अथ शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः
श्रीभगवान्
विश्वास-प्रस्तुतिः
अनुक्रमेणाथ मुने लक्ष्म्यादीनां च साधनम् ।
विविधानि च कर्माणि मन्त्रेभ्यो ह्यवधारय ॥ १ ॥
मूलम्

लक्ष्म्यादिषु अनन्ताद्यासनस्य साधारण्यम्
विश्वास-प्रस्तुतिः
अनन्तं च तदूर्ध्वे तु धर्माद्यं यच्चतुष्टयम् ।
पद्मं धामत्रयोपेतं सर्वमन्त्रगणस्य च ॥ २ ॥

सामान्यमासनं विद्धि पूजाकाले तु सर्वदा ।
तत्र द्वारयागादेः साधारण्यम्
द्वारयागो गणेशादिपूजनं मुनिसत्तम ॥ ३ ॥
विश्वास-प्रस्तुतिः
लोकेश्वरास्त्रयागश्च सर्वत्र विहिताः सदा ।
देवीचतुष्कयागे तु षट्के तु हृदयादिके ॥ ४ ॥

नृसिह्मकपिलक्रोडयागेषु च यजेद्द्विज ।
लक्ष्म्यादियागादन्यत्र विष्वक्सेन-पूजन-प्रतिषेधः
विष्वक्सेनस्तु नान्यत्र पूजनीयः कदाच ॥ ५ ॥
तत्तन्मन्त्राणां तत्तद्धृदयेनैवोपचारः
विश्वास-प्रस्तुतिः
यं यं प्रपूजयेन्मन्त्री मन्त्रं सिद्धिपरायणः ।
तन्मन्त्रं हृदयेनैव तं तमेवोपचार्य च ॥ ६ ॥

नोपचारिकमन्त्रान्वै पूर्वोक्तान्विनिवेशयेत् ।
जपसूत्रे विशेषः
न मूलमन्त्रसंरुद्धं सूत्रं तु जपकर्मणि ॥ ७ ॥
तन्मन्त्रेण तु संस्कृत्य पुरा सन्धाय चापरम् ।
धूप-घण्टादीनां साधारण्यम्
सामान्यं सर्वमन्त्राणां धूपघण्टा पुरोदिता ॥ ८ ॥
विश्वास-प्रस्तुतिः
यागागारं तथा कुण्डं स्रुक्स्रुवौ मुनिसत्तम ।
अथाङ्गषट्कं व्याख्यास्ये लक्ष्म्याद्यादौ तु लक्षणम् ॥ ९ ॥

चतुर्णां तु सखीनां च बीजमन्त्रचतुष्टयम् ।
चतुर्णामनुगानां तु क्रमेण च यथास्थितम् ॥ १० ॥

{{३००}}
लक्ष्म्या अङ्गमन्त्रः
विश्वास-प्रस्तुतिः
आदाय पुण्डरीकं तु धरेशं तदधो न्यसेत् ।
अनलं तदधःस्थं च कृत्वा षोढा नियोज्य च ॥ ११ ॥

क्रमेण योजयेदेषामानन्दं प्रथमस्य च ।
विष्णुमूर्जमथैश्वर्यं भूधरं परमेश्वरम् ॥ १२ ॥

चान्द्री व्योमेशसंयुक्तां सर्वेषामुपरि न्यसेत् ।
विद्धि षड् हृदयादीनि
लक्ष्म्याः सखीमन्त्रः
सखीनामधुना शृणु ॥ १३ ॥
विश्वास-प्रस्तुतिः
आदाय केवलं सत्यं तत्स्थितं वरुणं ततः ।
मायायुक्तं ततः सोमं वरुणं रामभूषितम् ॥ १४ ॥

चान्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्ध्नि वै ततः ।
ऋद्धिः वृद्धिः समृद्धिश्च विभूतिरपि सा सखी ॥ १५ ॥

लक्ष्म्या अनुचरमन्त्रः
विश्वास-प्रस्तुतिः
लकारस्त्वादिदेवस्थस्सोमोऽथ भुवनस्थितः ।
द्विधाऽमृतं समादाय भूधरेण समन्वितम् ॥ १६ ॥

पूर्ववच्चिरसंयुक्तमेतत्कुर्याच्चतुष्टयम् ।
लावण्यः सुभगो नाम्ना सौभाग्यश्च तृतीयकः ॥ १७ ॥

चतुर्थस्सौमनस्यश्च चत्वारोऽनुचराः स्मृताः ।
सर्वेषां प्रणवं पूर्वं नामस्वाहानमोनुगम् ॥ १८ ॥

मण्डलम्
विश्वास-प्रस्तुतिः
चतुरस्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम् ।
तन्मध्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम् ॥ १९ ॥

सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च ।
न्यासः
व्यापकत्वेन तु पुरा मणिबन्धमुखादिगम् ॥ २० ॥
विश्वास-प्रस्तुतिः
विन्यस्य मूलमन्त्रं तु हस्ते देहे च केवलम् ।
पश्चादादौ तु हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत् ॥ २१ ॥

{{३०१}}
विश्वास-प्रस्तुतिः
तदङ्गानि हृदादीनि हस्ते देहे च विन्यसेत् ।
तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् ॥ २२ ॥

प्रदेशिन्यादितो हस्ते देहे तदनु विन्यसेत् ।
उत्तमाङ्गेऽथ हृन्मध्ये ऊर्वोर्जानुद्वये तथा ॥ २३ ॥

लावण्याद्याश्च चत्वारो ह्यनामादौ करद्वये ।
अङ्गुष्ठान्तं करे न्यस्य देहे तदनु नारद ॥ २४ ॥

