०४

विश्वास-प्रस्तुतिः

जितन् ते पुण्डरीकाक्ष
नमस्ते विश्वभावन ।
नवस्ते वासु-देवाय
शान्तानन्त चिद्-आत्मने ॥१॥

मूलम्

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नवस्ते वासुदेवाय शान्तानन्त चिदात्मने ॥१॥

विश्वास-प्रस्तुतिः

अध्यक्षाय स्वतन्त्राय
निरपेक्षाय शासते
अच्युतायाविकाराय
तेजसां निधये नमः ॥२॥

मूलम्

अध्यक्षाय स्वतन्त्राय निरपेक्षाय शासते ।
अच्युतायाविकाराय तेजसान्निधये नमः ॥२॥

विश्वास-प्रस्तुतिः

प्रधान-पुरुषेशाय
नमस् ते पुरुषोत्तम ।
क्लेश-कर्माद्य्-असंस्पृष्ट-
पूर्ण-षाड्-गुण्य-मूर्तये ॥३॥

मूलम्

प्रधानपुरुषेशाय नमस्तेपुरुषोत्तम ।
क्लेशकर्माद्यसंस्पृष्ट पूर्णषाड्गुण्यमूर्तये ॥३॥

विश्वास-प्रस्तुतिः

त्रिभिर् ज्ञान-बलैश्वर्य-
वीर्य-शक्त्य्-अन्तर्-आत्मने ।
त्रि-युगाय नमस् तेऽस्तु
नमस् ते चतुर्-आत्मने ॥४॥
(अत्र त्रिभिर् इति सत्त्वरजस्तमांस्य् उक्तानि? अग्रिमेषु गुणेषु तेजो नोक्तं कुतः - तद् बहिर् भवतीति??)

मूलम्

त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने ।
त्रियुगाय नमस्तेऽस्तु नमस्ते चतुरात्मने ॥४॥

विश्वास-प्रस्तुतिः

चतुः-पञ्च-नव-व्यूह–
दश–द्वा-दश-मूर्तये ।
अनेक-मूर्तये तुभ्यम्
अमूर्तायैकमूर्तये ॥५॥

विश्वास-टिप्पनी

सात्वतां नवमूर्तीनामादिमूर्तिरहं परा

इति भागवते।
वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः, नारायणः,
हय-ग्रीवः, वराहः, नरसिंहः, ब्रह्मा इत्य् एतेषु क्रमशः ४, ५, ९ गृहीत्वा व्यूह-सङ्ख्या-भेदा जायन्ते।
दशं चावताराः।
भगवतः अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयाख्यः व्यूहः अपि वर्तते ।

मूलम्

चतुःपञ्चनवव्यूह दशद्वादशमूर्तये ।
अनेकमूर्तये तुभ्यममूर्तायैकमूर्तये ॥५॥

विश्वास-प्रस्तुतिः

नारायण नमस्तेऽस्तु
पुण्डरीकायतेक्षण ।
सुभ्रूललाट सुनस
सुस्मिताधर-पल्लव ॥ ६ ॥

मूलम्

नारायण नमस्तेस्तु पुण्डरीकायतेक्षण ।
सुभ्रूललाटसुनस सुस्मिताधरपल्लव ॥ ६ ॥

विश्वास-प्रस्तुतिः

पीन-वृत्तायतभुज
श्रीवत्स-कृत-लक्षण ।
तनु-मध्य-विशालाक्ष
पद्म-नाभ नमोऽस्तु ते ॥७॥

मूलम्

पीनवृत्तायतभुज श्रीवत्सकृतलक्षण ।
तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते ॥७॥

विश्वास-प्रस्तुतिः

विलास-विक्रमाक्रान्त
त्रैलोक्य-चरणाम्बुज ।
नमस्ते पीत-वसन
स्फुरन्-मकर-कुण्डल ॥८॥

मूलम्

विलास विक्रमाक्रान्त त्रैलोक्यचरणाम्बुज ।
नमस्तेपीतवसन स्फुरन्मकरकुण्डल ॥८॥

विश्वास-प्रस्तुतिः

स्फुरत्-किरीट-केयूर-
हार-कौस्तुभ-भूषण ।
पञ्चायुध नमस् तेऽस्तु
नमस्ते पाञ्चकालिक ॥९॥

