अथ वक्त्रमन्त्रसाधनं नामैकोनत्रिंशः पटलः
श्रीभगवान्
विश्वास-प्रस्तुतिः
एतद्विधानमङ्गानां कीर्तितं तु यथेप्सितम् ।
शृणु वक्त्रत्रयस्याथ कल्पं वक्ष्यामि यादृशम् ॥ १ ॥
मूलम्

नृसिंहवक्त्रमन्त्रसाधनम्
विश्वास-प्रस्तुतिः
यत्तन्नृसिंहवदनं कल्पान्तार्कायुतप्रभम् ।
तस्याङ्गषट्कसंयुक्तं शृणु मूर्तिचतुष्टयम् ॥ २ ॥

युक्तं शक्तिचतुष्केण कल्पान्ताग्निसमद्युति ।
नृसिंहस्याङ्गमन्त्राः
आदाय शाश्वतं षोढा सामपाठकसंस्थितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
चतुर्गतिधरेशाभ्यामन्तस्स्थेनाथ योजयेत् ।
उत्तराधरतः पश्चादाङ्गिकैश्चाङ्कयेत्स्वरैः ॥ ४ ॥

कौस्तुभोत्तममध्येन व्योमेशेनाथ भूषयेत् ।
अङ्गान्येतानि विप्रेन्द्र नृसिह्मस्य महात्मनः ॥ ५ ॥

नृसिंहस्य मूर्तिमन्त्राः
विश्वास-प्रस्तुतिः
कूटान्तश्चैव धा मात्मा(?)शाश्वतावस्थितस्ततः ।
वेदात्मा परमात्मा च चतुर्णामथ योजयेत् ॥ ६ ॥

{{३२८}}
विश्वास-प्रस्तुतिः
अथ लोकेश्वरार्णं तु सूक्ष्मान्तस्थं यदक्षरम् ।
लोकेश्वरोज्झितं तं वै व्योमेशाख्याद(र्ण?)संयुतम् ॥ ७ ॥

चतुर्णामपि मूर्धस्थं चतस्रो मूर्तयो विभोः ।
सूर्यलोकप्रदश्चाद्यो द्वितीयोऽग्निप्रभाकरः ॥ ८ ॥

अत्युग्रदर्पशमनश्चतुर्थो विश्वसूकरः ।
नृसिंहानुचरमूर्तीनां ध्यानप्रकारः
नृसिह्मभूतयः(मूर्तयः?) सर्वे ध्येयास्सर्वे चतुर्भुजाः ॥ ९ ॥
विश्वास-प्रस्तुतिः
नखप्रहरणाश्चैव विश्वोपप्लवहानिदाः ।
विस्मयाख्यां स्मरेन्मुद्रां सर्वेषां च करद्वये ॥ १० ॥

करेण तु करं ध्यायेन्मर्दयन्तमतीव हि ।
अतश्चोद्रिक्तरूपाणां ध्येया मुद्रा परा मुने ॥ ११ ॥

सितरक्तसुवर्णाभं नीलपूर्वाकृतिं स्मरेत् ।
नृसिंहस्य शक्तिमन्त्राः
आदायोत्फुल्ल (य फुल्ल ?) नयनमग्निरूपमतः परम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
दीप्तिमद्विश्वरूपौ च तेषां मूर्धनि विन्यसेत् ।
अशेषभुवनाधारं मायाव्योमेशभूषितम् ॥ १३ ॥

मायाव्योमेशरहितं तत्तेषामासनं न्यसेत् ।
युगान्तहुतभुग्ज्वाला विश्वमूर्तिर्महाप्रभा ॥ १४ ॥

जगत्सम्पूरणी नाम्ना चतुर्थी सम्प्रकीर्तिता ।
नृसिंहशक्तीनां ध्यानप्रकारः
क्रमेण वर्णमासां तु यथास्वमवधारय ॥ १५ ॥
विश्वास-प्रस्तुतिः
अलिहेमारुणा ——– द्विभुजाश्चारुकुण्डलाः ।
उन्नताङ्गा महाकायाः पिङ्गभ्रूयुग्मलोचनाः ॥ १६ ॥

चतस्रश्चापि षड्घ्राणाः प्रलम्बिजठरास्तथा ।
चक्रचामरहस्ताश्च बद्धपद्मासनस्थिताः ॥ १७ ॥

सर्वासां प्रणवं सञ्ज्ञां नमस्कारपदं न्यसेत् ।
मूलशक्तिप्रणीतेन न्यायेन न्यासमाचरेत् ॥ १८ ॥

अर्चयित्वा तु हृत्पद्मे षट्कोणे मण्डले बहिः ।
अष्टपत्रोदरे न्यस्य पूजयेत्परमेश्वरम् ॥ १९ ॥

{{३२९}}
विश्वास-प्रस्तुतिः
न्यसेद्धृदादिकं प्राग्वत्पत्रप्रान्तचतुष्टये ।
प्रागाद्ये मूर्तिसङ्घं तु आग्ने याम्येऽथ शक्तयः ॥ २० ॥

इष्ट्वाऽथ मूर्तिमन्त्राणां स्वमुद्रां सम्प्रदर्शयेत् ।
चक्रं कीर्तिचतुष्कस्य गुग्गुलं च तिलं ततः ॥ २१ ॥