दक्षिणे च तथा वामे स्कन्धे पक्षद्वये तथा ।
लक्ष्म्या मानसयागः
न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्धृदि ॥ २५ ॥
विश्वास-प्रस्तुतिः
लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम् ।
कृत्वाऽवलोकनाद्यं तु ततो बाह्ये तु विन्यसेत् ॥ २६ ॥

बाह्य-यागार्थो मण्डले विन्यासः
विश्वास-प्रस्तुतिः
मूर्तिमन्त्रयुतं मूलं कर्णिकोपरि नारद ।
सकलाकलदेहं च सर्वमन्त्रात्मकं प्रभुम् ॥ २७ ॥

तदुत्सङ्गगतां लक्ष्मीं स्वमन्त्रेणावतार्य च ।
पूर्वोक्तध्यानसंयुक्तां भोगमोक्षप्रसिद्धये ॥ २८ ॥

तदाग्नेये तदीशाने वायवीये च नैऋते ।
चत्वारि हृदयादीनि नेत्रं केसरसन्ततौ ॥ २९ ॥

तदग्रे दक्षिणे पृष्ठे वामपत्रे क्रमान्न्यसेत् ।
चतुष्टयं तु शुद्धा(ऋद्ध्या?)द्यं द्विभुजं तु तदाकृति ॥ ३० ॥

पद्मगौरप्रतीकाशं श्रीवृक्षचमराङ्कितम् (?) ।
पद्मासने चोपविष्टं प्रेक्षमाणं तदाननम् ॥ ३१ ॥

स्वस्तिकानां तदीशादिकोणस्थाने निवेश्यते ।
लावण्याद्यचतुष्कं तु पीतवर्णं चतुर्भुजम् ॥ ३२ ॥

नीलकौशेयवसनं पद्मकुम्भकरान्वितम् ।
नलिनीध्वजहस्तं च सफलामलवृक्षधृत् ॥ ३३ ॥
मूलम्
नीलकौशेयवसनं पद्मकुम्भकरान्वितम् ।
नलिनीध्वजहस्तं च सफलामलवृक्षधृत् ॥ ३३ ॥
द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा ।
जपहोमादिविधिः
मूलमन्त्रयुतां देवीं लक्ष्मीं लक्ष्मीप्रदां द्विज ॥ ३४ ॥
{{३०२}}
विश्वास-प्रस्तुतिः
जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः ।
सामलैः श्रीफलैश्चैव सक्तुलाजैस्तु पङ्कजैः ॥ ३५ ॥

यथाशक्ति ह्यसङ्ख्यैस्तु होमान्ते च ततो द्विज ।
लक्ष्मीरूपधरो भूत्वा साधकः कृतनिश्चयः ॥ ३६ ॥

जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः ।
होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वफलाम्बुजैः ॥ ३७ ॥

पयोमधुघृताक्तैस्तु अयुतायुतसङ्ख्यया ।
लक्ष्मीमन्त्रसिद्धिजं सामर्थ्यम्
ददाति दर्शनं विप्र होमान्ते परमेश्वरी ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पुत्र सिद्धाऽस्मि ते ब्रूहि यत्ते मनसि चेप्सितम् ।
कुरु कर्माण्यभीष्टानि मन्मन्त्रेणाखिलानि च ॥ ३९ ॥

अद्य प्रभृति निश्शङ्को द्वन्द्वोपद्रववर्जितः ।
एवमुक्त्वा तु सा देवी याति यत्रागता तु वै ॥ ४० ॥

ततः कर्माणि वै कुर्याल्लक्ष्म्योक्तानि तु साधकः ।
तुष्टाऽभीष्टां श्रियं दद्यादर्थिनामर्थकामिनाम् ॥ ४१ ॥

सङ्क्रुद्धो निर्धनं कुर्याद्वाङ्मात्रेण धरेश्वरम् ।
शुद्धं कुर्यात्सकृद्ध्यानान्मन्त्रजापाच्च हाटकम् ॥ ४२ ॥

पूरयित्वाऽम्भसा कुम्भं क्षीरेण मधुनाऽथवा ।
निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत् ॥ ४३ ॥

शतमष्टाधिकं मन्त्रं जपेद्ध्यानसमन्वितम् ।
रसेच्छासुनिवेशस्थो ह्येकचित्तः समाहितः ॥ ४४ ॥

रसेन्द्रत्वं समायाति यत्कुम्भे त्वाहृतं जलम् ।
सरसो लक्षवेधी स्याच्छस्त्रादीनां भवेद्विज ॥ ४५ ॥

करोति कायमजरं जरारोगविवर्जितम् ।
अङ्गुष्ठोदरमात्रं तु पुरा पाषाणमाहरेत् ॥ ४६ ॥

दक्षिणेन च हस्तेन वामे च बदरीसमम् ।
अभिमन्त्र्य तु द्वौ मुष्टी द्वे शते षोडशाधिके ॥ ४७ ॥

दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च ।
वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे ॥ ४८ ॥

{{३०३}}
विश्वास-प्रस्तुतिः
यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा ।
तथा मुक्ताफलं यद्यत्प्रतिभाति करोति तत् ॥ ४९ ॥

गोगजाश्वसमुद्भूतमस्थि चादाय पाणिना ।
शतार्धमन्त्रितं कृत्वा प्रवालत्वं प्रयाति तत् ॥ ५० ॥

शताभिमन्त्रितं कृत्वा त्रपुसीसे तथाऽयसम् ।
जायते कलधौतं तु रजतं वाऽथ निर्मलम् ॥ ५१ ॥

यद्यद्गृहीत्वा विप्रेन्द्र यं यं वा तु समीहते ।
क्रुद्धो वा परितुष्टश्च तत्तत्कुर्यात्तु नान्यथा ॥ ५२ ॥

