३१ उपाङ्ग-साधनम्

अथ उपाङ्गसाधनं नाम एकत्रिंशः पटलः

सत्यमन्त्रसाधनप्रकारः

श्रीभगवान् –

विश्वास-प्रस्तुतिः

कदम्बगोलकाकारं नानावर्णविभूषितम् ।
सपद्मं मण्डलं कृत्वा पुरा तदनु नारद ॥ १ ॥

मूलम्

सत्येन सकलीकृत्य स्वमात्मानं यजेद्धृदि ।
ततोऽवतार्य हृदयान्मण्डले पूर्वकल्पिते ॥ २ ॥

चित्रैः पवित्रैः सुस्वादैरिष्ट्वा मूलफलादिकैः ।
हुत्वा तिलाद्यैर्विप्रेन्द्र ततो यायाच्छुभं वनम् ॥ ३ ॥

तत्र लक्षचतुष्कं तु स्वस्थानावस्थितं मुने ।
जप्तव्यं ध्यायमानेन द्विलक्षमथ होमयेत् ॥ ४ ॥

{{३५०}}

विश्वास-प्रस्तुतिः

शर्करामधुराज्यं च क्षीरं च तिलतण्डुलान् ।
एकीकृत्य समासेन मुद्रां बध्वा मृगाननाम् ॥ ५ ॥

मृगीमुद्रा

विश्वास-प्रस्तुतिः

मध्यमानामिकाङ्गुष्ठत्रयाणामग्रमेलनात् ।
प्रदेशिनी कनिष्ठा च प्रोन्नता विरला द्विज ॥ ६ ॥

कृत्वा मुद्रां नाम्नां सर्वत्र विहिताऽहुतौ ।
ततः पूर्णाहुतिं दद्यान्मन्त्रेशः सिध्यति द्विज ॥ ७ ॥

ददाति सिद्धिं दिव्यां च स्वेच्छया विधियोजितः ।
विज्ञानभूमिकाः सर्वाः प्रकटीकुरुते प्रभुः ॥ ८ ॥

वासुदेवमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

एवमेव द्विजश्रेष्ठ सकलीकृत्य विग्रहम् ।
वासुदेवाख्यबीजेन केवलेन महात्मना ॥ ९ ॥

मूलम्

एवमेव द्विजश्रेष्ठ सकलीकृत्य विग्रहम् ।
वासुदेवाख्यबीजेन केवलेन महात्मना ॥ ९ ॥

विश्वास-प्रस्तुतिः

पूजयित्वा तु मनसा बहिः कृत्वाऽथ मण्डलम् ।
सुवृत्तं पूर्णचन्द्राभं श्वेतपत्रोदरं महत् ॥ १० ॥

तत्रावतार्य सम्पूज्य सितैः पुष्पानुलेपनैः ।
नैवेद्यभेदैः सुसितैः जुहुयात् क्षीरतण्डुलैः ॥ ११ ॥

ततो यायाद्वनं रम्यं सितपुष्पद्रुमाकुलम् ।
सत्योक्तं जपहोमं तु कृत्वा क्षीराज्यतण्डुलैः ॥ १२ ॥

होमान्ते वासुदेवस्तु सर्वाः सिद्धीश्च शाश्वताः ।
ददाति च प्रयुक्तस्तु स्वपदं मोक्षसिद्धिदम् ॥ १३ ॥

प्रकटीकुरुते शश्वत्प्रसन्नः परमेश्वरः ।

सङ्कर्षणमन्त्रसाधनप्रकारः

न्यस्य हस्ते पुरा देहे —- नं सङ्कर्षणं मुने ॥ १४ ॥

विश्वास-प्रस्तुतिः

पूजयित्वा तु हृत्पद्मे बाह्ये कुर्याच्च मण्डलम् ।
रजसा सत्त्वमिश्रेण पाण्डुरेण तु नारद ॥ १५ ॥

व्यक्तं भास्वरबिम्बाभं रक्ततामरसोदरम् ।
तत्रारुणैस्तु नैवेद्यैस्तथा पुष्पानुलेपनैः ॥ १६ ॥

अवतार्य यजेद्भक्त्या जुहुयात्तदनन्तरम् ।
{{३५१}}

तिलानाज्येन संसिक्तान् दत्वा पूर्णाहुतिं व्रजेत् ॥ १७ ॥

विश्वास-प्रस्तुतिः

अशोकवनमध्यं तु तत्र लक्षचतुष्टयम् ।
जप्त्वाऽथ रक्तपुष्पाणां जुहुयाल्लक्षमेव हि ॥ १८ ॥

लक्षं कुङ्कुमपुष्पाणां दद्यात्पूर्णाहुतिं ततः ।
ततः सिध्यति मन्त्रेशः सिद्धः सिद्धिं प्रयच्छति ॥ १९ ॥

स्वयमप्यप्रयुक्तस्तु यद्यन्मनसि रोचते ।
विज्ञायते गतिर्मान्त्री सौषुप्ताख्या तु याखिला ॥ २० ॥

स्वयं स भगवान्देवः स्वपदे निष्कलात्मना ।
व्यक्तिमभ्येति भक्तानां मोक्षमार्गे नियोजयेत् ॥ २१ ॥

प्रद्युम्नमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

अथ प्रद्युम्नमन्त्रेण कृत्वा स्वं मन्त्रविग्रहम् ।
हृत्तामरसमध्ये तु कृत्वा यागं तु चेतसि ॥ २२ ॥

बहिः कदम्बपुष्पाभं रजसा हेमरूपिणम् ।
सपद्ममण्डलं कृत्वा तत्राहूय जगत्पतिम् ॥ २३ ॥

