३० परिकर-साधनम्

अथ परिकरसाधनं नाम त्रिंशः पटलः

श्रीभगवान् –

विश्वास-प्रस्तुतिः

समासात्कौस्तुभादीनां साधनं शृणु नारद ।
येन विज्ञातमात्रेण यथेष्टं साधयिष्यति ॥ १ ॥

मूलम्

स्वनाम्नः पूर्ववर्णं च मात्राव्यञ्जनवर्जितम् ।
आङ्गिको लाञ्छनचयः स्वस्वसञ्ज्ञादयस्तु षट् ॥ २ ॥

साधार(सामान्य ?) मेतत्सर्वेषां नवानामङ्गसिद्धये ।
विशेषः कौस्तुभादीनामधुनाऽत्रैव वक्ष्यते ॥ ३ ॥

कौस्तुभमन्त्रसाधनम्

विश्वास-प्रस्तुतिः

मण्यक्षरस्यासने तु नियोक्तव्यौ रलौ क्रमात् ।
कृत्वा न्यासं यजेद्देहे सूर्यवद्वर्तुलं बहिः ॥ ४ ॥

सपद्ममण्डलं कृत्वा इष्ट्वा तत्र महामते ।
जप्त्वा हुत्वा ततो यायाद्गिरिशृङ्गमपादपम् ॥ ५ ॥

जपेल्लक्षद्वयं पश्चान्मन्दारकुसुमायुतम् ।
जुहुयात्कुङ्कुमेनैव समध्वाज्यपरिप्लुतम् ॥ ६ ॥

ततश्चम्पकपुष्पाणां जुहुयादयुतत्रयम् ।
मन्त्रेशः सिध्यति क्षिप्रं सिद्धः सद्रत्नसञ्चयम् ॥ ७ ॥

प्रयच्छत्यचिरेणैव आयुरारोग्यवर्धनम् ।
कृत्वाऽलक्तकसूत्रेण वेष्टनाच्च यवत्रयम् ॥ ८ ॥

अङ्गुलानि चतुर्दैर्घ्यात् घृताक्तं वर्तिपञ्चकम् ।
सषडङ्गेन मन्त्रेण ज्वालयित्वा जपेन्मुने ॥ ९ ॥

शतमेकं तु वै सार्धं लोहचक्रोपरि स्थितम् ।
बिलं रसायनं वित्तं यत्राधस्तात्क्षितौ स्थितम् ॥ १० ॥

चङ्क्रमेज्जपमानस्तु चक्रात्प्लुत्य च भेकवत् ।
वर्तयो निपतन्त्याशु मन्त्रस्यास्य प्रभावतः ॥ ११ ॥

स्थानं खात्वोत्तरेद्विप्र निधीन्वै सरसायनान् ।
बिलं कृतं यद्विविक्तं तिष्ठत्याचन्द्रतारकम् ॥ १२ ॥

नरेन्द्रमखिलं तत्र ——————————— ।
रत्नानि ध्यानमात्रेण पणान्याभरणानि च ॥ १३ ॥

{{३४२}}

विश्वास-प्रस्तुतिः

ददाति मर्त्यलोकेऽस्मिन्दुर्लभानि सदैव हि ।
यश्चैवं ———- माद्यैस्तु लिखितं धारयेद्गले ॥ १४ ।

पद्म — सप्रयोगेण प्रजपन्मन्त्रनायकम् ।
तस्य सर्वार्थसिध्यर्थं सर्वस्मिन्निधिवस्तुनि ॥ १५ ॥

इत्येतत्कौस्तुभस्योक्तं मालामन्त्रस्य कथ्यते ।

मालामन्त्रसाधनम्

अथ स्वनामवर्णस्य क्रमाच्च – लय(यरल ?) त्रयम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

पूर्वोपकरणेनैव युक्तमङ्गगणं तनौ ।
न्यस्य कृत्वा तु हृद्यागं बहिरर्धेन्दुमण्डले ॥ १७ ॥

षट्पत्रे पुष्करे ध्यात्वा सम्पूज्य जुहुयात्ततः ।
वनराजिं समासाद्य लक्षमेकं जपेत्ततः ॥ १८ ॥

जातिचम्पकपुष्पाणां कदम्बानां तु होमयेत् ।
सर्वौषधिरसाक्तानामयुतञ्चायुतं क्रमात् ॥ १९ ॥

