अथ साधकस्य मूलमन्त्रसाधनं नाम षड्विंशः पटलः
नारदः
विश्वास-प्रस्तुतिः
मुक्तिमार्गस्त्वया प्रोक्तो दीक्षा मम यथाक्रमम् ।
अधुना भुक्तिमार्गं तु यथावत्कथयस्व मे ॥ १ ॥
मूलम्

श्रीभगवान्-
विश्वास-प्रस्तुतिः
शृणु कर्माणि दिव्यानि मन्त्रराजस्य सुव्रत ।
सङ्क्षेपात्कथयिष्यामि पातालोत्थानसाधने ॥ २ ॥

खट्फट्काञ्जनकाशङ्गु गुलिकादिप्रसाधने ।
{{२८९}}
[मन्त्रसाधने देशवैलक्षण्यादिनियमः]
साधकः संयतो भूत्वा मन्त्रव्रतपरायणः ॥ ३ ॥
विश्वास-प्रस्तुतिः
महोत्साहः शुभाचारो धीरस्सर्वगुणान्वितः ।
पुण्यक्षेत्रेषु तीर्थेषु नदीनां सङ्गमेषु च ॥ ४ ॥

देवता ऋषिजुष्टेषु कुर्यात्स्थानपरिग्रहम् ।
पवित्राहारसम्पन्नः सङ्करैः परिवर्जितः ॥ ५ ॥

जपेल्लक्षत्रयं धीरो मन्त्रार्पितमनाः सुधीः ।
पूर्वोक्तेन विधानेन अखिलेन द्विजोत्तमः ॥ ६ ॥

सन्त्यज्यानेककर्माणि सुसिद्धस्तु ददाति च ।
नियोजितः करोत्याशु वश्याकर्षणमारणान् ॥ ७ ॥

ग्रहज्वरविषादीनां भूतानां च प्रमर्दनम् ।
डाकिनीनां च सर्वासां ह्रासने मन्त्रनायकम् ॥ ८ ॥

यथा नियोजयेत्सम्यक् तथा शृणु समाहितः ।
मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः
कृत्वा तु मण्डलं दिव्यं तत्र कुम्भं निवेशयेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तेन विधानेन इष्ट्वा देवं जनार्दनम् ।
स्थापयेत्पुरतस्तस्य शुचिमातुरमासने ॥ १० ॥

परिजप्य तु पुष्पाणि सिद्धार्थसहितानि तु ।
शताष्टपरिजप्तानि हस्ताभ्यामातुरस्य च ॥ ११ ॥

स्वहस्ते मण्डलं ध्यायेत्त्रिकोणे वह्निलाञ्छितम् ।
तन्मध्ये देवदेवेशं तेजोरूपं विचिन्तयेत् ॥ १२ ॥

दीप्तचक्रगदापाणिं सर्वदुष्टांश्च तर्जयेत् ।
तद्धस्तं दर्शयेत्साध्ये क्षिप्रमावेशकारकम् ॥ १३ ॥

तं दृष्ट्वा सर्वभूतानि आविशन्ति भयार्दिताः ।
प्रविष्टमात्रं दृष्ट्वा तं शङ्खबन्धं तु कारयेत् ॥ १४ ॥

मूलमन्त्रेण मन्त्रज्ञः सार्णं सम्पुटितेन तु ।
भस्मना चास्त्रजप्तेन दिग्बन्धं चात्र कारयेत् ॥ १५ ॥

अस्त्रजप्तेन मन्त्रेण भस्मना ताडयेद्बुधः ।
ताडयेत्सप्तजप्तैस्तु कुशैः सिद्धार्थकैः पुनः ॥ १६ ॥

{{२९०}}
विश्वास-प्रस्तुतिः
त्रिजप्तं गुग्गुलं धूपं प्रदद्यात्मनः स तु ।
शीताद्भिः शरदण्डैर्वा सप्तजप्तैस्तु ताडयेत् ॥ १७ ॥

जयां मुद्रां ततो बध्वा मन्त्रमस्त्रयुतं जपेत् ।
यथेष्टं निग्रहं चास्य मन्त्रेणानेन कारयेत् ॥ १८ ॥

गदया ताडयेन्मूर्ध्नि कर्णं करविलिप्तये ? ।
अथवा प्रतिमां कुर्याद्गोमयेन गृहस्य तु ॥ १९ ॥

