३२ साधन-विधिः

अथ साधनविधिर्नाम द्वात्रिशः पटलः

विघ्नेशमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

यः पुरा कथितश्चैव मन्त्रो वैनायको मया ।
तस्येदानीं समासेन साधनं शृणु नारद ॥ १ ॥

मूलम्

यः पुरा कथितश्चैव मन्त्रो वैनायको मया ।
तस्येदानीं समासेन साधनं शृणु नारद ॥ १ ॥

विश्वास-प्रस्तुतिः

कृत्वा न्यासं षडङ्गं तु इष्ट्वा हृत्कमलान्तरे ।
ततः कोणत्रयेणैव युक्तं कुर्याच्च मण्डलम् ॥ २ ॥

द्वारत्रयान्वितं चैव तन्मध्ये त्रिदलं लिखेत् ।
कमलं तत्र तन्मध्ये पूर्वोक्तविधिना द्विज ॥ ३ ॥

इष्ट्वा हुत्वा ततः कुर्याद्रूपं सम्यक्तयाऽत्मनः ।
यायाद्वनप्रदेशं तु जपेल्लक्षद्वयं मुने ॥ ४ ॥

लक्षमेकं तु जुहुयात्पुष्पाणां मुनिसत्तम ।
अयुतं द्वे च समिधां सितार्कस्य विशेषतः ॥ ५ ॥

घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं मुने ।
ततः प्रत्यक्षतामेति साक्षाद्देवो विनायकः ॥ ६ ॥

सिद्धोऽस्मीति च वै ब्रूते कुरु कर्म यथेप्सितम् ।
तदा च साधकवरस्सर्वं साधयते क्षणात् ॥ ७ ॥

विघ्नेशमन्त्रसिद्धिजं सामर्थ्यम्

विश्वास-प्रस्तुतिः

राजार्कमूलमादाय कृत्वा च शतमन्त्रितम् ।
गणेशमन्त्रेण ततो मन्त्रयित्वा समापयेत् ॥ ८ ॥

{{३५४}}

विश्वास-प्रस्तुतिः

अर्धाङ्गुलप्रमाणेन विघ्नेशं पद्मसंस्थितम् ।
तस्मिन्मन्त्रं सकृन्न्यस्य वेष्टयेन्मदनेन तु ॥ ९ ॥

कृत्वा ताम्रपुटे चैव धारयेच्छिरसा तु तत् ।
रणे राजकुले द्यूते विवादेऽपि महामते ॥ १० ॥

जयमाप्नोति मन्त्रज्ञो निर्विघ्नेन यथेप्सितम् ।
न्यासं कृत्वा गणेशेन —— लाग्यस्यकस्यचित् ॥ ११ ॥

तिष्ठत्यग्रे तु मन्त्रज्ञो निर्विघ्नेन तदाप्नुयात् ।
शताभिमन्त्रितं कृत्वा फलं पुष्पं च वै रिपोः ॥ १२ ॥

दद्यात्पाणौ तु सर्वत्र विघ्नो भवति तस्य वै ।
घृष्ट्वा मनश्शिलां मन्त्री भावयेच्च निशाम्बुना ॥ १३ ॥

विमृज्य कापिलेनैव पयसा पीतकर्पटे ।
लिखेद्वैघ्नेश्वरीं मूर्तिं तत्र हृत्पद्ममध्यगाम् ॥ १४ ॥

दद्याद्विघ्नेशमन्त्रं तु सर्वं यच्छत्य —– न्वि(भीप्सि ?)तम् ।
यत्रावतिष्ठते गेहे दिशि प्रागुत्तरे तु वै ॥ १५ ॥

यावन्न चालितो भूयो दृष्टो नान्येन केनचित् ।
तावत्तत्र गृहे लक्ष्मीर्धनधान्यसमाकुला ॥ १६ ॥

कृषिगोरक्षवाणिज्यं फलत्यविरतं तु वा ।
कोष्ठागारस्तु कोशो वा न चेत्सङ्ख्यायते पुनः ॥ १७ ॥

व्ययं करोति दानं वा तदक्षय्यं व्यये सति ।
देशप्राप्तिं तु वा लाभमुत्तमं यदि मन्यते ॥ १८ ॥

मोदकानि घृताक्तानि मन्त्रितानि विधाय यः ।
हुत्वाऽतङ्कविनिर्मुक्तो यत्र यत्र प्रयाति च ॥ १९ ॥

रात्रौ वा वासरे वाऽपि चोरान्तकभयाकुले ।
वस्त्राभरणयुक्तोऽपि धनवान्क्रमते हि सः ॥ २० ॥

