२५ प्रायश्चित्त-विधिः

अथ प्रायश्चित्तविधिर्नाम पञ्चविंशः पटलः ।

नारदः –

विश्वास-प्रस्तुतिः

भगवन् श्रोतुमिच्छामि प्रायश्चित्तविनिर्णयम् ।
कृताकृतानां सर्वेषां शान्तये वैष्णवस्य च ॥ १ ॥

मूलम्

श्रीभगवान् –

विश्वास-प्रस्तुतिः

मार्गस्थो मुनिशार्दूल लुप्ताचारो व्रजत्यधः ।
पालनीयस्त्वतस्तस्मादाचारः साधुसेवितः ॥ २ ॥

दैवाद्रोगात्तथा मोहवशाद्दोष उपागतः ।
जपेन क्षालनीयोऽसौ दानेन हवनेन च ॥ ३ ॥

मूलम्

दैवाद्रोगात्तथा मोहवशाद्दोष उपागतः ।
जपेन क्षालनीयोऽसौ दानेन हवनेन च ॥ ३ ॥

तपसाऽपि मुनिश्रेष्ठ ज्ञात्वा कर्मबलाबलम् ।

सन्ध्यालोपे प्रायश्चित्तम्

आरम्भसन्ध्यालोपेषु मूलमङ्गसमन्वितम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

सत्यादिपञ्चकोपेतं सरुजश्च सकृत्सकृत् ।
अरुजः सत्यबीजं तु शतमष्टाधिकं जपेत् ॥ ५ ॥

जपावसानात्तत्कुर्यात्सन्ध्याकर्म द्विजाखिलम् ।

सन्ध्यात्रयलोपे प्रायश्चित्तम्

लुप्ते सन्ध्यात्रये चैव नीरुजस्तु जपेत्सदा ॥ ६ ॥

विश्वास-प्रस्तुतिः

षट्शतानि तु मूलस्य मूर्तिमन्त्रान्वितस्य च ।
सरुजश्चाङ्गषट्काढ्यं मूलमूर्तियुतं त्रिधा ॥ ७ ॥

जपेद्वा नित्यशान्त्यर्थमन्येषां दोषमाप्नुयात् ।

अनेकदिनेषु सन्ध्यालोपे प्रायश्चित्तम्

अनेकदिनशो भ्रंशः सरुजस्य यदा भवेत् ॥ ८ ॥

{{२७६}}

विश्वास-प्रस्तुतिः

स्नात्वा निवृत्तरोगोऽसौ पूजयित्वा जगत्प्रभुम् ।
जपित्वैकसहस्रं च भूयः पूजाग्नितर्पणम् ॥ ९ ॥

कुर्याच्चैव जपार्धेन नीरुजस्याथ कीर्त्यते ।
द्विस्त्रिस्तथैकरात्रं वा यथाशक्त्याऽथ मन्त्रराट् ॥ १० ॥

जप्योऽयुतद्वयं पश्चात्पूजा कार्या विशेषतः ।
तिलानामाज्यसिक्तानां सहस्रैकं तु होमयेत् ॥ ११ ॥

वैष्णवान्भोजयेत्पश्चाच्छक्त्या त्रिद्द्व्येकसङ्ख्यया ।

प्रमादादशुचिसंस्पृष्टान्नभक्षणे अन्यस्त्रीसेवने च प्रायश्चित्तम्

प्रमादाद्यदि विप्रेन्द्र अज्ञात्वा भक्षितं पुरा ॥ १२ ॥

विश्वास-प्रस्तुतिः

स्पृष्टमन्नादिकं चैव मदिरासेवकादिभिः ।
रेतोमूत्रपुरीषैर्वा शुककाकावलीढितम् ॥ १३ ॥

विड्वराहैरथो गृध्रगोमायुकपिकुक्कुटैः ।
संस्पृष्टमन्त्यजेनापि शूद्राद्युच्छिष्टदूषितम् ॥ १४ ॥

अभोज्यान्नं तु वा भुक्त्वा सेवित्वाऽन्यस्त्रियं तु वा ।
स्नात्वा भुक्त्वा त्वहोरात्रं पञ्चगव्यं समाचरेत् ॥ १५ ॥

सहस्रं प्रतिसन्ध्यं च सिह्ममन्त्रं जपेद्बुधः ।
दिनत्रयं नक्तभोजी त्रिस्नायी ध्यानतत्परः ॥ १६ ॥

इष्ट्वा देवं चतुर्थेऽह्नि सहस्रं होमयेत्ततः ।
पूर्ववद्भोजनं दत्वा नक्ताशी शुध्यते द्विजः ॥ १७ ॥

तत्र क्षत्रियवैश्यशूद्राणां विशेषाः

विश्वास-प्रस्तुतिः

नारायणैकचित्तस्य नृपस्यैवं विनिर्दिशेत् ।
द्विधा स्नानं तु वैश्यस्य सकृच्छूद्रस्य कीर्तितम् ॥ १८ ॥