एवमश्ममयानां तु अन्यत्वमुपपद्यते ।
या या मनसि वै यस्य विभूतिं प्रददाति च ॥ ५३ ॥

तां तां ददाति तस्याशु धनधान्यगवादिकम् ।
लिखित्वा भूर्जपत्रे तु यागन्यासक्रमेण तु ॥ ५४ ॥

रोचनाकुङ्कुमाभ्यां तु सन्धारयति यः सदा ।
सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं तु नारद ॥ ५५ ॥

तस्यायुषश्श्रियो वृद्धिस्सर्वसत्त्वाश्रयो महान् ।
प्राप्नुयान्महतीं पूजां यत्र यत्र च संविशेत् ॥ ५६ ॥

इदमाराधनं प्रोक्तं श्रीकामानां समासतः ।
कीर्तिमन्त्रसाधनप्रकारः
कीर्तिमन्त्रविधानं तु साम्प्रतं मेऽवधारय ॥ ५७ ॥
विश्वास-प्रस्तुतिः
विलिख्य कमलं षोढा अनलासनसंस्थितम् ।
अङ्कयेच्छिरसा विप्र लाक्ष्म्यमङ्गगणं यथा ॥ ५८ ॥

सर्वत्र चास्त्रमन्त्रस्य तच्चिह्नं परिवर्जयेत् ।
कीर्तेः सखीमन्त्राः
शान्तिदं च ततस्सोमं मर्दनं शङ्करं ततः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
क्रमेणालिख्य चतुरः कालपावकसंस्थितान् ।
व्यापी चान्द्री ततो माया एकैकस्मिंस्तु मूर्धनि ॥ ६० ॥

द्युतिः सरस्वती मेधा धृतिः कीर्तिः सखीगणः ।
{{३०४}}
कीर्तेरनुचरमन्त्राः
आनन्दयुक्तं वरुणमप्रमेयं च केवलम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
पवित्रमनलारूढं स्रग्धरं च तथाविधम् ।
आनन्देनापि चाक्रान्तं चतुर्णां मूर्ध्नि योजनम् ॥ ६२ ॥

विश्वाप्यायकरो व्यापी क्रमादनुचरास्त्वमी ।
वागीशो ह्यभयश्चैव प्रसादस्त्राणसञ्ज्ञितः ॥ ६३ ॥

पूर्ववन्मण्डलादिविधानम्
विश्वास-प्रस्तुतिः
न्यासो हृत्पद्मयागश्च सर्वं विद्धि पुरोदितम् ।
पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे ॥ ६४ ॥

किं तु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम् ।
विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा ॥ ६५ ॥

सखीनामनुचराणां च ध्यानप्रकारः
विश्वास-प्रस्तुतिः
क्रमाद्ध्यानं सखीनां च शृणुष्वानुचरेष्वपि ।
द्विभुजा हेमवर्णाश्च कीर्तिरूपाः स्मिताननाः ॥ ६६ ॥

सुपुस्तकं करे वामे दक्षिणे चामरं करे ।
ध्यायेत्किंशुकवर्णास्ताः कान्तरूपा मनोहराः ॥ ६७ ॥

तदाऽनुगचतुष्कं तु चतुर्हस्तं सिताम्बरम् ।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ ६८ ॥

शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम् ।
सुपुष्पं षट्पदोपेतं पराभ्यां च निबोध मे ॥ ६९ ॥

पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे द्विज ।
मयूरव्यजनं शुभ्रं ध्यात्वैवं पूजयेत्ततः ॥ ७० ॥

होमजपयोर्विधिः
विश्वास-प्रस्तुतिः
अर्घ्यपुष्पादिकाः सम्यक् दत्वा शक्त्याऽथ होमयेत् ।
तिलानि चाज्यसिक्तानि गन्धधूपान्वितानि च ॥ ७१ ॥

देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः ।
एकान्ते विजने स्थित्वा मौनी मूलफलाशनः ॥ ७२ ॥

जपेल्लक्षत्रयं मन्त्री जपान्ते होममाचरेत् ।
लक्षैकसङ्ख्यं विप्रेन्द्र तण्डुलैस्तिलमिश्रितैः ॥ ७३ ॥

{{३०५}}
विश्वास-प्रस्तुतिः
कापिलेन घृतेनैव क्षीरमिश्रेण नारद ।
एकैकं च घृतादीनां सहस्रं चाथ होमयेत् ॥ ७४ ॥

दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च ।
पतितायां तु पूर्णायामायाति परमेश्वरी ॥ ७५ ॥

साधु साध्विति वै ब्रूते स्थित्वाऽग्रे साधकस्य च ।
एह्येहि परमं धाम त्यजेदं भौतिकं पुरम् ॥ ७६ ॥

उपभुङ्क्ष्व परान्भोगानक्षमध्यगतो महान् ।
मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक ॥ ७७ ॥

एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः ।
साधकः कीर्तिमन्त्रेण कुर्यात्कर्म यथेप्सितम् ॥ ७८ ॥

कीर्तिमन्त्रसिद्धिजन्यं सामर्थ्यम्
विश्वास-प्रस्तुतिः
ददाति यस्य यत्किञ्चित्तस्य तच्चाक्षयं भवेत् ।
तेनासौ लभते कीर्तिं यावच्चन्द्रार्कतारकम् ॥ ७९ ॥

प्रचण्डानां मनुष्याणां मध्यस्थो यदि बुध्यते ।
वक्ति संसदि वा किञ्चित् प्राप्नुयाद्विपुलं यशः ॥ ८० ॥

अभिभूय जनान्सर्वानुत्कृष्टत्वं प्रयाति च ।
जप्त्वा सिद्धान्नभाण्डं तु स्वल्पं कालेऽन्नसङ्कटे ॥ ८१ ॥

