२८ अङ्ग-मन्त्र-साधनं

अथाङ्गमन्त्रसाधनं नामाष्टाविंशः पटलः

श्रीभगवान् –

विश्वास-प्रस्तुतिः

अङ्गानां शृणु विप्रेन्द्र साधनं सिद्धिदं महत् ।
येन विज्ञातमात्रेण साधकः सुखमृच्छति ॥ १ ॥

मूलम्

हृन्मन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

व्यापकत्वेन हृन्मन्त्रं विन्यसेत्तु करद्वये ।
न्यस्य देहे च तदनु इष्ट्वा हृत्पद्ममध्यगम् ॥ २ ॥

विलिख्य च ततो बाह्ये चतुरस्रस्य मध्यतः ।
चतुर्द्वारस्य सुसितमष्टपत्रं कुशेशयम् ॥ ३ ॥

न्यस्य तत्कर्णिकायां तु ध्यात्वा मन्त्रेण पूर्ववत् ।
पूजयित्वा विधानेन जुहुयात्सुसितैस्तिलैः ॥ ४ ॥

तदन्ते हार्दकं रूपं कृत्वा तु विजनं व्रजेत् ।
जपेल्लक्षत्रयं तत्र लक्षषट्कं तु होमयेत् ॥ ५ ॥

सितचन्दनलिप्तानामाज्याक्तानां तथैव च ।
सुगन्धिजातिपुष्पाणां दद्यात्पूर्णाहुतिं ततः ॥ ६ ॥

पश्येत् स्वहृद्गतं मन्त्रं प्रबुद्धोत्फुल्ललोचनम् ।
इति मत्वा ममेदं वै सिद्धं तु हृदयेश्वरम् ॥ ७ ॥

ततः कर्माणि वै कुर्यात्तेन मन्त्रेण नारद ।

हृदयमन्त्रसिद्धिजं सामर्थ्यम्

शान्तिकं पौष्टिकं चैव स्वप्नस्थोऽथ शुभाशुभम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

आदिशत्यभियुक्तस्य तत्स्वार्थघटनोद्यतः ।
स्वप्नस्थानां नृपादीनां वनितानां विशेषतः ॥ ९ ॥

कृत्वा तु हृदये पादं राका (ब्रूया ?)च्चोत्तिष्ठ दुर्मते ।
प्रसादयामुकं गत्वा साधकं च धनादिकैः ॥ १० ॥

स तथेति च वै मत्वा प्रबुद्धो निश्चितेन तु ।
यायादभ्यर्थयेत्तस्य साधकस्यामलात्मनः ॥ ११ ॥

स्नात्वा घनरसाभ्यां तु नाम हृत्सम्पुटीकृतम् ।
अम्भोजकर्णिकामध्ये सप्तम्यां सितपक्षतः ॥ १२ ॥

अर्धरात्रे समुत्थाय नैशेन सलिलेन तु ।
{{३१७}}

हार्दकं मूर्तिमन्त्रं तु सह नाम्ना दले दले ॥ १३ ॥

विश्वास-प्रस्तुतिः

लिखेद्दूर्वाङ्कुरेणैव पुष्येणानशनो व्रती ।
समस्तदोषशान्त्यर्थं समस्तसुखवृद्धये ॥ १४ ॥

समस्तापद्विमोक्षाय समस्तवनिताप्तये ।
एतद्धृदयमन्त्रस्य साधनं कथितं मया ॥ १५ ॥

शिरोमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

अधुना साधनं वक्ष्ये शिरोमन्त्रस्य नारद ।
न्यस्य हस्ते तथा देहे पूजयित्वा हृदन्तरे ॥ १६ ॥

लाक्षारसाक्तवर्णेन साब्जमालिख्य मण्डलम् ।
तन्मध्ये तु शिरोमन्त्रं प्राग्वद्ध्यात्वा यजेत्ततः ॥ १७ ॥

ताम्रं स्वर्णं तु जुहुयात् सघृतान्वै तिलानथ ।
भूत्वा रक्ताम्बरधरस्तन्मन्त्राकृतिविग्रहः ॥ १८ ॥

आक्रम्य गिरिमध्यं तु जपेल्लक्षाणि पञ्च वै ।
तदन्ते जुहुयान्मन्त्री लक्षत्रयमनन्यधीः ॥ १९ ॥