हृतकिंशारुकाणां तु धान्यानामरुणात्मनाम् ।
तणदोषविमुक्तानामाज्याक्तानां विशेषतः ॥ २२ ॥

गुग्गुलुक्षौद्रमिश्राणां दद्यात्पूर्णाहुतिं ततः ।
प्रमुञ्चन्वै महानादं त्रैलोक्यजडकृन्महत् ॥ २३ ॥

नृकेसरी समायाति गगनादनलान्तरात् ।
तन्मन्त्रेण महानादमुत्प्लुत्य गगनं द्रुतम् ॥ २४ ॥

कुर्यात्साधकमुख्यो वै तेजसा मुदितो भवेत् ।
तदा स भगवान्देवः परितुष्टोऽनुभाषते ॥ २५ ॥

वद साधकराजेन्द्र यत्ते चेतस्यवस्थितम् ।
इत्युक्त्वाऽदर्शनं याति मन्त्रमूर्तीनृकेसरी ॥ २६ ॥

नृसिंहमन्त्रसिद्धिजं सामर्थ्यम्
विश्वास-प्रस्तुतिः
ततोऽष्टगुणमैश्वर्यं साधको यदि चेच्छति ।
आत्मनो द्विज वाऽन्यस्य वाङ्मात्रेण तु साधयेत् ॥ २७ ॥

दृष्ट्वा सुलक्षणं पात्रं ब्राह्मणं क्षत्रियं तु वा ।
कृत्वा तु चेतसा न्यासं पुष्पैरर्घ्यैस्तथाऽम्बुना ॥ २८ ॥

सम्पूज्य रङ्गमध्यस्थमाविष्टस्स वदेत्क्षणात् ।
भूतं भव्यं भविष्यच्च यस्य यत्प्रतिभाति वै ॥ २९ ॥

न्यस्य तन्मूर्तिमन्त्रांश्च तन्मन्त्रैरथ पूजयेत् ।
दारकं सोऽपि चेत्सर्वमतीतानागतं वदेत् ॥ ३० ॥

शक्तिमन्त्रचतुष्केण समावेश्य च कन्यकाम् ।
स्वल्पाऽपि बालभावस्था सा विवक्ति यथेप्सितम् ॥ ३१ ॥

जपमानस्तु मन्त्रेशं तन्मन्त्रेणाथ सङ्क्षिपेत् ।
सिद्धार्थकान्विशेद्ग्रामान्नगरं वा पुरं महत् ॥ ३२ ॥

तत्क्षणात्क्षोभमायाति सतिर्यङ्नरदैवतम् ।
———————- कृत्वातः सिंहविग्रहम् ॥ ३३ ॥

{{३३०}}
विश्वास-प्रस्तुतिः
लेपनाभरणाद्यैस्तु संरक्षे खलु कण्टकम् (?) ।
यायाच्छैलेन्द्रमूर्धानं जपेल्लक्षाष्टकं व्रती ॥ ३४ ॥

वाऽयुतं लक्षयुग्मं तु जपान्ते जुहुयात्ततः ।
न्यासं कृत्वा विशेन्मध्यमास्ते वाऽन्यस्य सम्मुखे ॥ ३५ ॥

क्षोभमायाति तरसा सगजाश्वायुधान्वितम् ।
प्रतिष्ठितायामल्पायां यस्यां कस्यां हि नारद ॥ ३६ ॥

जपन्मन्त्रं कृतन्यासो यद्यग्रे तिष्ठति क्षणम् ।
साऽपि च क्षोभमायाति धावेद्यत्र स साधकः ॥ ३७ ॥

मकरालयकूलं तु समासाद्य महामते ।
एवमेव हि यस्तिष्ठेत् क्षोभयत्यचिरेण तम् ॥ ३८ ॥

निरीक्षमाणो गगनं यदि मन्त्रमनुस्मरेत् ।
विघनं निर्मलं चैव तत्क्षणात्क्षोभमेति च ॥ ३९ ॥

जीमूतस्तनितैर्घोरैर्विद्युन्मालाशनीयुतैः ।
वनं वनस्पतियुतं सिंहव्याघ्राकुलं महत् ॥ ४० ॥

विधिनानेन विप्रेन्द्र क्षोभमायाति चाचिरात् ।
यं यं क्षोभयते मन्त्री सिंहमन्त्रेण भास्वता ॥ ४१ ॥

स स यच्छति सर्वस्वं भयभीतश्च भक्तितः ।
यं यं कृत्वा तु मनसा यक्षविद्याधरादिकम् ॥ ४२ ॥

जपेन्मन्त्रवरं मन्त्री स स आयाति शीघ्रतः ।
आज्ञां स साधयत्याशु साधकस्य महात्मनः ॥ ४३ ॥

तदाज्ञया व्रजेद्भूयः स्वस्थानं भीतमानसः ।
विलिख्य द्वादशारं तु नाभिनेमिसमन्वितम् ॥ ४४ ॥

सषट्कोणं तु नाभौ तु सपद्मं कुङ्कुमेन तु ।
तरूत्थितेन पयसा वस्त्रे रोचनया सह ॥ ४५ ॥

