विश्वास-प्रस्तुतिः
जितं ते पुण्डरीकाक्ष
नमस् ते विश्वभावन ।
नमस् तेऽस्तु हृषीकेश
महा-पुरुष पूर्वज ॥ १ ॥
मूलम्
जितन्ते पुण्डरीकाक्ष नमस्तेविश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१॥
विश्वास-प्रस्तुतिः
नमस्ते वासुदेवाय
शन्तानन्त-जितात्मने ।
अजिताय नमस् तुभ्यं
षाड्-गुण्य-निधये नमः ॥२॥
मूलम्
नमस्ते वासुदेवाय शन्तानन्तजितात्मने ।
अजिताय नमस्तुभ्यं षाड्गुण्यनिधये नमः ॥२॥
विश्वास-प्रस्तुतिः
महा-विभूति-संस्थाय
नमस् ते पुरुषोत्तम ।
सहस्र-शिरसे तुभ्यं
सहस्र-चरणाय ते ॥३॥
मूलम्
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।
सहस्रशिरसेतुभ्यं सहस्रचरणायते ॥३॥
विश्वास-प्रस्तुतिः
सहस्र-बाहवे तुभ्यं
सहस्र-नयनाय ते ।
अ-मूर्ताय नमस् तुभ्यम्
एक-मूर्ताय ते नमः ॥ ४ ॥
मूलम्
सहस्रबाहवे तुभ्यं सहस्रनयनायते ।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥ ४ ॥
विश्वास-प्रस्तुतिः
अनेक-मूर्तये तुभ्यम्
अक्षराय च ते नमः ।
व्यापिने वेद-वेद्याय
नमस् ते परमात्मने ॥५॥
मूलम्
अनेकमूर्तये तुभ्यमक्षरायचते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥५॥
विश्वास-प्रस्तुतिः
चिन्-मात्र-रूपिणे तुभ्यं
नमस्-त्रय्य्-अन्त-मूर्तये ।
अणिष्ठाय स्थविष्ठाय
माहिष्ठाय च ते नमः ॥ ६ ॥
मूलम्
चिन्मात्ररूपिणे तुभ्यं नमस्त्रय्यन्तमूर्तये ।
अणिष्ठाय स्थविष्ठाय माहिष्ठायच ते नमः ॥ ६ ॥
विश्वास-प्रस्तुतिः
नेदिष्ठाय यविष्ठाय
सर्वान्तर्-यामिणे नमः ।
वर्षिष्ठाय जविष्ठाय
कनिष्ठाय च ते नमः ॥ ७ ॥
मूलम्
नेदिष्ठाय यविष्ठाय सर्वान्तर्यामिणे नमः ।
वर्षिष्ठाय जविष्ठाय कनिष्ठायच ते नमः ॥ ७ ॥
विश्वास-प्रस्तुतिः
+++(भगवतः अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयाख्यः व्यूहः अपि वर्तते →)+++
पञ्चात्मने नमस् तुभ्यं
सर्वान्तर्-यामिणे नमः ।
कल्पना-क्रोड-रूपाय +++(5)+++
सृष्टि-स्थित्य्-अन्तहेतवे ॥ ८ ॥
मूलम्
पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणेनमः ।
कल्पनाक्रोडरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ८ ॥
विश्वास-प्रस्तुतिः
नमस् ते गुण-रूपाय
गुण-रूपादि-वर्तिने ।
व्यस्ताय च समस्ताय
समस्त-व्यस्त-रूपिणे ॥ ९ ॥
मूलम्
नमस्ते गुणरूपाय गुणरूपादिवर्तिने ।
व्यस्तायच समस्ताय समस्तव्यस्तरूपिणे ॥ ९ ॥
विश्वास-प्रस्तुतिः
आदि-मध्यान्त-शून्याय (स)
तत्त्व-स्थाय नमो नमः ।
प्रणव-प्रतिपाद्याय
नमः प्रणवरूपिणे ॥ १० ॥
मूलम्
आदिमध्यान्तशून्याय (स) तत्त्वस्थाय नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥ १० ॥