योजनानां सहस्राणि एकाकी विघ्नवर्जितः ।
मन्त्राभिमन्त्रितं सम्यक् सितं सिद्धार्थकं करे ॥ २१ ॥

प्रीतियुक्तेन मनसा ददाति स वशं व्रजेत् ।
यदि विघ्नेशमन्त्रेण होमयेद्राजसर्षपान् ॥ २२ ॥

{{३५५}}

विश्वास-प्रस्तुतिः

कटुतैलसमायुक्तान्विद्वेषं कुरुते क्षणात् ।
परस्परं च प्रीतानामप्रीतानां तु का कथा ॥ २३ ॥

जुहुयाद्यस्य नाम्ना वै वायव्याभिमुखस्थितः ।
सहस्रं काकपक्षाणां सोच्चाटत्यचिरेण तु ॥ २४ ॥

प्रजप्य महिषाक्षं तु सितसिद्धार्थकान्वितम् ।
जुहुयादयुतार्धं तु नाम्ना यस्य महामते ॥ २५ ॥

आकृष्टो दूरतोऽभ्येति होमान्तेऽपि च देवराट् ।
लाक्षालक्तकसंयुक्तं करवीरायुतद्वयम् ॥ २६ ॥

जुहुयाद्यस्य नाम्ना तु भवेद्वश्यो हि सोऽवशः ।
मध्वाज्यं जुहुयान्मन्त्री यद्येकं च तिलायुतम् ॥ २७ ॥

प्रीतिमुत्पादयत्याशु विद्विष्टानां परस्परम् ।
निम्बपत्रकृतं चूर्णं छागासृग्विषभावितम् ॥ २८ ॥

जुहुयाद्यस्य नाम्ना तु रात्रौ भूतदिनेऽसिते ।
स याति पञ्चतामाशु होमान्ते तु महामते ॥ २९ ॥

तदर्धं यदि वै कुर्याद्धोमं तु मधुसर्पिषा ।
एकायुतप्रमाणेन होमे तं जीवयेत्पुनः ॥ ३० ॥

शान्तिं पुष्टिं तथाऽरोग्यं घृतक्षीरतिलैः क्रमात् ।
ददाति होमान्मन्त्रेशो निर्विघ्नेन महामते ॥ ३१ ॥

रोचनालिखितं भूर्जे साङ्गमष्टदलाम्बुजे ।
यो धारयति रक्षार्थं स दुःखैर्मुक्तिमाप्नुयात् ॥ ३२ ॥

नश्यन्ति हिंसकास्तस्य ब्रह्मरक्षोमुखा मुने ।
हन्यादपस्मृतिमयं मन्त्रसन्धारतो भवेत् (?) ॥ ३३ ॥

येऽन्ये अतिग्रहाद्याश्च तथा स्कन्दग्रहादयः ।
विघ्नेशमन्त्रो हन्त्येतान् जपाद्ध्यानाच्च पूजनात् ॥ ३४ ॥

तस्मात्सन्धारणीयं च सर्वविघ्नोपशान्तये ।
मन्त्रस्समस्तभूत्यर्थं साधकैः सिद्धिलालसैः ॥ ३५ ॥

वैनायकस्य मन्त्रस्य संविधानमिदं मया ।
उक्तं वागीश्वरीयस्य शृणुष्वावहितो मुने ॥ ३६ ॥

{{३५६}}

वागीश्वरीमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

न्यासं षडङ्गकं कृत्वा मूलमन्त्रादितः क्रमात् ।
इष्ट्वा हृत्कमले त्वादौ बाह्ये चन्द्रार्करूपधृक् ॥ ३७ ॥

सपद्मं मण्डलं कृत्वा देवीं तत्रावतार्य च ।
इष्ट्वा सितादिकैः सर्वैर्नैवेद्यैः कुसुमादिकैः ॥ ३८ ॥

होमं कृत्वा तिलैः शुक्लैर्नवनीतेन नारद ।
दत्वा पूर्णाहुतिं पश्चात्कुर्याद्देहं तदाकृतिम् ॥ ३९ ॥

कदम्बवनमध्ये तु यायादञ्चितलोचनः ।
जपेल्लक्षचतुष्कं तु होमं तदनु चाचरेत् ॥ ४० ॥

लक्षसङ्ख्याप्रमाणेन सितशर्करया मुने ।
शालिभिश्च सुगन्धाभिर्नवनीतेन चैव हि ॥ ४१ ॥

घृतक्षीरविमिश्रेण तथा गुग्गुलुना मुने ।
एकैकमयुतं मन्त्री एकैकस्य क्रमान्मने ॥ ४२ ॥