चक्रेणाङ्गानि कृन्तेत्तु यदि क्षिप्रं न मुञ्चति ।
मुञ्चामीति यदा ब्रूयात् शपथं कारयेत्सदा ॥ २० ॥

विसर्जयेद्बलिं दत्वा शिखादिग्बन्धमोक्षणात् ।
कर्मणा मनसा चैव तथा वाचापि मोक्षयेत् ॥ २१ ॥

विषप्रशामनप्रकारः
विश्वास-प्रस्तुतिः
ठकारोदरगं मन्त्रं कलाषोडशसंयुतम् ।
स्रवन्तममृतं ध्यायेच्चन्द्रमण्डलसन्निभम् ॥ २२ ॥

वामहस्ते विचिन्त्यैवं साध्यमूर्ध्नि निवेशयेत् ।
तेनामृतेन सम्पूर्य विग्रहं त्वातुरस्य च ॥ २३ ॥

हरेद्विषाण्यशेषाणि विधिनाऽनेन योजितः ।
वशीकरणप्रकारः
सप्त जप्तानि पुष्पाणि सुगन्धाक्तानि दापयेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
वामहस्तेन नारीणां पाणौ तासां च दक्षिणे ।
वामपाणौ तु विप्रेन्द्र नॄणां दक्षिणपाणिना ॥ २५ ॥

सद्यस्तद्वशतां यान्ति मन्त्रस्यास्य प्रभावतः ।
चन्द्रमण्डलमध्यस्थं मन्त्रं ध्यात्वा करोदरे ॥ २६ ॥

यस्य तद्दर्शयेद्धस्तं क्षिप्रं तं वशमानयेत् ।
न्यासं कृत्वा तु पूर्वोक्तं कान्तं रूपं विचिन्तयेत् ॥ २७ ॥

क्रुद्धस्याप्यग्रतः स्थित्वा क्षिप्रं तं वशमानयेत् ।
पत्रं पुष्पं फलं वाऽपि त्रिजप्तं यस्य दीयते ॥ २८ ॥

वशमायाति स क्षिप्रं मन्त्रस्यास्य प्रभावतः ।
रोचनाकुङ्कुमाभ्यां वा भस्मना चन्दनेन वा ॥ २९ ॥

प्रजप्य तिलकं कृत्वा विशेद्राजकुलं यदि ।
{{२९१}}
प्रा यान्महतीं पूजां दर्शनान्नात्र संशयः ॥ ३० ॥
उच्चाटनप्रकारः
विश्वास-प्रस्तुतिः
वायव्यभुवनान्तस्थं मन्त्रं नीलाम्बुदप्रभम् ।
निराधारं तदन्तस्थं ध्यायेत्साध्यं कृशं महत् ॥ ३१ ॥

नीलाम्बरधरं कृष्णं शुक्लवर्णसमं लघु ।
देवं (व ?) नासानिलेनैव पूर्यमाणं नभस्थले ॥ ३२ ॥

भ्राम्यमाणं निराधारे उच्चाटत्यचिराच्च सः ।
विद्वेषणविधानम्
आग्नेयभुवनान्तस्थं चाषपक्षसमद्युतिम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ध्यात्वा मन्त्रेश्वरं क्षिप्रं तत्पाद गो(द्वयगौ?)स्मरेत् ।
द्वौ साध्यौ हुतभुग्रूपौ वीक्षमाणौ परस्परम् ॥ ३४ ॥

पादं पदा ताडयन्तावभीक्ष्णं चातिवेगतः ।
करोति विप्र विद्वेषं ध्यानमात्रान्न संशयः ॥ ३५ ॥

आकर्षणम्
विश्वास-प्रस्तुतिः
सूर्यमण्डलमध्यस्थं ध्यायेन्मन्त्रेश्वरं द्विज ।
भग्नराजोपलाभं तु घ्राणाग्रस्थेन वायुना ॥ ३६ ॥

कर्षयन्तं सुदूराच्च साध्यं भास्वरविग्रहम् ।
विधिनाऽनेन भगवान् ध्यान(त?)स्त्वाकर्सणे सदा ॥ ३७ ॥

आकृष्य भवनं सर्वं साधकस्य ददाति च ।
सितपद्मोत्तरस्थं तु मन्त्रं ध्यात्वा खगासनम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
वर्णतः सितरक्ताभं तत्पाणिद्वयगौ तु वै ।
द्वौ तु साध्यौ तदाकारौ पतन्तौ तौ तु संस्मरेत् ॥ ३९ ॥