रक्तपाटलपुष्पाणां सुगन्धानां तु नारद ।
कुङ्कुमागरुलिप्तानां घृताक्तानां विशेषतः ॥ २० ॥

दद्यात्पूर्णाहुतिं पश्चात्कुङ्कुमेन घृतेन च ।
साकारं तु भ्रुवोर्मध्ये पश्येन्मन्त्रं जगत्प्रभुम् ॥ २१ ॥

ततः कर्माणि वै कुर्याल्लब्धसंवित् सुसाधकः ।
वशीकुर्याज्जगत्सर्वमात्मना च धनेन च ॥ २२ ॥

सिद्धिजं सामर्थ्यम्

विश्वास-प्रस्तुतिः

प्रजप्य शतवारं तु बाह्लीकं हेमभूषितम् ।
अङ्गुष्ठानामिकाग्रेण मर्दयित्वा निशाम्बुना ॥ २३ ॥

ललाटे तिलकं कुर्याद्द्विजानामिकया परम् ।
तदधोऽङ्गुष्ठसंस्थेन रजसा बन्धयेद्धृदि ॥ २४ ॥

दिनत्रयं यथासङ्ख्यं जपन्सन्ध्यात्रयं चरेत् ।
चतुर्थेऽहनि सम्प्राप्ते मण्डलीको नराधिपः ॥ २५ ॥

३१८) समेत्य प्रार्थयेत्तस्य प्रसादं कुरु मे प्रभो ।
गृहाण मे धनं राष्ट्रं दासीदासगजादिकम् ॥ २६ ॥

तस्मिन्नेव क्षणस्यान्ते समायाति रसातलात् ।
शतशो नागकन्याश्च रसायनकरोद्यताः ॥ २७ ॥

पिबेदं सुशुभं पानमस्माकं रमयस्व च ।
याताच्चतुर्थदिवसादारभ्येदं क्षणं प्रभो ॥ २८ ॥

न प्राप्नुमो धृतिं तत्र पाताले भवतो विना ।
किन्नर्यश्चाथ यक्षिण्यस्तथा विद्याधरस्त्रियः ॥ २९ ॥

साभिलाषाः समायान्ति साधकं प्रार्थयन्ति च ।
क्रीडते चेच्छया तासां स्ववशः स च नारद ॥ ३० ॥

यावदात्मसमीहा च पीत्वा पानवरं च तत् ।
शताभिमन्त्रितं कृत्वा निर्मलं भाजने जलम् ॥ ३१ ॥

अत्रानुसन्धयेन्मन्त्रमिमं सम्पूज्य यत्नतः ।
भविष्यद्भूतभव्येषु संशयो यस्य कस्यचित् ॥ ३२ ॥

तत्तद्दर्शयते मन्त्रः स्वदेशोत्थैः स्फुटाक्षरैः ।
माम्न अन्तर्गतं मन्त्रं वशीकारे तु नारद ॥ ३३ ॥

जपेदाकर्षसिद्धौ वा साष्टं सूर्योदये शतम् ।
यःकश्चित्पुरुषो विप्र नारी वा मनसेप्सिता ॥ ३४ ॥

जपान्ते द्रुतमायाति मन्त्रस्यास्य प्रभावतः ।
लिखेन्मृगमदेनैव पयसा कुङ्कुमेन तु ॥ ३५ ॥

सितकर्पटखण्डे वै दूर्वाकाण्डैर्दिनोदये ।
त्रिकोणपुरमध्यस्थं त्रिपत्रकमलं मुने ॥ ३६ ॥

हृदयाद्यं तु संयुक्तमभिधानं तदन्तिके ।
तन्मूर्तिमन्त्रसंयुक्तं दद्यात्पत्रत्रये तथा ॥ ३७ ॥

यो धारयति विप्रेन्द्र रक्तसूत्रेण वेष्टितम् ।
वस्त्रैर्वा वा(र्बाहौ?) गले वाऽथ लम्बमानं तु वा हृदि ॥ ३८ ॥

यत्र तत्र जयस्तस्य पूजा भवति पुष्कला ।
व्यालैर्व्याधैर्गजैश्चैव तस्करैर्घोरविक्रमैः ॥ ३९ ॥

{{३१९}}

विश्वास-प्रस्तुतिः

न शक्यतेऽभिभवितुं मन्त्रस्यास्य प्रभावतः ।
एतन्मूर्द्धाख्यमन्त्रस्य विधानं कथितं मया ॥ ४० ॥