क्रमतो द्विगुणो जापः सर्वेषां परिकीर्तितः ।

उक्तप्रायश्चित्ताङ्गभूतपञ्चगव्यविधानम्

क्षीरं दधि घृतं चैव गोमूत्रं गोशकृत्कुशान् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तोयं ताम्रमये पात्रे कृत्वाऽथ परिजप्य च ।
एकैकं शतजापेन मूलाद्यस्त्रावसानिकैः ॥ २० ॥

स्नात्वा पीत्वा त्रिरात्रं तु कृत्वा योन्तो (न्योऽ ?)पि तं पिबेत् ।
ध्यायेज्जपेत् नृसिंहं तु पूजयेच्चापि नारद ॥ २१ ॥

{{२७७}}

विश्वास-प्रस्तुतिः

तस्यापि नाशमायाति महापातकसञ्चयः ।
स्तेयं गुरुस्त्रीसम्भोगः सुरापानादिकं च यत् ॥ २२ ॥

कामतो ब्राह्मणवधे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

कामतो ब्राह्मणं हत्वा गवां मध्यस्थितो जपेत् ।
अतन्द्रितः सिंहमन्त्रमनिशं वत्सरद्वयम् ॥ २३ ॥

अयाचितान्नलध्वाशी त्रिस्नायी न्यासकृत्सदा ।
वत्सरद्वितयस्यान्ते तीर्थं वाऽयतनं व्रजेत् ॥ २४ ॥

ततः कुर्याद्व्रतं शक्त्या कृच्छ्रचान्द्रायणादिकम् ।
व्रतान्ते नवनाभेन दीक्षयेत्पुनरेव हि ॥ २५ ॥

सर्वस्वं च गुरोर्दद्याद्भक्तानां च तदाज्ञया ।

सुरापानप्राश्चित्तम्

सुरां पीत्वा तु तामन्ते जपेत्सत्यमहर्निशम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

त्र्यहं त्वनश्नन्नन्ते तु कं पिबेत् सिह्मतापितम् ।
स्थित्वा चायतने विष्णोः सहस्रैकं जपेद्बुधः ॥ २७ ॥

स्वर्णस्तेयादौ प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

स्तेयं च कामतः कृत्वा हेमभूम्यादिकं तु वै ।
ज्ञात्वाऽनुतापसन्तप्तो मन्त्रेशं कापिलं जपेत् ॥ २८ ॥

पञ्चायुतप्रमाणेन विजनस्थः समाहितः ।
पयोमूलफलाहारः शुध्यत्यन्तेऽर्चने हुतौ ॥ २९ ॥

कामतः सन्त्यजेद्भूयो द्रव्यमेतत्समाहृतम् ।
द्विगुणं तदभावाच्च जपं पूर्वोदिताच्चरेत् ॥ ३० ॥

गुरुपत्नीगमने प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

सिह्मं गुरुस्त्रीगमने ह्यकामाज्जनवर्जिते ।
भैक्षाहारो जपेन्मौनी शुद्धये त्वयुतत्र(द्व?)यम् ॥ ३१ ॥

प्रख्यातौ कामतो लक्षस्सकामश्च रहस्यपि ।
अयुतद्वितयं सार्धं जप्त्वा शुध्यति नान्यथा ॥ ३२ ॥

एकान्ते कामतो गत्वा सार्धं चैवायुतद्वयम् ।
अकामतः प्रकाशे तु जप्त्वाऽयुतचतुष्टयम् ॥ ३३ ॥

अप्रकाशे प्रकाशे वा तु कामतोऽकामतोऽपि वा ।
जपान्ते यागहोमौ च कृत्वा शुध्यति नान्यथा ॥ ३४ ॥

{{२७८}}

विश्वास-प्रस्तुतिः

दीक्षोपकरणादीनामभावाद्द्विजसत्तम ।
गुर्वङ्गनाप्रसक्तश्च लक्षजापाच्च शुध्यति ॥ ३५ ॥

रजस्वलास्पृष्टान्नभक्षणे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

अन्नं रजस्वलास्पृष्टं भुक्तं चेद्यदि कामतः ।
जप्त्वाऽस्त्रमन्त्रं साष्टं च शतं चैवाभिशुध्यति ॥ ३६ ॥

कामतस्त्रिगुणं चैव जपं कुर्यादतन्द्रितः ।

लिङ्गमूर्तये विनियुक्तान्नस्य भक्षणे प्रायश्चित्तम्

यल्लिङ्गमूर्तौ रुद्रस्य दत्तमश्नाति वैष्णवः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तत्स्पृष्टं वा प्रमादेन सिह्मपञ्चशतं जपेत् ।
कामतो द्विगुणश्चैव स्नातो होमाच्च शुध्यति ॥ ३८ ॥

विष्णुनिवेदितस्यान्नस्यायोग्ये देशे पात्रे वा प्रक्षेपे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