मूलम्

स्फुरत्किरीटकेयूर हारकौस्तुभभूषण ।
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक ॥९॥

विश्वास-प्रस्तुतिः

पञ्च-काल-परैकान्ति-
योग-क्षेम-महा-प्रभो ।
नित्य-ज्ञान-बलैश्वर्य-
भोगोपकरणाच्युत ॥ १० ॥

मूलम्

पञ्चकालपरैकान्तियोगक्षेममहाप्रभो ।
नित्यज्ञानबलैश्वर्य भोगोपकरणाच्युत ॥ १० ॥

विश्वास-प्रस्तुतिः

नमस् ते ब्रह्म-रुद्रादि-
लोक-यात्रा-परिच्छद ।
जन्म-प्रभृति दासोऽस्मि
शिष्योऽस्मि तनयोऽस्मि ते ॥ ११ ॥

मूलम्

नमस्तेब्रह्मरुद्रादि लोकयात्रापरिच्छद ।
जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ॥ ११ ॥

विश्वास-प्रस्तुतिः

त्वं च स्वामी गुरुर् माता
पिता च मम माधव ।

मूलम्

त्वञ्च स्वामी गुरुर्माता पिताच मम माधव ।

विश्वास-प्रस्तुतिः

अपि त्वां भगवन् ब्रह्मा
शर्वश् शक्रो महर्षयः ॥१२॥
द्रष्टुं यष्टुम् अपि स्तोतुं
हि स्मर्तुम् अपीशते

मूलम्

अपित्वां भगवन् ब्रह्मा शर्वश्शक्रो महर्षयः ॥१२॥
द्रष्टुं यष्टुमपिस्तोतुं स्मर्तुमपीशते ।

विश्वास-प्रस्तुतिः

ताप-त्रय-महा-ग्राह
भीषणे भवसागरे ॥ १३ ॥
मज्जतां नाथ नौरेषा
प्रणतिस् त्वत्-पदार्पिता ।

मूलम्

तापत्रयमहाग्राह भीषणे भवसागरे ॥ १३ ॥
मज्जतां नाथ नौरेषा प्रणतिस्त्वत्पदार्पिता ।

विश्वास-प्रस्तुतिः

अनाथाय जगन्नाथ
शरण्य शरणार्थिने ॥१४ ॥
प्रसीद सीदते मह्यं
नमस्ते भक्त-वत्सल ।

मूलम्

अनाथाय जगन्नाथ शरण्य शरणार्थिने ॥१४ ॥
प्रसीद सीदते मह्यं नमस्ते भक्तवत्सल ।

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं यद् अर्चनम् ॥ १५ ॥
तत् क्षन्तव्यं प्रपन्नानाम्
अपराध-सहो ह्य् असि ।

मूलम्

मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम् ॥ १५ ॥
तत्क्षन्तव्यं प्रपन्नानामपराधसहोह्यसि ।

विश्वास-प्रस्तुतिः

अज्ञानाद् यदि वा ज्ञनाद्
अ-शुभं यत् कृतं मया ॥१६॥
क्षन्तव्यं तद्-अशेषेण
दास्येन च गृहाण माम् ।

मूलम्

अज्ञानाद्यदिवा ज्ञनादशुभं यत्कृतं मया ॥१६॥
क्षन्तव्यं तदशेषेण दास्येनच गृहाण माम् ।

विश्वास-प्रस्तुतिः

सर्वेषु देशकालेषु
सर्वावस्थासु चाच्युत ।
किङ्करो ऽस्मि हृषीकेश
भूयो भूयो ऽस्मि किङ्करः ॥१७ ॥

मूलम्

सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किङ्करोस्मि हृषीकेश भूयोभूयोऽस्मिकिङ्करः ॥१७ ॥