अथ योगाख्यानं नाम त्रयस्त्रिंशः पटलः
श्रीभगवान्
विश्वास-प्रस्तुतिः
अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवः ।
सुगुप्ते विजने देशे निर्द्वन्दे शुभलक्षणे ॥ १ ॥
मूलम्

जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः ।
देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतस्सदा ॥ २ ॥

भूतद्रोहपरित्यागी आस्ते यः संयतेन्द्रियः ।
आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ॥ ३ ॥

शुभदारुसमुत्थे तु चतुर्विंशाङ्गुलायते ।
द्वादशाङ्गुलकोत्सेधे सुधौतेनापि वाससा ॥ ४ ॥

कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा ।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ॥ ५ ॥

प्राणायामस्य त्रैविध्यम्
विश्वास-प्रस्तुतिः
रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु सः ।
कनीयान्मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ॥ ६ ॥

प्रत्याहारं ततः कुर्याच्चित्तसंयमनं तु सः ।
बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ॥ ७ ॥

{{३६०}}
विश्वास-प्रस्तुतिः
तथापि मनसः कुर्यात्प्रत्याहारं प्रयत्नतः ।
मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ॥ ८ ॥

तिष्ठते लक्ष्यमार्गे तु अ(ना?)न्यथा तु कदाचन ।
ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत्प्रकिर्तितम् ॥ ९ ॥

धारणा तु ततो धार्या शीतदाहापनुत्तये ।
पञ्चधा पूर्ववत्सा तु प्रतिमन्त्रव्यवस्थया ॥ १० ॥

जपं निमीलिताक्षेण कुर्यान्मन्त्रं तु वाचकम् ।
वाच्यस्य प्रतिपत्त्यर्थं पिण्डबीजपदात्मकम् ॥ ११ ॥

त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम् ।
योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्येन मे शृणु ॥ १२ ॥

प्राकृतं पौरुषं चैव ऐश्वर्यं च तृतीयकम् ।
ऊहस्तु कीर्त्यते तर्कस्तच्च सिद्धिविचारकम् ॥ १३ ॥

समाधिस्त्वात्मलाभः स्यादात्मजः परिकीर्तितः ।
स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितम् ॥ १४ ॥

सदा विभज्यते ब्रह्मन् कलांशविधिवर्जितम् ।
समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ॥ १५ ॥

प्राणायामादितो यावत्समाध्यन्तं प्रकीर्तितम् ।
द्विगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ॥ १६ ॥

योगासनस्थः कुर्वीत विधिमेव यथोदितम् ।
योगासनानि चत्वारि योगपट्टेन बन्धयेत् ॥ १७ ॥

पर्यङ्कं कमलं वाऽपि भद्रं वा स्वस्तिकं दृढम् ।
एषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ॥ १८ ॥

स्पष्टाङ्गसन्धिः कुर्वीत विस्तीर्णोरुः स(सु?)कन्धरः ।
बाहू परिसमौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः ॥ १९ ॥

नाभौ जघनमध्ये वा हस्तौ कच्छपसंस्थितौ ।
सव्यस्य चोपरिस्थं तु वामे सव्यमथापि वा ॥ २० ॥

उत्तानौ तु करौ कृत्वा कच्छपीतां (?) नियोजयेत ।
ग्रीवां तु बिभृयाद्यत्नान्नातिस्तब्धां न कुञ्चिताम् ॥ २० ॥

किञ्चिन्निमीलयेन्नेत्रे नासाग्रमवलोकयेत् ।
समुद्भवत्पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ॥ २२ ॥

{{३६१}}
विश्वास-प्रस्तुतिः
सगर्भं योगमातिष्ठेन्निर्गर्भं वा सुयन्त्रितः ।
ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् ॥ २३ ॥

रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः ।
चित्तं जयेत्सदा यत्नाद्दुर्जयं देवदानवैः ॥ २४ ॥

यद्यप्यभ्यासवैराग्यैश्चित्तं संयम्यते बलात् ।
तथापि यत्नादातिष्ठेत्पूर्वाधीनं तु वर्जयेत् ॥ २५ ॥

