०६

विश्वास-प्रस्तुतिः

जितं ते पुण्डरीकाक्ष
नमस् ते विश्वभावन ।
नमस् तेऽस्तु हृषीकेश
महा-पुरुष पूर्वज ॥ १ ॥

मूलम्

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥१॥

विश्वास-प्रस्तुतिः

श्रीमद्-द्वारवती-नाथ
वर्धतां विजयी भवान् ।
दिव्यं त्वदीयम् ऐश्वर्यं
निर्मर्याद-विजृम्भितम् ॥२॥

मूलम्

श्रीमद्द्वारवतीनाथ वर्धतां विजयी भवान् ।
दिव्यं त्वदीयमैश्वर्यं निर्मर्यादविजृम्भितम् ॥२॥

विश्वास-प्रस्तुतिः

देवी-भूषायुधैर् नित्यैर्
मुक्तैर् मोक्षैक-लक्षणैः ।
सत्त्वोत्तरैस् त्वदीयैश् च
सङ्ग-स्थाभिरसस् तव ॥३॥

मूलम्

देवीभूषायुधैर्नित्यै र्मुक्तैर्मोक्षैकलक्षणैः ।
सत्त्वोत्तरै स्तवदीयैश्च सङ्गस्थाभिरसस्तव ॥३॥

विश्वास-प्रस्तुतिः

प्राकार-गोपुर-वर–
प्रासाद-मणि-मण्टपाः ।
शालि-मुद्ग-तिलादीनां
शाला शैल-कुलोज्ज्वला ॥४॥

मूलम्

प्राकारगोपुरवर प्रासादमणिमण्टपाः ।
शालिमुद्गतिलादीनां शाला शैलकुलोज्ज्वला ॥४॥

विश्वास-प्रस्तुतिः

रत्न-काञ्चन-कौशेय
क्षौम-क्रमुक-शालिकाः ।
शय्या गृहाणि पर्यङ्क-
वर्यास् स्थूलासनानि च॥५॥

मूलम्

रत्नकाञ्चनकौशेय क्षौमक्रमुकशालिकाः ।
शय्या गृहाणि पर्यङ्कवर्यास्स्थूलासनानि च॥५॥

विश्वास-प्रस्तुतिः

कनत्-कनक-भृङ्गार+++(=पान-पात्र)+++–पतद्-
ग्रह-कलाचिकाः+++(→हस्ताग्राभरणानि)+++ ।
छत्र-चामर-मुख्याश् च
सन्तु नित्याः परिच्छदाः॥६॥

मूलम्

कनत्कनक{कङ्कण}भृङ्गार पतद्ग्रहकलाचिकाः ।
छत्रचामरमुख्याश्च सन्तु नित्याःपरिच्छदाः॥६॥

विश्वास-प्रस्तुतिः

अस्तु निस्तुलम्+++(=अतुलम्)+++ अव्यग्रं
नित्यम् अभ्यर्चनं तव ।
पक्षे पक्षे विजृम्भन्तां
मासि मासि महोत्सवाः ॥७॥

मूलम्

अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव ।
पक्षेपक्षे विजृृम्भन्तां मासिमासि महोत्सवाः ॥७॥

विश्वास-प्रस्तुतिः

मणि-काञ्चन-चित्राणि
भूषणान्य् अम्बराणि च ।
काश्मीर-सार+++(=कुङ्कुम)+++-कस्तूरि-
कर्पूराद्य्-अनुलेपनम् ॥८॥

मूलम्

मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च ।
काश्मीरसारकस्तूरिकर्पूराद्यनुलेपनम् ॥८॥

विश्वास-प्रस्तुतिः

कोमलानि च दामानि
कौसुमैस् सौरभोद्गमैः ।
धूपाः कर्पूर-दीपाश् च
सन्तु नित्याः परिच्छदाः ॥९॥

मूलम्

कोमलानि च दामानि कौसुमैस्सौरभोद्गमैः ।
धूपाःकर्पूरदीपाश्च सन्तु नित्याः परिच्छदाः ॥९॥

विश्वास-प्रस्तुतिः

नृत्त-गीत-युतं वाद्यं
नित्यम् अत्र विवर्धताम्
श्रोत्रेषु नस् सुधा-धाराः
कल्पन्तां काहल-स्वनाः ॥१०॥

मूलम्

नृत्तगीतयुतंवाद्यं नित्यमत्र विवर्धताम् ।
श्रोत्रेषु न स्सुधाधाराः कल्पन्तां काहलस्वनाः ॥१०॥

विश्वास-प्रस्तुतिः

कन्द-मूल-फलोदग्रं
काले काले चतुर्-विधम् ।
सूपापूप-घृत-क्षीर–
शर्करा-सहितं हविः ॥११॥

मूलम्

कन्दमूल फलोदग्रं कालेकाले चतुर्विधम् ।
सूपापूप घृतक्षीर शर्करासहितंहविः ॥११॥

विश्वास-प्रस्तुतिः

घन-सार+++(=कर्पूर)+++–शिरोदग्रं
क्रमुक+अष्टदलान्वितम् ।
विमलानि च ताम्बूल-
दलानि स्वी-कुरु प्रभो॥१२॥

मूलम्

घनसारशिरोदग्रं क्रमुकाष्टदलान्वितम् ।
विमलानिचताम्बूलदलानि स्वीकुरुप्रभो॥१२॥

विश्वास-प्रस्तुतिः

प्रीति-भीति-युतो भूयान्
नित्यं परिजनस् तव ।
भक्तिमन्तोपभुञ्जन्तु
पौरा जानपदैस् सह ॥१३॥

मूलम्

प्रीतिभीतियुतोभूयान्नित्यं परिजनस्तव ।
भक्तिमन्तोपभुञ्जन्तु पौराजानपदैस्सह ॥१३॥

विश्वास-प्रस्तुतिः

धरणी-धन-रत्नानि
वितरन्तु चिरन् तव ।
कैङ्कर्यम् अखिलं सर्वे
कुर्वन्तु क्षोणि-पालकाः ॥१४॥

मूलम्

धरणीधनरत्नानि वितरन्तु चिरन्तव ।
कैङ्कर्यमखिलंसर्वे कुर्वन्तुक्षोणिपालकाः ॥१४॥

विश्वास-प्रस्तुतिः

प्रेम-दिग्ध-दृशं स्मेरं
प्रेक्षमाणास् त्वद्-आननम् ।
महान्तस् सन्ततं सन्तो
मङ्गलानि प्रयुञ्जताम् ॥ १५॥

मूलम्

प्रेमदिग्धदृशं स्मेरं प्रेक्षमाणास्त्वदाननम् ।
महान्तस्सन्ततं सन्तोमङ्गलानि प्रयुञ्जताम् ॥ १५॥

विश्वास-प्रस्तुतिः

पापम् एवम् अवन् नित्यं
पालयन् कुशली भवान् ॥

मूलम्

पापमेवमवन्नित्यं पालयन् कुशलीभवान् ॥