं कनकप्रभम् ।
त्रिनेत्रं द्विभुजं चैव प्राङ्मुखं पद्मधारिणम् ।
सर्वावयसम्पूर्णंसर्वाभरणभूषितम्।
मत्स्यादिमानिनं मूर्तिमित्थमुक्तं च नारद ।
पद्मपूर्वदले मत्स्यं राजतं च विन्यसेत् ।
सौम्यदिग्दलमध्ये तु मत्स्यं ताम्रनिभं न्यसेत्।
नैऋत्यदिग्दले मत्स्यं कृष्णवर्णं तु विन्यसेत्।
वारुणे दिग्दले मत्स्यं रक्तवर्णं तु विन्यसेत्।
वायव्य दिग्दले मत्स्यं श्यामवर्णं तु विन्यसेत्।
सौम्यदिग्दलमत्स्यं तु ताम्रवर्णं तु विन्यसेत्।
[[17]]
ईशानदिग्दले मत्स्यं रक्तवर्णं तु विन्यसेत् ॥
इत्यष्टदिग्दलस्थैस्तु मत्स्यैरभिमुखीकृतम्।
अस्य दक्षिण पार्श्वे तु श्रियं पुष्टिं परत्र तु।
46-कूर्ममूर्तिध्यानं
कालाञ्जनगिरिप्ररव्यं त्रिणेत्रं स्वाङ्गशोभितम्।
चतुर्बाहुयुतञ्चैव सर्वाभरण भूषितम्।
*अञ्जनभूभूत्सन्निभमूर्तिं द्वादशपत्रे वर्ततमब्जे।
पद्मसमारव्यस्वासनयुक्तः कूर्मशरीरी विष्णुरिहास्ते।
शङ्खचक्रधरश्चैव पद्महस्तस्तथैव चा
ततो द्वादशकूर्मा हि देवोऽप्यभिमुखीकृतः ।
अस्य दक्षिणहस्तेन चक्रपद्मेकरान्तरे।
वामोर्ध्वशङ्खमित्युक्तं पद्मञ्चाधस्थिते करे।
प्राक्क्रमतोब्जद्वादशपत्रारूडशरीरैः द्वादशकूर्मैः ।
अञ्जनवर्णप्ररव्यशरीरै रावृतमूर्तिः स्वाभिमुरवस्थैः ।
अस्यदक्षिणपार्श्वे तु श्रियं विन्यस्य बुद्धिमान्।
पुष्टिं वामे न्यसेदेवं कूर्ममूर्तिरुदाहृतः ।
47-भूवराहध्यानम्-1
श्यामः सुदर्शनधराभयसद्वरेड्यो भूम्यायुतोऽखिलनिजोक्तपरिग्रहैश्च ।
ध्येयोनिजैश्च तनुभिस्सकलैरुपेतः कोलो हरिस्सकलवाञ्छित सिद्धये नः ।
48- भूवराहध्यानम्-2
श्वेतं सुदर्शनतरङ्गितपादयुग्मं दंष्ट्रा करालवदनं धरया समेतम् .
ब्रह्मादिभिस्सुरगणैः परिसेव्यमानं ध्यायेद्वराहवपुषं निजमैकवेद्यम् .
[[18]]
49- भूवराहध्यानम्-3
ध्यायेद्वराहरूपं नलिणरुचिदृशं शुक्लदंष्ट्रायतास्यं
वामाङ्गे ऊरुमूले विकसितवदनाम् भूमिदेवीं वहन्तम्.
लोकत्राणायमघ्नां प्रलयजलनिधौ लोकधात्रिं करेण.
बिभ्राणं दिव्यमूर्तिम् उरगपतिशिरन्यस्त पादारविन्दम्..
50- भूवराहध्यानम्-4
श्वेतंवराहवपुषं क्षितिमुद्धरन्तं शङ्खारिसर्ववरदाऽभय युक्तबाहुम् ध्यायेन्निजैश्च
तनुभिस्सकलैरुपे तं पूर्णं विभुं सकलवाञ्छित सिद्धयेऽजम् 51- यज्ञ
वराहध्यानम्- ईश्वर संहिता-24a- 238-243
तं महापुरुषं बृह्म वासुदेवमजं हरिम्।
ध्यायेद्वै सूकरात्मान मञ्जनाद्रिसमप्रभम् ।
यज्ञाङ्गचिह्निताङ्घ्रिं च महाव्याहृति दंष्ट्रिणम् ।
भूर्भुवः स्वः शरीरं च शब्दबृह्मैक मानसम् ।
निर्णुदन्तं प्रपन्नाना मविद्यापङ्कमञ्जसा।
वैद्येन पोत्र प्रान्थेन त्वक्षयेनामलेन च.