मधुना केवलेनाथ जुहुयादयुतं द्विज ।
होमान्ते मन्त्रसिद्धिस्स्याद्दैवी लोके तु मानुषे ॥ २० ॥

कृत्वाऽभिमन्त्रितां कण्ठे पुष्पमालां च साधकः ।
निधायावनिसंस्थायामर्चायामात्मनोऽथवा ॥ २१ ॥

न विप्रमानभावत्वं यात्यसौ यावदिच्छति ।
करोति चार्चनं विष्णोः स्थाने पुष्पफलोज्झिते ॥ २२ ॥

अकालकुसुमान्याशु तत्राकाशात्पतन्ति च ।
पूजां (स्रजम्) कृत्वा तु तैः पुष्पैस्तान्येव यदि धारयेत् ॥ २३ ॥

उत्तमाङ्गे तु कण्ठे वा भूयो द्विशतमन्त्रिताम् ।
यायाददर्शनं मन्त्री खगतिर्वाऽथ वायुवत् ॥ २४ ॥

दिव्यगन्धवहो नित्यं दिव्याश्चर्यप्रदर्शकः ।
कुसुमायुधसादृश्याद्वपुषा परिदृश्यते ॥ २५ ॥

मालाधरस्तु वै मन्त्री अखिले ललनाकुले ।
मालाकारस्य वै तुष्टो यदि पुष्पवनं द्विज ॥ २६ ॥

निरीक्षते जपन्मन्त्री शुष्कं तत्पुष्पितं भवेत् ।
{{३४३}}

क्रुद्धोऽपि कुसुमाकीर्णं वनं दृष्ट्वा करोति च ॥ २७ ॥

विश्वास-प्रस्तुतिः

दावाग्निनेव निर्दग्धं भूयो वा यदि चेच्छति ।
प्रावृण्माधवकालाभ्यां तुल्यत्वमुपपादयेत् ॥ २८ ॥

ये केचिद्दुर्लभा गन्धाः स्वर्गपातालसम्भवाः ।
यत्र मालाधरस्तिष्ठेन्मन्त्री तत्र वहन्ति ते ॥ २९ ॥

सुभगस्सर्वभूतानां दर्शनादेव जायते ।
जयादृते न चाप्नोति कुत्रचित्स पराजयम् ॥ ३० ॥

शान्तिकं पौष्टिकं चैव अयत्नेनाचिरात्तु वै ।
मालाधरो लभेताशु मन्त्रसन्धारणादपि ॥ ३१ ॥

कमलमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

मालासाधनमित्येतत्कमलस्याथ कथ्यते ।
नामार्णस्यासने दद्याज्जीवं वरुणसंस्थितम् ॥ ३२ ॥

प्रागुक्तसंस्कृतं कृत्वा ह्यस्य ध्यात्वा यजेद्धृदि ।
बहिः पद्मान्तरे पद्मं द्विषट्पत्रे तु षड्दलम् ॥ ३३ ॥

कर्णिकाकेसरोपेतं कृत्वा वृत्तपुरान्तरे ।
तत्रावतार्य सम्पूज्य होमं कृत्वा तिलादिकैः ॥ ३४ ॥

यायात्पद्मवनोद्देशं पद्ममन्त्रं जपेत्ततः ।
लक्षमेकं मुनिश्रेष्ठ अयुतं त्रितयान्वितम् ॥ ३५ ॥

होमयेत्कमलानां तु अयुतद्वितयं द्विज ।
अयुतं स्थलपद्मानां मधुसिक्तं ततोऽयुतम् ॥ ३६ ॥

नागकेसरगन्धानां मन्त्रसिद्धिर्भवेत्ततः ।
लभेत विपुलां लक्ष्मीं व्याधिरोगविवर्जितः ॥ ३७ ॥

सौभाग्यमतुलं चैव कान्तिं परमशोभनाम् ।
वलीपलितनिर्मुक्तो धनधान्यसमन्वितः ॥ ३८ ॥

भूर्जपत्रे तु षट्पत्रं कमलं कुङ्कुमेन तु ।
विलिख्य मन्त्रं तन्मध्ये न्यासयोगेन नारद ॥ ३९ ॥

ददाति धारणात्सर्वं साधितं कमलं पुरा ।
एतद्विधानं पद्मस्य शङ्खस्याप्यधुनोच्यते ॥ ४० ॥