विश्वास-प्रस्तुतिः
लोक-यात्रा-प्रसिद्ध्यर्थं
स्रष्टृ-ब्रह्मादि-रूपिणे ।
नमस् तुभ्यं नृ-सिंह्मादि-
मूर्ति-भेदाय विष्णवे ॥११॥
मूलम्
लोकयात्राप्रसिद्ध्यर्थं स्रष्टृब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंह्मादिमूर्तिभेदाय विष्णवे ॥११॥
विश्वास-प्रस्तुतिः
विपाकैः कर्मभिः क्षोभैर्
अस्पृष्ट-वपुषे नमः।
नमो ब्रह्मण्य-देवाय
तेजसां निधये नमः ॥१२॥
मूलम्
विपाकैः कर्मभिः क्षोभैरस्पृष्टवपुषे नमः।
नमोब्रह्मण्यदेवाय तेजसां निधये नमः ॥१२॥
विश्वास-प्रस्तुतिः
नित्य-साधारणानेक-
लोक-रक्षा-परिच्छदे ।
सच्-चिद्-आनन्द-रूपाय
वरेण्याय नमो नमः ॥१३॥
मूलम्
नित्यसाधारणानेक लोकरक्षापरिच्छदे ।
सच्चिदानन्दरूपाय वरेण्याय नमोनमः ॥१३॥
विश्वास-प्रस्तुतिः
यजमानाय यज्ञाय
यष्टव्याय नमो नमः ।
इज्या-फल नमस् तुभ्यं
नम इज्यादि-शीलिने ॥१४ ॥+++(4)+++
मूलम्
यजमानाय यज्ञाय यष्टव्याय नमोनमः ।
इज्याफलनमस्तुभ्यं नमइज्यादिशीलिने ॥१४ ॥
विश्वास-प्रस्तुतिः
नमः परम-हंसाय
नमस् सत्त्व-गुणाय च ।
स्थिताय परम-व्योम्नि
भूयो भूयो नमो नमः ॥ १५ ॥
मूलम्
नमःपरमहंसाय नमस्सत्त्वगुणायच ।
स्थितायपरमव्योम्नि भूयोभूयो नमोनमः ॥ १५ ॥
विश्वास-प्रस्तुतिः
संसार-विषयावर्त-
सङ्कुले च महाभरे ।
अपारे दुस्तरे ऽगाधे
पतितं कर्मभिः स्वकैः ॥१६ ॥
मूलम्
संसारविषयावर्तसङ्कुलेच महाभरे ।
अपारे दुस्तरेऽगाधे पतितं कर्मभिः स्वकैः ॥१६ ॥
विश्वास-प्रस्तुतिः
अनाथम् अगतिं भीरुं
दयया परया हरे ।
माम् उद्धर दया-सिन्धो
सिन्धोर् अस्मात् सु-दुस्-तरात् ॥१७ ॥
मूलम्
अनाथमगतिं भीरुं दययापरयाहरे ।
मामुद्धर दयासिन्धो सिन्धोरस्मात्सुदुस्तरात् ॥१७ ॥
विश्वास-प्रस्तुतिः
मन्त्र-हीनं क्रिया-हीनं
भक्ति-हीनं यद् अर्चितम् ।
तत् सर्वं क्षम्यतां देव
दीनं माम् आत्मसात् कुरु ॥ १८ ॥
मूलम्
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।
तत्सर्वं क्षम्यतां देव दीनं मामात्मसात्कुरु ॥ १८ ॥
विश्वास-प्रस्तुतिः
नाहं हितं विजानामि
त्वां व्रजाम्य् एव केवलम् ।
बुद्ध्वैवं नय गोविन्द
मुक्त्य्-उपायेन वर्त्मना ॥१९॥
मूलम्
नाहं हितं विजानामि/(न जानामि) त्वां व्रजाम्येव केवलम् ।
बुद्ध्वैवं नय गोविन्द मुक्त्युपायेन वर्त्मना ॥१९॥
विश्वास-प्रस्तुतिः
त्वम् एव वेत्सि श्रेयो मे
नेदम् एतद् इतीति च ।
बुद्धि-योगं च मे देहि
येन त्वाम् उपयाम्य् अहम् ॥२०॥
मूलम्
त्वमेव वेत्सि श्रेयोमे नेदमेतदितीतिच ।
बुद्धियोगञ्च मे देहि येन त्वामुपयाम्यहम् ॥२०॥