विष्णोर्निवेदितं प्राश्यं निक्षिपेद्यत्र कुत्रचित् ।
अयोग्यस्याथ वा दद्यात्सिंहस्याष्टशतं जपेत् ॥ ३९ ॥

आशौचान्नभक्षणे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

मृतके मुनिशार्दूल भुक्त्वा चैवाथ सूतके ।
कामतः सिंहमन्त्रं तु सहस्रं परिवर्तयेत् ॥ ४० ॥

अकामतस्तदर्धं वै जपेत्तन्नियतः शुचिः ।

पतिताद्यन्नभक्षणे प्रायश्चित्तम्

भक्तं च पतितानां तु गणिकानां च वै द्विज ॥ ४१ ॥

विश्वास-प्रस्तुतिः

गणान्नमथवा भुक्तं पञ्च षट् सप्त वै शतम् ।
नृसिह्मकपिलक्रोडमन्त्राणां क्रमशो जपः ॥ ४२ ॥

सीमन्तादिसंस्कारान्नभक्षणे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

यः सीमन्ते प्रभुङ्क्ते तु स च नक्तागमे जपेत् ।
द्वे शते अनिरुद्धाख्यबीजस्य ध्यानतत्परः ॥ ४३ ॥

नामधेयाख्यसंस्कारे प्रद्युम्नं द्विशतं जपेत् ।
अन्नप्राशनसंस्कारे जपेत्सङ्कर्षणम् शतम् ॥ ४४ ॥

शेषेषु वासुदेवाख्यं बीजमावर्तयेच्छतम् ।

सद्यःश्राद्धाद्यन्नभोजने प्रायश्चित्तम्

यः पञ्चत्वं प्रयातस्य भुङ्क्तेः संवत्सरावधि ॥ ४५ ॥

सद्यःश्राद्धात्समारभ्य स सिंहस्यायुतं जपेत् ।

{{२७९}}

[सच्छूद्रान्नभक्षणे प्रायश्चित्तम्]

कामतोऽकामतो वाऽपि सच्छूद्रान्नस्य भक्षणात् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सहस्रमर्धं क्रमशो ह्यस्त्रमन्त्रं जपेद्बुधः ।
एतच्चतुर्गुणं विद्यादसच्छूद्रान्नभक्षणात् ॥ ४७ ॥

वान्ते मन्त्रं तु वाराहं त्रिशतं परिवर्तयेत् ।
स्नात्वा तन्मन्त्रितं पीत्वा पञ्चगव्यं तु वा द्विज ॥ ४८ ॥

अवैष्णवप्रतिष्ठायां यज्ञे वाऽवैष्णवे त्वपि ।
भुङ्क्ते हृदयमन्त्रस्य जपेत्पञ्चशतं तु वै ॥ ४९ ॥

आरामादौ भोजनप्रायश्चित्तम्

विश्वास-प्रस्तुतिः

आरामवृक्षकूपेषु बाह्ये वा सुगतालये ।
प्रपातटाकयोर्मोक्षे गोदाने वृषमोक्षणे ॥ ५० ॥

विवाहे वरणे वाऽथ भुङ्क्ते गत्वा परे गृहे ।
जपेत्साष्टशतं मन्त्री सिह्ममन्त्रमतन्द्रितः ॥ ५१ ॥

अवैष्णवाग्रतो भुक्त्वा पथि साष्टशतं जपेत् ।

नैष्ठिकाद्यन्नभक्षणे प्रायश्चित्तम्

कामतो नैष्ठिकान्नं तु वणिगन्नं तु वा द्विज ॥ ५२ ॥

विश्वास-प्रस्तुतिः

भुक्त्वा जपेन्मूर्तिमन्त्रं सहस्रपरिसङ्ख्यया ।
अकामतस्तदर्धं तु लिङ्गिनामेवमेव हि ॥ ५३ ॥

मधुमांसयोर्दर्शने प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

निषेधान्मधुमांसाभ्यां प्रमादाद्दर्शनं कृतम् ।
सिह्मस्याष्टशतं जापात्स दोषः शतधा व्रजेत् ॥ ५४ ॥

नियमात्प्रच्यवे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

मैथुनाहारपानादिनियमस्याप्यरक्षणात् ।
अस्त्रमन्त्रशतं सार्धं जपन्यासे कृते सति ॥ ५५ ॥

भैक्षान्नभक्षलोभाच्च एवमेव प्रकीर्तितम् ।
अधश्शयनसङ्कल्पलोपादस्त्रं जपेच्छतम् ॥ ५६ ॥

गृहभूतपिशाचादिविच्छेदे तु कृते सति ।
मूलमन्त्रं शतं साष्टं जपेधृत्सम्पुटीकृतम् ॥ ५७ ॥