शिखामन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

वक्ष्येऽधुना शिखाकल्पं सङ्क्षेपाच्छृणु नारद ।
कृत्वा न्यासं तु हृद्यागं बहिरालिख्य मण्डलम् ॥ ४१ ॥

चतुरस्रं चतुर्द्वारं रेखापञ्चकभूषितम् ।
द्वाराणि सितवर्णानि रक्तवर्णानि चाश्रयः ॥ ४२ ॥

तन्मध्ये पङ्कजं कुर्याद्भिन्नाञ्जनसमप्रभम् ।
तत्रावतार्य हृदयाद्विन्यस्य च यजेत्ततः ॥ ४३ ॥

होमावसानं कृत्वा तु कृष्णाम्बरधरो व्रजेत् ।
शिखरप्रान्तभूभागं जपेल्लक्षत्रयं ततः ॥ ४४ ॥

जपान्ते जुहुयात्तत्र रक्तपुष्पायुतत्रयम् ।
रक्तचन्दनसंयुक्तं तदन्ते चायुतत्रयम् ॥ ४५ ॥

जुहुयाच्चन्दनेद्धानां मध्वाक्तानां तु नारद ।
दद्यात्पूर्णाहुतिं चान्ते चन्दनेन घृतेन च ॥ ४६ ॥

तदन्ते मन्त्रराट् सम्यक् ब्रह्मरन्ध्रोर्ध्वगो वदेत् ।
गच्छ त्वं कुरु कर्माणि विविधानि महामते ॥ ४७ ॥

परितुष्टाऽस्मि ते सम्यक् होमेन च जपेन् च ।

मन्त्रसिद्धिजं सामर्थ्यम्

ततस्साधकमुख्योऽसौ कुर्यात्कर्म यदीप्सितम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मन्त्रेणाद्यन्तरुद्धेन जपेन्नागवराभिधाम् ।
समायाति फणीन्द्रोऽपि हस्ते कृत्वा रसायनम् ॥ ४९ ॥

दर्शयेत्स्थाननिचयं निधीनां क्ष्मातले स्थितम् ।
तदाज्ञया वसेच्चैव दुर्गे तु गिरिमस्तके ॥ ५० ॥

प्रददज्जलमक्षय्यं स्वादुयुक्तं सुशीतलम् ।
क्षीरवृक्षलतायुग्मं स्फुटमादाय चोन्नतम् ॥ ५१ ॥

मन्त्रोदकेन संस्नाप्य बध्नीयात्तद्घटद्वये ।
स्तम्भद्वयेऽथवा विप्र मुञ्जाद्यैर्मन्त्रितैस्तृणैः ॥ ५२ ॥

प्रजप्य गुग्गुलं धूपं शिखामन्त्रेण सप्तधा ।
{{३२०}}

लताभ्यां मध्यतो दद्यात्प्रकम्पेत शनैः शनैः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तन्मध्ये जपमानं तु (नस्तु ?) पुष्पं सन्धार्य पाणिना ।
गृहीत्वा मनसा चिन्तां या यस्य परिरोचते ॥ ५४ ॥

ऋतं तद्यदि विप्रेन्द्र कुसुमं करमध्यगम् ।
समाहरेत्तत्तु बलादनृतं यदि तद्भवेत् ॥ ५५ ॥

प्रयाते (ति ?) दूरतो वेगाच्चालयित्वा घटद्वयम् ।
प्रणष्टद्रव्यसन्देहे चारेणापहृते तु वै ॥ ५६ ॥

कुर्यादेतल्लताकर्म परमर्मावघट्टने ।
अथवा मुनिशार्दूल दृष्ट्वा निकटवर्तिनम् ॥ ५७ ॥

समं घटद्वयं भूमावेकजातिं सुलक्षणम् ।
स्थितं लताद्वयं ताभ्यां मनसा परिकल्प्य च ॥ ५८ ॥

चिन्तां कृत्वा जपेन्मन्त्री वीक्षमाणो लताद्वयम् ।
प्रणष्टद्रव्यसञ्ज्ञेन ——————— तत्र वै ॥ ५९ ॥

सत्यविज्ञापनार्थं तु समागम्य परस्परम् ।
वेष्टयित्वात्मनात्मानमनृतज्ञापनाय च ॥ ६० ॥