कर्णिकान्तर्गतां सञ्ज्ञां मन्त्राद्यन्तं निरोधिताम् ।
अमृतार्णान्तरस्थां च व्यापी चान्द्रीयुतश्च सः ॥ ४६ ॥

स्वकोऽसौ मूर्तिमन्त्रो यः प्रत्येकस्मिन्दले दले ।
रक्षामुकपदोपेताः षट्कोणे च हृदादयः ॥ ४७ ॥

{{३३१}}
विश्वास-प्रस्तुतिः
मूर्तिद्वयं तु प्रथमं सञ्ज्ञाद्यन्तगतं द्विज ।
चक्रनाभौ द्विधा योज्यं द्वयमेव न (त्व ?)रान्तरे ॥ ४८ ॥

अरान्तरान्तयोगेन एकैकं षट्सु षट्सु च ।
याऽत्र वै प्रथमा शक्ती रक्षनामपदान्विता ॥ ४९ ॥

अरान्तराले सा योज्या एका द्वादशधा द्विज ।
नामयुक्तां त्रिधा चान्यां चक्रनेमौ नियोज्य च ॥ ५० ॥

त्रिरष्टधा तृतीया च तथा चक्रप्रथिष्वपि ।
वा(या?) चतुर्थी विभोश्शक्तिरेकधा चक्रबाह्यगा ॥ ५१ ॥

तन्मयी येन सूत्रेण चक्रं संवेष्ट्य सप्तधा ।
व्रतोपवासशुद्धात्मा पूजां कृत्वा तथाऽहुतिम् ॥ ५२ ॥

द्वादश्यां सितकृष्णायां गुरोर्वारेऽथ नारद ।
अथवा जीवनक्षत्रे मुहूर्ते शकुनान्विते ॥ ५३ ॥

विलिख्य च बहिः पक्षे सितरक्तेन वेष्टयेत् ।
त्रिलोहगर्भगं कृत्वा मन्त्रं यो धारयेद्द्विज ॥ ५४ ॥

तस्यायुः श्रीस्तथाऽरोग्यं सौभाग्यमुचितं बलम् ।
तृप्तिः कान्तिस्तथा कीर्तिर्विजयस्सर्वतोमुखः ॥ ५५ ॥

मेधाऽभिचारविध्वंसो मन्त्रो योगकृतोऽथ वा ।
स्थावरं जङ्गमं घोरं शङ्काख्यं कृत्रिमं तथा ॥ ५६ ॥

विषं विनाशमायाति गृहभूतेषु का कथा ।
कामयेद्वनितानां तु मध्ये भवति वल्लभः ॥ ५७ ॥

यं यं समीहते कामं तं तं प्राप्नोत्ययत्नतः ।
एतन्नृसिंहमन्त्रस्य वक्त्रभूतस्य नारद ॥ ५८ ॥

कपिलमन्त्रसाधनप्रकारः
विधानं कथितं सम्यक् कापिलस्याथ कथ्यते ।
कपिलस्याङ्गमन्त्रः
विलेख्यो दीप्तिमान्षोढा ऊर्ध्वाधोऽनलवेष्टितः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तन्नृसिंहाङ्गवन्मूर्ध्ना क्रमात्कुर्याच्च योजितम् ।
एतानि कपिलाङ्गानि चेटकानस्य वै शृणु ॥ ६० ॥

{{३३२}}
[कपिलस्यानुचरमन्त्राः]
विश्वास-प्रस्तुतिः
चतुष्कं वारुणान्तस्थं शाद्यं कृत्वा क्रमेण तु ।
धरेशमनलारूढं सलोकेशं चतुर्ष्वधः ॥ ६१ ॥

विश्वाप्यायकरो व्यापी न्यस्यो ह्युपरि सर्वतः ।
योगेश्वरश्च तत्त्वज्ञो ब्रह्मदत्तो महामतिः ॥ ६२ ॥

सितरक्तारुणः कृष्णश्शान्तदेहश्चतुर्भुजः ।
कपिलानुचरमूर्तिध्यानप्रकारः
ब्रह्माञ्जलिकृताः सर्वे बद्धपद्मासनस्थिताः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
विज्ञानसञ्चयाकारा ह्यक्षसूत्रकरास्तु वै ।
प्रभाकरसहस्राभा दिव्यमालाम्बरान्विताः ॥ ६४ ॥

दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः ।
कपिलस्य शक्तिमन्त्राः
आद्यवर्णचतुष्कं तु शान्तान्तं च लिखेत्क्रमात् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
अनलस्थं च सर्वेषामधः सोमं च विन्यसेत् ।
व्यापी चान्द्री ततो माया चतुर्थ्यन्तं नियोजयेत् ॥ ६६ ॥

विमला करुणा शक्तिर्ज्ञानाख्या चेति शक्तयः ।
कपिलशक्तिध्यानप्रकारः
पीतश्यामारुणाः शुक्लाः क्रमशो द्विभुजाः स्मृताः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
वरदाभयहस्ताश्च कपिलाकृतयस्तथा ।
कृत्वा न्यासं यजेत्पश्चात् वितते हृत्कुशेशये ॥ ६८ ॥

ततः पूर्णेन्दुसङ्काशमेकद्वारं तु वर्तुलम् ।
सपद्मं मण्डलं कृत्वा तन्मध्ये ह्यवतार्य च ॥ ६९ ॥