{{३४४}}

[शङ्खमन्त्रसाधनप्रकारः]

विश्वास-प्रस्तुतिः

स्वाभिनद्धा (धाना ?) द्यवर्णस्य त्वधस्थौ योजयेद्बलौ ।
विग्रहं सकलीकृत्य हृद्यागे तु कृते सति ॥ ४१ ॥

बाह्ये शङ्खोदरं पद्मं षट्पत्रं मण्डलस्थितम् ।
कृत्वा तत्रार्चयेन्मन्त्रं होमं कृत्वा तु नारद ॥ ४२ ॥

निर्झराम्बुयुतं स्थानं प्रयायाद्विजनं द्विज ।
लक्षाष्टकं जपेन्मन्त्री अयुतं त्रितयोत्तरम् ॥ ४३ ॥

जुहुयात्कुमुदानां तु लक्षषट्कं समाहितः ।
होमान्ते मन्त्रराट् सम्यक् सिध्यत्यस्य महामते ॥ ४४ ॥

दूराच्छ्रवणविज्ञानं तत्प्रभावात्प्रवर्तते ।
सर्वभूतरुतं चैव ध्यानजप्यपरो लभेत् ॥ ४५ ॥

प्रभावान्मन्त्रनाथस्य शब्दांश्चाकर्णयेद्बहून् ।
देवगन्धर्वलोकोत्थान् श्रोत्रेन्द्रियमनोहरान् ॥ ४६ ॥

प्रयुक्तः पूर्वविधिना मन्त्रोऽयं यत्र कुत्रचित् ।
स साधयति तच्छीघ्रं विघ्नेशेन महामते ॥ ४७ ॥

तुषारक्षीरललितां (ते ?) सुधया चन्दनेन च ।
रक्तवस्त्रेऽथवा भूर्जे मन्त्रं यो धारयत्यपि ॥ ४८ ॥

तस्योपचयसामग्री सम्मुखत्वं प्रयाति च ।
विधानमेतच्छङ्खस्य प्रोक्तं चक्रस्य कथ्यते ॥ ४९ ॥

चक्रमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

कृत्वोर्ध्वे मरणानां च सञ्ज्ञा प्राक् क्षयं तु यत्(?) ।
कुर्यात्परिकराढ्यं च चक्राङ्गगणसिद्धये ॥ ५० ॥

न्यस्य पाणौ तथा देहे हृत्पद्मे पूजयेत्ततः ।
द्विषट्कारं लिखेच्चक्रं नाभिनेमिसमन्वितम् ॥ ५१ ॥

तदन्तरे तु षट्पत्रं कमलं रक्तपाण्डुरम् ।
चक्रं राजोपलाभेन सितधारं ज्वलत्प्रभम् ॥ ५२ ॥

तन्मध्ये चक्रमन्त्रं तु सम्पूज्य जुहुयात्ततः ।
दत्वा पूर्णाहुतिं चैव समाक्रम्य वनस्थलीम् ॥ ५३ ॥

{{३४५}}

विश्वास-प्रस्तुतिः

विलिख्य चक्रराण्मन्त्र ——— कं वाथ कुङ्कुमम् ।
चक्रमस्मीति वै बुद्ध्या स्थितमात्मनि नारद ॥ ५४ ॥

समाक्रम्य तु चक्राक्षं बद्धपद्मासनो विशेत् ।
जपेल्लक्षत्रयं मन्त्री चक्राङ्कां च महौषधिम् ॥ ५५ ॥

जुहुयाल्लक्षमानेन चक्रलक्षस्थितो व्रती ।
चक्राङ्के तु शुभे कुण्डे त्रितयं जुहुयाद्धृतम् ॥ ५६ ॥

होमान्ते मुनिशार्दूल चक्रमाक्रम्य साधकः ।
जपेद्ध्यानस्थितो लक्षं चक्रमुत्पतते ततः ॥ ५७ ॥

प्रयात्यर्कपदं वेगाद्गृहीत्वा साधकं तु वै ।
लोकान्तरेषु सर्वेषु नयत्यविरतं बलात् ॥ ५८ ॥

न याति यदि वै मोहं मन्त्रसत्वक्षयान्मुने ।
चक्रमस्मीति वै बुद्ध्या वासना यदि वर्तते ॥ ५९ ॥