यथेच्छानां जनानां तु यथेच्छमशनं द्विज ।
ददाति चाक्षयं तस्मात्सप्ताहमनिशं यदि ॥ ८२ ॥

प्राप्नुयान्महतीं कीर्तिं यावदाभूतसम्प्लवम् ।
सुभिक्षे लवमात्रं तु प्रदाय कनकस्य च ॥ ८३ ॥

परिजप्य सहस्रं तु विधिना परिसंस्थितम् ।
प्रयाति तत्प्रभूतत्वं दीयतेऽर्थिजनाय च ॥ ८४ ॥

अविच्छिन्नं द्विसप्ताहं सङ्क्षयं नाधिगच्छति ।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्छाश्वतीं द्विज ॥ ८५ ॥

आदाय तोयकलशं नागेन्द्रभवनाद्द्विज ।
प्रयायान्मरुभूमिं वै तत्र निम्ने तु भूतले ॥ ८६ ॥

निक्षिप्य पर्वताग्रे वा सहस्रपरिमन्त्रितम् ।
स पन्नगेश्वरस्तत्र परिचारान्वितो द्विज ॥ ८७ ॥

रक्षन्नुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी ।
{{३०६}}
तेनासौ महतीं लोके कीर्तिं प्राप्नोति नारद ॥ ८८ ॥
विश्वास-प्रस्तुतिः
काले तु बीजरोहीये यदि देवो न वर्षति ।
आदाय मृत्कणं हस्ते तटाकाज्जलमर्दितम् ॥ ८९ ॥

तं मध्यस्थभयक्लिन्नं (?) परिजप्य शतत्रयम् ।
कख (मुख ?) श्वासैस्तु सन्तप्तं कृत्वा मन्त्रमनुस्मरेत् ॥ ९० ॥

प्रक्षिपेद्गगने तद्वन्मेघत्वमुपयाति च ।
पूरयेन्मेदिनीं सर्वां जलेन जलदस्तु सः ॥ ९१ ॥

तदाज्ञया वसेत्तावत् तस्मिन्देशे स मेघराट् ।
वर्षं तदुपयोग्यं च यावत्सम्पद्यतेऽखिलम् ॥ ९२ ॥

तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलौकिकीम् ।
सम्पादयति विप्रेन्द्र यस्य यन्मनसेप्सितम् ॥ ९३ ॥

प्रभावान्मन्त्रराजस्य प्रसादादच्युतस्य च ।
लिखितं पूर्ववद्बध्वा वस्त्रे वा दक्षिणे भुजे ॥ ९४ ॥

प्राप्नुयान्महतीं वृद्धिं पूर्णां कीर्तिं सरस्वतीम् ।
एतत्सङ्क्षेपतः प्रोक्तं कीर्तिमन्त्रस्य नारद ॥ ९५ ॥

जयामन्त्रसाधनप्रकारः
विश्वास-प्रस्तुतिः
संविधानमपूर्वं च सन्ततेरपि भूतिदम् ।
जयाख्यमधुना विद्धि विधानं विष्णुभाविनाम् ॥ ९६ ॥

जयाया अङ्गमन्त्रः
विश्वास-प्रस्तुतिः
आदाय शाश्वतं षोढा कृत्वा चानलगं क्रमात् ।
आक्रान्तं पूर्ववत्कुर्यादङ्गषट्कस्य सिद्धये ॥ ९७ ॥

जयायाः सखीमन्त्रः
विश्वास-प्रस्तुतिः
अजितं विष्णुना युक्तं वाराहं रामवेष्टितम् ।
व्यापकं केवलं चाऽथ सोमं रामसमन्वितम् ॥ ९८ ॥

शिरसा चिह्नयेत्प्राग्वच्चतुरः क्रमशो मुने ।
सख्यो जयन्ती विजया तृतीया त्वपराजिता ॥ ९९ ॥

सिद्धिश्चतुर्थी विज्ञेया शृणुष्वानुचराननु ।
{{३०७}}
जयाया अनुचरमन्त्रः
आरूढः पद्मनाभस्तु शाश्वतः केवलो द्विज ॥ १०० ॥
विश्वास-प्रस्तुतिः
प्रधानं च तथोद्दामं क्रमेणैतानि योजयेत् ।
येषामुपरि वैनेयश्चान्द्री व्योमसमन्वितः ॥ १०१ ॥

प्रतापी जयभद्रश्च तृतीयस्तु महाबलः ।
उत्साहाख्यश्चतुर्थस्तु कृत्वा न्यासं तु पूर्ववत् ॥ १०२ ॥

इष्ट्वा भुवननाथं तु पूजयेच्च ततो बहिः ।
मण्डलादिविधानम्
मण्डलं पूर्ववत्कृत्वा तन्मध्ये पङ्कजं लिखेत् ॥ १०३ ॥
विश्वास-प्रस्तुतिः
नीलोत्पलाभातुल्येन रजसा च स (चाष्ट ?) पत्रकम् ।
तत्रोत्सङ्गगतां विष्णोर्हृदयाद्योजयेज्जयाम् ॥ १०४ ॥

शेषमन्त्रगणन्यासान्पूर्वपूर्वक्रमेण तु ।
कर्तुः (कुर्यात् ?) ध्यानं च सर्वेषां समासादवधारय ॥ १०५ ॥

जयायाः सखीनामनुचराणां च ध्यानप्रकारः
विश्वास-प्रस्तुतिः
हृदादीनां पुरा प्रोक्तं मूलमन्त्रप्रसङ्गतः ।
नीलनीरजवर्णाश्च प्रसन्नवदनेक्षणाः ॥ १०६ ॥

पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः ।
सितचामरहस्ताश्च चित्रपत्रफलोद्यताः ॥ १०७ ॥