हृष्टतुष्टप्रसन्नात्मा प्रीत्यर्थं मुनिसत्तम ।
नयेत् पथञ्चैव विधिनाऽनेन मन्त्रराट् ॥ ४० ॥

हुताशसलिले द्वे तु किं पुनर्मानवान्प्रति ।
मारणम्
वायुवह्निपुराभ्यां तु मध्ये चक्रोदितं प्रभुम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
संस्मरेत्कृष्णरक्तं तु साध्यं तत्पादतो हतम् ।
निष्पीड्यमानं वेगेन चक्रक्षेप्रैर्गतासुवत् ॥ ४२ ॥

{{२९२}}
विश्वास-प्रस्तुतिः
ध्यायेद्विलुप्तशक्तिं च निमीलितविलोचनम् ।
मारयत्यचिरेणैव विपक्षो यस्य साधकः ॥ ४३ ॥

स्तम्भनम्
विश्वास-प्रस्तुतिः
माहेन्द्रमण्डलान्तस्थं कुङ्कुमोदकसन्निभम् ।
प्रपीडयन्तं पादाभ्यामाधारं यन्त्रसंस्थितम् ॥ ४४ ॥

स्तम्भयत्यचिरेणैव यं यमिच्छति साधकः ।
पुष्टिविधानम्
चन्द्रमण्डलमध्यस्थं पीतं पीताम्बरं प्रभुम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
वमन्तममृतं वक्त्रात्तत्पीयूषं द्विजाधिप ।
विशन्तं ब्रह्मरन्ध्रेण स्मरेत्साध्यस्य हृद्गतम् ॥ ४६ ॥

सर्वाङ्गानि च तत्स्थेन आक्रान्तानि च भावयेत् ।
पुष्टाङ्गो जायते शश्वद्विधिनानेन मानवः ॥ ४७ ॥

शान्तिकविधानम्
विश्वास-प्रस्तुतिः
सितपद्मयुगान्तस्थं सम्पूर्णं च शशिप्रभम् ।
विचिन्त्यैकमजस्योर्ध्वे द्वितीयमधरस्थितम् ॥ ४८ ॥

निशाम्बुकणसङ्काशं स्वच्छन्दं मध्यतः स्थितम् ।
मुञ्चन्तं सलिलं देहाच्छीतलं क्षीरवत्स्थितम् ॥ ४९ ॥

सिच्यमानं स्मरेत्साध्यं तेन तं तदधःस्थितम् ।
जायते शान्तिकं सम्यग्यस्य यस्य द्विजेच्छसि ॥ ५० ॥

पु(तु?)ष्टिविधानम्
विश्वास-प्रस्तुतिः
कुङ्कुमोदकसङ्काशं पूर्णचन्द्रान्तरस्थितम् ।
ध्यात्वा मन्त्रं पुरा विप्र वमन्तममृतं मुखात् ॥ ५१ ॥

वर्णतः सितपीताभं तदग्रस्थं च भावयेत् ।
पिबन्तं पाणियुग्मेन आत्मानमथवातुरम् ॥ ५२ ॥

पु(तु?)ष्टिरुत्पद्यते शश्वन्मन्त्रराजप्रभावतः ।
एतत्पूर्वोक्तजापस्य फलमुक्तं समासतः ॥ ५३ ॥

अनुक्तान्यपि कर्माणि कुरुते चात्र योजितः ।
योज्यं कर्मपदं चैव परिकर्मणि यत्नतः ॥ ५४ ॥

कुरु वीप्सासमेतं च ध्यानेन परिभावितम् ।
पूर्वोक्ताद्द्विगुणाज्जापाच्चैव सिद्धिमवाप्नुयात् ॥ ५५ ॥

{{२९३}}
[वैखरीसिद्धिः]
विश्वास-प्रस्तुतिः
विवरद्वारमासाद्य स्थण्डिलं चोपलेपयेत् ।
इष्ट्वा तु विधिना मन्त्रं कुर्याद्धोमं समाहितः ॥ ५६ ॥

तिलेन तु घृताक्तेन महिषाक्षेण वै पुनः ।
क्षीरवृक्षसमिद्भिर्वा दूर्वाकाण्डैरभावतः ॥ ५७ ॥