उपचारेण पीतेन यजेत्पुष्पादिना तु वै ।
रजनीपूर्णसम्मिश्रं सतिलं जुहुयाद्धृतम् ॥ २४ ॥

दत्वा पूर्णाहुतिं यायात्कदलीकाननान्तरम् ।
जपं पूर्वोक्तसङ्ख्यातं तत्र कृत्वा तु नारद ॥ २५ ॥

मिश्रितं कुङ्कुमेनैव प्राक्कृत्वा निस्तुषं तिलम् ।
सुगन्धिशालिसम्मिश्रं लक्षमानेन होमयेत् ॥ २६ ॥

भावितं कुङ्कुमेनाथ क्वथितं च पुरा मुने ।
अयुतत्रयमानेन पयो गव्यं तु होमयेत् ॥ २७ ॥

बदराण्डप्रमाणानां घृताक्तानामनन्तरम् ।
अयुतं गुलिकानां तु गुग्गुलोरथ होमयेत् ॥ २८ ॥

ततस्त्वाज्यस्य जुहुयादयुतं केवलस्य च ।
दद्यात्पूर्णाहुतिं पश्चान्मन्त्रेशस्सिध्यते ततः ॥ २९ ॥

सप्तलोकगतान्भावानप्रयुक्तो ददाति च ।
योजयेत्सिद्धिमार्गे तु ततो मोक्षपथेन वै ॥ ३० ॥

अनिरुद्धमन्त्रसाधनप्रकारः

पुराऽनिरुद्धमन्त्रेण सकलीकृत्य विग्रहम् ।
{{३५२}}

हृद्यागं विधिवत्कृत्वा मण्डलं निर्वपेद्बहिः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

अतसीपुष्पसङ्काशं वर्णेन रजसा शुभम् ।
वृत्तं कदम्बगोलाभं पद्मगं मधुशोभनम् ॥ ३२ ॥

तत्राहूय जगन्नाथमुद्यत्सूर्यसमप्रभम् ।
पुष्पोपलेपनाद्यैस्तु सुसितैः पावनैर्यजेत् ॥ ३३ ॥

होमं कृष्णतिलैः कृत्वा होमान्ते विजनं वनम् ।
यायात्तत्र जपं कुर्यात् प्राक्प्रमाणेन नारद ॥ ३४ ॥

होमं कुर्यात्तदर्धेन अतसीपुष्पसन्निभैः ।
तिलैरप्यसितैर्विप्र कृष्णागरुसमन्वितैः ॥ ३५ ॥

दद्यात्पूर्णाहुतिं पश्चात्ततः स परमेश्वरः ।
तोषमायाति विप्रेन्द्र तुष्टः सर्वं ददाति च ॥ ३६ ॥

स्वयमेवानिरुद्धात्मा योजयेच्छाश्वते पदे ।
स बाह्याभ्यन्तरं सर्वं दर्शयेत्साधकस्य च ॥ ३७ ॥

येनासौ कृतकृत्यः स्यादनन्तफलभागपि ।
बहुनाऽत्र किमुक्तेन पञ्चकृत्यकसंयुतम् ॥ ३८ ॥

सप्ताक्षरमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

कृत्वा सप्ताक्षरं मन्त्रं विप्रहस्तेन वै पुरा ।
सकलीकृत्य विप्रेन्द्र प्राग्वद्ध्यात्वा च निष्कलम् ॥ ३९ ॥

हृत्पुण्डरीकमध्ये तु पूजयित्वा जपेत्ततः ।
एकान्ते निर्जने रम्ये वने पादपसङ्कुले ॥ ४० ॥

सप्तलक्षाणि विप्रेन्द्र आयामत्रितयान्वितः ।
विना बाह्योपचारेण होमपूजादिकेन तु ॥ ४१ ॥

जपान्ते मुनिशार्दूल सर्वकामानवाप्नुयात् ।
अणिमाद्यास्तथा सिद्धीर्गुणषट्कं बलादिकम् ॥ ४२ ॥

वाचा ददाति सर्वं च यस्य यन्मनसेप्सितम् ।
तुष्टः साधकमुख्योऽसौ क्रुद्धो लोकत्रयं दहेत् ॥ ४३ ॥

देवासुरास्तथा नागाः सिद्धाश्चेन्मुक्तिभाजनाः ।
किङ्करत्वेन वर्तन्ते योगसिद्धाश्च देवताः ॥ ४४ ॥

सप्ताक्षराभियुक्त —— —– सत्यस्य महात्मनः ।
आचन्द्रतारकं कालं वलीपलितवर्जितः ॥ ४५ ॥

{{३५३}}

विश्वास-प्रस्तुतिः

मन्त्री तिष्ठति देहे स्वे स्वयमन्ते कलेवरम् ।
त्यक्त्वा तु मुनिशार्दूल यायाद्विष्णोः परं पदम् ॥ ४६ ॥

यद्गत्वा न निवर्तन्ते पुनरस्मिन्भवार्णवे ।
सत्यादिपञ्चकं विप्र पिण्डस्सप्ताक्षरस्तथा ॥ ४७ ॥

आराधितस्तदर्धेन जपहोमादिकैः शुभैः ।
न हि सामान्यसिद्धीनां योक्तव्यं मन्त्रवादिना ॥ ४८ ॥

आराधितस्तु विधिना स्वयमेव ददाति च ।
अभीप्सितं साधकानामन्ते मोक्षं च शाश्वतम् ॥ ४९ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां उपाङ्गसाधनं नाम
एकत्रिंशः पटलः ॥ ३१ ॥