निरीक्षमाणा वदनं जयाया अजितस्य च ।
कुन्दकुङ्मलवर्णाभाः प्रसन्नमुखपङ्कजाः ॥ १०८ ॥

रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः ।
धनुर्बाणकराश्चैव गदाचक्रधरा द्विज ॥ १०९ ॥

चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः ।
पूजयेच्च ततो भक्त्या होमं कुर्यादनन्तरम् ॥ ११० ॥

होमादिविधिः
विश्वास-प्रस्तुतिः
तिलैः सिद्धार्थकोपेतैः हविषा गुग्गुलेन च ।
होमावसाने विप्रेन्द्र कृत्वा रूपं जयात्मकम् ॥ १११ ॥

जयाऽहमिति वै बुद्ध्वा चेतसोपस्थितं महत् ।
{{३०८}}
वीरस्थानं समासाद्य निश्शङ्को जनवर्जितम् ॥ ११२ ॥
विश्वास-प्रस्तुतिः
वर्मणाऽस्त्रेण दिग्बन्धं कृत्वा दुष्टनिबर्हणम् ।
प्रारभेत् जपं पश्चात् पयोऽन्नफलभुक्सदा ॥ ११३ ॥

युक्तोऽन्तरसहायेन मौनी ध्यानपरायणः ।
प्रणिपत्य हरिं मूर्ध्ना प्राक् स्वमन्त्रेण नारद ॥ ११४ ॥

जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत् ।
समित्प्रादेशमात्रा तु रक्तचन्दनसम्भवा ॥ ११५ ॥

तासामयुतहोमस्तु घृताक्तानां तु होमयेत् ।
सिद्धार्थकायुते द्वे च मधुमिश्रा महामुने ॥ ११६ ॥

अयुतत्रितयं चाथ जुहुयादसितैस्तिलैः ।
मधुत्रितयसम्पृक्तैरन्ते पूर्णाहुतित्रयम् ॥ ११७ ॥

मधुक्षीरगृतैर्विप्र क्रमेण परिहोमयेत् ।
ततो भगवती विप्र समायाति जया स्वयम् ॥ ११८ ॥

जयायाः प्रसादः
विश्वास-प्रस्तुतिः
सुसिद्धाऽस्मि च ते पुत्र मन्मन्त्रेण समाचर ।
यदभीष्टं तु वै कार्यं निश्शङ्को विगतज्वरः ॥ ११९ ॥

उक्त्वेत्यदर्शनं याति देवी नारायणात्मिका ।
जयामन्त्रसिद्धिजन्यं सामर्थ्यम्
ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ॥ १२० ॥
विश्वास-प्रस्तुतिः
लोकेऽस्मिन्यान्यभीष्टानि आत्मनश्च परस्य वा ।
तत्राप्युद्देशतो वक्ष्ये शृणु तत्त्वेन नारद ॥ १२१ ॥

ज्वालाभद्रासनां ध्यायेद्देवीमन्त्रेण साधकः ।
उद्ग्राहयति वै यस्य यस्मिन्यस्मिंस्तु वस्तुनि ॥ १२२ ॥

निर्जित्य न्यायतस्तं वै जयमाप्नोत्ययत्नतः ।
गजाश्वशस्त्रभृत्पूर्णं परसैन्यं बलान्वितम् ॥ १२३ ॥

दृष्ट्वाऽन्यस्य समायातं हन्तुमभ्युद्यतं रणे ।
परिजप्य धनुः खड्गं खेटकं बाणपञ्चकम् ॥ १२४ ॥

प्रेरयेद्यस्य वै दत्वा स गत्वा च चमूमुखम् ।
विदारयति चैकाकी जयमाप्नोति शाश्वतम् ॥ १२५ ॥

{{३०९}}
विश्वास-प्रस्तुतिः
ध्यात्वा दक्षिणपाणिस्थं त्रिकोणं वह्निमण्डलम् ।
तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् ॥ १२६ ॥

मत्तेभसिंहसर्पाणामशनीनां च दर्शयेत् ।
क्षिप्रं पराङ्मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् ॥ १२७ ॥

खादिरं मुसलं स्पृ(सृ?)ष्ट्वा आदाय शतमन्त्रितम् ।
कृत्वा गत्वा बिलद्वारं चातुर्वर्ण्यजनान्वितम् ॥ १२८ ॥

मुसलाहननान्यष्टौ दद्यात्तत्र शनैः शनैः ।
देवीमन्त्रे च (ण?) विप्रेन्द्र अस्त्रसम्पुटितेन तु ॥ १२९ ॥

फट्कारान्तेन तु ततो बिलयन्त्रं व्रजेदधः ।
समस्तजनसंयुक्तो विशेषात्साधकोत्तमः ॥ १३० ॥

भित्वा यन्त्राण्यनेकानि जित्वा दानवपुङ्गवान् ।
जनानां योजनं तत्र कृत्वा कान्तागणैः सह ॥ १३१ ॥

दत्वा रसात्मकं पानं स्वहस्तेन महाबलः ।
स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् ॥ १३२ ॥

करोति यदि विप्रेन्द्र मतिं मन्त्री जगत्त्रये ।
जयं प्रत्यविचारेण गदाचक्रधरोद्यतः ॥ १३३ ॥

पाशाङ्कुशधरो वाऽथ जयं प्राप्नोति नान्यथा ।
लिख्य योजनया भूर्जे कुङ्कुमेन घनेन च ॥ १३४ ॥

सम्पुटीकृत्य वै नाम विधाय जनमध्यगम् ।
सदाऽसौ जयमाप्नोति दिव्यैः सर्वैस्तु लीलया ॥ १३५ ॥

विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च ।
धारयेद्यो गले वस्त्रे भुजे वामेऽथ दक्षिणे ॥ १३६ ॥

