२४ संस्काराख्यानम्

अथ संस्काराख्यानं नाम चतुर्विंशः पटलः

नारदः –

विश्वास-प्रस्तुतिः

काम्यं (कव्यं ?) प्रेतं पितृश्राद्धं त्वत्प्रसादान्मया श्रुतम् ।
इदानीं श्रोतुमिच्छामि गतासूनां च संस्कृतिम् ॥ १ ॥

मूलम्

त्वच्छासनप्रपन्नानां कथयस्व समासतः ।
उदीरितं त्वया पूर्वं नोदितं च परिस्फुटम् ॥ २ ॥

भगवान् –

विश्वास-प्रस्तुतिः

विपन्नं दीक्षितं ज्ञात्वा प्रार्थनीयो महागुरुः ।
स्नेहेन कृपया वाऽथ सह शिष्यैः कृतात्मभिः ॥ ३ ॥

{{२६७}}

यायात्कृताह्निकः शश्वदभुक्तान्नो विशेषतः ।

शवसंस्कारविधानम्

प्रागुक्तया पुरा दृष्ट्या अवलोक्य च तं द्विज ॥ ४ ॥

शवस्य स्नपनालङ्करणे

विश्वास-प्रस्तुतिः

दत्वाऽज्ञां तु समुत्थाप्य स्नापयेत्तु मृतं पुरा ।
अस्त्रमन्त्राभिजप्तेन गोमयेन मृदम्भसा ॥ ५ ॥

सुगन्धामलकैः स्नाप्य सर्वौषध्युदकेन च ।
चन्दनेन समालिप्य सबाह्लीकेन नारद ॥ ६ ॥

मूलम्

सुगन्धामलकैः स्नाप्य सर्वौषध्युदकेन च ।
चन्दनेन समालिप्य सबाह्लीकेन नारद ॥ ६ ॥

विश्वास-प्रस्तुतिः

सकषाये सिते वाऽथ वाससी ह्यधरोत्तरे ।
परिधाप्योपवीतं च सोत्तरीयं तथा नवम् ॥ ७ ॥

पवित्रकद्वयं तत्र योज्याङ्गुल्योः कुशैः कृतम् ।
पुष्पस्रग्भूषितं कृत्वा स्थाप्य यन्त्रे पटावृते ॥ ८ ॥

शवस्य संस्कारस्थाननयनम्

विश्वास-प्रस्तुतिः

गृहीत्वाऽथ स्वजातीयैर्दीक्षितैर्वाऽप्यदीक्षितैः ।
तन्नयेत्संस्कृतिस्थानमस्थ्यङ्गारादिवर्जितम् ॥ ९ ॥

संस्कृतिस्थानसमीकरणम्

उपलिप्य पुरा तद्वै समीकृत्य यथाविधि ।

भैक्षपात्रादिद्रव्याणां तदीयानां तच्छवेन सह नयनम्

भैक्षपात्रं तथा दण्डं स्रुक्स्रुवौ चाक्षसूत्रकम् ॥ १० ॥

विश्वास-प्रस्तुतिः

पादुके आसनं चैव योगपट्टं तथैव च ।
दारवं भद्रपीठं च सार्ध्यपात्रं कमण्डलुम् ॥ ११ ॥

मात्रोपकरणं सर्वं तदीयं मुनिसत्तम ।

तत्र वर्ज्यद्रव्याणि

हिरण्यवस्त्रशास्त्रैश्च घण्टया च विवर्जितम् ॥ १२ ॥

तच्छ्राद्धकाले दातव्यं तत्प्रीत्यर्थं हि कस्यचित् ।

प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम्

नयेत्तस्याग्रतः पुष्पमर्घ्याम्बुकुसुमादिकम् ॥ १३ ॥

उपयोज्यं च यत्तत्र अर्चने होमकर्मणि ।
{{२६८}}

अश्वत्थतरुसम्भूता अष्टौ तीक्ष्णा हि शङ्कवः ॥ १४ ॥

विश्वास-प्रस्तुतिः

अयत्नलब्धा विप्रेन्द्र अन्यस्माद्यतिनः स्वयम् ।
छिन्द्यादश्वत्थवृक्षं तु पालाशाद्यमभावतः ॥ १५ ॥