शेषमङ्गादिकं प्राग्वन्न्यस्य लीला(द्दले न्यस्य?)तदन्तरे ।
इष्ट्वा ब्रह्माञ्जलिं मुद्रां योगेशादिषु दर्शयेत् ॥ ७० ॥

वराभयौ तु शक्तीनां मुख्यस्थाङ्गेषु पूर्ववत् ।
कृत्वा होमं यथाशक्ति तिलैराज्यपरिप्लुतैः ॥ ७१ ॥

दत्वा पूर्णाहुतिं पश्चात् स्थानमासाद्य निर्जनम् ।
जपेल्लक्षचतुष्कं तु हृदादीनां तु नारद ॥ ७२ ॥

क्रमात्सहस्रमेकैकं ततो होमं समाचरेत् ।
पयसा मधुमिश्रेण जुहुयादयुतद्वयम् ॥ ७३ ॥
मूलम्
क्रमात्सहस्रमेकैकं ततो होमं समाचरेत् ।
पयसा मधुमिश्रेण जुहुयादयुतद्वयम् ॥ ७३ ॥
{{३३३}}
विश्वास-प्रस्तुतिः
निरम्बुनाऽथ वै दध्ना जुहुयादयुतं ततः ।
मालतीकुसुमानां तु ततश्चायुतपञ्चकम् ॥ ७४ ॥

एकमाज्यस्य जुहुयात्केवलस्य स्रुवेण तु ।
शतं शतं च सर्वेषां सर्वमेकीकृतं जुहेत् ॥ ७५ ॥

ततः पूर्णाहुतिं दद्याद्दधिमध्वाज्यपूरिताम् ।
एत्यादित्यपथादग्रे साक्षात्तिष्ठेदधोक्षजः ॥ ७६ ॥

गच्छ साधक सिद्धोऽसि मन्मन्त्रेणाखिलं कुरु ।
एवमुक्त्वा स भगवान्याति सूर्यपथादतः ॥ ७७ ॥

कपिलमन्त्रसिद्धिजं सामर्थ्यम्
विश्वास-प्रस्तुतिः
तन्मन्त्रेणाथ वै मन्त्री कुर्यात्कर्म यथेप्सितम् ।
जडानां योजयन्मन्त्रं मुहूर्तं हृत्कुशेशये ॥ ७८ ॥

प्राप्नुवन्ति प्रबोधं च अष्टाक्षरपदान्वितम् ।
मन्त्रेणाद्यन्तसंरुद्धं यस्य नाम तु नारद ॥ ७९ ॥

जपेच्छतद्वयं मन्त्री स सम्बाधपथं व्रजेत् ।
मन्त्रेशं जपमानस्तु यदि तिष्ठेत्तपोवने ॥ ८० ॥

लब्धविज्ञानसन्तोषाः पादयोर्निपतन्ति ते ।
तपस्विनः शान्तचित्ता मन्त्रज्ञस्य महात्मनः ॥ ८१ ॥

महानृपालयाग्रे तु ध्यायेद्वै मन्त्रनायकम् ।
क्षणमास्ते यदा मन्त्री तदा नृपवरस्तु तम् ॥ ८२ ॥

समेत्य पादमूलं तु निखिलं विनिवेदयेत् ।
यान्यांश्चेतसि कृत्वा वै जपेन्मन्त्रवरं व्रती ॥ ८३ ॥

समेत्य तेन विप्रेन्द्र मन्त्रज्ञस्य महात्मनः ।
स्वं स्वं चैव तु विज्ञानं कथयन्ति प्रयत्नतः ॥ ८४ ॥

नागा विद्याधरा यक्षा ये वै गगनगामिनः ।
विज्ञानसिद्धिं वै सर्वां विशेषेण महात्मनः ॥ ८५ ॥

दत्वा साधकमुख्यस्य यान्ति यत्रागताः पुनः ।
विज्ञानविषये सिद्धौ सन्दिग्धार्थे तु नारद ॥ ८६ ॥

मन्त्रं ध्यायेज्जपेन्मन्त्री निस्सन्देहपदं व्रजेत् ।
ध्यात्वा नाभौ तु मन्त्रेशं जपेद्यद्ययुतं प्रति ॥ ८७ ॥

भूतं भव्यं भविष्यच्च वेत्ति सर्वं न संशयः ।
{{३३४}}
साष्टं शतद्वयं जप्त्वा सर्षपान्करसम्पुटे ॥ ८८ ॥
विश्वास-प्रस्तुतिः
निक्षिपेद्भूमिमध्ये तु ते स्वयं सङ्घटन्त्यधः ।
निधिस्थाने तु विप्रेन्द्र स्थाने रासायने तु वा ॥ ८९ ॥

तत्प्राणि(प्ति?)सूचनार्थं तु तत्रावर्तं ददत्यथ ।
प्राप्तिर्न विद्यते यस्मिन्निधावथ रसायने ॥ ९० ॥

दूरतश्च तदुद्देशात्प्रयान्तीतस्ततो द्विज ।
बद्धपद्मासनो मन्त्री शून्यधारणया स्थितः ॥ ९१ ॥

जपेद्दशसहस्राणि खेचरत्वमवाप्नुयात् ।
राजोपलद्युतिमुषं ध्यात्वा मन्त्रं जपेद्यदि ॥ ९२ ॥