वासनावासितानां च जीवानां भवशान्तये।
महाविभूतिर्भगवान् पूर्णषाड्गुण्य विग्रहः ।
स्वकाच्छान्ततराद् बृह्म तत्वादादाय चाञ्जलिम्।
करोति सेचनं दोषदग्धानां च स्वतेजसा।
स्थूलरूपेण तमजं बहिराराधना विधौ।
आध्मातं वायुना यद्वन्निर्धूमाङ्गार पर्वतम्।
श्रीलक्ष्मीनृसिंहध्यानम्-1
शरच्चन्द्रनिभं देवं शङ्ख चक्र वराभयान्।
[[19]]
बिभ्राणं पुण्डरीकाक्षं लक्ष्म्यालिङ्गित विग्रहम्।
सिंहवक्त्रं महाकायं नृसिंह्मं हृदि भावयेत्।
52- श्रीलक्ष्मीनृसिंहध्यानम्- 2
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थितम्।
योगारूडमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम्।
त्र्यक्षं चक्र पिनाकसाभयकरं बिभ्राणमर्कच्छविम्।
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे।
53-योगनृसिंहध्यानम्।
शङ्खचक्रधरं चैव सर्वाभरणभूषितम्।
सर्वावयवसम्पूर्णस्सर्वसिद्धिकरश्शुभः ।
चक्रं च दक्षिणेहस्ते शङ्खं वामे न्यसेद्बुधः ।
योगपट्टसमायुक्तमासीनं सम्यगासने।
हस्तयोःकूर्परन्यस्य पादजानूरु संस्थितः ।
श्रीभूमिभ्यां समोपेतं बृह्मशङ्कर संयुतम्। (विष्णुतन्त्रे-17-a)
54-श्रीसुदर्शननृसिंहध्यानम्- 1
त्रिनेत्रं चतुश्चक्रसंशोभिहस्तं स्थितं तं च पङ्केरुहेयोगपीठे।
महोग्राकृतिं कालविद्युत्सकाशं नृसिंहं भजे चक्रपश्चात्सुसंस्तम्।
55-श्रीसुदर्शननृसिंहध्यानम्- 2
बिभ्राणं शक्तिखङ्गं ज्वलमथसृणिं दन्तकुन्तौ कुठारौ ।
शङ्खं चक्राब्जपाशान् हलमुसलगदा खेटशूलांश्च दोर्भिः ।
प्रत्यालीडं समीडे त्रिनयनमरुणे पिङ्गकेशं सु दंष्ट्रम् ।
देवम्पश्चार्धयोगासनलसित चतुश्चक्र भास्वन्नृसिंहम्। शेषसंहिता। ।
[[20]]
56- श्रीसुदर्शननृसिंहध्यानम्- 3
चकद्वयम् अङ्कुशपादयुक्तम् । चतुर्भुजं भीकरसिंहवक्त्रम् ।
नेत्रत्रयालङ्कृत निर्मलाङ्गम् । नमामि सौदर्शन नारसिंहम् ।
57- त्रिविक्रममूर्तिध्यानम्- 1
स्फुरत्किरीटा ङ्गदमीनकुण्डल श्रीवत्सरत्नोत्तम मेखलाम्बरैः ।
मधुव्रतस्रग्वनमालयावृतो रराजराजन् भगवानुरुक्रमः ।
क्षितिं पदैकेन बलेर्विचक्रमे नभश्शरीरेण दिशश्च बाहुभिः ।( शेषसंहिता)
वदं द्वितीयात् क्रमतः त्रिविष्टपं न वै तृतीयस्य तदीयमण्वपि ।
57- त्रिविक्रममूर्तिध्यानम्- 2
चतुर्भुजं वा बहुभिर्बाहुभिर्वा समन्वितम् ।
तस्य दक्षिणपार्श्वे तु वामनं वामनाकृतिम् ।
तस्यापसव्ये दैत्येन्द्रं बलिं करकधारिणम् ।
भुवनत्रयधातारं स भार्यां स पुरोहितम् ।
वामपार्श्वे तु पक्षीन्द्र मुष्टिना शुक्रघातिनम् ।
वामभित्तौ विधातार मुपरिष्टादवस्थितम् ।
क्रममाणस्य देवस्य सव्याङ्घ्रि क्षालनोद्यतम् ।
पादोदकसमुद्भूता गङ्गामाकाशमानिनीम्।
तर्जन्या वामया चापि निर्दिशन्तं समुद्धृतम् ।
चरणं सव्यमत्युच्छैः श्यामलं पीतवाससम् । ।
शङ्ख चक्र गदा खड्ग धनुः पाशादि धारिणम्।
जाम्बवन्तं च भित्तौ तु भेरीताडन तत्परम् ।
देवर्षिगण सङ्घातान् कृताञ्जलिपुटान् स्थितान् ।
भित्तीकृत्वा ततः कर्माद्यर्चां चैव चतुर्भुजः। पाद्मे क्रियापादे17अ
[[21]]
59-श्रीरामध्यानम्- 1
वामेभूमिसुता पुरश्चहनुमान् पश्चात्सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च-
सुग्रीवश्च विभीषणश्चयुवराट् तारासुतो जाम्भवान्।
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम्।
60- श्रीरामध्यानम्-2
प्रार्थनावरुणस्साध्यं शार्ङ्गिणं रामरूपिणू।
वीरासनेसुखासीनां सीतां काञ्चन सन्निभाम्।
भजतां कामदां नित्यं चामीकर कराम्बुजाम्।
लक्ष्मणं दक्षिणे पार्श्व कोदण्ड द्वयधारिणौ।
पार्श्वयोः भरतशत्रुघ्नौ छत्र चामर वाहिनौ।
तदग्रे च हनूमन्तं सवीणं सहपुस्तकम्।
श्रीरामध्यानम्-3
श्यामं वारिजपत्रनेत्रममलं प्रज्ञानमूर्तिं हरिम्।