जुहुयाद्वितरेत्पूर्णां ततो वागीश्वरी स्वयम् ।
समेत्य वदने तस्य प्रविशत्यचिरेण तु ॥ ४३ ॥

अशीतोदकधारेव वेद्यते त्वङ्गना त्वसौ ।

वागीश्वरीमन्त्रसिद्धिजं सामर्थ्यम्

तदा शीघ्रतरेणैव कालेन तु महाकविः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

जायते साधकेन्द्रस्तु शास्त्रार्थं वेत्ययन्त्रितः ।
संस्कृतं प्राकृतं वाऽपि अपभ्रंशानुनासिकम् ॥ ४५ ॥

नानादेशविभागोत्थं त —- ——- —— बलात् ।
अतीतानागतं वेत्ति सकृद्गृह्णाति चाश्रुतम् ॥ ४६ ॥

ऋग्यजुस्सामशब्दांश्च निस्सृतांश्च द्विजाननात् ।
तुल्यकालत्रयाणां च पृथग्भेदे तु का कथा ॥ ४७ ॥

बहूनां वा यथायोगं वागीशेष्वधिकात्मनाम् ।
विपक्षपदसंस्थानामुद्ग्राहयति लीलया ॥ ४८ ॥

एकैकस्य पृथग्रूपं यदि वर्षशतं मुने ।
क्षयं न वाक्प्रमेयाभ्यां स संयाति द्विजोत्तम ॥ ४९ ॥

अथवा प्रतिपक्षोत्थभूतानां भावितात्मनाम् ।
{{३५७}}

ध्यायेज्जिह्वादिसंस्थां चा वागीशीं रक्तभास्वराम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

वज्रपञ्जरमध्यस्थां वाक्स्तम्भमुपपादयेत् ।
ध्यायेत्सम्प्रतिपन्नस्य जिह्वामध्यगतां यदा ॥ ५१ ॥

चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् ।
स्रवन्तीममृतं वक्त्रात्तेन तस्य च विग्रहम् ॥ ५२ ॥

संसिक्तं तु स्मरेद्विप्र तत्क्षणात्स कविर्भवेत् ।
पुष्पमण्डलमध्ये तु कृत्वा कुम्भं तु राजतम् ॥ ५३ ॥

मध्वम्मःपयसा पूर्णं तन्मध्ये परमेश्वरीम् ।
पूजयित्वा तु सप्ताहं सितपुष्पानुलेपनैः ॥ ५४ ॥

अष्टमेऽहनि वै यस्य दद्यात्तोयाञ्जलित्रयम् ।
स्वहस्तेन तु पानार्थं पीत्वाऽसौ बुद्धिमान्भवात् ॥ ५५ ॥

शन्तिकं पौष्टिकं वाऽपि तत्स्नानादवगाहनात् ।
जायते जडबुद्धीनामस्वस्थानां विशेषतः ॥ ५६ ॥

शताभिमन्त्रितं कृत्वा वचां यः प्रत्यहं द्विज ।
भक्षयेत्तत्र सप्ताहं स वाग्मी मतिमान्भवेत् ॥ ५७ ॥

इष्ट्वा देवीं त्रिसप्ताहं सिततामरसोदरे ।
निवेद्य सघृतं भक्त्या परमान्नं चरुस्थितम् ॥ ५८ ॥

तच्चोष्मणा युतं तृप्तं भुङ्के निश्शोषतस्तु यः ।
बालो बालाऽथवा कन्या नानाशास्त्रार्थविद्भवेत् ॥ ५९ ॥

वक्त्रादविरतं चापि शास्त्राण्युद्गिरते महत् ।
भवत्योजः क्षयो दूरात्पण्डितानां महामते ॥ ६० ॥

कृत्वाऽभ्यासं तु गनसा सबाह्याभ्यन्तरं तु वै ।
उदासीनस्य मूर्खस्य अपूर्वस्य च संसदि ॥ ६१ ॥

सोऽपि वेदाहरेच्छास्तां तदाज्ञापरिचोदितः ।
सर्वार्थसिद्धिदा देवी सिद्धा वागीश्वरी भवेत् ॥ ६२ ॥

धनकामस्य धनदा पुत्रकामस्य पुत्रदा ।
राज्यदा राज्यकामस्य भोगकामस्य भोगदा ॥ ६३ ॥

जयदा जयकस्मस्य शान्तिकामस्य शान्तिदा ।
पुष्टिदा पुष्टिकामस्य तुष्टिकामस्य तुष्टिदा ॥ ६४ ॥

