विश्वास-प्रस्तुतिः
जितन्ते पुण्डरीकाक्ष
पूर्ण-षाड्गुुण्य-विग्रह ।
परानन्द परब्रह्म
नमस् ते परमात्मने ॥१॥
मूलम्
जितन्ते पुण्डरीकाक्ष पूर्णषाड्गुुण्यविग्रह ।
परानन्द परब्रह्म नमस्ते परमात्मने ॥१॥
विश्वास-प्रस्तुतिः
नमस् ते पीतवसन
नमः कटक-धारिणे ।
नमो नीलालकाबद्ध-
वेणी-सुन्दर-विग्रह ॥२॥
मूलम्
नमस्ते पीतवसन नमः कटकधारिणे ।
नमो नीलालकाबद्धवेणीसुन्दरविग्रह ॥२॥
विश्वास-प्रस्तुतिः
स्फुरद्-वलय-केयूर-
नूपुराङ्गद-भूषणैः ।
शोभनैर् भूषिताकार-
कल्याण-गुण-राशये ॥३॥
मूलम्
स्फुरद्वलयकेयूरनूपुराङ्गदभूषणैः ।
शोभनैर् भूषिताकारकल्याणगुणराशये ॥३॥
विश्वास-प्रस्तुतिः
करुणा-पूर्ण-हृदय
शङ्ख-चक्र-गदा-धर ।
अमृतानन्द-पूर्णाभ्यां
लोचनाभ्यां विलोकय ॥४॥
मूलम्
करुणापूर्णहृदय शङ्खचक्रगदाधर ।
अमृतानन्दपूर्णाभ्यां लोचनाभ्यां विलोकय ॥४॥
विश्वास-प्रस्तुतिः
कृशं कृत-घ्नं दुष्-कर्म-
कारिणं पाप-भाजनम् ।
अपराध-सहस्राणाम्
आकरं करुणा-कर ॥५॥
मूलम्
कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् ।
अपराधसहस्राणामाकरं करुणाकर ॥५॥
विश्वास-प्रस्तुतिः
कृपया मां केवलया
गृहाण मधुराऽधिप ।
विषयार्णव-मग्नं माम्
उर्द्धतुं त्वम् इहार्हसि ॥६॥
मूलम्
कृपया मां केवलया गृहाण मधुराऽधिप ।
विषयार्णवमग्नं मामुर्द्धतुं त्वमिहार्हसि ॥६॥
विश्वास-प्रस्तुतिः
पिता माता सुहृद् बन्धुर्
भ्राता पुत्रस् त्वम् एव हि ।
विद्या धनं च काम्यं च
नान्यात् कञ्चित् त्वया विना ॥७॥
मूलम्
पिता माता सुहृद्बन्धुर्भ्राता पुत्रस्त्वमेव हि ।
विद्या धनं च काम्यं च नान्यात्कञ्चित्त्वया विना ॥७॥
विश्वास-प्रस्तुतिः
यत्र कुत्र कुले वासः
येषु केषु भवोऽस्तु मे।
तव दास्यैक-भोगे स्यात्
सदा सर्वत्र मे रतिः ॥८॥+++(5)+++
मूलम्
यत्र कुत्र कुले वासः येषु केषु भवोऽस्तु मे।
तव दास्यैकभोगे स्यात्सदा सर्वत्र मे रतिः ॥८॥
विश्वास-प्रस्तुतिः
मनसा कर्मणा वाचा
शिरसा वा कथञ्चन ।
त्वां विना नान्यम् उद्दिश्य
करिष्ये किञ्चिद् अप्य् अहम् ॥९॥+++(5)+++
मूलम्
मनसा कर्मणा वाचा शिरसा वा कथञ्चन ।
त्वां विना नान्यमुद्दिश्य करिष्ये किञ्चिदप्यहम् ॥९॥
विश्वास-प्रस्तुतिः
पाहि पाहि जगन्नाथ
कृपया भक्तवत्सल ।
अनाथोऽहम् अधन्योऽहम्
अकृतार्थः कथञ्चन ॥१०॥
नृशंसः पाप-कृत् क्रूरो
वञ्चको निष्ठुरस् तथा ।
मूलम्
पाहि पाहि जगन्नाथ कृपया भक्तवत्सल ।
अनाथोऽहमधन्योऽहमकृतार्थः कथञ्चन ॥१०॥
नृशंसः पापकृत्क्रूरो वञ्चको निष्ठुरस्तथा ।
विश्वास-प्रस्तुतिः
भवार्णव-निमग्नं माम्
अनन्यं करुणोदधे ॥११॥
मूलम्
भवार्णवनिमग्नं मामनन्यं करुणोदधे ॥११॥