नत्वाऽवनिं शनैर्विप्र संस्पृशेत्तां पुनः पुनः ।
मुसलद्वितयं वाऽथ भूमौ संरोप्य नारद ॥ ६१ ॥

हस्तद्वयान्तरेणैव साध्यं सम्पूज्य धूपयेत् ।
पुरोदितं परिज्ञेयमथ विप्र शरद्वयम् ॥ ६२ ॥

निधाय भूमौ तन्मध्ये करमात्रं परित्यजेत् ।
ताभ्यां कृत्वा तु संस्कारं प्रागुक्तपरिशुद्धये ॥ ६३ ॥

विलिख्य लोहकीलेन पूरयेच्च महामते ।
सुस्पष्टं कुङ्कुमेनैव नाममन्त्रपुटीकृतम् ॥ ६४ ॥

पक्वमृत्कर्पराणां तु शङ्कार्थं यत्रकुत्रचित् ।
जलमध्ये तु निक्षिप्य ——- सञ्ज्ञाप्य कर्परम् ॥ ६५ ॥

प्लुतमास्ते जलोर्ध्वे तु निश्शङ्कं तदधो वसेत् ।
यत्स्व(द्वा ?)व्रीह्यादयश्चैव कार्यास्सप्ताभिमन्त्रिताः ॥ ६६ ॥

तस्कराणां तु शङ्कार्थं प्रदेया वामपाणिना ।
दक्षिणे तु करे तेषां मुष्टिं संवेशयेत्ततः ॥ ६७ ॥

{{३२१}}

विश्वास-प्रस्तुतिः

शतैकसङ्ख्यया तिष्ठेज्जपन्मन्त्रं तु नारद ।
प्रदह्यन्ते च चोराणां बीजानि करकानि च ॥ ६८ ॥

धारयेत्पूर्वविधिना भूर्जे वा सितकर्पटे ।
ददात्यभीष्टं भक्तानां निर्विघ्नेन तु नारद ॥ ६९ ॥

एतच्छिखाख्यमन्त्रस्य संविधानं मयोदितम् ।

कवचमन्त्रसाधनप्रकारः

कवचस्याधुना विप्र किञ्चिदुद्देशतः शृणु ॥ ७० ॥

विश्वास-प्रस्तुतिः

न्यस्य चेष्ट्वा च हृदये मण्डलं च ततो लिखेत् ।
तन्मध्ये पङ्कजं कुर्यात्पीतकृष्णोज्ज्वलेन तु ॥ ७१ ॥

तन्मिश्रितेन रजसा तन्मध्ये चावतार्य वै ।
प्रपूज्य पूर्वविधिना कुण्डस्थमथ तर्पयेत् ॥ ७२ ॥

सितकृष्णैस्तथा ताम्रैस्तिलैर्मध्वाज्यभावितैः ।
दत्वा पूर्णाहुतिं कृत्वा रूपं कवचसञ्ज्ञितम् ॥ ७३ ॥

प्रयायाद्भूगृहं विप्र गुहां वाऽप्यथ पार्वतीम् ।
तत्र लक्षद्वयं जप्त्वा होमं तदनु चाचरेत् ॥ ७४ ॥

द्रव्यैः पूर्वोदितैः सर्वैः कृष्णागरुविभावितैः ।
जपार्धसङ्ख्यामानेन ततः पूर्णाहुतिं चरेत् ॥ ७५ ॥

आज्येन मधुमिश्रेण तदन्ते मन्त्रनायकम् ।
दशदिक्षु स्थितं पश्येत्साधकस्येदमाह च ॥ ७६ ॥

गच्छ सिद्धोऽसि ते कर्माण्यभीष्टानि प्रसादय ।
तदाज्ञां शिरसा कृत्वा साधयेन्मनसेप्सितान् ॥ ७७ ॥

मूलम्

गच्छ सिद्धोऽसि ते कर्माण्यभीष्टानि प्रसादय ।
तदाज्ञां शिरसा कृत्वा साधयेन्मनसेप्सितान् ॥ ७७ ॥

मन्त्रसिद्धिजं सामर्थ्यम्

विश्वास-प्रस्तुतिः

गत्वा वन(नं?) पुरान्तं तु वामपाणिस्थितं जपेत् ।
सितं सिद्धार्थकं चैव प्रहरार्धमुदङ्मुखः ॥ ७८ ॥