स सर्वत्र जयं विप्र सम्प्राप्नोत्यविचारतः ।
जयार्थं मुनिशार्दूल मन्त्रं वै यत्र कुत्रचित् ॥ १३७ ॥

मन्त्री प्रयोजयेच्छश्वत्तत्र तत्राप्नुयाज्जयम् ।
जयाविधानमित्येतत्समासात्परिकीर्तितम् ॥ १३८ ॥

मायामन्त्रसाधनप्रकारः
मायाख्यमधुना वच्मि संविधानं यथास्थितम् ।
{{३१०}}
[मायाया अङ्गमन्त्रः]
षोढा प्रधानमादाय कालपावकसंस्थितम् ॥ १३९ ॥
विश्वास-प्रस्तुतिः
ततस्तच्चाङ्कयेत्प्राग्वत्स्वरैः प्राक् शिरसा तदा ।
षडेतान् हृदयादीन्वै विद्धि शेषं महामुने ॥ १४० ॥

सखीमन्त्राः
विश्वास-प्रस्तुतिः
प्रधानोऽथ ध्रुवो रस्थो पद(दम ?)नो पोऽनलोर्ध्वगः ।
आदेयास्त्वथ सर्वेषामोदनानन्दकौ क्रमात् ॥ १४१ ॥

भुवनो योगघाता च व्यापी चान्द्री चतुर्ष्वपि ।
मोहिनी भ्रामणी दुर्गा प्रेरणी च महामुने ॥ १४२ ॥

मायासख्यः स्मृता ह्येताश्चत्वारो रक्तभासुराः ।
सखीनां ध्यानप्रकारः
लावण्येन तु वीर्येण सौन्दर्येण च तेजसा ॥ १४३ ॥
विश्वास-प्रस्तुतिः
मायाख्येन तु संयुक्ताः सितवस्त्रानुलेपनाः ।
चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः ॥ १४४ ॥

मायाया अनुचरमन्त्राः
विश्वास-प्रस्तुतिः
प्रधानं गोपनोपेतं तं तु वै केवलं त्वतः ।
शङ्करं कमलं चैव क्रमाद्दद्याच्च केवलौ ॥ १४५ ॥

सर्वेषामुपरि ब्रह्मन् व्यापीं चान्द्रीं च विन्यसेत् ।
प्रागेकैकस्य चोङ्कारमन्ते सञ्ज्ञानमोयुतम् ॥ १४६ ॥

मायामयो महामोहः शम्बरश्च कलीश्वरः ।
चत्वारोऽनुचरा ह्येते ध्येयास्त्वलिकुलप्रभाः ॥ १४७ ॥

मायानुचराणां ध्यानप्रकारः
विश्वास-प्रस्तुतिः
चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः ।
केयूराभरणोपेताः पीताम्बरधरास्तु वै ॥ १४८ ॥

हारनूपुरसंयुक्ता नानाकुसुमभूषिताः ।
तुषारधूलिधवलाः खड्गपाशसमुद्यताः ॥ १४९ ॥
मूलम्
हारनूपुरसंयुक्ता नानाकुसुमभूषिताः ।
तुषारधूलिधवलाः खड्गपाशसमुद्यताः ॥ १४९ ॥
विश्वास-प्रस्तुतिः
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये ।
एवमुद्धृत्य विधिवन्मायीयां मन्त्रसनतिम् ॥ १५० ॥

न्यासविधिः
स्वहस्ते पूर्ववन्न्यस्य विग्रहे तदनन्तरम् ।
{{३११}}
हृदयान्तर्गतं चेष्ट्वा बाह्यतश्चावतार्य च ॥ १५१ ॥
बाह्ययागविधिः
मन्त्रोत्सङ्गता न्यस्याः प्राग्वच्चाङ्गादयोऽखिलाः ।
मुद्राविधानम्
प्रपूज्य विधिवद्देवीं स्वां मुद्रां दर्शयेत्ततः ॥ १५२ ॥
विश्वास-प्रस्तुतिः
प्रागुक्तानां चतुर्णां तु भिन्नानामपि सा स्मृता ।
सर्वासां देवतानां च मुद्रासङ्घर्षसङ्गिकम् ॥ १५३ ॥

मूलमन्त्रोदितं विद्धि देवताङ्गैः समन्वितम् ।
साधारणं सखीनां च षोडशानां तु नारद ॥ १५४ ॥

स्वमन्त्रयोजितामेकां मुद्रामप्यवधारय ।
महायोनिमुद्रा
सम्मुखौ तु करौ कृत्वा तथा वै सम्प्रसारितौ ॥ १५५ ॥
विश्वास-प्रस्तुतिः
कनिष्ठानामिकाभ्यां वै युगलं युगलं द्विज ।
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् ॥ १५६ ॥

अङ्गुलीभिश्च तिसृभिः पाणिमध्ये निराश्रयम् ।
अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ॥ १५७ ॥

अङ्गुलीनां चतसॄणां विश्रान्तौ चोदरावधि ।
सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ॥ १५८ ॥

प्रसार्य चाग्रतो लग्ने मध्यमे द्वे महामुने ।
नीता सा जन्मभूमेस्तु समारभ्य करद्वयम् ॥ १५९ ॥

कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः ।
ईषदस्पृष्टमूलेन मणिबन्धं करद्वयात् ॥ १६० ॥

कुर्याद्विकसितं चैव मुद्रैषा मुनिसत्तम ।
महायोन्यभिधाना च त्रिलोकजननी पुरा ॥ १६१ ॥

वशीकुर्याज्जगत्सर्वं कामतो यदि योजयेत् ।
अत्रानुष्ठानसक्ता स्त्री बध्वा दूरात्प्रदर्शयेत् ॥ १६२ ॥