पीतं वा सुसितं सूत्रं क्षौमं कार्पासजं तु वा ।
समस्तधान्यानि तिलाः कृष्णास्सिद्धार्थकैर्युताः ॥ १६ ॥

प्रभूतमिन्धनं शुष्कं पालाशाद्यं च पावनम् ।
तत्र चैशानदिग्भागमासाद्योपविशेद्गुरुः ॥ १७ ॥

गुरुणाऽप्ययक्रमेण स्वाङ्गन्यासस्य कर्तव्यता

विश्वास-प्रस्तुतिः

समलङ्कृत्य चात्मानमापादाच्च शिरोन्तिमम् ।
मन्त्रेणाप्यययुक्त्या वै षडङ्गविधिना पुरा ॥ १८ ॥

मृतेन योऽनुष्ठितो मन्त्रस्तेन प्रथमं पूजनस्य कर्तव्यता

विश्वास-प्रस्तुतिः

तदनुष्ठानसञ्ज्ञेन प्रारम्भे पूजयेद्द्विज ।
परिशिष्टस्य वाऽन्यस्य आचार्यस्यापि कस्यचित् ॥ १९ ॥

शासनस्थस्य भक्तस्य मन्त्रे चाविदिते सति ।

तदपरिज्ञाने नारसिह्ममन्त्रेण पूजनाविधिः

प्रणवाद्यन्तरुद्धेन सामान्येन महात्मना ॥ २० ॥

विश्वास-प्रस्तुतिः

नारसिह्मेण चोग्रेण तस्योङ्कारः पुरा भवेत् ।
नमो भगवते कृत्वा नारसिह्माय वै ततः ॥ २१ ॥

द्वादशाक्षरमन्त्रोऽयं सर्वैः सर्वत्र शस्यते ।
तन्नामपूर्ववर्णं तु दीर्घैः षड्भिर्विभेदितम् ॥ २२ ॥

तेषामाद्यावसाने तु प्रणवञ्चापि योजयेत् ।
प्रकल्प्य चाङ्गषट्कं तु सामान्यस्य च सञ्ज्ञया ॥ २३ ॥

कुम्भस्थापनतत्पूजनविधिः

विश्वास-प्रस्तुतिः

अन्तःस्थं पूजयित्वाऽदौ बहिस्तदनु पूजयेत् ।
प्रणवेन पुरा पीठं साधारं परिकल्पयेत् ॥ २४ ॥

तत्रार्चिते न्यसेत्पृष्ठे कलशं वारिपूरितम् ।
समायं (सामयं ?) विन्यसेन्मन्त्रं विलोमोच्चारयोगतः ॥ २५ ॥

अस्त्राद्यमङ्गषट्कं तद्वैपरीत्येन विन्यसेत् ।
{{२६९}}

हृद्यस्त्रं हृदयं चास्त्रे यथा भवति नारद ॥ २६ ॥

विश्वास-प्रस्तुतिः

कृत्वैवःxx०
म् कलशे न्यासं तं यजेद्विधिना ततः ।
तत्रास्त्रकलशं कुर्यादासनं तत्र कल्पयेत् ॥ २७ ॥

फट्कारेण तु चक्राख्यं केवलं रक्तरूपधृक् ।
नाभिनेमिविहीनं तु तदूर्ध्वे कलशं न्यसेत् ॥ २८ ॥

पुष्पार्घ्यधूपैर्लिप्त्वा च अस्त्रमन्त्रं तदन्तरे ।
विसर्गफट्पदाद्यं तु वैपरीत्येन चोच्चरेत् ॥ २९ ॥