तुर्यांशमयुतं ———– तालुरन्ध्रपथस्थितम् ।
स्वयमन्यस्य वा विप्र पलितं नाशयेद्यतः ॥ ९३ ॥

पुरन्दरपुरान्तस्थं मन्त्रं मन्त्री जपेद्यदि ।
ज्वलनाभं तु जिह्वाग्रे रक्षावानीश्वरस्य तु ॥ ९४ ॥

सोऽपि मूकत्वमाप्नोति किं पुनर्मनुजोऽल्पधीः ।
निशाम्बुना च क्षीरेण सघनेन रसेन च ॥ ९५ ॥

विलिख्य कुङ्कुमाढ्येन भूर्जे वा सितकर्पटे ।
षट्पत्रं तु महापद्मं तद्बहिर्द्वादशच्छदम् ॥ ९६ ॥

सनाभिनेमि तद्बाह्ये षोडशारश्च हतिराट् ।
प्राग्वन्नामसमायुक्तं मन्त्रेशं कर्णिकान्तरे ॥ ९७ ॥

पत्रषट्के षडङ्गं तु नामाक्षरपदान्वितम् ।
अङ्गानि मूर्तयश्चैव शक्तयोऽथ दलत्रये ॥ ९८ ॥

तान्येवान्येषु पत्रेषु भूयो भूयो विलिख्य च ।
पद्मं समाप्यते यावन्नाभौ मूलं न्यसेत्पुनः ॥ ९९ ॥

अरान्तराल हृद्बीजमस्त्रबीजमरेषु च ।
शेषमङ्गचतुष्कं तु मूर्तयश्शक्तयस्तथा ॥ १०० ॥

चक्रनेमौ तु विन्यस्य चक्रबाह्यं तु वै ततः ।
नवधा शक्तिबीजेन वेष्टनीयं महामते ॥ १०१ ॥

आश्रमावरुणासङ्घशान्तिमन्त्रान्विनिक्षिपेत्(?) ।
अथवाऽनेन तु व्योम्नि तत्र सूत्रेण वेष्टयेत् ॥ १०२ ॥

{{३३५}}
विश्वास-प्रस्तुतिः
जाम्बूनदपुटे कृत्वा धारयेद्भक्तिमान्हि यः ।
तस्य ज्ञानं सविज्ञानमाविर्भवति नारद ॥ १०३ ॥

नदीः सन्तरतस्तस्य अथवोदधिलङ्घने ।
तोयोत्था दोषसङ्घाश्च ऊर्मयः प्रशमन्ति च ॥ १०४ ॥

यन्त्रसन्धारको यत्र निवसत्यम्बुजन्म च ।
ज्वलितं वाचकं तत्र गमयत्यचिरेण तु (?) ॥ १०५ ॥

कृत्वा स्थानं तु निर्बाधं मन्त्रस्यास्य प्रभावतः ।
प्रविशन्ति च घोराणि भौमाद्यानि सहस्रशः ॥ १०६ ॥

न तत्र दैविको बाधः कुतो राजकुलोद्यतः ।
उदेति पूर्णमतुलं धैर्यं लक्ष्मीः प्रगल्भता ॥ १०७ ॥

विपरीतमतो यद्वै तत्सर्वं नाशमेति च ।
किमस्य मन्त्रनाथस्य अप्राप्यं भुवनत्रयम् ॥ १०८ ॥

स्यात्समाराधितस्यैवं विधिदृष्टेन कर्मणा ।
यत्र यत्र च मन्त्रेशं यं यं मन्त्री नियोजयेत् ॥ १०९ ॥

तत्राङ्गशक्तिमूर्तिं चाप्यर्चयेज्जुहुयाज्जपेत् ।
इत्येतत्कापिलस्योक्तं वाराहस्याधुनोच्यते ॥ ११० ॥

वराहमन्त्रसाधनप्रकारः तत्र वराहस्याङ्गमन्त्रः
विश्वास-प्रस्तुतिः
षोढाऽनन्तेशमादाय प्रधानोपरि संस्थितम् ।
धरेशं तदधो दद्यात्संयोज्याङ्गोदितस्वरैः ॥ १११ ॥

वराहस्यानुचरमन्त्राः
विश्वास-प्रस्तुतिः
गोविन्दो विबुधाद्यश्च वराहश्च चतुर्गतिः ।
क्रमाच्चतुष्टयं दद्यात्तेषां चाधो नियोज्य च ॥ ११२ ॥

धरेशश्च गदध्वंसी सूक्ष्मं वरुणमेव च ।
तदूर्ध्वमनलं पश्चाच्चतुर्णां क्रमशो न्यसेत् ॥ ११३ ॥

वराहस्य शक्तिमन्त्राः
विश्वास-प्रस्तुतिः
अथ शक्तिचतुष्कार्थमादायार्णचतुष्टयम् ।
ध्रुवो वराहस्त्वनलः परमात्मा महामतेः ॥ ११४ ॥

{{३३६}}
विश्वास-प्रस्तुतिः
आरूढं सोमबीजं च चतुर्णामासने न्यसेत् ।
विष्णुनाऽलङ्कृतास्सर्वे ततः स्वहृदयान्मुने ॥ ११५ ॥