विद्युद्दीप्तपिशङ्ग रम्यवसनं भास्वत्किरीटोज्जलम्।
कर्णालम्बितहेमकुण्डललसद् ब्रूवल्लिमत्यद्भुतम्।
श्रीमन्तं भगवन्तमिन्दुसहितं श्रीजानकीशं स्मरेत्। (बृहद्वृह्मसंहिता)
61 -श्रीरामध्यानम्-4
वामाङ्कस्थितजानकी परिलसत्कोदण्डदण्डं करे।
चक्रञ्चोर्द्वकरेण बाहुयुगले शङ्खं शरं दक्षिणे।
बिभ्राणं जलजादपत्रनयनं भद्राद्रिमूर्ध्निस्थितम् ।
केयूरादिविभूषितं रघुपतिं सौमित्रियुक्तं भजे । (वायुसंहिता)
[[22]]
62- योगरामध्यानम्-
अथ ध्यानमहं वक्ष्ये रामस्याद्भुतकर्मणः ।
कालमेघसमच्छायं वीरासन समन्वितम् ।
दक्षहस्ताग्रविलसज् ज्ञानमुद्राभिशोभितम् ।
वामजानु कटिन्यस्त वामपाणि विराजितम्।
वामपार्श्वस्थया देव्या करविन्यस्त पद्मया ।
विद्युन्निभाङ्गयाश्लिष्टं सीतां सर्वविभूषिताम्
माणिक्य मकुटोद्भासि मौलि माविस्मिताननम् ।
नानारत्न विभूषाभिः पारिभूषित विग्रहम्।
सर्वाभरणसंयुक्तं पार्श्वे लक्ष्मण सेवितम् ।
सुग्रीव हनुमत्प्रख्यैः अन्यैश्च मुनिभिर्युतम् । (अगस्त्यसंहिता -3० अ)
भोग रामध्यानं
साधु वक्ष्यामि सर्वं ते शृणुष्वावहितो मुने ।
सीता लङ्कृतवामाङ्कं द्विभुजं चारुलोचनम्।
वामहस्तेनसीतायाः स्पर्शयन् स्तनमण्डलम् ।
ज्ञानमुद्रायुतेनान्येनान्वितं लोकसुन्दरम्।
धनुर्द्वयकरेणापि लक्ष्मणेन सुशोभितम् ।
कोटिकन्दर्पसङ्काशं राघवं करुणाकरम् ।
उपविष्टं पद्ममध्ये वीरासन सुशोभितम् ।
हनुमत्सेवितं चाग्रे कुर्यादेवं मनोरमम् ।
दशाक्षरप्रकारोयं कथिते मुनिपुङ्गवाः ।
[[23]]
द्वादशाक्षरी रामध्यानं
नीलोत्पलदलश्यामं पीताम्बरधरं विभुम् ।
द्विभुजं कञ्जनयनं दिव्यसिह्मासनस्थितम् ।
वसिष्ठाद्यैश्च परितो वृत्तं रत्नकिरीटिनम् ।
सीतासंलापचतुरं दिव्यगन्धादिशोभितम् ।
चापद्वयकरेणाथ सेवितं लक्ष्मणेन च ।
शत्रुघ्न भरताभ्यां च पार्श्वयोरथ सेवितम् ।
ध्यायन्ननन्यधीः (एवं)रामं द्वादशाक्षरमन्वहम् । ( अगस्त्ये)
श्रीकृष्णध्यानं
कस्तूरितिलकं ललाटपटले वक्षस्तलेकौस्तुभम् ।
नासाग्रेवरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गेहरिचन्दनसुललितं कण्ठेश मुक्तावलिम् ।
गोपस्त्रीपरिवेष्टितो विजयते गोपाल चूडामणि ।
65मदनगोपाल-ध्यानम्
कोदण्डमैक्षवमनेकशरं च पौष्पं चक्राब्जपाशसृणिकाञ्चन वंशनालम् ।
बिभ्राणमष्टविधबाहुभिरर्कवर्णं ध्यायेत् हरिम् मदनगोपविलासवेषं
जगन्मोहन कृष्णध्यानम्
अंसालम्बितवामकुण्डलधरं मन्दोन्नतम्मूलतम्।
किञ्चिन्त्कुञ्चितकोमलाधरपुटं साचिप्रसेराक्षणम् ।
आलोलाङ्गुलिपल्लवैर्मुरलिका मापूरयन्तम्मुदा ।
मूलेकल्पतरोः त्रिभङ्गिललितं ध्यायेज्जगन्मोहनम् ।
[[24]]
योगेश्वर कृष्णध्यानं
स्मर्तव्यस्सोपि भगवानतसीकुसुमद्युतिः ।
वहन्तौ वामहस्तेन सर्वशास्त्रार्थपुस्तकम् ।
दक्षिणेन तु शास्त्रार्थमादिशंश्च यथास्थितम् ।( बृहद्वृह्मसंहिता-स-ऽ)
राधा कृष्णध्यानम्-1
अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य प्रियात्प्रिये ।
पीताम्बरं घनश्यामं द्विभुजं वनमालिनम् ।
बर्हिबर्हकृतापीडं शशिकोटि निभाननम् ।
धूर्णायमान नयनं कर्णिकारावतंसिनम् ।
अभितश्चन्दनेनाथ मध्ये कुङ्कुमरेखया ।
रचितं तिलकम्फाले बिभ्राणं कमलाकरे ।
तरुणादित्यसङ्काशं कुण्डलाभ्यां विराजितम् ।
घर्माबु कणिकाराजद् दर्पणाभ कपोलकम् ।
प्रियामुरव विदुन्यस्त लोचनं चोत्तर भ्रुवम् ।
नासाग्रविस्फुरन्मुक्ता शुद्धांशु विलसन्मुखम्।
दशनज्योत्सया राजत् पक्वबिम्बफलाधरम्।
केयूरा ङ्गदसद्रत्न मुद्रिकाविलसत्करम्।
बिभ्रतं मुरलीवाद्यं पाणौपद्म तथापरे ।
काञ्चीदाम स्फुरन्मध्यं नूपुराभ्यां लस त्पदम्।
रतिकेलिरसावेश चपलं चपलेक्षणम् ।
हसन्तं प्रिययासा र्धं हासयन्तं च तां मुहुः ।