{{३५८}}

विश्वास-प्रस्तुतिः

ज्ञानदा ज्ञानकामस्य मोक्षकामस्य मोक्षदा ।
——————————– स कामानां च कामदा ॥ ६५ ॥

वागीश्वरीयन्त्रविधानम्

विश्वास-प्रस्तुतिः

पद्ममष्टदलं कृत्वा तदन्ते नामसंयुता ।
देवीषडङ्गषट्कं तु बहिस्संस्थं यदा पुरा ॥ ६६ ॥

तद्बहिश्चापरं पद्मं द्विरष्टदलभूषितम् ।
दले दले त्रिधा दद्यात् हृद्बीजं केसरावधौ ॥ ६७ ॥

तदस्त्रबीजं पत्राणां षोडशानां नियोजयेत् ।
लिखेत्षोडशपत्रस्य बाह्येऽब्जं द्वादशच्छदम् ॥ ६८ ॥

शिरश्शिरवा च कवचं केसरार्धदले दले ।
नेत्रमन्त्रदलान्तस्थं दद्याद्द्वादशधा मुने ॥ ६९ ॥

अकारादिक्षकारान्तं पद्मबाह्ये तु मातृकाम् ।
लिखेत्कुण्डलयोगेन शिरसा चाथ वेष्टयेत् ॥ ७० ॥

सप्तधा मुनिशार्दूल परमात्माऽथ तद्बहिः ।
व्योमेशाह्लादसंयुत्को ह्यष्टदिक्षु महामते ॥ ७१ ॥

ततो वायव्यभवनं यकाराष्टकभूषितम् ।
परस्परं यकाराभ्यामन्तरं परिपूरयेत् ॥ ७२ ॥

त्रैलोक्यैश्वर्यदेनैव सङ्ख्याहीनेन नारद ।
ततस्त्रिकोणभवने शिखामन्त्रेण दीपितम् ॥ ७३ ॥

कुर्यात्कोणद्वायाद्विप्र दिक्त्रयात्स्वस्तिकान्वितम् ।
अशेषभुवनाधारं व्योमेशेन समन्वितम् ॥ ७४ ॥

मरीचिपदसङ्ख्यं तु त्रिकोणस्य बहिर्लिखेत् ।
तद्बाह्ये वारुणं दद्यान्मण्डलं चार्धचन्द्रवत् ॥ ७५ ॥

चतुष्पत्रैश्चतुष्पद्मैस्संयुतं तेषु संलिखेत् ।
कर्णिकामध्यसंस्थं तु कवचं पत्रगं शिखा ॥ ७६ ॥

अन्तरालानि पद्मानां वराहार्णेन पूरयेत् ।
चान्द्री व्योमेशयुक्तेन तद्बहिः पार्थिवं पुरम् ॥ ७७ ॥

युक्तं वज्राष्टकेनैव चतुरङ्गुलभूषितम् ।
वज्रोदरगतं चास्त्रं भूयश्चास्त्रेण रश्मिमयत्(?) ॥ ७८ ॥

{{३५९}}

विश्वास-प्रस्तुतिः

पूरयेत्सकलं बाह्याच्चतुरस्रं पुरं तु तत् ।
रजनीरसमादाय पद्मषण्डमथोदकम् ॥ ७९ ॥

रोचनारसकर्पूरैर्नैशं चोदकमेव च ।
सुदिने पूजयित्वाऽदौ वागीशं विलिखेत्ततः ॥ ८० ॥

भूर्जे नेत्रेऽथ वा वस्त्रे सौवर्णोत्थशलाकया ।
त्रिलोहवेष्टितं कृत्वा यन्त्रं यो धारयेद्द्विज ॥ ८१ ॥

तस्याशु वाचि भूतिश्च धनमानौ रिपुक्षयः ।
अक्षयश्च महाघोरे सङ्ग्रामे स भवेद्द्विज ॥ ८२ ॥

न भयं विद्यते तस्य विषाहिज्वलनादितः ।
पूरयेदखिलान्कामान् धारणस्मरणादिभिः ॥ ८३ ॥

तस्मादेतत्प्रयत्नेन कुर्याद्बाह्वोर्गलेऽथ वा ।
सर्वकालजयार्थी वै पुमान्सद्वैष्णवः सदा ॥ ८४ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां साधनविधिर्नाम
द्वात्रिंशः पटलः ॥ ३२ ॥