ज्ञानप्राप्त्यादेरन्यत्र नृत्तगीतादिकरणे प्रायश्चित्तम्

ज्ञानप्राप्तौ प्रतिष्ठायां प्रक्रान्ते विष्णुजागरे ।
{{२८०}}

प्राप्ते चायतने तीर्थे शास्त्रे सन्मार्गदर्शने ॥ ५८ ॥

विश्वास-प्रस्तुतिः

गुरोर्विपत्तिश्रवणात्स।प्राप्ते दशमे पुनः ।
एभिर्विना नृत्तगीते कृत्वा सत्यशतं जपेत् ॥ ५९ ॥

उपरोधादथ स्नेहात्कृत्वा शान्तिकपौष्टिके ।
शतत्रयं च वाराहं जप्त्वा मन्त्रेशमर्चयेत् ॥ ६० ॥

सूतकादौ शान्तिकादिकर्मसु पूजास्वीकारे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

सूतके मृतके चैव वर्तमाने तु नारद ।
कामतः पूजितो मन्त्री शान्तिकादौ तु कुत्रचित् ॥ ६१ ॥

जपेत्पञ्चशतं [चात्र] सिह्ममन्त्रस्य भक्तितः ।
शतत्रयमकामश्च प्रायश्चित्तविधौ जपेत् ॥ ६२ ॥

उच्चाटनादिकरणे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

उच्चाटनादीन्कृत्वा वै इच्छयाऽस्त्रं द्विजोत्तम ।
अयुतार्धं पुरावर्त्यं तदर्धं चाप्यकामतः ॥ ६३ ॥

न मारणं तु मन्त्रेण कुर्यान्मन्त्री कदाचन ।

चैत्यादिषु देवप्रतिष्ठाकरणे प्रायश्चित्तम्

देवप्रतिष्ठां दीक्षां च कृत्वा चैत्यादिषु त्रिषु ॥ ६४ ॥

विश्वास-प्रस्तुतिः

सङ्कर्षणादिकांस्त्रीन्वै क्रमशः परिवर्तयेत् ।
एकद्वित्रिशतैः साष्टैः कुर्याद्धवनपूजने ॥ ६५ ॥

पट्टादिप्रतिग्रहे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

पट्टः कार्पासकौर्णश्च क्षौममार्जं तु वेष्टनम् ।
चर्म प्रतिग्रहेणैव गृहीत्वा यत्र कुत्रचित् ॥ ६६ ॥

हृदाद्यस्त्रावसानं षट् जपेद्वै षट्शतादितः ।
क्रमशस्त्वेकहान्या तु एकैकस्मिंस्तु नारद ॥ ६७ ॥

कामतोऽकामतश्चैव अर्धमर्धं पुरोदितात् ।

क्षीरादिप्रतिग्रहे प्रायश्चित्तम्

क्षीरं दधि घृतं चैव तदुत्थमपि यद्द्विज ॥ ६८ ॥

विश्वास-प्रस्तुतिः

लवणं मधु तैलं च सर्वमिक्षुसमुद्भवम् ।
गृहीत्वाऽस्त्रसमायुक्तं वराहं त्रिशतं जपेत् ॥ ६९ ॥

{{२८१}}

[रत्नादिपरिग्रहे प्रायश्चित्तम्]

विश्वास-प्रस्तुतिः

रत्नानि रजतं हेम विद्रुमं मौक्तिकं तथा ।
गृहीत्वा कापिलं मन्त्रं जपेत्कामाच्छतत्रयम् ॥ ७० ॥

अकामाच्च तमेकं तु जपेद्ध्यानपरायणः ।
ताम्रादिलोहमादाय नृपशैलादिधातुकान् ॥ ७१ ॥

कामतोऽकामतो जप्यो नृसिह्मो द्वे शते शतम् ।

गवादिप्रतिग्रहे प्रायश्चित्तम्

गामश्वं वृषभं हस्तिं स्त्रियोऽवाश्वतरं तु वा ॥ ७२ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा नृहरिर्जप्यः कामतोऽष्टशतं मुने ।
शतत्रयमकामेन सोपवासस्त्वसौ जपेत् ॥ ७३ ॥

शाल्यादिप्रतिग्रहे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

सस्यानि शालयः सर्वे गृहीताश्च प्रतिग्रहाः ।
शतत्रयं द्वयं चैव कामाकामे ह्युदङ्मुखः ॥ ७४ ॥

भूदानप्रतिग्रहे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

केवलाल्पावनिं चैव गृहीत्वा नृहरिं जपेत् ।
सहस्रसङ्ख्यया चैव सम्पन्नां फलशालिभिः ॥ ७५ ॥

कुर्याद्द्विगुणमेतं वै कामतोऽकामतो जपम् ।
मठप्रतिग्रहेऽप्येवमर्धं वेश्मप्रतिग्रहे ॥ ७६ ॥

पापसङ्करे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

पापानामप्यनेकानां सङ्करे सति नारद ।
मूलमन्त्रं जपेत्साङ्गं शतमष्टाधिकं तु वै ॥ ७७ ॥

ततः सत्यादिकाः पञ्च परावृत्या शतं शतम् ।
जपेत्सप्ताक्षरं मन्त्रं शतमष्टाधिकं द्विज ॥ ७८ ॥