निक्षिपेद्वनभूमौ तु तदधोर्ध्वं विदिक्ष्वपि ।
ततो हि ताः (ऽभितः ?) समायान्ति तदग्रे वनदेवताः ॥ ७९ ॥

ममाज्ञां देहि मन्त्रज्ञ किमर्थं तापिताऽस्मि वै ।
अभीष्टान्याहरस्वेमान्यौषधानि सहस्रशः ॥ ८० ॥

समस्तकर्मसिद्ध्यर्थं क्षुज्जराविनिवृत्तये ।
{{३२२}}

अथौषधानि दिव्यानि सर्वकर्मकराणि च ॥ ८१ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा च वनोद्देशात्प्रयायात्साधकेश्वरः ।
आदाय कदलीपत्रं तमालच्छदमेव वा ॥ ८२ ॥

विततं भूर्जपत्रं वा मन्त्रेशं तत्र संलिखेत् ।
तत्तनुत्रत्वमायाति वेष्टितं च यदा यदा ॥ ८३ ॥

शत्रुशस्त्रविनाशार्थमग्निज्वालापनुत्तये ।
घर्मांशुतापशान्त्यर्थं शीतानां नाशनाय च ॥ ८४ ॥

लोष्ठकण्टकशीकर्यः स्थूलत्वमुपयान्ति च ।
यदि दत्वा च तं भूमौ स्वपेदुपविशेच्च वा ॥ ८५ ॥

दृष्ट्वाऽग्रस्थं चोरसैन्यं समुद्यतवरायुधम् ।
भीमं मृगारिं सिंहं वा हालाहलगणं महत् ॥ ८६ ॥

मदोद्धतं करीन्द्रं वा आरण्यमहिषादिकम् ।
नदीनदान्तरस्थं वा प्राणिग्राहादिकं महत् ॥ ८७ ॥

हन्तुकामं च साधूनां सदामिवजिघृक्षया ।
दण्डाग्रस्थं तु तत्पत्रं कृत्वा दक्षिणपाणिना ॥ ८८ ॥

सार्धाग्रस्थं (स्थो ?) भ्रामयेत्तु तत्समुत्थेन वायुना ।
कल्पान्तसदृशेनाशु यान्ति सर्वे इतस्ततः ॥ ८९ ॥

अथवा साधकेन्द्रेऽसौ चेतसा चानु सन्धयेत् ।
गुप्तिं प्राकारतुल्येन कवचेनानलात्मना ॥ ९० ॥

चक्षुर्बन्धश्च दुष्टानां तत्क्षणा [दुपजायते] ।
तन्मन्त्रेण तु नग्नस्य जप्त्वा दद्याद्वटच्छदम् ॥ ९१ ॥

शीतकाले निदाघे वा अम्बरत्वं प्रयाति सः ।
समुत्थिते महामेघे ग्रामे वा विषयेऽखिले ॥ ९२ ॥

स्मरेत् शस्त्र ———— तत्पत्रं दण्डपृष्ठगम् ।
शतधा साशनिर्याति तानुत्रेण तु तेजसा ॥ ९३ ॥

बध्वा तनुत्रमन्त्रं च लिखितं पीतकर्पटे ।
क्षीरेण कुङ्कुमेनैव ———- मिश्रितेन तु ॥ ९४ ॥

कर्णिकामध्यगं मन्त्रं द्विधा सञ्ज्ञा तदन्तगा(?) ।
युक्तं कर्मपदेनैव पत्रे पत्रे तु मन्त्रपम् ॥ ९५ ॥

{{३२३}}

विश्वास-प्रस्तुतिः

लिखित्वा [तच्च] सूत्रेणावेष्ट्य ताम्रपुटान्तरे ।
कृत्वा बध्वा भुजे वामे मन्त्री यद्यत्समीहते ॥ ९६ ॥

तत्तदेव परा(समा?)प्नोति दत्वा वाऽन्यस्य कस्यचित् ।
ग्रहभूतादयः सर्वे न बाधन्ते च तं नरम् ॥ ९७ ॥

प्रयच्छति सदाऽरोग्यं मन्त्रस्यास्य प्रभावतः ।

नेत्रमन्त्रसाधनप्रकारः

अधुना नेत्रमन्त्रस्य विधानं वच्मि सिद्धिदम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