सर्वस्मिन्मन्त्रचक्रे तु चान्द्री व्यापी तु मूर्धनि ।
न्यासं पुरोदितं कृत्वा इष्ट्वा हृदयगोचरे ॥ ११६ ॥

अष्टास्रं तु पुरं कृत्वा द्वाराद्यवयवान्वितम् ।
तन्मध्ये कमलं शुक्लमष्टपद्मं सकर्णिकम् ॥ ११७ ॥

तत्रावतार्य मन्त्रेशं पूजयेद्भक्तिपूर्वकम् ।
पूर्ववद्धृदयादीनि ततोऽनुगचतुष्टयम् ॥ ११८ ॥

ध्यात्वा पद्मदलान्तस्थं न्यसेद्ध्यानं निबोध मे ।
वराहानुचरध्यानप्रकारः
अतसीपुष्पसङ्काशं प्रथमं धरणीधरम् ॥ ११९ ॥
विश्वास-प्रस्तुतिः
धराधरं द्वितीयं तु नवमेघसमप्रभम् ।
प्रियङ्गुमञ्चरीश्यामं तृतीयं पृथिवीधरम् ॥ १२० ॥

चतुर्थं विश्वधृङ्नाम ध्यायेदलिकुलद्युतिम् ।
वराहवदनाः सर्वे शङ्खपद्मकरोद्यताः ॥ १२१ ॥

बद्धपद्मासनासीना वरदाभयकास्तु वै ।
पुष्पाभरणदिग्धाङ्गास्तुषारनिकरान्विताः ॥ १२२ ॥

वराहशक्तिध्यानप्रकारः
विश्वास-प्रस्तुतिः
ततः शक्तिचतुष्कं तु ध्यात्वा ध्यात्वा निवेशयेत् ।
नवचम्पकवर्णाभां प्रथमां विश्वपूरकीम् ॥ १२३ ॥

राजोपलप्रभामन्यां विश्वसन्धारणीति या ।
ध्यायेद्बन्धूकपुष्पाभामोजाख्यां तु महाबलाम् ॥ १२४ ॥

चतुर्थीं स्थितिसञ्ज्ञां च तुहिनाचलसन्निभाम् ।
वराहवदनास्सर्वे द्विभुजाश्चारुकुण्डलाः ॥ १२५ ॥

गदाचक्रकराश्चैव नानापुष्पाम्बरान्विताः ।
पूजयित्वा ततो दद्यान्मुद्रां मन्त्रगणस्य च ॥ १२६ ॥

मूलस्य हृदयादीनां पूर्वलक्षणलक्षिताम् ।
वराभयाख्यां मूर्तीनां गदामुद्राङ्गनासु च ॥ १२७ ॥

ततस्तु जुहुयान्मन्त्री मध्वक्तानसितांस्तिलान् ।
दत्वा पूर्णाहुतिं कृत्वा वाराहं रूपमात्मनः ॥ १२८ ॥

{{३३७}}
विश्वास-प्रस्तुतिः
यायाज्जलाशयोद्देशमेकान्तं विजनं महत् ।
तत्र लक्षाष्टकं जप्त्वा जुहुयाद्द्वे च सप्त च ॥ १२९ ॥

तिलानां त्वयुतं चापि अयुतद्वितयं तथा ।
गव्यस्याज्यस्य जुहुयात् गुल्गुलोरयुतं पुनः ॥ १३० ॥

दद्यात्पूर्णाहुतिं मन्त्री ततो दृष्टिपथं व्रजेत् ।
स्तूयमानस्सुरैः सर्वैर्वराहो वरदः प्रभुः ॥ १३१ ॥

गच्छ तुष्टोऽस्मि ते शीघ्रमभीष्टं परिसाधय ।
ततः साधकमुख्योऽसौ साधयेत्प्रभुणोदितम् ॥ १३२ ॥

वराहमन्त्रसिद्धिजं सामर्थ्यम्
विश्वास-प्रस्तुतिः
आरुह्य शिखराग्रे तु दक्षिणाशां निरीक्षयन् ।
जपेन्मन्त्रवरं रात्रौ निशान्ते चान्तकः स्वयम् ॥ १३३ ॥

विह्वलीभूत आयाति किं मया ते प्रयोजनम् ।
ब्रूहि वैरिगणः कस्ते यस्याद्य प्रभवाम्यहम् ॥ १३४ ॥

प्रसन्नस्त्ववसन्नो वा यस्यासौ कालमृत्युना ।
न बाध्यतेऽद्यप्रभृति त्वदीयं शपथं हि मे ॥ १३५ ॥

त्वमिदानीं व्रतधरो गतमृत्युर्न संशयः ।
यास्यामि देहि चाज्ञां मे याहीत्यस्य ततो वदेत् ॥ १३६ ॥

ध्यात्वा तोयं घटान्तस्थं जप्त्वा सार्धशतं तथा ।
गर्दभाद्याश्च ये रोगाः प्रशमन्ति च तज्जलात् ॥ १३७ ॥

स्नानात्पानात्तथा सेकात् क्षणेन तु महामुने ।
निशाम्बुना चन्दनेन नाममन्त्रपुटीकृतम् ॥ १३८ ॥