हत्थं कल्पतरोर्मूले रत्नसिह्मासनोपरि ।
वृन्दारण्ये स्मरेत्कुष्णं संस्थितं प्रियया सह ।
[[25]]
वामभागेस्थितां तस्य राधिकां संविचिन्तयेत् ।
नवीन नीलवसनां धुतहेमसमप्रभाम्।
पटाञ्चलेनावृतार्थ सुस्मेरानन पङ्कजाम्।
कान्तवक्त्रसुधाधाम चकोरायुत लोचनाम्।
अङ्गुष्ठतर्जनीभ्यां च निजप्रियमुखाम्बुजे ।
अर्पयन्तीं पूगफलं पर्णाचूर्णसमन्वितम्।
मुक्ताहारोल्लसच्चारु पीनोन्नत पयोधराम् ।
क्षीणमध्यां पृथुश्रोणीं किङ्किणीजालशोभिताम् ।
रत्नहाटककेयूर मुद्रावलय धारिणीम् ।
रणत्कटक मञ्जीर रत्नपादाङ्गुलीयकाम् ।
लावण्यसारमुग्दाङ्गीं सर्वावयवसुन्दरीम्।
आनन्दरसमघ्नां च प्रसन्नां नवयौवनाम् ।
सख्यश्च राधिकाया वै तत्समानवयो गुणाः ।
तत्सेवनपराभाव्या श्चामर व्यजनादिभिः ।
जानासि हृदयावासे तथापि कथयामि ते ।
अन्येषां च प्रभोदार्थं मन्त्रार्थममलं प्रिये ।
68-राधाकृष्णस्य ध्याने-2 (बृहद्वृह्मे part-1-13a)
कर्णिकायां बालेन्दुमण्डले जलदाकृतिम् ।
सुवर्णवर्णया देव्या राधया परिवेष्टितम् ।
कोटिकन्दर्पमुग्दाङ्ग मरविदनिभेक्षणम् ।
मयूरपिञ्छाभरणं स्फुरन्मकरकुण्डलम्।
बन्धूकजलविभ्राजत् पाणिपाद तलाधरम् ।
त्रि भङ्ग सुन्दरग्रीवं वेणुवादन तत्परम्।
[[26]]
कुटिलालकमा पीन भुजदण्डविभूषितम् ।
वलयाङ्गदमाणिक्य मयूरव विलसत्तमम्।
स्फुरन्मुक्ताफलोदार द्युतिपूरित वक्षसम्।
श्रीवत्सकौस्तुभोरस्कं रणत्काञ्ची कलापकम् ।
मञ्चु मञ्जरि निर्घोष दृष्टपादसरोरुहम् ।
वधूकदम्बमध्यस्थ मुदारगुणमण्डितम्।
वीणावादनतत्वाङ्गं गानमोहित मन्मथम् ।
*पार्श्वे विचिन्तयेद्देवीं राधिकां परदेवताम् ।
कामकेलिकलाभिज्ञाम् उन्निद्र जलजेक्षणाम् ।
क्षीणमध्यामनिन्द्त्याघ्रीं मुग्धहासां महच्छविम् ।
गीतकाव्य कथालाप विद ग्दांसुन्दरोदरीम् ।
किशोरीं शैशवक्रीडा परमव्यञ्जितस्तनीम् ।
नीलशाटिपरीधानां पङ्ककाश्मीर पङ्किलाम् ।
पङ्कजान्दोलितकरां कालिन्दी केलि लम्पटाम् ।
श्रीकृष्णांस समासक्त पाणीमाहूत षट्पदाम्।
कौमूदिवल्लभां कान्तां वृन्दावनविलासिनीम् ।
नित्यानपायिनींविष्णोः भावयेद्रस दीर्घिकाम् ।
श्रीराजगोपाल ध्यानम्।-1
एक वस्त्राञ्चितो बालः बर्ह पीडाम्बुजाननः ।
गोपदण्डधरो मन्यन् चारयन्पशुमण्डलम्।
पादुकाक्त पदाम्बोजं पद्माजानिरदृश्यतम् ।
तं दृष्ट्वा प्रणमन् भक्त्या पुनरन्यमयाचितम्।
वस्तुमेस्तु दृशोरग्रे क स्तूरि तिलकाञ्चितम् ।
[[27]]
अस्तोक करुणासान्द्रं न्यस्तुलं चम्पकालयम् ।
हैमं वेत्रं त्रिणति मकरे दक्षिणेसन्दधानं
सत्यांसैन्यं कर सरसिजं वामभागे न्यसन्तम् ।
व्य स्तन्ताङ्घ्रि स्मितवदनया भैमया प्रेक्ष्यमाणः
तिष्ठन्मध्ये कनक गहने श्री राजगोपाल रूपम् ।
श्रीराजगोपाल ध्यानम्।-2
दक्षिणद्वारका मध्ये निशारव्ये सरितस्तटे ।
चिन्तयेच्चम्पकारामे कल्पद्रोःपादमूलके ।
प्राकार गोपुरोपेते स्वर्णमण्टपसंवृते ।
नानारत्नमयेदिव्ये स्वायम्भुव विमानके ।
तन्मध्ये गर्भगेहेतु पद्मपीठेस्थितं विभुम् ।
वासुदेवं चतुर्भाहुम् इन्द्रनीलसमप्रभम्।
सर्वाऽलङ्कारसंयुक्तं शङ्खचक्र गदाधरम्।
दधानं दक्षिणे हस्तेरम्यामभयमुद्रिकाम्।
सुवर्णमकुटोपेतं मामहिपरिसेविताम् ।
तस्याग्रे राजगोपालं दिव्यसिह्मासनस्थितम् ।
दिव्यपीताम्बरधरं दिव्याऽऽकल्प परिष्कृतम् ।
दिव्यस्रग्गन्ध कस्तूरि कण्ठिकाद्यैरलङ्कृतम् ।
मन्धस्मितमुदाराङ्ग मदनायुत सुन्दरम्।…
त्रिभङ्गि ललिताकारं परमात्मानमव्ययम् ।
दक्षिणंस्वस्तितं वामं न्यस्यन्तङ्कुञ्चितम्पदम् ।
पद्मनाभं परञ्ज्योतिं श्रियोवात्सल्य वक्षसम् ।
रुक्मिणी सत्यभामादि स्त्रीभिरष्टाभिरावृतम् ।
[[28]]
षोडशस्त्री सहस्रेशं चम्पकेशं परात्परम् ।
चतुर्भुजगोपालध्यानम्-
देवकी गर्भसम्भूतं चतुर्भुजमयं विभुम् ।