पूर्वोक्तेन विधानेन हृद्यागे तु कृते सति ।
मण्डलान्तर्गतं कृत्वा पीतरक्तं तु पङ्कजम् ॥ ९९ ॥

आहूय तत्र मध्ये तु नेत्रं हार्दाम्बुजस्थितम् ।
होमावसानं सम्पूज्य होममाज्येन शस्यते ॥ १०० ॥

पीतैसिर्द्धाथकैश्चैव ताम्रवर्णं तिलान्वितैः ।
पूर्णां हुत्वा ततः कृत्वा तद्रूपं विजनं व्रजेत् ॥ १०१ ॥

दिक्चक्रं भ्रममाणस्य वीक्षमाणो दिवाऽनिशम् ।
सूर्यस्य मुनिशार्दूल जपेल्लक्षत्रयं व्रती ॥ १०२ ॥

होमं कुर्याज्जपान्ते तु केवलेन घृतेन तु ।
अयुतद्वितयं मन्त्री सुरदारुरसेन च ॥ १०३ ॥

मधुमिश्रेण चान्ये द्वे एकं सिद्धार्थकैस्तिलैः ।
ततः पूर्णां समापाद्य समांशोत्थैर्घृतादिकैः ॥ १०४ ॥

अवसाने तु पूर्णायाः पश्येन्मन्त्रेश्वरं तु तम् ।
दीप्तलोचनमार्गस्था(मग्रस्थ?)माज्ञां दत्वाऽथ स व्रजेत् ॥ १०५ ॥

ततोऽखिलानि वै कुर्यान्मन्त्री कर्माणि भूतले ।

नेत्रमन्त्रसिद्धिजं सामर्थ्यम्

स्रोतोऽञ्जनं समादाय कृत्वा द्विशतमन्त्रितम् ॥ १०६ ॥

विश्वास-प्रस्तुतिः

सप्तवारं च सौवर्णीं शलाकामभिमन्त्र्य च ।
स्वनेत्रयुगलं तेन रञ्जयेदञ्जनेन तु ॥ १०७ ॥

पश्येद्भूमिगतं सर्वं यत्किञ्चिन्निघिपूर्वकम् ।
समुद्रतोयमध्यस्थं नागलोकं च पश्यति ॥ १०८ ॥

निश्शेषं रत्ननिचयं समादातुं च तं यदि ।
व्रजेद्वा नागलोकं च ददाति विवरं जलम् ॥ १०९ ॥

{{३२४}}

विश्वास-प्रस्तुतिः

पाषाणपादपानां तु मध्यस्थं यक्षिणीगणम् ।
सम्पश्यत्यचिरेणैतत्तदीयेन यथा मुने ॥ ११० ॥

प्रविश्य क्रीडते सम्यक् तासां द्विज यथेच्छया ।
अदृश्यभूतो यक्षाणां स तेषामवलोकयेत् ॥ १११ ॥

सर्वदा चेष्टमानानां यक्षयोगानशेषतः ।
औषधो(ध्यो?)र्थास्तु विप्रेन्द्र तत्तन्मन्त्राश्च सर्वशः ॥ ११२ ॥

स्वयं वा यक्षकान्तानां सकाशादाहृतानि च ।
निर्याति(?) च प्रपन्नानां भक्तानां भावितात्मनाम् ॥ ११३ ॥

साधने ह्यसमर्थानां सम्प्रयच्छति साधकः ।
ते यक्षयन्त्रयोगानां सामर्थ्यान्मनसीप्सितम् ॥ ११४ ॥

सम्प्राप्नुवन्ति चाकृष्टाः प्रभावात्साधकस्य च ।
पुनरभ्यञ्जयन्नेत्रे पूर्वोक्तविधिना यदि ॥ ११५ ॥

ईक्षते गगनान्तस्थान् सिद्धसङ्घाननेकशः ।
पूजयन्ति च ते तस्य साधकस्य महात्मनः ॥ ११६ ॥

अभीप्सितं प्रयच्छन्ति स्वपथं वा नयन्ति च ।
उपसन्नस्य भक्तस्य वैष्णवस्य विशेषतः ॥ ११७ ॥

शताभिमन्त्रितं कृत्वा ह्यञ्जनं तु शलाकया ।
दद्यान्नेत्रद्वये यस्य स पश्यत्यखिलं मुने ॥ ११८ ॥