मन्त्र्यस्मिन्मानुषे लोके नास्ति तद्यन्न साधयेत् ।
कर्मणा मनसा वाचा ध्यानात्संस्मरणात्तु वै ॥ ६० ॥

इत्येतच्चक्रमन्त्रस्य विधानमथ नारद ।

गदामन्त्रसाधनप्रकारः

वक्ष्ये गदाख्यमन्त्रस्य तद्वर्णस्यासने न्यसेत् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

लरौ पूर्वोदितं सर्वमूर्ध्वेऽङ्गनिचयो भवेत् ।
न्यासं कृत्वाऽर्चनं सम्यङ्मनसाऽथ बहिर्द्विज ॥ ६२ ॥

गदाष्टकावृतं कुर्यात्स्फुरन्तं मध्यतोऽम्बुजम् ।
हेमाभं षड्दलं तत्र गदामन्त्रं तु पूजयेत् ॥ ६३ ॥

होमं कृत्वा ततो यायाद्गुहां विप्र मनोरमाम् ।
तत्रायुताष्टकं मन्त्रं जपेत्तदनु होमयेत् ॥ ६४ ॥

घृताप्लुतं समिल्लक्षं रक्तचन्दनसम्भवम् ।
होमान्ते तु गदामन्त्रः सुसिद्धिं सम्प्रयच्छति ॥ ६५ ॥

यान्यभीष्टानि मनसो ह्यात्मनश्च परस्य वा ।
कृत्वादौ तु गदां मन्त्री द्विहस्तां चन्दनोत्थिताम् ॥ ६६ ॥

प्रपूज्य तां समादाय कृत्वाष्टशतमन्त्रिताम् ।
घोरान्दुष्टग्रहान्हन्यान्मन्त्री शिरसि ताडनात् ॥ ६७ ॥

{{३४६}}

विश्वास-प्रस्तुतिः

यत्रेन्द्रजालरोगादीन् (दि ?) स्तम्भा नानाविधाश्च ये ।
पाणिना भ्राम्यमाणायां गदायां यान्ति हस्तसात् ॥ ६८ ॥

नश्यन्ति करिणो मत्तास्तथान्ये कुक्कुरादयः ।
घोरा विषधरा क्षुद्रा येऽप्यन्ये दुष्टचेतसः ॥ ६९ ॥

प्रहारैर्भूतलं हन्याद्दशभिर्मन्त्रसंस्कृतैः ।
पातालवीथीः सर्वाश्च निर्भयः सञ्चरेद्व्रती ॥ ७० ॥

चक्रवल्लिखितं भूर्जे गदामन्त्रं च यो वहेत् ।
त्रिलोहवेष्टितां कृत्वा स सर्वसुखभाग्भवेत् ॥ ७१ ॥

उक्तमेतद्गदाख्यस्य कर्म मन्त्रस्य नारद ।

गरुडमन्त्रसाधनप्रकारः

गरुडस्याधुना शीघ्रमेकाग्रमवधारय ॥ ७२ ॥

विश्वास-प्रस्तुतिः

वर्णेऽभिधानपूर्वे तु वेदात्मानं नियोजयेत् ।
ऊर्ध्वाधो ह्यनलं भूयो युक्तं तत्पूर्ववत्स्वरैः ॥ ७३ ॥

कृत्वा न्यासं तु हृद्यागं चतुरस्रे तु मण्डले ।
षट्पत्रं वज्रमध्ये तु कुर्यात्पद्मं सुपीतलम् ॥ ७४ ॥

सम्पूज्य तत्र गरुडं होमं कृत्वा यथाविधि ।
यायाद्वरगिरेः शृङ्गं जपेल्लक्षचतुष्टयम् ॥ ७५ ॥

त्रिलक्षं जुहुयात्पश्चाद्घृताक्तानां महामते ।
श्यामातण्डुलयुक्तानां तिलानामेकमानसः ॥ ७६ ॥

ततोऽस्य खगराट् सम्यक् परितोषं प्रयच्छति ।
अभीष्टमापादयति साधकस्य कृतात्मनः ॥ ७७ ॥

निरीक्षमाणो दिक्चक्रं प्रदक्षिणमुपक्रमन् ।
जपेन्मन्त्रं यदा मन्त्री आस्ते रात्रौ सिताष्टमीम् ॥ ७८ ॥

