०१

विश्वास-प्रस्तुतिः

जितं ते पुण्डरीकाक्ष
नमस् ते विश्वभावन ।
नमस् तेऽस्तु हृषीकेश
महापुरुष पूर्वज ॥ १ ॥

मूलम्

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १ ॥

विश्वास-प्रस्तुतिः

देवानां दानवानां च
सामान्यम् अधिदैवतम् ।
सर्वदा चरणद्वन्द्वं
व्रजामि शरणं तव ॥ २ ॥

मूलम्

देवानां दानवानां च सामान्यमधिदैवतम् ।
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ २ ॥

विश्वास-प्रस्तुतिः

एकस् त्वम् असि लोकस्य
स्रष्टा संहारकस् तथा ।
अध्यक्षश् चानुमन्ता
गुण-माया समावृतः॥ ३ ॥

मूलम्

एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा ।
अध्यक्षश्चानुमन्ता च गुणमाया समावृतः॥ ३ ॥

विश्वास-प्रस्तुतिः

संसार सागरं घोरम्
अनन्त-क्लेश-भाजनम् ।
त्वाम् एव शरणं प्राप्य
निस्तरन्ति मनीषिणः ॥ ४ ॥

मूलम्

संसार सागरं घोरमनन्तक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥ ४ ॥

विश्वास-प्रस्तुतिः

न ते रूपं न चाकारो
नायुधानि न चास्पदम् ।
तथाऽपि पुरुषाकारो
भक्तानां त्वं प्रकाशसे ॥ ५ ॥

मूलम्

न ते रूपं न चाकारो नायुधानि न चास्पदम् ।
तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥ ५ ॥

विश्वास-प्रस्तुतिः

नैव किञ्चित् परोक्षन् ते
प्रत्यक्षोऽसि न कस्यचित् ।
नैव किञ्चिद् असिद्धन्ते
सिद्धोऽसि कस्यचित् ॥ ६ ॥(5)

मूलम्

नैव किञ्चित् परोक्षन्ते प्रत्यक्षोऽसि न कस्यचित् ।
नैव किञ्चिदसिद्धन्ते न च सिद्धोऽसि कस्यचित् ॥ ६ ॥

विश्वास-प्रस्तुतिः

कार्याणां कारणं पूर्वं
वचसां वाच्यम् उत्तमम्
योगानां परमां सिद्धिं
परमं ते पदं विदुः ॥ ७ ॥(5)

मूलम्

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ ७ ॥

विश्वास-प्रस्तुतिः

अहं भीतोऽस्मि देवेश
संसारेऽस्मिन् भयावहे ।
पाहि मां पुण्डरीकाक्ष
न जाने शरणं परम् ॥ ८ ॥

मूलम्

अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे ।
पाहि मां पुण्डरीकाक्ष न जाने शरणं परम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

कालेष्व् अपि च सर्वेषु
दिक्षु सर्वासु चाच्युत ।
शरीरे च गतौ चापि
वर्तते मे महद्भयम् ॥ ९ ॥

मूलम्

कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।
शरीरे च गतौ चापि वर्तते मे महद्भयम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

त्वत्-पाद कमलाद् अन्यन्
मे जन्मान्तरेष्व् अपि ।
निमित्तं कुशलस्यास्ति
येन गच्छामि सद्-गतिम् ॥ १० ॥

मूलम्

त्वत्पाद कमलादन्यन्न मे जन्मान्तरेष्वपि ।
निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥ १० ॥

विश्वास-प्रस्तुतिः

विज्ञानं यद् इदं प्राप्तं
यद् इदं स्थानम् आर्जितम् ।
जन्मान्तरेऽपि मे देव
मा भूत् तस्य परिक्षयः ॥ ११ ॥

मूलम्

विज्ञानं यदिदं प्राप्तं यदिदं स्थानमार्जितम् ।
जन्मान्तरेऽपि मे देव मा भूत्तस्य परिक्षयः ॥ ११ ॥

विश्वास-प्रस्तुतिः

दुर्गताव् अपि जातायां
त्वद्-गतो मे मनोरथः ।
यदि नाशं न विन्देत
तावता ऽस्मि कृती सदा ॥ १२ ॥(5)

मूलम्

दुर्गतावपि जातायां त्वद्गतो मे मनोरथः ।
यदि नाशं न विन्देत तावतास्मि कृती सदा ॥ १२ ॥

विश्वास-प्रस्तुतिः

न काम-कलुषं चित्तं
मम ते पादयोस् स्थितम् ।
कामये वैष्णवत्वं तु
सर्व-जन्मसु केवलम् ॥ १३ ॥

मूलम्

न कामकलुषं चित्तं मम ते पादयोस्स्थितम् ।
कामये वैष्णवत्वं तु सर्वजन्मसु केवलम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

इत्य् एवम् अनया स्तुत्या
स्तुत्वा देवं दिने दिने ।
किङ्करो ऽस्मीति चात्मानं
देवायैवं निवेदयेत् ॥ १४ ॥

मूलम्

इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने ।
किङ्करोऽस्मीति चात्मानं देवायैवं निवेदयेत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

सर्वेषु देशकालेषु
सर्वावस्थासु चाच्युत ।
किङ्करोऽस्मि हृषीकेश
भूयो भूयो ऽस्मि किङ्करः॥ १५॥

मूलम्

सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः॥ १५॥

विश्वास-प्रस्तुतिः

यच् चापराधं कृतवान्
अज्ञानात् पुरुषोत्तम ।
मद्-भक्त इति देवेश
तत् सर्वं क्षन्तुम् अर्हसि ॥ १६ ॥

मूलम्

यच्चापराधं कृतवानज्ञानात् पुरुषोत्तम ।
मद्भक्त इति देवेश तत् सर्वं क्षन्तुमर्हसि ॥ १६ ॥

विश्वास-प्रस्तुतिः

अहं-कारार्थ-कामेषु
प्रीतिर् अद्यैव नश्यतु
त्वां प्रपन्नस्य मे देव
वर्धतां श्रीमति त्वयि ॥ १७ ॥

मूलम्

अहङ्कारार्थकामेषु प्रीतिरद्यैव नश्यतु ।
त्वां प्रपन्नस्य मे देव वर्धतां श्रीमति त्वयि ॥ १७ ॥

विश्वास-प्रस्तुतिः

क्वाहम् अत्यन्त-दुर्बद्धिः
क्व चात्महित-वीक्षणम् ।
यद्+धितं मम देवेश
तद् आज्ञापय माधव ॥ १८ ॥
(इति नियाम्यत्ता-भूयस्त्वाङ्गीकारः)

English - राजगोपालः

“Where am I who am so full of evil thoughts?
Where is the possibility of my seeking what is good to me?
Therefore, O Thou, that controllest the gods!
Direct me to do whatever is good for me, O Madhava!"

मूलम्

क्वाहमत्यन्तदुर्बद्धिः क्व चात्महितवीक्षणम् ।
यद्धितं मम देवेश तदाज्ञापय माधव ॥ १८ ॥

विश्वास-प्रस्तुतिः

सोऽहं ते देव-देवेश
नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्र-
मनोवृत्तिः प्रसीद मे ॥ १९ ॥

मूलम्

सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ १९ ॥

विश्वास-प्रस्तुतिः

उपचारापदेशेन
कृतान् अहर्-अहर् मया ।
अपचारान् इमान् सर्वान्
क्षमस्व पुरुषोत्तम ॥ २० ॥

मूलम्

उपचारापदेशेन कृतानहरहर्मया ।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥ २० ॥