लक्षमात्रे हुते ह्याशु वैखरीं सिद्धिमाप्नुयात् ।
भित्वा तु सत्वयन्त्राणि प्रविशेद्विवरोत्तमम् ॥ ५८ ॥

पीत्वा रसायनं दिव्यं नारायणबलो भवेत् ।
क्रीडने कन्यकायुक्ते यावदाभूतसप्लवम् ॥ ५९ ॥

खड्गसाधनम्
विश्वास-प्रस्तुतिः
भूमिभागे समे लिप्ते रोचनां कुङ्कुमैर्युताम् ।
लिखेत् त्रिंशाङ्गुलं खड्गं स्पष्टं साङ्गं मनोरमम् ॥ ६० ॥

पूर्वोक्तेन विधानेन इष्ट्वा तत्र जनार्दनम् ।
मुष्टिस्थाने करं स्थाप्य जपेल्लक्षं समाहितः ॥ ६१ ॥

युक्ताहारविहारो हि युक्तस्वप्नो ह्यखेदवान् ।
यावदुत्तिष्ठते खड्गो मुष्टिना ग्राहयेत्ततः ॥ ६२ ॥

तं गृहीत्वा तु सर्वेषां विद्यानामधिपो भवेत् ।
विद्याधराणां सर्वेषां चक्रवर्तित्वमाप्नुयात् ॥ ६३ ॥

अञ्जनादिसाधनम्
विश्वास-प्रस्तुतिः
पूर्वोक्तेन विधानेन पूजयेन्मन्त्रनायकम् ।
रोचनां शङ्खशुक्तौ तु गृहीत्वा शङ्खमुद्रया ॥ ६४ ॥

तावत्परिजपेन्मन्त्रं यावज्ज्वालां प्रमुञ्चति ।
तन्मध्ये दृश्यते कान्ता कन्यका कामरूपिणी ॥ ६५ ॥

सिद्धास्मीति वदेत्सा तु कुरु कार्यं यथेप्सितम् ।
अनेनैव विधानेन अञ्जनादीनि साधयेत् ॥ ६६ ॥

गुलिकासाधनम्
विश्वास-प्रस्तुतिः
रोचनां कुङ्कुमं चैव हरितालं मनश्शिलाम् ।
चक्राङ्कां चौषधीं तत्र पञ्चमां विनियोजयेत् ॥ ६७ ॥

{{२९४}}
विश्वास-प्रस्तुतिः
सूक्ष्मपिष्टां तु तां कृत्वा आलोड्य मधुरैस्त्रिभिः ।
एकादश्यां समभ्यर्च्य मण्डले मन्त्रनायकम् ॥ ६८ ॥

तत्राधिवासयेत्तां तु गुलिकां यन्त्रसम्पुटे ।
सितार्कस्य विधानेन द्वादश्यां तु जपेत्ततः ॥ ६९ ॥

दशायुतं तु तन्मन्त्री ततः सिद्धा तु सा भवेत् ।
तया करस्थया मन्त्री विधिवद्गगनान्तरे ॥ ७० ॥

पाताले वा महीपृष्ठे लोकपालपुरेषु च ।
चक्रपाणिर्यथा विष्णुरधृष्यः सर्वदैवतैः ॥ ७१ ॥

जायते साधकेन्द्रस्तु मन्त्रस्यास्य प्रभावतः ।
रसायनादिसाधनम्
ब्राह्मणं क्षत्रियं वाऽपि निर्व्रणं लक्षणैर्युतम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
युवानमेकं दिवसं संस्थितं तु समानयेत् ।
शून्ये गृहे समावेश्य स्नापयेदर्चयेत्ततः ॥ ७३ ॥

यथा विधानतो मन्त्री मन्त्रं सम्पूज्य मण्डले ।
उपविष्टं शवं कृत्वा मन्त्रं तस्याग्रतो जपेत् ॥ ७४ ॥

ताडयेत्सर्षपाणां तु शतेनाष्टोत्तरेण तु ।
ततो वेगात्समुत्थाय ब्रवीति प्रणतो वचः ॥ ७५ ॥

किं करोमि तवाद्याहं ममाज्ञा सम्प्रदीयताम् ।
पादमूले रसं सिद्धं रसायनमपि द्विज ॥ ७६ ॥