परिवारयुतं पद्मे लिखित्वा शीतले जले ।
निधाय तत्क्षणाद्याति ज्वरश्चैकाह्निकादिकः ॥ १३९ ॥

प्रजप्य गुग्गुलुं धूपं सिद्धार्थकसमन्वितम् ।
ज्वरान्ते धूपितः सम्यक् सुखी भवति तत्क्षणात् ॥ १४० ॥

मृदमादाय सम्मन्त्र्य कृत्वा वामकरस्थिताम् ।
जलेनालोड्य तदनु लूताक्तं परिलेपयेत् ॥ १४१ ॥

नश्यत्याशु द्विजश्रेष्ठ मन्त्रस्यास्य प्रभावतः ।
शताभिमन्त्रितं कृत्वा तिलतैलं घृतान्वितम् ॥ १४२ ॥

{{३३८}}
विश्वास-प्रस्तुतिः
सर्वव्याधिविघातं च अभ्यङ्गात्परिजायते ।
इच्छासङ्ख्यं करे कृत्वा नीलं दर्भगणं द्विज ॥ १४३ ॥

शताभिमन्त्रितं कृत्वा निक्षिपेत्पृष्ठदेशतः ।
व्रजमानो महारण्ये चोरातङ्कभयाकुले ॥ १४४ ॥

आस्ते चानुगता तस्य पैशाची यक्षसन्ततिः ।
निपातयति दोषाणां पथि सर्वसुखप्रदा ॥ १४५ ॥

यं यं समीहते मन्त्री पथि तीर्थान्तरे स्थितः ।
तं तं यक्षादयश्शश्वत् प्रददन्ते यथेप्सितम् ॥ १४६ ॥

तृप्त्यर्थं तस्य सार्थस्य न श्रमं चाप्यसौ व्रजेत् ।
यक्षरक्षःपिशाचाश्च तिष्ठन्त्यन्येऽग्रतोऽस्य वै ॥ १४७ ॥

अनुसन्धानमात्रेण तदाज्ञासम्प्रतीक्षकाः ।
यदा गगनगामित्वमिच्छत्यद्भुतकृद्व्रती ॥ १४८ ॥

तदादाय च माक्षीकं सुभगां च महौषधीम् ।
तुषारं सूतसहितं कृत्वा ताम्रपुटे त्वमून् ॥ १४९ ॥

गूहयेन्मर्दनेनाथ भूयो हेमपुटे क्षिपेत् ।
सहस्रं परिजप्याथ कृत्वा च गुलिकां च ताम् ॥ १५० ॥

निक्षिप्य मुखमध्ये तु ततो नभसि चेत्पतेत् ।
सिद्धविद्याधराः सर्वे आयान्ति भयविह्वलाः ॥ १५१ ॥

किङ्करत्वेन वर्तन्ते मन्त्रज्ञस्य महात्मनः ।
सप्तद्वीपसमुद्रान्तां यद्यगादवनिं द्विज ॥ १५२ ॥

अन्तरिक्षेण वै मन्त्री न मोहमुपगच्छति ।
भ्रमत्यविरतं मन्त्री मेरुपृष्ठे गतो यदि ॥ १५३ ॥

दिवौकसां पुराणां तु तत्र चेद्विबुधाङ्गनाः ।
पूजयन्ति च वै तस्य विबुधाः प्रणमन्ति च ॥ १५४ ॥

आदाय गुटिकां मन्त्री कृत्वा द्वादशमन्त्रिताम् ।
सप्तलोकोद्भवाः कन्याः सप्तपातालसम्भवाः ॥ १५५ ॥

संलिख्य चेतसा कृत्वा स्वपरार्थकरो यदि ।
दृश्यन्ते च ततः क्षिप्तं मदाघूर्णितलोचनाः ॥ १५६ ॥

नागाश्च महिषा दान्ता मृगास्सिंहोरगादयः ।
नरा वा[कि]न्नराश्चान्ये तान् लिखेद्यदि साधकः ॥ १५७ ॥

क्षणेन सत्यङ्कारास्ते प्रोत्तिष्ठन्ते न संशयः ।
{{३३९}}
मधुना तिलकं कृत्वा युक्तं मृगमदेन तु ॥ १५८ ॥
विश्वास-प्रस्तुतिः
शताभिमन्त्रितं सम्यक् ललाटे मुनिसत्तम ।
सान्तःपुरयुतो राजा क्षोभमायाति तत्क्षणात् ॥ १५९ ॥

अभिमन्त्र्य गदां मन्त्री खादिरीमायसीं तु वा ।
बिलं विना तु भूभागं केवलं ताडयेद्यदि ॥ १६० ॥

सप्तानां तु तलानां वै निर्यन्त्रो(यन्त्रा ?)भूयते गतेः ।
या या चेतसि वै सिद्धिरभीष्टा साधकस्य तु ॥ १६१ ॥

सा सा मन्त्रबलात्सम्यक् सिध्यति ह्यचिरात्ततः ।
अष्टयोन्युत्थिता देवी तथा चैवाणिमादयः ॥ १६२ ॥

सामर्थ्यान्मन्त्रनाथस्य साधकानां च नारद ।
पयसा कापिलेनैव रोचनाकुङ्कुमेन च ॥ १६३ ॥

