०३

विश्वास-प्रस्तुतिः

जितं ते पुण्डरीकाक्ष
नमस् ते विश्व-भावन ।
नमस् तेऽस्तु हृषीकेश
महापुरुष पूर्वज ॥ १ ॥

मूलम्

जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१॥

विश्वास-प्रस्तुतिः

विज्ञापनमिदं देव
श्रुणु त्वं पुरुषोत्तम ।
नरनारायणाभ्यां च
श्वेत-द्वीप-निवासिभिः॥२॥

मूलम्

विज्ञापनमिदं देव श्रुणु त्वं पुरुषोत्तम ।
नरनारायणाभ्याञ्च श्वेतद्वीपनिवासिभिः॥२॥

विश्वास-प्रस्तुतिः

नारदाद्यैर् मुनि-गणैः
सनकाद्यैश्च योगिभिः ।
ब्रह्मेशाद्यैस् सुरगणैः
पञ्च-काल-परायणैः ॥३॥
युज्यसे पुण्डरीकाक्ष
दिव्य-मन्त्र-महर्षिभिः ।

मूलम्

नारदाद्यैर्मुनिगणैस्सनकाद्यैश्च योगिभिः ।
ब्रह्मेशाद्यैस्सुरगणैः पञ्चकालपरायणैः ॥३॥
युज्यसे पुण्डरीकाक्ष दिव्यमन्त्रमहर्षिभिः ।

विश्वास-प्रस्तुतिः

पाषण्ड-धर्म-सङ्कीर्णे
भगवद्-भक्ति-वर्जिते ॥४॥

मूलम्

पाषण्डधर्मसङ्कीर्णे भगवद्भक्तिवर्जिते ॥४॥

विश्वास-प्रस्तुतिः

कलौ जातोऽस्मि
देवेश सर्व-धर्म-बहिष्-कृते ।
कथं त्वाम् अ-समाचारः
पाप-प्रसव-भूर् अहम् ॥५॥

मूलम्

कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते ।
कथं त्वामसमाचारः पापप्रसवभूरहम् ॥५॥

विश्वास-प्रस्तुतिः

अर्चयामि दया-सिन्धो
पाहि मां शरणागतम् ।
ताप-त्रय-दवाग्नौ मां
दह्यमानं सदा विभो ॥६॥

मूलम्

अर्चयामि दयासिन्धो पाहि मां शरणागतम् ।
तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ॥६॥

विश्वास-प्रस्तुतिः

त्राहि मां पुण्डरीकाक्ष
केवलं कृपया तव ।
जन्म-मृत्यु-जरा-व्याधि
दुःख-सन्तप्त-देहिनम् ॥७॥

मूलम्

त्राहि मां पुण्डरीकाक्ष केवलं कृपया तव ।
जन्ममृत्युजराव्याधि दुःखसन्तप्तदेहिनम् ॥७॥

विश्वास-प्रस्तुतिः

पालयाशु दृशा देव
तव कारुण्य-गर्भया ।
इन्द्रियाणि मया जेतुम्
अशक्य पुरुषोत्तम ॥८॥

मूलम्

पालयाशु दृशा देव तव कारुण्यगर्भया ।
इन्द्रियाणि मया जेतुमशक्य पुरुषोत्तम ॥८॥

विश्वास-प्रस्तुतिः

शरीरं मम देवेश
व्याधिभिः परिपीडितम् ।
मनो मे पुण्डरीकाक्ष
विषयान् एव धावति॥९॥

मूलम्

शरीरं मम देवेश व्याधिभिः परिपीडितम् ।
मनो मेपुण्डरीकाक्ष विषयानेव धावति॥९॥

विश्वास-प्रस्तुतिः

वाणी मम हृषीकेश
मिथ्या-पारुष्य-दूषिता
एवं साधन-हीनोऽहं
किङ् करिष्यामि केशव ॥१०॥

मूलम्

वाणीममहृषीकेशमिथ्यापारुष्यदूषिता ।
एवंसाधनहीनोऽहं किङ्करिष्यामि केशव ॥१०॥

विश्वास-प्रस्तुतिः

रक्ष मां कृपया कृष्ण
भवाब्धौ पतितं सदा ।
अपराध-शतं चैव
सहस्रम् अयुतं तथा ॥ ११ ॥

मूलम्

रक्षमां कृपयाकृष्ण भवाब्धौपतितंसदा ।
अपराधशतञ्चैव सहस्रमयुतं तथा ॥ ११ ॥

विश्वास-प्रस्तुतिः

अर्बुदं चाप्य् अ-सङ्खयेयं
करुणाब्धे क्षमस्व मे ।
यच् चापराधं कृतवान्
अ-ज्ञानात् पुरुषोत्तम ॥१२॥

मूलम्

अर्बुदञ्चाप्यसङ्खयेयं करुणाब्धे क्षमस्व मे ।
यच्चापराधं कृतवानज्ञानात्पुरुषोत्तम ॥१२॥

विश्वास-प्रस्तुतिः

मद्-भक्त इति देवेश
तत् सर्वं क्षन्तुम् अर्हसि
अज्ञत्वाद् अप्य् अशक्तत्वाद्
आलस्याद् दुष्ट-भावनात् ॥१३॥

मूलम्

मद्भक्तइति देवेश तत्सर्वं क्षन्तुमर्हसि ।
अज्ञत्वादप्यशक्तत्वादालस्याद्दुष्टभावनात् ॥१३॥

विश्वास-प्रस्तुतिः

कृतापराधं कृपणं
क्षन्तुम् अर्हसि मां विभो ।
अपराध-सहस्राणि
क्रियन्ते ऽहर्-निशं मया ॥१४॥
तानि सर्वाणि मे देव
क्षमस्व मधुसूदन ।

मूलम्

कृतापराधं कृपणं क्षन्तुमर्हसि मांविभो ।
अपराधसहस्राणि क्रियन्तेऽहर्निशम्मया ॥१४॥
तानि सर्वाणि मे देव क्षमस्व मधुसूदन ।

विश्वास-प्रस्तुतिः

यज्जन्मनः प्रभृति-मोहवशं गतेन
नानाऽपराध-शतम् आचरितं मया ते ।
अन्तर्-बहिश् च सकलं तव पश्यतो मे
क्षन्तुं त्वम् अर्हसि हरे करुणावशेन ॥ १५॥

मूलम्

यज्जन्मनः प्रभृति मोहवशङ्गतेन नानाऽपराधशत माचरितं मया ते ।
अन्तर्बहिश्च सकलं तव पश्यतो मे क्षन्तुं त्वमर्हसिहरे करुणावशेन ॥ १५॥

विश्वास-प्रस्तुतिः

कर्मणा मनसा वाचा
या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्
जन्म-जन्मान्तरेष्व् अपि ॥१६॥

मूलम्

कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्या जन्मजन्मान्तरेष्वपि ॥१६॥