यच्चान्यन्मनसोऽभीष्टं दद्ददात्यविकल्पतः ।
यक्षिणीसाधनम्
कौशेयवस्त्रमानीय लिखेत्तत्र च यक्षिणीम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणसंयुक्तां सुरूपां मनसेप्सिताम् ।
यथोक्तेन विधानेन मन्त्रं सम्पूज्य पूर्ववत् ॥ ७८ ॥

उपोषितश्चार्धरात्रे दद्याद्धूपं सगुग्गुलुम् ।
सप्ताहमेवं कुर्वीत जपेच्चाप्ययुतं सदा ॥ ७९ ॥

सप्तमे ह्यर्धरात्रे तु सशद्बः कम्पते पटः ।
प्रत्यक्षमास्ते विप्रेन्द्र रूपैश्वर्येण संयुता ॥ ८० ॥

{{२९५}}
विश्वास-प्रस्तुतिः
यदा तु न क्षुभेन्मन्त्री तदा सिद्धाऽस्य सा भवेत् ।
माता वा भगिनी भार्या का भवामीति भाषते ॥ ८१ ॥

तस्या यथेष्टं वक्तव्यं निर्विकल्पेन चेतसा ।
सा सिद्धा सर्वकार्याणि साधयत्याशु मन्त्रिणः ॥ ८२ ॥

कामं ददाति विविधं नानारूपैर्यथेप्सितम् ।
जायात्वेन द्विजश्रेष्ठ यदा चाङ्गीकृता पुरा ॥ ८३ ॥

निधीनथाक्षयान् शश्वद्भगिनीत्वे प्रयच्छति ।
लोकालोकान्तरालोकं दर्शयत्यविचारतः ॥ ८४ ॥

औषधीश्च तदा दिव्या रसांश्च विविधानपि ।
शास्त्राणि विविधान्याशु साधयेच्छान्तिसिद्धये ॥ ८५ ॥

ददाति सम्यक् सिद्धा सा सुसिद्धीर्जननी यथा ।
परसैनिकप्रणाशनम्
सङ्ग्रामकाले सम्प्राप्ते आयुधान्यभिमन्त्रयेत् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
परसैनिक(?)पूर्वोक्तमभिमन्त्र्य च सर्षपान् ।
अस्त्रसम्पुटितेनैव तेनैव त्र्यक्षरेण तु ॥ ८७ ॥

मन्त्रेणाग्निप्रभावेन ज्वालामालाकुलेन तु ।
गत्वा परबलास्त्रं तु क्रोधसंरक्तलोचनः ॥ ८८ ॥

प्रक्षिपेत्सैन्यमध्ये च नाशयेत्परसैनिकम् ।
दिव्यानां स्तम्भनम्
रोचनाकुङ्कुमैर्युक्तो नाममन्त्रविदर्भितम् (?) ॥ ८९ ॥
विश्वास-प्रस्तुतिः
लिखेत्कौस्तुभमध्ये तु कलाषोडशसंयुते ।
एकैका तु कला विप्र पुरा युक्ताऽमृतेन तु ॥ ९० ॥

साऽमृतानां कलानां च योजयेच्च तथोपरि ।
विश्वाप्यायस्थितं वापि चन्द्ररश्मिसमप्रभम् ॥ ९१ ॥

तद्बाह्येऽष्टदलं पद्मं विलिखेच्च सकर्णिकम् ।
देव्योऽङ्गानि यथार्चायां दलेष्वभ्यन्तरे लिखेत् ॥ ९२ ॥

स्तम्भयेत्सर्वदिव्यानि खात्केशां(खेचरां?)श्च निवारयेत् ।
पूजनाद्धवनाद्ध्यानाच्चन्दनोदकसेचनात् ॥ ९३ ॥

{{२९६}}
[उत्पातप्रशमनम्]
विश्वास-प्रस्तुतिः
लिखितं भूर्जपत्रे तु क्षीराम्भोविनिवेशितम् ।
उत्पातानि महोग्राणि साभिचाराणि नाशयेत् ॥ ९४ ॥

विषशस्त्रादिभयप्रशमनम्
विश्वास-प्रस्तुतिः
त्रिलोहवेष्टितं कृत्वा पुष्यर्क्षे लिखितं तु वै ।
द्वादश्यां शुक्लपक्षे वा मध्यन्दिनगते रवौ ॥ ९५ ॥

बाह्वोः कण्ठे तथा मूर्ध्नि यस्तु धारयते सदा ।
विषशस्त्राग्निभूतेभ्यो भयं तस्य न जायते ॥ ९६ ॥