हस्तेधृत गदाशार्ङ्ग पाञ्चजन्य सुदर्शनम्।
स नन्दकं हरिम्बालं बालसूर्यायुतप्रभम्।
सिद्धचारण गन्धर्वै दिषद्भिस्तु समं दिवि ।
पश्चिमानेस्तुतं रत्नमकराकृति कुण्डलम् ।
देवकी वासुदेवाभ्यां पुण्यभाग्भ्यां सुपूजितम्।
मङ्गलाशिप्रयुञ्ज्यास्मे कंसभीति प्रशान्तये ।
ताभ्याम्सुसंस्कृतं देवं दृष्ट्वाग्रे गीसगोपिलः ।
चिरं संसेव्यन्मुदितः परंरूपमयाचत ।
71- गीतोपदेश ध्यानम्
तथाऽर्जुनसारथ्यकुर्वाणं तं दयाम्बुधिम् ।
पिञ्जचूडं विशालाक्षं श्रीवत्साङ्कित वक्षसम् ।
कालमेघनिभं शान्तं मन्मथस्यापि मन्मथम् ।
वामहस्तेन मुख्येन दक्षिणेन करेण तु ।
कराभ्यां तौ वहन्तं हि वृतोद प्रगृहौ हरिम्।
कपिध्वजाय भक्ताय ब्रह्मविद्योपदेशिकम् ।
स्यन्दनाम्बु तुरगवुररेणुचिताननम्।
सारथ्याश्रमज स्वेदबिन्दु मुक्ताफलाङ्गकम्।
विशेशरं विशालाक्षं तथा भीबत्सु सारथिम् ।
प्रणम्यप्राञ्जलिर्भूत्वा पुनरन्यमयान्वितम्। p``a``a``d``m``e``-
[[29]]
71-अन्तर्यामि श्रीमन्नारायणध्यानम्-
द्विहस्तमेकवक्रं च शुद्धस्फटिकविग्रहम् ।
सहस्ररविवह्नीन्दु लक्षकोटिसमप्रभम् ।
मरीचिचक्रमध्यस्थं चक्राद्यायुधलाञ्छनम्।
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम्।
पीताम्बरधरं सौम्यरूपम् आद्यमनामयम् ।
श्रीवासुदेवोविज्ञेयः सृज्यं स र्वं चतुर्मुखात्।
एवं च योगिभिर्नित्यं हृत्पद्माह्वय विष्टरे ।
पश्यन्तिसूरयश्शश्वत् तद्विष्णोःपरमं पदम् ।
72- अर्चावतार भगवतः सौन्दर्यध्यानम्। नखशिखावर्णनम्
ब्रह्मरुद्रेन्द्र सूर्याद्यैः वन्द्यमानपदाम्बुजम्।
मणिनूपुर सद्भूषा विलसत्पादपङ्कजम्।
लक्ष्मीकलादिकाधीर जङ्घादुदय भासुरम्।
रत्नादर्श परीहासं रसिकाद्भुत जानुकम्।
करिराजकरोदार चारूरु युगलोज्ज्वलम् ।
पीताम्बरावृतकटिन्यस्त नन्दक भूषितम्।
विधातृ जन्मभूनाभि कमलेनाति सुन्दरम् ।
अन्तः पुरैरनेकाण्ड संशोभित तनूदरम् ।
कमलाकुच कस्तूरि तरङ्गित भुजान्तरम्।
श्रियाश्रित विशालोर स्फुरत्कौस्तुभ भूषितम् ।
श्रीवत्सस्फुरितोरस्कं ब्रह्मसूत्र समन्वितम्।
कम्बुग्रीवं पीवरांसं दीर्घबाहुं महोरसम् ।
चतुर्भुजमुदाराङ्गं विलसत्पाणिपङ्कजम्।
[[30]]
दक्षिणेनकराब्जेन कन्यादान प्रियङ्करम् ।
वहन्तं वामहस्तेन शार्ङ्गंविद्युल्लताप्रभम् ।
सन्ददानं गदाङ्गुर्वीं निषण्णाम् अम्बुजासने ।
पश्चाद् दक्षिण हस्तेन चक्रं कोटि रविप्रभुम् ।
वहन्तं वामहस्तेन शङ्खं कोटीन्दुसन्निभम् ।
मुखसौन्दर्य न्यस्यन्तः चुबुकस्थल शोभितम् ।
गण्डमण्डल संलग्न रत्न कुण्डल भूषितम् ।
मन्दहासोल्लसत्कुन्द दन्तबन्धुप्रियाऽधरम् ।
जाम्बूनत मयोदीप्त चम्पकोपम नासिकम् ।
निरङ्कुश दयापूर तरङ्गित विलोचनम् ।
शीतलैः दृष्टि पातैः जगदा ह्लाद कारिणम् ।
बालचन्द्रप्रतीकाशं फालोद्यत्तिलकोज्जलम् ।
घन कुञ्चित नीलालि ललिताञ्जन सन्निभैः ।
माधवी मल्लिकाजातिपुष्पैः संविलितान्तरैः ।
कर्पूरदूसरैद्रव्यैः शोभितं शिशिरोरुगैः ।
अनन्तरत्न खचितं किरीटेन विराजितम् ।
कन्दर्पकोटि सदृशं कल्याण गुण विग्रहम् ।
अतिसौन्दर्यदेवेशम् आर्तरक्षण दीक्षितम् ।
चक्राभकृत तेजोर्क प्रार्थनान्तद्युतिं प्रभुम् ।
सौन्दर्यारण्यनिलयं सर्वाभीष्टफलप्रदम् ।
वेदवेदाङ्गवेदार्थ वेदमन्त्रस्वरूपिणम् ।
श्रीभूमि सहितं देवं श्रीसौन्दर्यराजमाश्रये ।
[[31]]
प्राणशक्त्याः ध्यानं
रक्ताम्बोधिस्तपोतोल्लसदरुणसरोजाधिरूढाकराब्जैः-
पाशङ्कोदण्डमिक्षूद्भवमलिकुलमप्यङ्कुशं पञ्चभानान्।
बिभ्राणं सृक्कपालं त्रिनयनवदना पीनवक्षोरुहाड्या
देवीबालार्कवर्णाभवतुसुखकरी प्राणशक्तिःपरा नः।
वैकुण्ठनाथ ध्यानं
कूर्मादीन् दिव्यलोकं तदनु मणिमयम्मण्टपं तत्र शेषम्।
तस्मिन् धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्चि ।