एकदेशस्थितश्चैव निखिलं विषयं तु तत् ।
नगाद्यैरपि विच्छिन्नं योगयोगेश्वरान्वितम् ॥ ११९ ॥

डाकिनीभूतवेतालगणं चादर्शनस्थितम् ।
प्रहृष्टा दृष्टमात्रास्ते प्रभावात्साधकस्य च ॥ १२० ॥

धनाधिकं प्रयच्छन्ति उदासीनस्थितस्य च ।
सप्ताभिमन्त्रितं कृत्वा नेत्रमन्त्रेण चाञ्जनम् ॥ १२१ ॥

प्रदद्यान्नेत्रयुग्मे स्वे अरिमध्यगतो नरः ।
स यायाद्दर्शनं शश्वद्यत्र यत्र विशेच्च वा ॥ १२२ ॥

शताभिमन्त्रितं कृत्वा अदृष्टेच्छापथस्थितः ।
अन्यस्य यदि युञ्जीयात्सोऽपि यायाददर्शनम् ॥ १२३ ॥

अदर्शनगतो मन्त्री किं न कुर्याच्च भूतले ।
घृष्ट्वा निशाम्बुतोयेन अञ्जनं रोचनान्वितम् ॥ १२४ ॥

{{३२५}}

विश्वास-प्रस्तुतिः

विलिख्य बर्हिपत्रेण नामयुक्तं च पूर्ववत् ।
कर्णिकामध्यगं मन्त्रं दलस्थं विधिपूर्वकम् ॥ १२५ ॥

दशाङ्गुले नेत्रखण्डे चतुरश्रेऽथ वर्तुले ।
बध्वा सन्धारयेन्मन्त्री सर्वस्मिन्जायते प्रियः ॥ १२६ ॥

सर्वसम्पत्करो मन्त्रो ध्याय्यन्यस्य वारणात्(?) ।
नेत्रस्यैतत्समाख्यातं विधानमतिशोभनम् ॥ १२७ ॥

अस्त्रमन्त्रसाधनप्रकारः

विश्वास-प्रस्तुतिः

अथेदानीं समासेन अस्त्रराजस्य मे शृणु ।
कृत्वा न्यासं पुरा सम्यक् हृद्यागं तदनन्तरम् ॥ १२८ ॥

चतुरश्रं चतुर्द्वारं कृत्वा यागं महामुने ।
तन्मध्ये राजपाषाणतुल्येन रजसाम्बुजम् ॥ १२९ ॥

केसराणि सुरक्तेन तस्य पीतेन कर्णिकाम् ।
तत्रावतार्थ सम्पूज्य ततो होमं समाचरेत् ॥ १३० ॥

हविषा गुग्गुलेनैव तिलैः सह सितासितैः ।
दत्वा पूर्णाहुतिं पश्चात् कृत्वाऽस्त्रसदृशीं तनुम् ॥ १३१ ॥

प्रयायान्निर्जनं स्थानं जपेल्लक्षत्रयं सुधीः ।
जपान्ते होमयेन्मन्त्री गुग्गुलैरयुतद्वयम् ॥ १३२ ॥

बदराण्डप्रमाणेन एकं सिद्धार्थकस्य च ।
रक्तचन्दनवृक्षोत्थमिध्मानमयुतद्वयम् ॥ १३३ ॥

घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं तु वै ।
ततः सहस्रसूर्याभं द्वादशान्तेऽस्त्रनायकम् ॥ १३४ ॥

पश्यत्यमलवद्दृष्ट्या इदमाह च सोऽस्त्रराट् ।
गच्छ त्वं साधकश्रेष्ठ विचरेह यथासुखम् ॥ १३५ ॥

कुर्वन् कर्माण्यशेषाणि दिव्यमर्त्यान्यनेकशः ।
तदाज्ञया स विप्रेन्द्र सिद्धिं चाप्यनुसाधयेत् ॥ १३६ ॥

प्रजप्योपलखण्डं तु कालं तु घटिकाभिधम् ।
क्ष्मातलं वीक्षमाणस्तु तेन सन्ताडयेत्क्षितिम् ॥ १३७ ॥

सा पीताङ्गी स्वरूपेण स्थित्वाऽग्रे साधकस्य तु ।
प्रयच्छत्यचिरात्सर्वं यदभीप्सितमस्य तु ॥ १३८ ॥