चक्रयन्त्रसाधनम्
विश्वास-प्रस्तुतिः
रोचनाचन्दनेनैव भूर्जे वा सितकर्पटे ।
चक्रं कुर्याद्द्विषट्कारं नाभिनेमिसमन्वितम् ॥ ९७ ॥

तन्मध्ये कमलं कुर्यात् षोडशच्छदभूषितम् ।
त्र्यर्णेन मूलमन्त्रेण नामसम्पुटयोगतः ॥ ९८ ॥

विलिख्य तद्बहिर्दद्यान्मन्त्रं यो द्वादशाक्षरम् ।
परिवेषप्रयोगेण पत्रे पत्रे लिखेत्ततः ॥ ९९ ॥

देवीनां हार्दकं बीजं चतुर्धा केसरावधौ ।
अष्टाष्टकं तु बीजानां यावदेकत्र सङ्ख्यया ॥ १०० ॥

ततः सर्वदलाग्रस्थः प्रणवो लिख्यते द्विज ।
पुष्पपत्रात्समारभ्य हकाराद्यं च विन्यसेत् ॥ १०१ ॥

क्रमान्मकारपर्यन्तं ततः पद्मस्य बाह्यतः ।
शिरः शिखां च कवचं नाभित्रितयगं लिखेत् ॥ १०२ ॥

परिवेषप्रयोगेण चक्रारेषु लिखेत्ततः ।
अस्त्रा द्वादशधा विप्र एकैकस्यान्तरे ततः ॥ १०३ ॥

नेत्रमन्त्रं त्रिधा दद्यान्नाभिवन्नेमिमण्डले ।
यन्त्रोऽयं मुनिशार्दूल सर्वोपद्रवनाशनः ॥ १०४ ॥

धारणात्स्मरणाद्ध्यानान्नास्ति तद्यन्न साधयेत् ।
शङ्खयन्त्रम्
शङ्खोदरगतं पद्मं लिखित्वा द्वादशच्छदम् ॥ १०५ ॥
विश्वास-प्रस्तुतिः
समदेन तुषारेण कुङ्कुमेन तथैव च ।
विलिख्य कर्णिकामध्ये त्र्यक्षरं मूर्तिसंयुतम् ॥ १०६ ॥

{{२९७}}
विश्वास-प्रस्तुतिः
वलयाकृतियोगेन नाम तन्मध्यतो लिखेत् ।
नारसिह्मादयो मन्त्रास्त्रयो लेख्या दलत्रये ॥ १०७ ॥

भूयो भूयश्चतुर्वारं बाह्यपद्मं च वेष्टयेत् ।
क्रमात्पद्मादिकैर्मन्त्रैस्सर्पकुण्डलयोगतः ॥ १०८ ॥

वक्त्रदेशेऽथ शङ्खस्य क्रमाल्लोकेश्वरा दश ।
अस्त्रमन्त्रास्तथा सख्यः शङ्खस्याथो निवेशयेत् ॥ १०९ ॥

इदं यन्त्रं मुनिश्रेष्ठ सर्वमन्त्रैरधिष्ठितम् ।
सर्वकर्मकरं प्रोक्तं सर्वोपप्लवनाशकम् ॥ ११० ॥

सर्वरोगविघातं च सर्वामयविनाशनम् ।
तिथिनक्षत्रविशेषात्फलभेदः
सर्वमङ्गलकृत्सम्यक् पुष्यर्क्षलिखितं भवेत् ॥ १११ ॥
विश्वास-प्रस्तुतिः
द्वादश्यामथ शुक्लायां पूजयित्वा यथाविधि ।
अभिषेकविधानेन शान्तिके पौष्टिके लिखेत् ॥ ११२ ॥

रक्षार्थं सर्वभूतेभ्यो योज्यं सर्वत्र सर्वदा ।
आहुतिद्रव्यभेदात् आहुतिसङ्ख्याभेदाच्च फलभेदः
लक्षाहुतिप्रदानेन तिलानां कृष्णवर्चसाम् ॥ ११३ ॥
विश्वास-प्रस्तुतिः
पूजयेद्वत्सरं यत्तु होमान्तेऽथ घृताहुतीः ।
आपाद्य द्वादशशतं स्रुचा सम्यङ्महामुने ॥ ११४ ॥