अन्नसङ्करदोषाच्च शुद्धिमायाति तत्क्षणात् ।
एवमेव जपं कुर्यादुत्पन्ने भाण्डसङ्करे ॥ ७९ ॥

योनिसङ्करशुध्यर्थं जपेत्सत्यं शतत्रयम् ।

काष्ठादिहरणे प्रायश्चित्तम्

काष्ठोपलतृणादीनां हरणे सति नारद ॥ ८० ॥

कामतोऽकामतश्चैव शिखामन्त्रं जपेच्छतम् ।

{{२८२}}

[शास्त्रादिहरणे प्रायश्चित्तम्]

परतश्छद्मना ज्ञानं हृतं शास्त्रं तु वा मुने ॥ ८१ ॥

मूर्तिमन्त्रायुतं मूलं जपेदयुतसङ्ख्यया ।

गुरुदारादिनिन्दने प्रायश्चित्तम्

गुरोः स्त्रियं सुतां वाऽपि निन्दन्वै यस्तु मोहितः ॥ ८२ ॥

शतं शतं च देवानां जप्यमस्त्रं यथाक्रमम् ।

प्राणिघाते प्रायश्चित्तम्

सतेजःप्राणिघाते तु निरस्थिनि हते सति ॥ ८३ ॥

विश्वास-प्रस्तुतिः

कामतोऽकामतो द्विर्वा सत्यमन्त्रं सकृत्स्मरेत् ।
आखुघाते च दशधा मार्जारे शतधा तु वै ॥ ८४ ॥

श्वशृगालवधे चैव द्विगुणं कपिकुक्कुटे ।
सर्पाद्यण्डजघाते तु हंसादिशकुनिष्वपि ॥ ८५ ॥

सिंहादिमगघाते च अजादिपशुघातने ।
शताच्चतुश्शतान्तं तु नृसिह्मं वै जपेत्क्रमात् ॥ ८६ ॥

श्वशृगालादिदंशे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

श्वशृगालादिसर्वेषां यदि दंशः प्रमादतः ।
स्नात्वा शीताप्सुमध्यस्थो गारुडं द्विशतं जपेत् ॥ ८७ ॥

असत्प्रतिग्रहे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

कामतोऽकामतो वापि असक्त(त?)श्च प्रतिग्रहम् ।
गृहीतं मुनिशार्दूल सिह्मजापी विशुध्यति ॥ ८८ ॥

शतत्रयाच्चाचिरेण स्नानध्यानेन नारद ।

श्वपाकादिस्पर्शे प्रायश्चित्तम्

श्वपाकम्लेच्छचण्डालकरङ्कनृकपालिभिः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

स्पर्शने सोमकृद्यूपश्मशानद्रुमपुल्कसैः ।
कृत्वा स्नानं सचेलं तु सिह्ममन्त्रं शतं जपेत् ॥ ९० ॥

वैष्णवादिनिन्दादौ प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

निन्दनाद्वैष्णवानां च दीक्षितानां विशेषतः ।
गुर्वाज्ञालङ्घनाच्चैव गुरुद्रव्य उपेक्षणात् ॥ ९१ ॥

सत्यं बीजं जपेत्साष्टशतं वै मुनिसत्तम ।

{{२८३}}

[अपशकुने प्रायश्चित्तम्]

वामाङ्गस्पन्दने चैव तथा दुःस्वप्नदर्शने ॥ ९२ ॥

वासुदेवं जपेन्मन्त्रं पञ्चविंशतिसङ्ख्यया ।

अरिष्टचिन्तनादौ प्रायश्चित्तम्

अरिष्टचिन्तनाच्चैव भाषणादनृतस्य च ॥ ९३ ॥

कर्मणा वाङ्मनोभ्यां तु सत्यं चाष्टशतं जपेत् ।

रेतःस्पन्दने प्रायश्चित्तम्

अकामतः प्रसुप्तस्य शुक्रादेः स्पन्दने सति ॥ ९४ ॥

स्नात्वा पुरा सचेलं तु अस्त्रमन्त्रशतं जपेत् ।

गर्भपाते प्रायश्चित्तम्

कामतो गर्भपाताच नृसिह्मस्यायुतं जपेत् ॥ ९५ ॥

धेनुवधे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

धेनुं प्रमादतो हत्वा अयुतं त्रियुतं जपेत् ।
त्रिः स्नायाद्द्विगुणं कामात्तज्जपे मुनिसत्तम ॥ ९६ ॥

यागं कृत्वा तथा होमं दद्याद्धेनुद्वयं गुरोः ।

वृक्षच्छेदे प्रायश्चित्तम्

विश्शेषपादच्छेदे पञ्च सत्यादयः क्रमात् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

जप्याः शतं शतं चैव त्वल्पतश्छेदने द्विज ।
द्वे शते चास्त्रमन्त्रस्य परावर्तेत्प्रयत्नतः ॥ ९८ ॥