{{३२६}}

[अस्त्रमन्त्रसिद्धिजं सामर्थ्यम्]

विश्वास-प्रस्तुतिः

अकालशालयस्सर्वे तथाऽकालफलानि च ।
सर्वाण्यकालपुष्पाणि गन्धाश्च विविधा अपि ॥ १३९ ॥

बिलद्वाराण्यसङ्ख्यानि विविधानि सहस्रशः ।
रसायनानि दिव्यानि स्वयङ्ग्राहाणि सर्वशः ॥ १४० ॥

सप्तपातालसंस्थानि भावा नानाविधास्तथा ।
ये स्वर्गे ये च भूलोके दुर्लभास्तु सहस्रशः ॥ १४१ ॥

सर्वाणि तानि विप्रेन्द्र प्रकटीकुरुते तथा ।
आदाय खादिरं हस्ते लगुडं शतमन्त्रितम् ॥ १४२ ॥

चतुष्पथस्थितं वृक्षं तेन सन्ताडयेद्बलात् ।
निर्यान्ति विह्वलीभूताः शाकिन्यो भूतमातरः ॥ १४३ ॥

किं किं साधकराजेन्द्र आज्ञां देहि यथेप्सिताम् ।
अशक्येषु च कार्येषु भूतानां प्रेरयेत्तदा ॥ १४४ ॥

विदेशवृत्तकं सर्वं गूढं सुप्रकटं तथा ।
गत्वा ज्ञात्वा यथाभूतमागत्य ह्यचिरेण तु ॥ १४५ ॥

निवेदयन्ति तत्सर्वं डाकिन्यो मन्त्रपीडिताः ।
प्रयान्ति मातरोभताः क्षणेन गगनान्तरम् ॥ १४६ ॥

चेष्टितं च कृतं वृत्तं यत्तद्गगनचारिणाम् ।
ज्ञात्वा निवेदयन्त्याशु साधकस्य यथास्थितम् ॥ १४७ ॥

भूतैर्गृहीतमनुजं ताडयेच्च लतादिना ।
समानयेन्नयेच्चाथ तदग्रस्थस्य तां लताम् ॥ १४८ ॥

यायादभीप्सितं वेगाद् द्रुतमायाति तत्क्षणात् ।
कृत्वा तु मातरं तस्माद्दूरदेशं व्रजन्ति च ॥ १४९ ॥

यत्र यत्र क्षिपेन्मन्त्री जप्त्वा सिद्धार्थकानि तु ।
सन्निधिं तत्र कुर्वन्ति देवयोन्युषि(दि ?)ता ग्रहाः ॥ १५० ॥

अभीप्सितं चानयन्ति पानान्नवसनादिकम् ।
अस्त्रेण मन्त्रितं कृत्वा शस्त्रं परबलं व्रजेत् ॥ १५१ ॥

ध्वस्तायुधं करोत्याशु तन्मध्ये तत्क्षिपेद्यदि ।
अभेद्यमपि चेद्वज्रमस्त्रजप्तबलेन तु ॥ १५२ ॥

{{३२७}}

विश्वास-प्रस्तुतिः

बहुधा भेदमायाति एवमन्ये नगादयः ।
क्ष्मामण्डलस्थितं ध्यायेदस्त्रज्वालावलीवृतम् ॥ १५३ ॥

यत्र यत्र नियुक्तं तु स्तम्भं तत्र करोति च ।
अस्त्राभिमन्त्रितं कृत्वा लोहकाण्डं तु नारद ॥ १५४ ॥

भ्रामयन्गगनस्थं च स्तम्भयेदभिवर्षणम् ।
यत्र यत्र नियुञ्जीयात्क्रोधसंरक्तलोचनः ॥ १५५ ॥

अस्त्रजप्तं तृणाग्रं तु बकवत्तत्र तत्पतेत् ।
मनःशिलायुतेनैव कुङ्कुमेन विलिख्य च ॥ १५६ ॥

कर्णिकादौ स्थितं प्राग्वद्दिक्षु वज्राष्टकान्वितम् ।
धारयेद्यस्तु युक्तात्मा सर्वत्राप्यपराजितः ॥ १५७ ॥

पूजामाप्नोति विपुलां सौभाग्यं चाखिलं तथा ।

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अङ्गमन्त्रसाधनं
नामाष्टाविंशः पटलः ॥ २८ ॥