विष्ण देवीं विभूषायुधगण मुरगं पादुके वैनतेयम्।
सेनेशं द्वारपालान्कुमुदमुखगणान्विष्णुभक्तान्प्रपद्ये ।
आधारशक्त्याः ध्यानम्
-आधेयतुल्यसामर्थ्य अस्यरूपं तथा विधम् ।
चतुर्मुखं चतुर्बाहुं शुद्धस्फटिक सन्निभम्।
किरीटहारकेयूर प्रमुखाकल्प कल्पितम् ।
श्रीवत्साङ्गंशङ्खचक्र गदापद्मायुधैर्युतम्।
तेजोमण्डलमध्यस्थं ध्यायेदाधार रूपिणम् ।
75- कूर्मकालाग्नेर्ध्यानम्
आधारशक्तेरुपरि विमलं दीप्तविग्रहम्।
ज्वालाशतसमाकीर्णं शङ्खचक्रगदाधरम्।
एकवक्त्रं चतुर्बाहुं जपापुष्पसमद्युतिम्।
शङ्खचक्रगदापद्म शार्ङ्गं खड्गधरं द्विज।
वह्निमण्डलमध्यस्थं ज्वालाविततविग्रहम्।
सकलाभरणोपेतं ध्यायेत् कूर्ममनन्तरम्।
[[32]]
76- मणिमण्डपध्यानम्।बृहद्बृह्मे-३भागे-५अ
देदीप्यमानमणिनिर्मितवेदिकायां स्तम्बालसन्ति नवकाममयस्समस्तात् ।
येषामसीम रजनीश मयूरवजालैः जीवन्ति सज्जनविलोचन सच्चकोराः ।
सङ्कल्पकल्पित विचित्र मणिप्रवेक सोपानपङ्क्तिविगलद्युमणिप्रकाशाः ।
कुर्वन्ति वज्रघटिताजिर दर्पणान्त स्संसृज्य दिव्यवसनास्तरणोपमानम् ।
आराम मण्डप शिखाश्रितवारिपात विच्छिन्न नीरकरबृन्द मनूत्सृजन्तः ।
पुष्पैः किरन्त इवमण्डप पादमूलं विष्वग्विमुग्धजलयन्त्र चमालसन्ति ।
मन्दारपादप पराग विषक्तमत्त बृङ्गावली विरुतजातरतीवभेदैः ।
संसेवितं चलतिचास्तुमरालमाला मञ्जीर निस्वनचयैः परितोविगीतम् ।
77-(सहस्रफण)अनन्तस्य ध्यानम्।
पूर्णचन्द्राननं ध्यायेत्सहस्रफणिभूषितम्।
चक्रलाङ्गल हस्तं च प्रणमन्तं परात्परम्।
स्फटिकाद्रिप्रतीकाशं चतुर्बाहुं किरीटिनम् ।
ला ङ्गलम्मुसलं मुख्यकरयोर्दधतं शुभम्।
जघन्याकरयोश्शङ्खं चक्रद्वन्द्वं यथा तथम् ।
नीलाम्बरधरं दंष्ट्राकराल वदनैर्युतम् ।
फणामणिसहस्रांशु नीलाञ्जन विराजितम् ।
अनन्तवक्त्रकुहरैरुद्वमन्तमुदर्चिषम्।
मण्डलीकृत नागेन्द्र भोगवेष्टनविग्रहम् ।
ध्यायेदनन्तमुभयोःपार्श्वयोर्नागयोषितः ।
देव्यस्तस्य सुखासीनाः फणामण्डलमण्डिताः ।
[[33]]
78-(भूमन्त्रः)धरायाःध्यानम्
कुङ्कुमोदकसङ्काशां हेमरत्नविभूषिताम् ।
पद्मासनेनोपविष्टां धरणीं लोकमातरम् ।
बद्धाञ्जलि शिरोदेशे संस्मरन्तीं विभोः स्मरेत् ।
79-क्षीरोदस्य ध्यानम्
शान्तमु ज्झितचेष्टञ्च सितमन्तर्मुरवं स्थितम्।
ध्यायमानं सितं शङ्खं मुक्तादामैरलङ्कृतम्।
शुद्धकुन्देन्दु धवलं स्रोतोरश्मिभिरावृतम् ।
कीर्णसम्पूर्ण चन्द्राभं ध्यायेद् गम्भीर विग्रहम् ।
विक्षिप्तजानुपादञ्च जटिनं क्षीरसागरम् ।पारमे 5 अ
80 - आधारपद्मस्य ध्यानं
सुपक्वाम्रफलश्याम पाणिपादतलोज्ज्वलम्।
रक्ताक्षञ्च तथा विप्रकीर्णकेशं स्मिताननम् ।
पद्मासनेनोपविष्टं पद्ममुद्रान्वितं तथा ।
प्रशान्तपावकाकारमुदयादित्यसन्निभम्।
ध्यायेद्वैविभुजं ह्रस्वं जठराद्यैर्विलम्बितम् ।
भासितं सित दंष्ट्रं च वेष्टितं सुरषट्पदैः ।
व्यक्ताव्यक्तपरत्वेन पद्मात्यं त्रितयं स्मरेत् ।पारमे 5 अ
81- धर्मादीनां ध्यानं
तुहिनाचोपल स्वच्छमुक्ताफल शशिप्रभाः ।
मूगेन्द्रस्कन्धवदनाः धर्मज्ञानादयश्चतु ।
[[34]]
82- अधर्मादीनां ध्यानम्
पद्मरागप्रवालाग्नि सदाडिमफलोज्ज्वलाः ।
अन्तर्दधोपरक्ताश्च राजराजेशरोपमाः ।
द्विरष्टवर्षवत्कान्ताः चतुरोऽधर्म पूर्वकाः ।
83- वेदानां ध्यानम्
हेमपञ्चक खद्योत हरिताल समोज्ज्वलाः ।
वाजिवक्त्रास्स्मृता वेदाः सम्पूर्ण नर लक्षणाः ।
84- युगानां ध्यानम्
एवं वृषेन्द्रवदनाः युगा ब्रह्मन् कृतादयः ।
सुपक्वाम्रातसीपुष्प नीलाज शुकसन्निभाः ।
सर्वे सद्वस्त्र सत्पुष्प सदलङ्कारणान्विताः ।
शङ्खपद्मधरास्सर्वे वराऽभयकरास्तुवा ।
बद्धाञ्जलिपुटाश्चापि बिभ्राणो योगपीठिकाम् ।
आधेयचक्राविन्यस्त मस्तकानात्मसिद्धये.