विश्वास-प्रस्तुतिः
करुणा-पूर्ण-दृष्टिभ्यां
दीनं माम् अवलोकय ।
त्वद्-अग्रे पतितं त्यक्तुं
तावकं नार्हसि प्रभो ॥१२॥
मूलम्
करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय ।
त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥१२॥
विश्वास-प्रस्तुतिः
मयाकृतानि पापानि
त्रि-विधानि पुनःपुनः ।
त्वत्-पाद-पङ्कजं प्राप्तुं
नान्यत् त्वत्करुणां विना ॥१३॥
मूलम्
मयाकृतानि पापानि त्रिविधानि पुनःपुनः ।
त्वत्पादपङ्कजं प्राप्तुं नान्यत् त्वत्करुणां विना ॥१३॥
विश्वास-प्रस्तुतिः
साधनानि प्रसिद्धानि
यागादीन्य् अब्ज-लोचन ।
त्वद्-आज्ञया प्रयुक्तानि
त्वाम् उद्दिश्य कृतानि वै ॥१४॥
मूलम्
साधनानि प्रसिद्धानि यागादीन्यब्जलोचन ।
त्वदाज्ञया प्रयुक्तानि त्वामुद्दिश्य कृतानि वै ॥१४॥
विश्वास-प्रस्तुतिः
भक्त्यैक-लभ्यः पुरुषोत्तमोऽसौ
जगत्-प्रसूति-स्थिति-नाशहेतुः ।
अ-किञ्चनोऽनन्य-गतिश् शरण्य
गृहाण मां क्लेशिनम् अम्बुजाक्ष ॥ १५॥
मूलम्
भक्त्यैकलभ्यः पुरुषोत्तमोऽसौ जगत्प्रसूतिस्थितिनाशहेतुः ।
अकिञ्चनोऽनन्यगतिश्शरण्य गृहाण मां क्लेशिनमम्बुजाक्ष ॥ १५॥
विश्वास-प्रस्तुतिः
धर्मार्थ-काम-मोक्षेषु
नेच्छा मम कदाचन ।
त्वत्-पाद-पङ्कजास्वाद-
जीवितं दीयतां मम ॥१६॥+++(5)+++
मूलम्
धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।
त्वत्पादपङ्कजास्वादजीवितं दीयतां मम ॥१६॥
विश्वास-प्रस्तुतिः
कामये तावकत्वेन
परिचर्या-ऽनुवर्तनम् ।
नित्य-किङ्कर-भावेन
परिगृह्णीष्व मां प्रभो ॥१७॥
मूलम्
कामये तावकत्वेन परिचर्यानुवर्तनम् ।
नित्यकिङ्करभावेन परिगृह्णीष्व मां प्रभो ॥१७॥
विश्वास-प्रस्तुतिः
लोक-वैकुण्ठ-नामानं
दिव्यं षाड्-गुण्य-विग्रहम् ।
अ-वैष्णवानाम् अप्राप्यं
गुण-त्रय-विवर्जितम् ॥१८॥
मूलम्
लोकवैकुण्ठनामानं दिव्यं षाड्गुण्यविग्रहम् ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥१८॥
विश्वास-प्रस्तुतिः
नित्य-सिद्धैस् समाकीर्णं
तन्-मयैः पाञ्चकालिकैः ।
सभा-प्रासाद-संयुक्तं
वनैश् चोपवनैयुतम् ॥१९॥
मूलम्
नित्यसिद्धैस्समाकीर्णं तन्मयैः पाञ्चकालिकैः ।
सभाप्रासादसंयुक्तं वनैश्चोपवनैयुतम् ॥१९॥
विश्वास-प्रस्तुतिः
वापी-कूप-तटाकैश्च
वृक्ष-षण्डैस् सुमण्डितम् ।
अ-प्राकृतं सुरैर् वन्द्यम्
अयुतार्क-सम-प्रभम् ॥२०॥
मूलम्
वापीकूपतटाकैश्च वृक्षषण्डैस्सुमण्डितम् ।
अप्राकृतंसुरैर्वन्द्य मयुतार्कसमप्रभम् ॥२०॥
विश्वास-प्रस्तुतिः
प्रकृष्ट-सत्त्व-सम्पन्नं
कदा द्रक्ष्यामि चक्षुषा ।
क्रीडन्तं रमया सार्धं
लीला-भूमिषु केशवम् ॥२१॥
मूलम्