तदाऽष्टौ कुलनागा ये नागवृन्दायुतान्विताः ।
प्रधानान्वै मणींश्चैव प्रधानं च रसायनम् ॥ ७९ ॥

गृहीत्वा भयभीताश्च तस्य तिष्ठन्ति चाग्रतः ।
निस्सर्पः स भवेद्देशो यत्र मन्त्र्यवतिष्ठते ॥ ८० ॥

स्थावराणि विषाणां चाभ्यन्तराणां तु का कथा ।
लूताविस्फोटकानां तु गर्दभानां महामते ॥ ८१ ॥

{{३४७}}

विश्वास-प्रस्तुतिः

नामनाशो भवेत्तत्र यावत्तत्सन्तते (त ?) स्थितिः ।
लीलया याहि याहीति दष्टमेघस्य(?)भाषते ॥ ८२ ॥

स याति च तथा नूनमरणेषूषरेषु च ।
विषभारसहस्रं च योऽत्ति वै कालिकोदये ॥ ८३ ॥

भक्त्या स्मृत्वा मन्त्रिणं तं तत्तन्नामग्रहेण वा ।
यश्च धारयते मन्त्रं ललाटे कुङ्कुमेन तु ॥ ८४ ॥

स सर्वदोषनिर्मुक्तः ख आस्ते पक्षिराजवत् ।
गरुडस्य च मन्त्रस्य उक्तमुद्देशतो मया ॥ ८५ ॥

पाशमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

माहात्म्यमथ पाशाख्यमन्त्रस्य शृणु नारद ।
विनियोगं तदाद्यर्णे विश्वरूपानलौ त्वधः ॥ ८६ ॥

तदङ्कयेच्च शिरसि षोढा कृत्वा तु पूर्ववत् ।
न्यस्य हस्ते तथा देहे हृत्पद्मे पूजयेत्ततः ॥ ८७ ॥

कृत्वा पाशोदरे पद्मं षट्पत्रं वह्निमण्डले ।
तत्र सम्पूज्य तन्मन्त्रं होमं कुर्यात्तिलाक्षतैः ॥ ८८ ॥

जप्त्वा मन्त्रायुतान्यष्टौ जुहुयाद्वाजसर्षपान् ।
सितसर्षपतैलाक्तान् जपार्धेन महामते ॥ ८९ ॥

तदन्ते तु घृतैः कुर्यात्तिलैर्होमं तु नारद ।
एकायुतप्रमाणेन ततः सिध्यति मन्त्रराट् ॥ ९० ॥

मर्त्यलोकस्थितो मन्त्री पातालस्थांश्च कर्षयेत् ।
पातालसंस्थितो मन्त्री स्वर्ग्यान्वै निखिलान्मुने ॥ ९१ ॥

वश्याकर्षणशोषांश्च प्रयुक्तश्चैव मन्त्रराट् ।
करोति नात्र सन्देहो ध्यातश्च लिखितस्तु वा ॥ ९२ ॥

वरपाशयुतं मन्त्रं नियुञ्जीयान्महामते ।
विधिनाऽराधितं प्राग्वत्तत्तदाप्नोत्ययत्नतः ॥ ९३ ॥

रोचनाकुङ्कुमेनैव लिखितं च निशाम्बुना ।
संवेष्ट्य पीतसूत्रेण यो धारयति नारद ॥ ९४ ॥

यां यां निरीक्षते सौम्य तां तां (कान्तां ?)सुस्निग्धया दृशा ।
सकृच्चामरणान्तं तु सा सा तस्यानुगा भवेत् ॥ ९५ ॥

{{३४८}}

विश्वास-प्रस्तुतिः

यया दृष्टोऽथ वा मन्त्री दूराद्विप्र श्रुतोऽपि वा ।
सा स्वस्थानं परित्यज्य धावेद्यत्र स तिष्ठति ॥ ९६ ॥

अपि चेत्किन्नरी नारी यक्षिणी देवकन्यका ।
नारी विद्याधरी चैव गन्धर्वी सिद्धसञ्ज्ञिता ॥ ९७ ॥

तां चेतसाऽनुसन्धाय रात्रौ मन्त्रवरं जपेत् ।
निशान्ते विह्वलीभूता पाशाकृष्टेव तिष्ठते ॥ ९८ ॥