द्विविधास्ते तु विज्ञेयास्सन्निकृष्टा मनोगताः ।
सन्निकृष्टाः स्थानगताश्चित्तोपा(श्चैत्ता वा ?)सनया कृताः ॥ २६ ॥

न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते ।
निमीलिताक्षस्सन्तिष्ठेत्सर्वेन्द्रियविवर्जितः ॥ २७ ॥

एवं परित्यजेत्सर्वानुपाधीन्सन्निकर्षजान् ।
वासनोत्थांश्च विविधान्सम्यग्लक्ष्यं समास्थितः ॥ २८ ॥

प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु ।
तामसं तत्तु बोद्धव्यं चित्तं सर्वत्रगं सदा ॥ २९ ॥

गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत् ।
सात्विकं कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ॥ ३० ॥

संलीनं च ततो ज्ञेयं गुणातीतं तपोधन ।
ध्यानमेवंविधं कुर्यात्सगर्भं प्राणनिग्रहे ॥ ३१ ॥

उच्यते च ततो भूयस्त्रिविधं योगिनां हितम् ।
सकलं निष्कलं विष्णुं तृतीयं पररूपिणम् ॥ ३२ ॥

अन्यत्र त्रिविधं ज्ञेयं शब्दं व्योम सविग्रहम् ।
विग्रहं देवरूपस्य लक्ष्यरूपं विचिन्तयेत् ॥ ३३ ॥

ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिमं भवेत् ।
तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ॥ ३४ ॥

भावे ह्यभावमापन्ने स्वस्वभावः परः स्मृतः ।
स्थूलं पूर्वं समभ्यस्येत्ततः सूक्ष्मं ततः परम् ॥ ३५ ॥

एवं विलीयते चित्तं लक्ष्यं चोपाधिभिस्सह ।
विग्रहं देवदेवस्य ध्यायेद्धृत्पद्मगोचरे ॥ ३६ ॥

ततोऽन्यच्चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम् ।
एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ॥ ३७ ॥

{{३६२}}
विश्वास-प्रस्तुतिः
चन्द्रार्काग्निमयं बिम्बं रविमण्डलसन्निभम् ।
शुक्लरूपधरञ्चापि गुणोत्कर्षप्रदायकम् ॥ ३८ ॥

ततः सूक्ष्मतरं बिन्दुं राजमुद्गसमप्रभम् ।
तं विद्यात्सर्वमन्त्राणामूर्ध्वमाक्रम्य तिष्ठति ॥ ३९ ॥

ततस्तु राजकाबीजप्रमाणं चिन्तयेत्क्रमात् ।
उत्पादकमथास्यापि यस्यान्ते नादमाश्रितः ॥ ४० ॥

तं विलीय समुत्पन्नमश्ववालप्रमाणकम् ।
यस्सदा गच्छति व्योम्नि मनश्चागच्छते हृदि ॥ ४१ ॥

ततो विचिन्तयेत्सूक्ष्मं शिरोवालप्रमाणकम् ।
ब्रह्मनाडीमनेनाशु पश्यन्ति ध्यानसेचनात् ॥ ४२ ॥

ततोऽङ्गरोममात्रं तु बिसवालसमं ततः ।
ध्यायेन्नियममास्थाय ब्रह्मनाडीप्रकाशकम् ॥ ४३ ॥

तदा सा दृश्यते नाडी सादृश्यरहिता परा ।
तया यायात्परं स्थानं ब्रह्मरन्ध्रपथेन तु ॥ ४४ ॥

एवं तु निष्कलं ध्यायेत्सोऽपि लीनः परे पदे ।
परं त्वभ्यसमानस्य उन्मनस्त्वं प्रजायते ॥ ४५ ॥

ततस्तु व्यज्यते सत्ता स्वकीया ब्रह्मरूपिणी ।
शब्दरूपं तु वा ध्यायेदेवं सकलनिष्कलम् ॥ ४६ ॥

नारायणात्मकं मन्त्रं प्रणवादिनमोन्तकम् ।
ध्यायेच्छब्दमयो ह्येष सकलः परमेश्वरः ॥ ४७ ॥