मुनीनां गतसङ्गानां क्षोभमायान्ति ते क्षणात् ।
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ॥ १६३ ॥

निवृत्तकामधर्मासु अबलास्वथवा मुने ।
{{३१२}}
क्षुभ्यन्ति मदनार्ताश्च सकामासु च का कथा ॥ १६४ ॥
अनुचरमुद्रा
विश्वास-प्रस्तुतिः
वक्ष्येऽथानुचराणां तु षोडशानां समासतः ।
द्विजैरमुद्रां(?)सामान्यां सन्निधीकरणे शुभाम् ॥ १६५ ॥

पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम् ।
प्रादेशिनीयुगं चैव कन्यासायुगलं तथा ॥ १६६ ॥

अधोमुखं तु सुस्पष्टं ताभ्यां मध्यान्महामुने ।
कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीद्वयम् ॥ १६७ ॥

मध्यमानामिकानां तु युग्मं युग्मं तु धारयेत् ।
एकलग्नं नखोद्देशाद्यावत्पर्व तु मध्यमम् ॥ १६८ ॥

ऊर्ध्ववक्त्रं मुनिश्रेष्ठ समेन धरणेन तु ।
सुस्पष्टौ लम्बमानौ च अङ्गुष्ठौ चाप्यधोमुखौ ॥ १६९ ॥

परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा ।
स्वमन्त्रसंयुतां चैव पूजाकाले प्रदर्शयेत् ॥ १७० ॥

चतुर्भुजानुकारा च (?) सर्वेषां सिद्धिकामदा ।
एवं मुद्रागणं दत्वा जप्त्वा च तदनन्तरम् ॥ १७१ ॥

होमादिविधानम्
विश्वास-प्रस्तुतिः
होमं तदनु वै कुर्यात्तिलैः सिद्धार्थकान्वितैः ।
सकुङ्कुमघृतक्षीरसम्प्लुतैस्तण्डुलादिभिः ॥ १७२ ॥

ततो नियममाश्रित्य कृत्वा तदनु नारद ।
देवीरूपं स्वमात्मानं भावनाप्यु (द्यु ?) पचारतः ॥ १७३ ॥

प्रयायाद्विजनस्थानं प्रौढयुक् स्वासनान्वितः ।
जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती ॥ १७४ ॥

क्षीरमूलफलाहारो देशकालवशात्तथा ।
अयाचितैकभिक्षाशी तदभावाच्च नारद ॥ १७५ ॥
मूलम्
क्षीरमूलफलाहारो देशकालवशात्तथा ।
अयाचितैकभिक्षाशी तदभावाच्च नारद ॥ १७५ ॥
विश्वास-प्रस्तुतिः
स्वशिष्यसाधितं चान्नं मन्त्रपूतमसैन्धवम् ।
तैलमांसविनिर्मुक्तं सन्ध्याकालेऽप्युपस्थिते ॥ १७६ ॥

अतृप्तमपि भुञ्जीत भावितं मधुसर्पिषा ।
जपान्ते विधिवन्मन्त्री होमं कुर्यात्प्रयत्नतः ॥ १७७ ॥

{{३१३}}
विश्वास-प्रस्तुतिः
बलां मोदां तथा मांसीं चक्राङ्गीं नागकेसरम् ।
कुङ्कुमं चन्दनं क्षोदं रजनीचूर्णमेव तु ॥ १७८ ॥

मेलयेत्सुस्थि(सि?)तानां च तिलानां मधुना तथा ।
भावयेत्सघृतेनैवं त्रिलक्षं जुहुयात्ततः ॥ १७९ ॥

मध्यमानामिकाभ्यां च अङ्गुष्ठाग्रेण नारद ।
अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत् ॥ १८० ॥

प्राग्राजार्कतरूत्थानां खादिराणां ततोऽपरम् ।
सुरदारुमयीनां च तृतीयमयुतं ततः ॥ १८१ ॥

दद्यात्पूर्णाहुतिं चैव विशुद्धेनान्तरात्मना ।
पतितायां तु पूर्णायामायाति परमेश्वरी ॥ १८२ ॥

परिवारान्विता देवी भाषते साधु साध्विति ।
कुरु कार्यमभीष्टं च मन्त्रेण त्वधुना व्रज ॥ १८३ ॥

इदमुक्त्वा व्रजेत्तूर्णं देवी विष्णुनिकेतनम् ।
सिद्धिज सामर्थ्यम्
ततः स साधकवरः कर्माणि विविधानि च ॥ १८४ ॥
विश्वास-प्रस्तुतिः
प्रारभेन्मनसा विप्र यान्यभीष्टानि सर्वदा ।
आत्मार्थे वा परार्थे वा लेशतः शृणु नारद ॥ १८५ ॥

प्रजप्यामलकं बिल्वं सकृन्नृपगृहं विशेत् ।
कोशस्याग्रे विनिक्षिप्य यत्र कुत्र स्थितस्य च ॥ १८६ ॥

गगनात्पतिते (तति?) तूर्णं यद्यदुक्तं समीहते ।
यद्यच्चाभरणं विप्र यद्यद्वा वसनं शुभम् ॥ १८७ ॥

एवं वै व्रीहिगुलिकं तथैव तिलतण्डुलम् ।
क्षिपेद्धान्यखले पूर्णे कोष्ठागारेऽथ खातके ॥ १८८ ॥

राजकीये तथा स्वर्णं (?) यत्र यत्र स्थितस्ततः ।
यद्यत्समीहते धान्यं सस्यं वा तण्डुलान्वितम् ॥ १८९ ॥

तत्तदग्रेऽथ गगनात्पतत्यथ यथेप्सितम् ।
एवमेव तु सिद्धान्नं गुलिकां परिजप्य च ॥ १९० ॥