वामे वा दक्षिणे वाऽपि विच्छिन्ने सति मण्डले ।
भुक्त्वा पदेस्तु शूद्रस्य कामतोऽकामतो द्विज (?) ॥ ९९ ॥

शतत्रयं सिंहमन्त्रं परावर्त्त्यं द्वयं तथा ।

गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम्

कर्मणा मनसा वाचा यो गुरुं परिखेदयेत् ॥ १०० ॥

विश्वास-प्रस्तुतिः

समाचरेच्च वादं वा निर्वेदजनकं तथा ।
कृत्वा पुरा त्रिरात्रं तु वासुदेवं जपेधृदि ॥ १०१ ॥

प्रत्यहं मुनिशार्दूल त्रैकाल्यात्तु शतत्रयम् ।

देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम्

देवालये तु यः कुर्यात्पुरीषं मूत्रमेव वा ॥ १०२ ॥

{{२८४}}

देवतायतनारामे वैष्णवे तु विशेषतः ।

वैष्णवारामतः क्रीडार्थं फलपुष्पादिहरणे प्रायश्चित्तम्

क्रीडार्थं तु तदारामात्पत्रपुष्पफलहृतिम् ॥ १०३ ॥

यः कुर्यात्स द्विजश्रेष्ठ सिंहस्याष्टशतं जपेत् ।

नग्नीभूय स्नानाचरणे प्रायश्चित्तम्

वीक्षमाणो दिवि दिशोऽक्रमे स्नायाद्दिगम्बरः ॥ १०४ ॥

हृन्मन्त्रं तु शतं साष्टं जपेत्स मुनिसत्तम ।

वृद्ध गुर्वपचारे प्रायश्चित्तम्

वृद्धानां च गुरूणां च सन्निधौ वा तदाऽसने ॥ १०५ ॥

विश्वास-प्रस्तुतिः

उपविष्टः शतं साष्टं प्रद्युम्नं च जपेधृदि ।
गुरूणामपहासे तु कृते वाऽश्लीलभाषणे ॥ १०६ ॥

दुष्टेन मनसा गुरुभार्या सुतयोर्दर्शने प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

दुष्टेन मनसा दृष्ट्वा गुरोर्भार्यां सुतामथ ।
सिंहमन्त्रं जपेन्मन्त्री स्नातः पञ्च शतानि वै ॥ १०७ ॥

स्त्रीशूद्रादिवधे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

स्त्रीशूद्रबालकान्हत्वा कामतोऽकामतोऽपि वा ।
द्वेऽयुते ह्ययुतं साष्टं जप्त्वा यागेन शुध्यति ॥ १०८ ॥

सच्छूद्रघातनाच्चैव पूर्वोक्तद्विगुणं क्रमात् ।

आलये चण्डालप्रवेशे प्रायश्चित्तम्

चण्डालपूर्वकः कश्चित्प्रविष्टो यदि मन्दिरम् ॥ १०९ ॥

विश्वास-प्रस्तुतिः

सन्त्यजेन्मृण्मयान्सर्वान् भाण्डानप्यस्त्रवारिणा ।
प्रोक्षणीयकृतस्नानस्तत्रस्थः कपिलं जपेत् ॥ ११० ॥

शतानि द्वादश मुने तत्र सर्वं च शुध्यति ।

रजकादीनां गृहे प्रवेशे प्रायश्चित्तम्

रजकश्चर्मकारश्च कामतोऽकामतो गृहे ॥ १११ ॥

संविशेदस्त्रतोयेन प्रोक्षयेच्च शतं जपेत् ।

[नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य
सद्यःशुद्ध्यादिविशेषकथनम्]

सूतके मृतके चैव नित्यं विष्णुमयस्य च ॥ ११२ ॥

{{२८५}}

विश्वास-प्रस्तुतिः

सानुष्ठानस्य विप्रेन्द्र सद्यः शुद्धिः प्रजायते ।
तत्रापि वासुदेवाख्यमन्त्रं पञ्चशतं जपेत् ॥ ११३ ॥

स्पर्शनं भोजनं दानं दशाहं तस्य वर्जयेत् ।
तत्सम्पर्काद्भवेद्दोषः सिद्धस्यापि महामुने ॥ ११४ ॥

ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता

विश्वास-प्रस्तुतिः

नाधिकारो(री?) ह्यनुष्ठाने सदशाहं भवेद्द्विज(ः ?) ।
द्वादशाहं नृपश्चैव वैश्यः पञ्चदशान्तिकम् ॥ ११५ ॥

निवर्तन्ते जपध्यानात् शूद्रो मासं प्रयत्नतः ।

उच्छिष्टसङ्करे प्रायश्चित्तम्

स्वजातिदीक्षितस्यापि उच्छिष्टोच्छिष्टसङ्करात् ॥ ११६ ॥

विश्वास-प्रस्तुतिः

स्नात्वा जपेन्मूलमन्त्रं शतमष्टाधिकं द्विज ।
विजातेश्चोपवासस्तु विहितस्त्वीदृशो जपः ॥ ११७ ॥