बलिदानावसानं तत्पूजयित्वा ततो द्विज ।

अथ मण्डले (स्थण्डिले) पूजनाविधानम्

तदग्रे भद्रपीठं तु योजयेत्तदभावतः ॥ ३० ॥

विश्वास-प्रस्तुतिः

भूमावुपरि विन्यस्य आधारं प्रणवेन तु ।
ऐश्वर्याद्यं तदूर्ध्वे तु धर्मान्तं चाथ विन्यसेत् ॥ ३१ ॥

हृन्मन्त्रेण तदूर्ध्वे तु शेषं सप्रणवेन तु ।
कल्पयेन्मुनिशार्दूल रत्नपुञ्जनिभं महत् ॥ ३२ ॥

हृदयाच्चैव तत्पृष्ठे मन्त्रमावाह्य विन्यसेत् ।
केवलं लयदेहं तु पूर्वोच्चारक्रमेण तु ॥ ३३ ॥

कुण्डे हवनविधानम्

विश्वास-प्रस्तुतिः

पूजयित्वा यथान्यायं तदग्रेऽथ प्रकल्पयेत् ।
प्रमाणरहितं कुण्डमेकं मेखलयाऽन्वितम् ॥ ३४ ॥

तत्संस्कृत्य पुरा तत्र गगनादवतार्य च ।
सूर्यकान्तेन मणिना वैष्णवं जातवेदसम् ॥ ३५ ॥

लौकिकं तदभावाच्च आनाय्य तु तथा स्मरेत् ।
तत्र दर्भास्तरं दद्यात्त्रिधा दिक्ष्वन्तरा ग्रहम् (?) ॥ ३६ ॥

संस्कृत्य पावकं प्राग्वन्नमोऽन्तं जुहुयात्ततः ।

होमः

मूलमन्त्रं शतं साष्टं तिलैराज्येन वै तथा ॥ ३७ ॥

विश्वास-प्रस्तुतिः

संहारक्रमयोगेन स्मृत्वा मन्त्रं ततोऽन्तगम् ।
दद्यात्पूर्णाहुतिं विप्र ततश्चार्घ्याम्बुना तु वै ॥ ३८ ॥

{{२७०}}

[अथ शवस्य प्रोक्षणादि]

विश्वास-प्रस्तुतिः

तं शवं प्रोक्षणीयं च ताडयित्वाऽवलोक्य च ।
चक्षुषा ज्ञानपूर्णेन करुणानुगतेन च ॥ ३९ ॥

दत्वाऽर्घ्यपुष्पे शिरसि दुरस्थश्चास्पृशंश्च तम् ।
आनाय्य पृष्ठदेशं तु कलशाभ्यां द्विजोत्तम ॥ ४० ॥

आसने त्वपकृष्टे तु कायं सन्धाय केनचित् ।
तं वीक्षमाणः कुण्डस्थो गुरुस्तूपविशेषत्ततः ॥ ४१ ॥

प्राक्कर्मपरिशुद्धं तु मृतं संस्कारवर्जितम् ।

आह्लानपूर्वकं जीवस्य शवशरीरे योजनविधानम्

जीवं च केवलीभूतं सामीप्यपदवीगतम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

मन्त्रेणाहूय देहस्थं कृत्वा तदनु योजयेत् ।
पूर्ववच्छवपिण्डे तु रत्नदीपोज्ज्वलप्रभम् ॥ ४३ ॥

जीवाह्वानमन्त्रः

विश्वास-प्रस्तुतिः

प्रणवान्तं (न्ते ?) शिखाबीजं सञ्ज्ञां तदनु योजयेत् ।
तदन्ते तु शिखाबीजं प्रभा(ण ?)वान्तं न्यसेत्पुनः ॥ ४४ ॥

आगच्छ —–नेतस्य प्रविश्या(शा ?)थ नियोजयेत् ।
एवं स्वस्थानगं कृत्वा जीवं शुक्रगतं त्विह ॥ ४५ ॥