एतत्पाशस्य कथितमङ्कुशस्याधुनोच्यते ।

अङ्कुशमन्त्रसाधनप्रकारः

अकरालमधश्चोर्ध्वे अनलार्णेन योजयेत् ॥ ९९ ॥

विश्वास-प्रस्तुतिः

युक्तं कुर्यात्स्वरैः प्राग्वन्न्यस्य सम्पूज्य हृद्गतम् ।
कृत्वा शशिकलाकारं पुरं तन्मध्यतोऽम्बुजम् ॥ १०० ॥

सिन्दूरपुञ्जवर्णाभं तन्मध्ये हृदयं न्यसेत् ।
पूजयित्वा विधानेन जुहुयात्तदनन्तरम् ॥ १०१ ॥

प्रियङ्गुना यथाशक्ति श्यामाकेन तिलेन च ।
ततोऽङ्कुशोऽहं भाव्यं च व्रजेत्पर्वतमस्तकम् ॥ १०२ ॥

जपेल्लक्षत्रयं तत्र ततो लक्षं तु होमयेत् ।
रक्तानामरपुष्पाणां(?)कृष्णानामपरं तु वै ॥ १०३ ॥

अयुते द्वे च समिधां खदिराणां महामते ।
कटुतैलाप्लुतानां च दद्यात्पूर्णाहुतिं ततः ॥ १०४ ॥

आज्येन च सुगन्धेन ततो मन्त्रः प्रसिध्यति ।
ततः प्रभृति कालाच्च कुर्यात्कर्माण्यशेषतः ॥ १०५ ॥

साधकोऽङ्कुशमन्त्रेण लीलया चाप्रयत्नतः ।
वश्याकर्षणविद्वेषौ मारणोच्चाटने तथा ॥ १०६ ॥

ध्यात्वाऽकृष्टश्च वित्तेशो मन्त्रेणानेन वै यदि ।
प्रयच्छत्यखिलं वित्तमभयं चान्तकस्तु वै ॥ १०७ ॥

शक्रः प्रयच्छते राज्यं मारुतः शीघ्रगामिताम् ।
निःशेषविद्याकथनमीशस्तेजो हुताशनः ॥ १०८ ॥

वरुणः शान्तिपुष्टी च समाकृष्टः करोति च ।
यक्षेशः किन्नरत्वं च पन्नगेशो रसायनम् ॥ १०९ ॥

{{३४९}}

विश्वास-प्रस्तुतिः

आकृष्टः खगतिं दद्याद्ध्रुवो ब्राह्मणविग्रहम् ।
विद्याधराश्च गुलिकां सिद्धाश्चैवाञ्जनं महत् ॥ ११० ॥

प्रयच्छन्ति सदाऽकृष्टा मन्त्रस्यास्य प्रभावतः ।
प्रागुक्ता गुलिका कार्या राज्ञां च सपरिच्छदाः (?) ॥ १११ ॥

मन्त्री चाङ्कुशमन्त्रेण ध्यानयुक्तेन साधयेत् ।
ध्यानाज्जपात्तथालेख्याद्धवनात्पूजनान्मुने ॥ ११२ ॥

करोत्यङ्कुशमन्त्रस्तु अभीष्टमपरे तथा ।
कौस्तुभाद्याश्च वै प्रोक्तास्त्वखण्डविधिसाधिताः ॥ ११३ ॥

निखिलं सम्प्रयच्छन्ति भावशुद्धिसमन्विताः ।
युगशक्त्यनुसारेण सुसहायगुणेन च ॥ ११४ ॥

कृते एतच्च मन्त्राणामुक्तं संसाधनं मया ।
त्रेतायां द्विगुणं विद्धि त्रिगुणं द्वापरे स्मृतम् ॥ ११५ ॥

कलौ चतुर्गुणं चैव भावज्ञस्य च वै पुनः ।
प्रीतिभक्तिसहायस्य श्रद्धानिष्ठस्य तत्त्वतः ॥ ११६ ॥

सदा सदा ——– ———- विद्धि जपहोमादिकं तु यत् ।
तस्माद्भावं तथा भक्तिमेकत्र कुरु नारद ॥ ११७ ॥

साधनं सर्वमेकत्र समं तत्रापि वा न वा ।

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां परिकरसाधनं नाम
त्रिंशः पतलः ॥ ३० ॥