अदीक्षितावलोकने प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

यदि चादीक्षितः पश्येत्पूज्यमानं प्रभुं द्विज ।
अक्षसूत्रं तु वा मुद्रां जपेदथ (अस्त्र?) शतं जपेत् ॥ ११८ ॥

गुरु देवनाम्ना शपथाचरणे प्रायश्चित्तम्

विश्वास-प्रस्तुतिः

आपत्तावथ जातायां शपथं गुरुसञ्ज्ञितम् ।
न कुर्याद्भगवत्सञ्ज्ञं प्रमादाच्च कृतं यदि ॥ ११९ ॥

तदर्थं निर्वहेद्यत्नादन्ते पूजाजपाहुतीः ।
अनिर्वाहाच्च कार्यस्य यदर्थं शपथं कृतम् ॥ १२० ॥

प्रायश्चित्तं जपेद्विप्र सहस्रं त्र्यक्षरस्य तु ।
होमं कुर्यात्तदर्धेन सोपवासश्च पूजनम् ॥ १२१ ॥

यो मोहाच्चापि वा पृष्टो गुरुणा शपथं भजेत् ।
ददाति चान्यो दुष्टात्मा व्रजेतां नरकं तु तौ ॥ १२२ ॥

सङ्करप्रायश्चित्तम्

विश्वास-प्रस्तुतिः

सङ्करेषु च सर्वेषु चेतसश्शुद्धिकारणम् ।
सिंहमन्त्रं जपेन्मन्त्री यावच्चित्तं प्रसीदति ॥ १२३ ॥

स्तेयादौ प्रायश्चित्तम्

स्तेयेष्वेवं मूलमन्त्रमुपघातेषु नारद ।
{{२८६}}

सिंहमन्त्रमशेषासु शुद्धिष्वस्त्रं तथैव च ॥ १२४ ॥

विश्वास-प्रस्तुतिः

शपथेषु च हृद्बीजं भोज्याभोज्येषु चास्त्रकम् ।
सर्वद्रोहेषु वाराहं सर्वशान्तिषु नारद ॥ १२५ ॥

देवीमन्त्रचतुष्कं तु चित्तशुध्यर्थकारणम् ।
येन येन कृते चेह विपरीतेन कर्मणा ॥ १२६ ॥

मालिन्यमात्मनो विप्र जायते तत्प्रशान्तये ।
जपेद्ध्यायेच्च जुहुयान्मूलं भावः प्रसीदति ॥ १२७ ॥

यावल्लोकापवादस्तु तच्छुद्धौ विनिवर्तते ।
किल्बिषेणापवादेन मोहतामेति नारद ॥ १२८ ॥

सामर्थ्यान्मन्त्रजापस्य शतधा किल्बिषं व्रजेत् ।
विनिवृत्तोऽशुभाज्जन्तुर्ध्यानेन तपसा तु वा ॥ १२९ ॥

तीर्थेन मन्त्रजापाच्च पूजया हवनेन च ।
मेघरिक्तो यथा भानुस्तद्वल्लोके प्रकाशते ॥ १३० ॥

तस्मादघनिवृत्त्यर्थं प्रायश्चित्तं समाचरेत् ।
सर्वथाऽकीर्तिशान्त्यर्थं लोके धर्मव्यवस्थितेः ॥ १३१ ॥

मन्त्रोपघाते प्रायश्चित्तप्रश्नः

विश्वास-प्रस्तुतिः

मन्त्रोपघाते चोत्पन्ने ह्यर्चादौ गृहमेधिनाम् ।
नृपारितोयलोकानां सकाशात्तस्करस्य च ॥ १३२ ॥

किं कार्यं वद देवेश भक्तैर्भवभयाकुलैः ।
यस्मात्त्वयोक्तमन्यत्र मन्त्रः शास्त्राक्षसूचितः ॥ १३३ ॥

प्रतिमाकिङ्कणीसंस्थो यागोपकरणे परे(?) ।
अपूजितश्च विधिना कल्पोक्तेन दिने दिने ॥ १३४ ॥

सङ्क्रुद्धः शापयन्त्या तु (त्याशु?)शश्वत्सिद्धिं न गच्छति ।
रोगशोकावघातांश्चोद्वेगां[श्च]जनयेद्बहून् ॥ १३५ ॥

अर्चाद्याधारका मन्त्रा न्यस्तास्ते सन्निधिं सदा ।
सानुष्ठानस्य कुर्वन्ति विशेषाद्भावितात्मनः ॥ १३६ ॥

आधारस्थास्तु ये मन्त्राः पुराऽचार्यैर्निबोधिताः ।
{{२८७}}

उपप्लवे समुत्पन्ने विसर्जनविधिं सदा (विना ?) ॥ १३७ ॥

विश्वास-प्रस्तुतिः

सामर्थ्यात्स्वप्रभावाच्च आश्रयन्ति स्वकारणम् ।
तदाधारोपघाताच्च भ्रंशत्यायुर्जनस्य हि ॥ १३८ ॥

