०७ समाप्तिः

विश्वास-प्रस्तुतिः

त्वया विना न मे किञ्चित्‌
मां विना तवकस् तथा।
तस्मान् माम् आत्मसात्-कर्तुं
प्रसीद परमेश्वर॥+++(5)+++

मूलम्

त्वया विना नमेकिञ्चित्‌ मांविना तवकस्तथा।
तस्मान्मामात्मसात्कर्तुं प्रसीद परमेश्वर॥

विश्वास-प्रस्तुतिः

भूमौ स्खलित-पादानां
भूमिरेवाऽवलम्बनम्‌।
त्वयि विप्रतिपन्नानां
त्वमेव शरणं विभो॥+++(5)+++

मूलम्

भूमौ स्खलितपादानां भूमिरेवाऽवलम्बनम्‌।
त्वयि विप्रतिपन्नानां त्वमेव शरणं विभो॥

विश्वास-प्रस्तुतिः

ज्ञानतोऽज्ञानतो वा ऽपि
यथोक्तम् अकृतं मया।
तत् सर्वं पूर्णम् एवास्तु
सुतृप्तोभव सर्वदा॥

मूलम्

ज्ञानतोऽज्ञानतोवापि यथोक्तमकृतं मया।
तत्सर्वं पूर्णमेवास्तु सुतृप्तोभव सर्वदा॥

विश्वास-प्रस्तुतिः

ओम् अच्युत जगन्नाथ
मन्त्रमूर्ते सनातन।
रक्ष मां पुण्डरीकाक्ष
क्षमस्वाज प्रसीद ओं॥

मूलम्

ओमच्युत जगन्नाथ मन्त्रमूर्ते सनातन।
रक्षमां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ओं॥

इति जितन्ता स्तोत्राणि सम्पूर्णम्‌।