प्रकृष्टसत्त्व (राशिन्तं) सम्पन्नं कदा द्रक्ष्यामि चक्षुषा ।
क्रीडन्तं रमयासार्धं लीलाभूमिषु केशवम् ॥२१॥
विश्वास-प्रस्तुतिः
मेघ-श्याम-विशालाक्षं
कदा द्रक्ष्यमि चक्षुषा ।
उन्नसञ् चारु-वदनं
बिम्बोष्ठ-शोभिताननम् ॥२२॥
मूलम्
मेघश्यामविशालाक्षङ्कदाद्रक्ष्यमिचक्षुषा ।
उन्नसञ्चारुवदनं बिम्बोष्ठशोभिताननम् ॥२२॥
विश्वास-प्रस्तुतिः
विशाल-वक्षसं श्रीशं
कम्बुग्रीवं जगद्-गुरुम् ।
आजानुबाहु-परिघम्
उन्नतांसं मधु-द्विषम् ॥२३॥
मूलम्
विशालवक्षसंश्रीशं कम्बुग्रीवं जगद्गुरुम् ।
आजानुबाहुपरिघमुन्नतांसम्मधुद्विषम् ॥२३॥
विश्वास-प्रस्तुतिः
विशाल-निम्न-नाभिन् तम्
आपीन-जघनं हरिम् ।
करभोरुं श्रियः कान्तं
कदा द्रक्ष्यामि चक्षुषा ॥२४॥
मूलम्
विशालनिम्ननाभिन्तमापीनजघनंहरिम् ।
करभोरुं श्रियः कान्तं कदाद्रक्ष्यामिचक्षुषा ॥२४॥
विश्वास-प्रस्तुतिः
शङ्ख-चक्र-गदा-पद्मैर्
अङ्कितं पाद-पङ्कजम् ।
शरच्-चन्द्र-शताक्रान्त-
नख-राजि-विराजितम् ॥२५॥
मूलम्
शङ्खचक्रगदापद्मैरङ्कितं पादपङ्कजम् ।
शरच्चन्द्रशताक्रान्तनखराजिविराजितम् ॥२५॥
विश्वास-प्रस्तुतिः
सुरासुरैर् वन्द्यमानम्
ऋषिभिर् वन्दितं सदा ।
कदा वा देव मूर्धानं
मामकं मण्डयिष्यति ॥२६॥+++(5)+++
मूलम्
सुरासुरैर्वन्द्यमानमृषिभिर्वन्दितं सदा ।
कदा वा देव मूर्धानं मामकं मण्डयिष्यति ॥२६॥
विश्वास-प्रस्तुतिः
कदा गम्भीरया वाचा
श्रिया-युक्तो जगत्-पतिः ।
चामर-व्यग्र-हस्तं माम्
एवं कुर्व् इति वक्ष्यति ॥२७॥
मूलम्
कदागम्भीरयावाचाश्रियायुक्तोजगत्पतिः ।
चामरव्यग्रहस्तम्मामेवं कुर्वितिवक्ष्यति ॥२७॥
विश्वास-प्रस्तुतिः
कदा ऽहं राज-राजेन
गण-नाथेन चोदितः ।
चरेयं भगवत्-पाद-
परिचर्यानुवृत्तिषु ॥२८॥
मूलम्
कदाहं राजराजेन गणनाथेनचोदितः ।
चरेयं भगवत्पादपरिचर्यानुवृत्तिषु ॥२८॥
विश्वास-प्रस्तुतिः
शान्ताय च विशुद्धाय
तेजसे परमात्मने ।
नमो भगवते विष्णो
वासुदेवामितद्युते ॥२९॥
मूलम्
शान्ताय च विशुद्धाय तेजसे परमात्मने ।
नमो भगवतेविष्णो वासुदेवामितद्युते ॥२९॥
विश्वास-प्रस्तुतिः
नमस् सर्व-गुणातीत-
षड्गुणायादि-वेधसे ।
सत्य-ज्ञानाननन्त-गुण-
ब्रह्मणे परमात्मने ॥३०॥
मूलम्
नमस्सर्वगुणातीत षड्गुणायादिवेधसे ।
सत्यज्ञानाननन्तगुणब्रह्मणे परमात्मने ॥३०॥
विश्वास-प्रस्तुतिः
चतुः-पञ्च-नव-व्यूहं
दश–द्वा-दश-मूर्तये ।
नमस् ते वासुदेवाय
ब्रह्मणे चतुरात्मने ॥३१॥
विश्वास-टिप्पनी
सात्वतां नवमूर्तीनामादिमूर्तिरहं परा
इति भागवते।
वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः, नारायणः,