[मन्त्राधारभूतार्चोपघातजनितदोषशान्त्यर्थ-
प्रायश्चित्तविधानम्]

विश्वास-प्रस्तुतिः

सुमहद्दोषशान्त्यर्थमाचर्तव्यमिदं मुने ।
यदि सन्निहितस्यैतदक्लिष्टस्य भवेत्तदा ॥ १३९ ॥

प्रयत्नेन दिनात्तस्माद्यमाचरणमारभेत् ।
ज्ञातं वाऽथ दिने यस्मिंस्तदादौ सम्प्रवर्तते ॥ १४० ॥

अथ सामर्थ्यविरहात् स्वतन्त्रत्वं च वा विना ।
प्रत्यहं तु यथाशक्ति स्वमन्त्रं भक्तितो जपेत् ॥ १४१ ॥

प्राप्तः प्रतिपदं यावत्तद्दिनादौ समाचरेत् ।
दशैकाहमभुञ्जानो ह्यश्नन्वा क्षीरसर्पिषी ॥ १४२ ॥

ईषद्वा फलमूलानि भूशायी न्यस्तविग्रहः ।
ध्यानं तु मण्डलं पूजां जपहोममतन्द्रितः ॥ १४३ ॥

एकादशाहेऽतिक्रान्ते दश द्वौ भगवन्मयान् ।
आचार्यान्पूजयेद्भक्त्या दानं द्वादशकं ततः ॥ १४४ ॥

प्रदद्याच्छक्तिपूर्वं च सर्वमूलं पृथक् पृथक् ।
गवान्नहेमरत्नानि ग्रामाणि रजतं तिलान् ॥ १४५ ॥

धान्यं गजाश्ववासांसि मधुरादीन्रसानपि ।
अभावाच्च गजाश्वाभ्यां कार्यौ सौवर्णराजतौ ॥ १४६ ॥

समर्थानां सवित्तानां भक्तानां कथितं त्विदम् ।
अल्पार्थानामशक्तानामतृप्तं नक्तभोजनम् ॥ १४७ ॥

दधिक्षीरघृताक्तं च युक्तं गोवैष्णवादिकम् (?) ।
हिरण्यतिलदानं च तेष्वपि द्वादशे दिने ॥ १४८ ॥

दत्वा तत्सन्निधौ भूयो मात्राग्रहणमाचरेत् ।
पूर्वोक्तेन विधानेन लब्धानुज्ञस्ततस्तदा ॥ १४९ ॥

ब्रह्मचारीवनस्थानां यतीनां केवलात्तु वै ।
स्नानाद्ध्यानात्तथा शौचाज्जपस्याप्ययुतत्रयात् ॥ १५० ॥

शुद्धिः स्यादन्यथा याति पातित्यं पातकात्स तु ।
{{२८८}}

न पातकं विना यस्मान्मात्राहानिः प्रजायते ॥ १५१ ॥

विश्वास-प्रस्तुतिः

पूर्वजन्मार्जितस्यैव पापस्योत्पद्यते क्षयः ।
यत्प्रभावान्मनस्तापो भक्तानां जायते महान् ॥ १५२ ॥

समकालमृतस्यान्ते विधिका क्षेत्रजन्मनः (?) ।
पूजनीयास्तथाऽचार्या वैश्येन त्रयि(त्र्यधि?)कौ तु सः ॥ १५३ ॥

चतुर्हरन्तिकान्तेन द्विगुणं द्विगुणं जपेत् ।
यस्य वै प्रकटा लोके ख्यातिर्यात्वार्यसंसदि ॥ १५४ ॥

तस्यैतत्कथितं चैव अकीर्त्यशुभशान्तये ।
यस्माल्लोकापवादो वै संयतानां विगर्हितः ॥ १५५ ॥

सम्यक्सिद्धस्य किं लोकैः कारणं मुनिसत्तम ।
न लोके प्रथितो यस्य मात्राभ्रंशो मनागपि ॥ १५६ ॥

जप्तव्यं तेन रहसि स्वमन्त्रस्यायुतत्रयम् ।
ब्रह्मचार्युदितेनैव विधिना पुनरेव तु ॥ १५७ ॥

मात्रासङ्घट्टनं कुर्याद्येन शान्तिमवाप्नुयात् ।
प्रणष्टायां तु मात्रायां यदि लाभो भवेत्पुनः ॥ १५८ ॥

प्रायश्चित्तादियत्नार्थं वासमाचरेत् ।
सर्वनाशात्तु यद्येको मन्त्रांशः प्राप्यते पुनः ॥ १५९ ॥

संस्कृत्य प्राप्य भुक्त्वा च जप्त्वा मन्त्रं तदाहरेत् ।

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रायश्चित्तविधिर्नाम
पञ्चविंशः पटलः ॥ २५ ॥