भूर्जपत्रेऽथवा वस्त्रे अष्टास्रं च लिखेत्परम् ।
तन्मध्येऽष्टदलं पद्मं षट्कोणं तद्बहिःपुरम् ॥ १६४ ॥

द्वादशारं तु तद्बाह्ये नाभिनेमिप्रथीइयुतम् ।
मध्ये मन्त्रयुतं ———- नामबीजान्तरस्थितम् ॥ १६५ ॥

पूजान्यासप्रयोगेण दलानां च हृदादयः ।
भूयोऽस्त्रबीजं विप्रेन्द्र अष्टास्रास्त्रिषु चाष्टधा ॥ १६६ ॥

तदाशास्वष्टधा भूयो हृन्मन्त्रं योजयेत्ततः ।
षोढा वै षट्सु कोणेषु बहिरष्टास्रकस्य तु ॥ १६७ ॥

शिखाबीजं तु विन्यस्य तनुत्रं लोचनान्वितम् ।
प्रपूरणार्थं नाभौ तु असङ्ख्यं बहुशो लिखेत् ॥ १६८ ॥

षट्परावर्तयोगेन चतस्रोऽरेषु मूर्तयः ।
याऽत्र वै प्रथमा शक्तिश्चतुर्विंशतिधा च ताम् ॥ १६९ ॥

दद्यादरान्तरालेषु द्वितीया नेमिमण्डले ।
नाभिस्थबीजयुक्ता तु योजनीया निरन्तरम् ॥ १७० ॥

अन्तरान्तरयोगेन शेषं शक्तिद्वयं तु तत् ।
प्रथिषु न्यसनीयं च बाह्यचक्रे ततो द्विज ॥ १७१ ॥

द्विषट्कधा च शिरसा वेष्टयित्वा त्रयं नयेत् ।
विष्णुं व्योमेशवर्णेन तद्यन्त्रं परिवेष्टयेत् ॥ १७२ ॥

पञ्चरङ्गेण सूत्रेण क्षिपेत्कनकसम्पुटे ।
{{३४०}}
दोर्दण्डे दक्षिणे कुर्यात् स्त्री वा स्तनयुगान्तरे ॥ १७३ ॥
विश्वास-प्रस्तुतिः
प्रियत्वं सततं याति वैरिष्वपि च साधकः ।
नदीनदान्समुद्रान्वा लीलया परिलङ्घयेत् ॥ १७४ ॥

बह्वर्थं तत्प्रभावाच्च नो मज्जति जलान्तरे ।
नारण्यवनजानां तु सकाशाद्विद्यते भयम् ॥ १७५ ॥

भजन्ति सानुकूलं च विपरीतस्थिता ग्रहाः ।
न बाधते विषं घोरमनेकं चातिभीषणम् ॥ १७६ ॥

चोरादिशस्त्रसङ्घातो गात्रसन्धिषु नो विशेत् ।
यत्रोपलानि गगनात्पतन्ति यदि वै ततः ॥ १७७ ॥

तुल्यानि पुष्पवृष्टीनां वैध(स्युः ?)न्यूनान्यथ द्विज ।
बालग्रहादयो दूरं त्यक्त्वा बालं प्रयान्ति च ॥ १७८ ॥

यत्रेदं तिष्ठते यन्त्रं किं तु तद्देहगं तु वै ।
लग्नगर्भा च या नारी सुखं सूते च धारणात् ॥ १७९ ॥

भवेत्पुत्रवती वन्ध्या मृतवत्साऽथ पुत्रिणी ।
सपत्नी गणमध्ये तु पूजामाप्नोति शाश्वतीम् ॥ १८० ॥

रणे राजकुले द्यूते विवादे चातिसङ्कटे ।
धारको जयमाप्नोति मन्त्रस्यास्य प्रभावतः ॥ १८१ ॥

तस्मात्संसाधिते मन्त्रे यन्त्रं वै मुनिसत्तम ।
इह तन्त्रोत्थितं वान्यत्सर्वकर्मकरं भवेत् ॥ १८२ ॥

सर्वसिद्धिप्रदं चैव सर्वसम्पत्समृद्धिकृत् ।
इदं ते विप्र मन्त्राणां सरहस्यं च कीर्तितम् ॥ १८३ ॥

साधनं भोगकामानां साधकानां महात्मनाम् ।
नेदं शठानां पापानामभक्तानां प्रकाशयेत् ॥ १८४ ॥

नान्यदर्शनभक्तानां नाशिष्याणां कदाचन ।
नान्यायमार्गसंस्थानामधर्मनिरतात्मनाम् ॥ १८५ ॥

लीलया चोदकानां च मार्गे वा यत्र कुत्रचित् ।
यो धर्मं चार्थलाभेन प्रब्रूते ह्युन्नतिं विना ॥ १८६ ॥

धनाभिमानसक्तानां स सिद्धोऽपि व्रजत्यधः ।
तस्मादिदं रहस्यं च दृष्टादृष्टद्वयार्थिषु ॥ १८७ ॥

न्यायतः प्रतिपन्नेषु वक्तव्यं श्रेय इच्छता ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरान्त्रे जयाख्यसंहितायां वक्त्रमन्त्रसाधनं नाम
एकोनत्रिंशः पटलः ॥ २९ ॥