हय-ग्रीवः, वराहः, नरसिंहः, ब्रह्मा इत्य् एतेषु क्रमशः ४, ५, ९ गृहीत्वा व्यूह-सङ्ख्या-भेदा जायन्ते।
दशं चावताराः।
भगवतः अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयाख्यः व्यूहः अपि वर्तते ।
मूलम्
चतुःपञ्चनवव्यूहं दशद्वादशमूर्तये ।
नमस्ते वासुदेवाय ब्रह्मणे चतुरात्मने ॥३१॥
विश्वास-प्रस्तुतिः
नमोऽनन्ताय विश्वाय
विश्वातीताय चक्रिणे।
नमस्ते पञ्चकालज्ञ
पञ्च-काल-परायण ॥३२॥
मूलम्
नमोऽनन्तायविश्वाव विश्वातीतायचक्रिणे ।
नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ॥३२॥
विश्वास-प्रस्तुतिः
पञ्च-कालैक-मनसां
त्वमेव गतिर् अव्ययः ।
परे व्योम्नि स्थितं देवं
निरवद्यं निरञ्जनम् ॥३३॥
मूलम्
पञ्चकालैकमनसां त्वमेव गतिरव्ययः ।
परेव्योम्निस्थितं देवं निरवद्यं निरञ्जनम् ॥३३॥
विश्वास-प्रस्तुतिः
अप्रमेयम् अजं विष्णुम्
अब्जनाभं सुरेश्वरम् ।
वाग्-अतीतं परं शान्तं
शरणं त्वां गतोऽस्म्य् अहम् ॥३४॥
मूलम्
अप्रमेयमजं विष्णुमब्जनाभं सुरेश्वरम् ।
वागतीतं परं शान्तं शरणं त्वां गतोऽस्म्यहम् ॥३४॥
विश्वास-प्रस्तुतिः
धुर्यं द्वन्द्वातिरिक्तं त्वां
कौस्तुभोद्भासिवक्षसम्।
विश्वरूपं विशालाक्षं
कदा द्रक्ष्यामि चक्षुषा ॥३५॥
मूलम्
धुर्यं द्वन्द्वातिरिक्तं त्वां कौस्तुभोद्भासिवक्षसम् ।
विश्वरूपं विशालाक्षं कदाद्रक्ष्यामि चक्षुषा ॥३५॥
विश्वास-प्रस्तुतिः
मोक्षं सालोक्य-सारूप्यं
प्रार्थये न कदाचन ।
इच्छाम्य् अहं महाबाहो
सायुज्यं तव सुव्रत ॥३६॥+++(5)+++
मूलम्
मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ।
इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत ॥३६॥
विश्वास-प्रस्तुतिः
सकलावरणातीत-
किङ्करोऽस्मि तवानघ ।
पुनःपुनःकिङ्करो ऽस्मि
तवाहं पुरुषोत्तम ॥३७॥
मूलम्
सकलावरणातीत किङ्करोऽस्मि तवानघ ।
पुनःपुनःकिङ्करोऽस्मितवाहं पुरुषोत्तम ॥३७॥
विश्वास-प्रस्तुतिः
आसनाद्य्-अनुयागान्तम्
अर्चनं यन् मया कृतम् ।
भोग-हीनं क्रिया-हीनं
मन्त्र-हीनम् अभक्तिकम् ॥३८॥
मूलम्
आसनाद्यनुयागान्तमर्चनं यन्मया कृतम् ।
भोगहीनं क्रियाहीनं मन्त्रहीनमभक्तिकम् ॥३८॥
विश्वास-प्रस्तुतिः
तत् सर्वं क्षम्यतां देव
दीनं माम् आत्मसात् कुरु ।
इति स्तोत्रेण देवेशं
स्तुत्वा मधु-निषूदनम् ॥३९॥
मूलम्
तत्सर्वं क्षम्यतां देव दीनं मामात्मसात्कुरु ।
इति स्तोत्रेण देवेशं स्तुत्वा मधुनिषूदनम् ॥३९॥
विश्वास-प्रस्तुतिः
यागावसान-समये
देव-देवस्य चक्रिणः ।
नित्यं किङ्कर-भावेन
स्वात्मानं विनिवेदयेत् ॥४०॥
मूलम्
यागावसानसमये देवदेवस्य चक्रिणः ।
नित्यं किङ्करभावेन स्वात्मानं विनिवेदयेत् ॥४०॥