ददाति तस्य भगवान् यत्किञ्चिन्मनसेप्सितम् ।
एकादश सहस्राणि कमलानां तु नारद ॥ ११५ ॥

जुहुयाच्च घृताक्तानामेकान्ते विजने तु यः ।
समुद्धृत्योदकात्सद्यस्तस्य लक्ष्मीं प्रयच्छति ॥ ११६ ॥

योऽयुतं चाथ बिल्वानां घृताक्तानां तु होमयेत् ।
तस्य क्षिप्रं ददात्येष मन्त्रेशो विपुलं धनम् ॥ ११७ ॥

ग्रामानश्वान्सुवर्णं च दर्शयेत्तु कृताकृतम् ।
आयुः पुत्रानथारोग्यं सौभाग्यं सर्वतोमुखम् ॥ ११८ ॥

यस्या अग्रे देवताया इमं मन्त्रेश्वरं जपेत् ।
सा तस्मै सकलान्कामान्प्रसन्ना सम्प्रयच्छति ॥ ११९ ॥

साधितो मन्त्रसिद्धिर्हि(द्ध्या हि?) मन्त्रराजः करोति च ।
प्रसादितश्च पूजाद्यैः कर्मणा चाग्निकेन तु ॥ १२० ॥

{{२९८}}
विश्वास-प्रस्तुतिः
सामान्यमपि यत्किञ्चिद्भूतले कर्म विद्यते ।
स्मरणात्सर्वमेवाशु साधकानां प्रयच्छति ॥ १२१ ॥

मन्त्रराजस्य महिमाविशेषः
विश्वास-प्रस्तुतिः
इदमन्यत्प्रवक्ष्यामि मुनिश्रेष्ठ निबोध मे ।
मन्त्रराजस्य यद्वीर्यं माहात्म्यं प्रभविष्णुता ॥ १२२ ॥

येनायं पूजितः सम्यक् ज्ञातो ध्यातः सकृत्स्मृतः ।
तस्य सिद्धिः परा दिव्या मानुषी सम्प्रवर्तते ॥ १२३ ॥

न चास्य सदृशो मन्त्रो मन्त्रराजस्य विद्यते ।
सुखसौभाग्यसम्पत्तेरपवर्गप्रसिद्धये ॥ १२४ ॥

इमं मन्त्रेश्वरं जप्त्वा भक्तिश्रद्धापरस्तु यः ।
तच्चित्तो विजने स्थाने सर्वान्कामानवाप्नुयात् ॥ १२५ ॥

किमन्यैस्तस्य विप्रेन्द्र मन्त्रकोटिशतैरपि ।
स तु चिन्तामणिप्रख्यो यस्यायं हृदि वर्तते ॥ १२६ ॥

सर्वकामप्रदः सद्यो देहान्तेऽपि च मोक्षदः ।
इमं मन्त्रेश्वरं जप्त्वा सर्वान्कामानवाप्नुयात् ॥ १२७ ॥

न चास्य सदृशो मन्त्रो मन्त्रैः कोटिशतैरपि ।
एवं मन्त्रवरं लब्ध्वा धुनेत्सर्वं फलाफलम् ॥ १२८ ॥

चिन्तामणिर्यथा लोके सर्वाभीष्टं प्रयच्छति ।
एवं मन्त्रेश्वरो ह्येष साधकाय प्रयच्छति ॥ १२९ ॥

ऐहिकामुष्मिकं सर्वं सम्यगाराधितः सदा ।
लक्षायुतायुते जप्ते पूजाहोमादिकैर्विना ॥ १३० ॥

प्रयच्छत्यणिमादीनि जपान्ते मन्त्रराड् द्विज ।
प्राणायामादिसंयुक्तो धारणाध्यानतत्परः ॥ १३१ ॥

विना हवनपूजाभ्यां लक्षं लक्षं स्थितो जपेत् ।
साक्षात्पश्यति देवेशं विष्णुं परमरूपिणम् ॥ १३२ ॥

एतदुद्देशतो विप्र कर्म मन्त्रेश्वरस्य तु ।
भक्त्यर्थं साधकेन्द्राणां कथितं नातिविस्तृतम् ॥ १३३ ॥

तन्नास्ति यन्न मन्त्रेशः साधयेत्परितोषितः ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां साधकस्य
मूलमन्त्रसाधनं नाम सड्विंशः पटलः ॥ २६ ॥