निष्कलं वर्णमेकं तु क्षौं ह्रीं(?)वाऽपि चिन्तयेत् ।
ततोऽपि निष्कलं बिन्दुं तन्मूर्धस्थं त्रिदैवतम् ॥ ४८ ॥

सा शक्तिस्तत उत्पन्ना प्रमाणार्धप्रमाणका ।
सा शक्तिर्लीयते नादे नादो याति लयं परे ॥ ४९ ॥

एवं हि ध्यानयोगेन परं पश्यन्ति शाश्वतम् ।
अथ वाऽलोकशब्दौ हि प्रथयित्वा विचिन्तयेत् ॥ ५० ॥

स्वयं विलीनो यत्रैव तत्रैव परमं पदम् ।
{{३६३}}
अथवा व्योमरूपं तु ध्येयं तत्त्वं सनातनम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
बाह्यान्तस्थं शिखातीतं त्रिव्योमं चिन्तयेत्सदा ।
मुख्येऽन्तस्थं परं ध्यात्वा न भूयो भवभाक्मवेत् ॥ ५२ ॥

एवं ध्यात्वा भवेन्मुक्तिर्भुक्तिस्तु सकले स्थिता ।
सकलो देवदेवस्य विग्रहो विष्णुरूपिणः ॥ ५३ ॥

शङ्खपद्मधरो देवो गदापद्मविभूषितः ।
चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्त्रः सुलोचनः ॥ ५४ ॥

लक्ष्मीवक्षाः खगारूढः सर्वरत्नोपशोभितः ।
कृष्णस्सुरोत्तमो विष्णुर्जिष्णुस्सर्वत्रगो हरिः ॥ ५५ ॥

हलहेतिर्हयग्रीवो हरिरूपधरः प्रभुः ।
नृहरी क्रोडरूपी च शक्त्यङ्गश्च महेश्वरः ॥ ५६ ॥

एवमास्थाय नियमं पिण्डवत्त्वं परित्यजेत् ।
परिज्ञाय पुरा पिण्डं(ण्ड?)पाक(त ?)लक्षणमुत्तमम् ॥ ५७ ॥

निरुद्धं सन्धिमार्गं तु कृत्वा देहसमीरणम् ।
मुक्त्वा सद्ब्रह्मरन्ध्रेणोत्क्रान्तिकरणेन तु ॥ ५८ ॥

ध्यात्वा परित्यजेद्देहं नित्याभ्यासरतो यदि ।
स ब्रह्मपरमभ्येति वासुदेवाख्यमव्ययम् ॥ ५९ ॥

नारदः
विश्वास-प्रस्तुतिः
भगवन् श्रोतुमिच्छामि एतत्सङ्क्षेपतस्त्वहम् ।
लक्षणं देहपातस्य वायोर्गतिनिरोधनम् ॥ ६० ॥

युक्ताहारविहारस्य क्रियासक्तस्य नारद ।
युक्तस्वप्नावबोधस्य समधातोः सदैव हि ॥ ६१ ॥

निर्वर्तते सदाशब्दो हृद्गतो दुन्दुभिस्स्वनः ।
सृजच्छीतातपे काले न जानात्युष्णशीतलौ ॥ ६२ ॥

ध्यात्वा ज्योतिर्भ्रुवोर्मध्ये द्वादशान्तेऽथ नारद ।
प्रत्य (स्त)मेति वै शब्दो न चोदेत्यथवा मुने ॥ ६३ ॥

{{३६४}}
विश्वास-प्रस्तुतिः
न जानाति समाधिस्थो ह्रादमाब्जं यदान्तरे ।
परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् ॥ ६४ ॥

न वेत्ति पार्थिवं गन्धं स बाह्याभ्यन्तरे यदा ।
पिण्डपातस्तदा विप्र बोद्धव्यो न चिरेण तु ॥ ६५ ॥

पार्थिव्या संस्थितश्चैव धारणायां समाहितः ।
न वेत्ति शब्दं प्रागुक्तं पञ्चाहात्पञ्चमे क्षणे ॥ ६६ ॥

स्थितस्समाधौ वाऽप्येतौ शीतोष्णौ नानुविन्दति ।
पतेद्दिनचतुष्केण पिण्डस्तत्कलिते क्षणे ॥ ६७ ॥

रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि ।
न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः ॥ ६८ ॥

पिण्डपातो ह्यवश्यं स्यात्तृतीयेऽह्नि तथा क्षणे ।
समाधौ यदि वायव्ये योगी नारद वर्तते ॥ ६९ ॥

न वेत्ति परमाह्लादं तृषितः परिकम्पते ।
दिनद्वयेन पिण्डस्य पातः स्याद्द्वितये क्षणे ॥ ७० ॥

स्थितो गगनभावे तु प्रागुक्तविधिना यदि ।
न वेत्ति विविधं गन्धमन्तर्बाह्ये शुभाशुभम् ॥ ७१ ॥

तत्रैवास्य दिने पातः क्षणे प्रथमलक्षणे ।
ध्यात्वैवं मुनिशार्दूल योगी ध्यानैकमानसः ॥ ७२ ॥

स्वयमुत्क्रमते पिण्डाद्यायाद्ब्रह्मनिकेतनम् ।
प्रविशेत्पिण्डमन्यं वा प्राग्वत्सन्धानयोजितः ॥ ७३ ॥

कालो यद्देहपातस्य लक्षणेन समासतः ।
कथितः सारभूतस्य वायोस्संरोध उच्यते ॥ ७४ ॥

सगर्भं हृदयावासादुद्धृत्य कतलावधि ।
अप्रमेयविहीनं तु विकरालं नियोजयेत् ॥ ७५ ॥

प्रधानं कण्ठकूपे तु न याति हृदयं पुनः ।
स्मरेद्विजन्मपुटके(?)प्रधानं व्यापकोज्झितम् ॥ ७६ ॥

पन्धानं नन्द ———– येत्प्रन थमवर्जितम् ।
रोधमार्गद्वयस्यैवं दद्यात्सव्येतरस्य तु ॥ ७७ ॥

{{३६५}}
विश्वास-प्रस्तुतिः
नेत्रनासाननाख्यस्य ततश्चाव्यक्तभास्वरम् ।
मन्त्रान्ते केवलं वाऽथ वषड् ध्यायेत्खरन्ध्रगम् ॥ ७८ ॥

प्राक्रमेत्परमात्मानं त्यक्त्वा पिण्डमिमं मुने ।
परिपक्वसमानं च आश्रयेच्छाश्वतं पदम् ॥ ७९ ॥

इत्येतत्कथितं सर्वं पञ्चरात्रार्थमुत्तमम् ।
सर्वस्वमिव विप्रेन्द्र रक्षणीयं प्रयत्नतः ॥ ८० ॥

सर्वोत्तमा संहितैषा सर्वविज्ञानदीपिका ।
नाख्येया दुष्टबुद्धीनां नराणां कलुषात्मनाम् ॥ ८१ ॥

मत्सराणामभक्तानां शठानां छद्मचारिणाम् ।
गर्वान्मे शास्त्रसद्वस्तुनिन्दकानां विशेषतः ॥ ८२ ॥

मद्भक्तदूषकाणां च शुष्कतर्करतात्मनाम् ।
शास्त्रापकर्तॄणामन्यदर्शने भावितात्मनाम् ॥ ८३ ॥

देयं विविक्तबुद्धीनां स्वधर्मनिरतात्मनाम् ।
संसारभयभीतानां मद्भक्तिनिरतात्मनाम् ॥ ८४ ॥

मच्छासनप्रपन्नानां ये पश्यन्ति सदा मुने ।
मद्भाविनो मत्समयाद्दृष्ट्या चातिविशुद्धया ॥ ८५ ॥

तेषां वाच्यमिदं शास्त्रं दीक्षां कृत्वा यथाविधि ।
प्रदर्श्य मन्त्रसङ्घं वा पूजितं मण्डलं पुरा ॥ ८६ ॥

शास्त्रार्थमनुवक्तव्यं शास्त्रमादौ प्रपूज्य च ।
येनाशु विविधा सिद्धिर्द्वयोर्भवति शाश्वती ॥ ८७ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां योगाख्यानं नाम
त्रयस्त्रिंशः पटलः ॥ ३३ ॥

समाप्तेयं जयाख्यसंहिता ।