समर्पितान्तः करणाः परस्मिन्मन्त्रकारणे ।
सर्वेचतुर्भुजास्वेते द्वाभ्यां सन्धारयन्ति च ।
पीत मञ्जलिना द्वाभ्यां प्रनमन्ति जगत्प्रभुम् ।
85 - कालचक्र ध्यानम्
युगान्तार्काग्नि सङ्काशं स्वगोमण्डल मध्यगम् ।
स्वमुद्राव्यक्तपाणिञ्च वल्गन्तं हेतिराट् स्मरेत् ।
86 - अव्यक्तपद्म ध्यानम्
सितमव्यक्तपद्मञ्च हिमहेमाग्नि भास्वरम् ।
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ।
[[35]]
87 - भावासनस्य ध्यानं
स्फटिकोपलार्कञ्च चिद्गनं ध्रुवमव्ययम् ।
सर्वशक्तिनिधिं ध्यायेद् अ मूर्तिं चित्प्रभाकरम् ।
88 - गणेशमन्त्रध्यानम्।
ध्यायेच्चम्पक वर्णाभं बद्धपद्मासनं द्विज ।
वरदाभय हस्तञ्च दक्षिणेचाक्षसूत्रकम् ।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि ।
स्थूलाङ्गमेक दंष्ट्रं च लम्बक्रोडं गजाननम् ।
89- किरीटादि आयुधानां ध्यानम्
अङ्गुष्ट तर्जनीमध्ये सनालं कमलं भवेत् ।
वरदेकमलाकारं लिखेत्करतलोदरे ।
अधोमुखे वामहस्ते मुख्ये कुर्याद् गदां शुभाम् ।
जघन्ययोस्तुकरयोः शङ्खं चक्रं निवेशयेत् ।
बाहुष्वष्टौ देवस्य तानितान्यायुधान्यपि ।
निवेशयेद्यथाकामं शिल्पी शास्त्रविचक्षणः ।
किरीटकुण्डले हारान्यङ्गु लसुत्रान्यङ्गुलीयके ।
कौस्तुभं वनमालां च श्रीवत्सं दक्षिणोरसि ।
अङ्गदे कटके रम्ये काञ्चीदाम च नूपुरे ।
दुकूलमुत्तरीयं च सोत्तरीयं निवेशयेत् ।
देशकालोपलभ्यानि भूषणानि निवेशयेत् । (भार्गवतन्त्रं-४अ)
90- किरीटादि आयुधानां ध्यानम्-2
किरीटलक्षणं वक्ष्ये शृणु वत्स समाहितः ।
देवदेवस्य विप्रर्षे परसूक्ष्मस्वरूपिणः ।
[[36]]
किरीटं शिरवरञ्चैव मौलितन्त्र किरीटकम् ।
चतुर्विधं समाख्यातं तन्त्रेऽस्मिन् तत्र वेदिभिः ।
किरीटं वासुदेवस्य सर्वावासस्य चक्रिणः ।
सङ्कर्षणद्वितीयं तु मकुटं समुदाहृतम् ।
प्रद्युम्नस्य तृतीयं च चतुरश्रं चतुर्थकम्।
एतेषां मानमव्यग्रं शृणु त्वं मुनिपुङ्गव ।
किरीटं हस्तमुत्सेधं विस्तारं तु तदर्धकम् ।
मौलिघट्टस्य विस्तारम् एकहस्तं च मण्डपम् ।
मध्ये तस्यैव मध्यं स्यात् तदन्तेन तदर्धकम् ।
मणिरत्नप्रवालानां यथालाभेनां कारयेत् ।
परं युक्तिमतां देव मकुटादीनि कारयेत् ।
अन्येषां चैव देवानां मौलिकेन वशं कुरु । वासिष्टसंहिता- ५अ
अनन्त (उरगः)ध्यानम्-
तिर्यगूर्ध्वन्तदाधारं ज्वालामालामिवोज्वलम् ।
अनन्त शशि शङ्काशम् अनन्तमथ संस्मरेत् ।
सहस्रफणमालाड्यं सहस्रफणभूषितम्।
स्वपाणिसम्पुटेनैव सौभवत् स्वाङ्कभूतलम् ।
सितारविन्द शङ्काक्ष सूत्रचक्र करान्वितम् । पौष्करम्-२४अ ।
9``2``-पादुका ध्यानम्
पादुकालक्षणं वक्ष्ये श्रुणु राजकुलोद्भव ।
एकपादं द्विपादं वा वृत्ताकारं तु चक्रवत्।
तन्मध्ये चतुरङ्गुल्यं छिद्रितानां सुवृत्तकम्।
पादुकालक्षणं प्रोक्तं सर्वैश्वर्यप्रदं नृणाम् ।
[[37]]
93-गरुडस्य
रक्ततुण्डं महाप्राणं भीम सुकुटिलोचनम् ।
द्रवच्चामीकराभासं पक्षमण्डलमण्डितम् ।
सम्स्मरेद्गरुडं विप्र गृध्रवक्त्रं पृथूदरम्। ईश्वरे-२४अ
गरुडस्यद्वयंविद्धि हृद्देशेञ्जलिस्थितः ।
तत्रैव सम्पुटाकारं चतुर्थस्य करद्वयम् ।
दक्षिणेऽमृतकुम्भस्तु वामे तु विषमं फणी ।
94-अष्टभुजगरुडध्यानम्।-काश्यपसंहिता-२अ
-अष्टबाहुधरन्देवमष्टायुध विभूषितम्।
शङ्खं चक्रं सुधाकुम्भं नागमुष्टिगदामसिम्।
भगवत्पादविन्यस्त करमष्टभुजं क्रमात्।
स्वांसे निधाय लक्ष्मीश कालमेघमिवोत्थितम् ।
95-विष्वक्सेनध्यानम्।
चतुर्भुजमुदाराङ्गं गदाशङ्खधरं विभुम्।
नवाम्र फलसङ्काशं पिङ्गश्मश्रु विलोचनम् ।
पीतवस्त्रं चतुर्दंष्ट्रं स्वमुद्राद्वितयान्वितम् ।
माणिक्यकुण्डलाद्येन युक्तं श्रोत्रद्वयेन तु ।
मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम् ।
ईषदूर्ध्वे तथा तिर्यक् विनिपातित लोचनम् ।
कुन्देन्दु कान्तिदशनं किञ्चिद्विहसिताननम् ।
स्वभावसौम्यममलं मायाक्रोधोपराजितम् ।
सविलासचलत्पाद न्यासस्थानक संस्थितम् ।
स्वेनान्तः करणेनैव भावयन्तं परम्पदम् ।
[[38]]
एवं ध्यात्वार्चयेद् विष्वक्सेनमग्नौ च तर्पयेत् ।
96-चण्डादीनान्ध्यानम्।
चण्डाद्याविजयान्ताश्च सर्वे ध्यायेच्चतुर्भुजाः ।
गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः ।
तर्जयन्तोह्यभक्तानां दोषाणां ध्वंसनोद्यता ।
97-गङ्गा यमुनादीनान्ध्यानम्।
तोयाधारं वहन्त्यौ ते कलशं वारिपूरितम् ।
नवयौवन लावण्य स्त्रीरूपञ्च नदीद्वयम् ।
98- शङ्खपद्म निधीनां ध्यानम्।
निधिपौ शङ्खपद्मौ च निधिबाण्डोपरि स्थितौ ।
स्थूलदन्तैश्च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ।
99- वास्तु पूरुषस्य ध्यानं
वास्त्वीशक्षेत्रनाथौ द्वौ स्थितौ दक्षेतरक्रमात् ।
शुक्लव क्त्रः कृष्णदेहो द्विभुजो रत्नपात्रधृक् ।
दक्षिणेनकरेणैव सर्वामर समाश्रयः ।
पुण्डरीकसमानाभ वस्त्रस्रगनुलेपनः ।
गदोद्यतकरो विप्र ध्यातव्यो वास्तु पूरुषः ।
100- क्षेत्रपालस्य ध्यानं
नीलजीमूत सङ्काश दण्डहस्तं महातनुम्।
मुष्टिकृद्वामहस्तेन याग क्षेत्रावधौ स्मरेत् ।
द्वारलक्ष्म्याः ध्यानम्
101- पद्मकुम्भकरां लक्ष्मीं पद्मोपरिग तां स्मरेत् ।
102- कुमुदादीनां ध्यानम्
[[39]]
कुमुदःकुमुदाक्षश्च प्रसन्नवदनेक्षणौ ।
तुहिनाचलसङ्काशौ प्रथमे वयसिस्थितौ ।
यानाभरणदिग्धाङ्गौ नानाकु ण्डल भूषितौ ।
नानामाल्याचितौ चैव नानामौलिधरौ द्विज ।
नानागन्धविलिप्ताङ्गौ नाना वस्त्रविभूषितौ ।
103- विष्णुभक्तानां ध्यानम्
ततो ध्यायेद्विष्णुभक्तं सर्वलक्षण संयुतम्।
स्वस्व वर्णाश्रमाचार सदृशाकृति चेष्टितम् ।
बद्धाञ्जलिपुटं वाथ व्यारव्यामुद्रासमन्वितम्।
पद्मविष्टरमध्ये तु स्वासीनं वाथ सुस्थितम् ।
ललाटादिषु चाङ्गेषु ह्यूर्ध्वपुण्ड्रैरल ङ्कृतम्।
लाच्छितं चक्रशङ्खाभ्यां भुजयोर्दक्षिणादितः ।
तुलसीनलिनाक्षाणां मालाद्वितयभूषितम् ।
एवं ध्यात्वा विष्णुभक्तं हृदयादींश्च पूर्ववत् ।
104- तपोलोकादीनां वर्णनं
तपोलोकं त दूर्ध्वेतु वैराजादिभिरन्वितम् ।
पुरुषोत्तम रूपेण मया संरक्षितं स्मरेत् ।
ब्रह्मादिदेवैः संसेव्यं पद्मनाभेन रक्षितम् ।
सत्यलोकं हृदि ध्यात्वा ततोऽण्डं मनसा स्मरेत् ।
अण्डस्यापि बहिस्तोयं व्याप्तं तत्तेजसा रमे ।
वायुना वेष्टितं तेजोव्याप्तं त द्बहिरम्बरात् ।
तस्माद् बहिरहङ्कारं ततो बुद्धिं ततः परम् ।
[[40]]
105- श्रीसुदर्शनस्वामि ध्यानं
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसापूरयन्तम् ।
रक्ताक्षम्पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् ।
शङ्खं चक्रङ्गदाजं पृथुतरमुसलं चापपाशाङ्कुशादीन्।
बिभ्राणं दोर्भिरी ड्यं मनसि मुररिपुं भावयेच्चक्रसंस्थम् ।
1``0``6``- त्रिभङ्गिलक्षणम्।
त्रिषुमार्गेषु भङ्गत्वात् त्रिभङ्गित्वं विधीयते ।
वक्रं दक्षिणतोभङ्गे मध्यकायं तु वामतः ।
कटिर्दक्षिणतो भङ्गे भङ्गत्रयमुदाहृतम् । विष्वक्येनम्-अ- ११
107- हनुमतः प्रार्थना
बुद्धिर्बलं यशोधैर्यं नि र्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनुम त्स्मरणाद्भवेत्।
108- भगवतः भोज्यासन प्रार्थना
या प्रीतिर्विधुरार्पिते मुररिपोकुन्त्यर्पिते या दृशि ।
या गोवर्धन मूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते ।
भारद्वाज समर्पिते शबरिका दत्तेऽधरे योषिताम् ।
या प्रीतिर्मुनिपत्नि भक्तिरचितेऽप्यत्रापि तां तां कुरु ।
1``0``9``- विष्णु पूजासङ्ग्रहम् (शेषसंहिता १५म् अध्याये)
स्वाचान्ता स्वोर्ध्वपुण्ड्रः प्रणमनमजिनाद्यासनं चासुयामः । साङ्गन्यासो
जपस्यात् हृदयकमलके मानसी देवपूजा ।
वामस्थं वारिपात्रं कुसुममितरत श्चान्यदग्रेऽर्ध्यपाद्या-
चामस्नानीयमर्ध्याद्धरितनु कुसुमस्यात्मनाम् प्रोक्षणंस्यात्।
आह्वानं चासनार्ध्यं पदसलिलमथाचाम पुंसूक्तयुक्त
[[41]]
स्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ क्रमेण ।
मध्वादिः पर्क आदावुपरि च सलिलम् पायसाद्यन्नजातं
पानीयाचामपूगम् परिगतिनमनोद्वासनं विष्णपूजा ।
110 - अष्टमहासिद्धयः
अणिमामहिमा चैव लघिमा प्राप्तिरेव च ।
प्राकाम्यं चेशिता चैव वशिता कामाश्चाऽष्टसिद्धयः ।
फलश्ऱुतिः
आयुरारोग्यमैश्वर्यं विद्यां तेजो जयं यशः ।
सत्सुतांश्चापि सन्तोषं यद्यदिष्टमिह द्विजाः ।
तत्सर्वमचिरादेव लभन्ते नात्र संशयः । ।
***************
[[42]]