क्षिप्त्वा महानसोद्देशे सिद्धान्नं वर्षयेत्क्षणात् ।
गुलिकां गोमयेनैव कृत्वा बदरसम्मिताम् ॥ १९१ ॥

{{३१४}}
विश्वास-प्रस्तुतिः
निक्षिप्य गोव्रजस्यान्तस्सप्तवाराभिमन्त्रिताम् ।
ध्यानमात्रात्क्षणस्यान्ते दधिक्षीराज्यपूरिताः ॥ १९२ ॥

भाण्डाश्च पृष्ठतः पश्येद्यत्र तत्र स्थितो व्रती ।
प्रजप्य बदरं विप्र फलमन्यत्तु वा क्वचित् ॥ १९३ ॥

क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च ।
प्रपुष्पवाटिकायां तु पुष्पमेकं विनिक्षिपेत् ॥ १९४ ॥

जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत्क्षणात् ।
यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् ॥ १९५ ॥

तत्र तत्र च तत्तिष्ठेत्सङ्कल्पे तु कृते सति ।
यथेच्छं तु समाकृष्टं तत्र तत्र च तद्व्रजेत् ॥ १९६ ॥

न चापि साधकवरस्संविण्णो (ग्नो?) जायते क्वचित् ।
कृत्वाऽङ्गारकणं चैव शतजप्तं तु नारद ॥ १९७ ॥

क्षिपेत्सलिलमध्ये तु ज्वलन्तं (प्रज्वलत् ?) तत्प्रदृश्यते ।
कुशाग्रस्थं जलकणं शतवाराभिमन्त्रितम् ॥ १९८ ॥

कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत् ।
भवेत्पानीयमिव च स वह्निर्दृश्यते क्षणात् ॥ १९९ ॥

वालुकापरिपूर्णं तु अरण्यं च तृणोज्झितम् ।
दृष्ट्वा तत्र विनिक्षिप्य तृणं च शतमन्त्रितम् ॥ २०० ॥

पुष्पपत्रसमाकीर्णं पत्रपल्लवसङ्कुलम् ।
कुर्यान्नन्दनतुल्यं तं तोयशालिसमावृतम् ॥ २०१ ॥

नानाविहगसम्पूर्णं पत्तनोपवनान्वितम् ।
पुरप्राकारसम्पूर्णं देवतायतनान्वितम् ॥ २०२ ॥

गेयदेवध्वनियुतं ललनाभिश्च शोभितम् ।
नृपाणामेतदाश्चर्यं दर्शनीयं सदैव हि ॥ २०३ ॥

अनोकहेष्वरण्येषु नीरसेषु सदैव हि ।
इच्छयाऽपस्तथाऽन्नानि भोगांश्च विविधानि च ॥ २०४ ॥

करोति मन्त्रितैर्लोष्ठैर्गोमयेनाष्टसङ्ख्यया ।
अरिवर्गे मुनिश्रेष्ठ सम्मुखे संस्थिते सति ॥ २०५ ॥

क्रोधाच्चैव वधोद्युक्ते एकाकी यदि तिष्ठति ।
जपमानस्तु वै सम्यक् सङ्कल्प्य मनसा महत् ॥ २०६ ॥

{{३१५}}
विश्वास-प्रस्तुतिः
आत्मीयं च बलं विप्र सैनिकायुधसङ्कुलम् ।
तस्य सम्पद्यते क्षिप्रं चमूः घोरपराक्रमा ॥ २०७ ॥

स तन्त्रं तु गजाश्वं च नानाशस्त्रविभासितम् ।
दृष्ट्वा पराङ्मुखं याति हतौजस्कं रिपोर्बलम् ॥ २०८ ॥

करोति विप्र यत्किञ्चिन्मनसा मन्त्रमुच्चरन् ।
व्यलीकं सत्यभूतं च तत्तथा परिदृश्यते ॥ २०९ ॥

सुशुष्कं पादपं दृष्ट्वा ताडयेच्चरणेन तु ।
जपमानो महामन्त्रं तस्य पुष्पफलान्वितम् ॥ २१० ॥

रसपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् ।
पीडयेत्पादपं मन्त्री शोषितं सोऽधिगच्छति ॥ २११ ॥

पर्वताग्रस्थिथो मन्त्रं नाशार्थं सञ्जपेद्यदि ।
व्रजेदधस्तात्तद्विप्र यावदिच्छति साधकः ॥ २१२ ॥

तुष्टः प्रोत्थापयेत्पश्चात्पातालात्पर्वतं पुनः ।
चन्दनेन रसेनैव मन्त्रं पद्मोदरे लिखेत् ॥ २१३ ॥

पत्रेष्वङ्गानि चालिख्य सुशोभनदिने ततः ।
पूजयित्वाऽर्घ्यपुष्पाद्यैर्वेष्टयेदथ पूर्ववत् ॥ २१४ ॥

धारयेद्यो महामन्त्रं तस्य सर्वा विभूतयः ।
सम्यगाविर्भवन्त्यत्र लोके निष्कण्टकः स च ॥ २१५ ॥

सुशोभनश्च दीर्घायुः परत्र शुभमाप्नुयात् ।
देवीचतुष्टयस्यैष सिद्धिसङ्घस्समासतः ॥ २१६ ॥

किञ्चिदुद्देशतः प्रोक्तः साधकानां हिताय च ।
नानाविधानि दिव्यानि प्रयच्छन्ति शुभानि च ॥ २१७ ॥

कर्माण्यतुलवीर्याणि अन्ते तु परमं पदम् ।
प्रकाशयति भक्तानां वैष्णवानां विशेषतः ॥ २१८ ॥

इति जयाख्यसंहितायां शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः ॥ २७ ॥