स्वस्थानं गमितस्य जीवस्य परतत्त्वे संयोजनविधानम्

विश्वास-प्रस्तुतिः

व्यापारशक्तिसंयुक्तं काष्ठस्थमिव पावकम् ।
दीक्षाख्येन क्रमेणास्य लयहोमस्तु केवलः ॥ ४६ ॥

कर्तव्यो गुरुणा सम्यक् प्रथिव्यादिक्रमेण तु ।
परे तत्त्वे तु संयोज्य पूर्णाहुत्या तु पूर्ववत् ॥ ४७ ॥

अथ चिताकल्पनविधानम्

विश्वास-प्रस्तुतिः

दक्षिणेनात्मनश्चाथ प्रोक्ष्य क्ष्मामस्त्रवारिणा ।
तिलैः सिद्धार्थकैर्धान्यैर्मिश्रीभूतैस्तु नारद ॥ ४८ ॥

नाभिनेमिविहीनं च कालचक्रं समापयेत् ।
वामावर्तद्विषट्कारं त्रिकोणं तद्बहिः पुरः ॥ ४९ ॥

तद्देहवर्णज्वालाढ्यं स्वस्तिकत्रितयान्वितम् ।
तद्बहिश्चतुरश्रं च पञ्चरङ्गोज्ज्वलं पुरम् ॥ ५० ॥

{{२७१}}

विश्वास-प्रस्तुतिः

पञ्चरेखान्वितं कुर्याद्वज्राष्टकविभूषितम् ।
विलोमगत्या वामेन पाणिना पातयेद्रजः ॥ ५१ ॥

विमानवच्चितिं काष्ठैर्विचिन्वीयात्पुराऽहृतैः ।
गोमयैर्वा द्विजारण्यसम्प्राप्तैः कुशमिश्रितैः ॥ ५२ ॥

अन्तकाशादितश्चाथ नैरृत्यान्तं तु शङ्कवः ।
रोपणीया हि सूत्रेण त्रिरावृत्तेन वेष्टयेत् ॥ ५३ ॥

सर्वस्य पूजाद्रव्यस्योपसंहृतस्य कुण्डाग्नौ प्रक्षेपः

विश्वास-प्रस्तुतिः

पूजाद्रव्यं समस्तं च नैवेद्यान्तं हि नारद ।
उपसंहृत्य जुहुयादग्नौ कुण्डगते ततः ॥ ५४ ॥

कुम्भादिस्थानान्मन्त्रस्योत्सर्जनम्

विश्वास-प्रस्तुतिः

विसर्ज्य मन्त्रं कुम्भस्थं भद्रपीठाग्निमध्यगम् ।
खात्वा तु सेचयेद्भूमिं कलशस्थेन चाम्भसा ॥ ५५ ॥

शवस्य चितायामारोपणम्

सासनं च ततः शावं दक्षिणाभिमुखं ततः ।
चितोपरि स्थितं कुर्यात्

योगपट्टादीनां शवस्य कण्ठादिस्थानविशेषे स्थापनम्

			तस्य कण्ठे विनिक्षिपेत् ॥ ५६ ॥  
विश्वास-प्रस्तुतिः

विततं योगपट्टं च दक्षिणे चाक्षसूत्रकम् ।
वामहस्तेऽर्घ्यपात्रं तु प्रणीतां च कमण्डलुम् ॥ ५७ ॥

वामतः पादुके छत्रं उष्णीषं दक्षिणे न्यसेत् ।
अग्रतो भद्रपीठं च शङ्खमुद्रादिकं च यत् ॥ ५८ ॥

सम्पूज्य पुष्पधूपाद्यैश्चन्दनेन तु तां चिताम् ।

चिताप्रज्ज्वालनं पूर्णाहुतिश्च

प्रज्ज्वाल्य दर्भपुञ्जीलं कुण्डस्थेन तु वह्निना ॥ ५९ ॥

विश्वास-प्रस्तुतिः

ज्वालयेद्दक्षिणाशां च वीक्षमाणस्तु तां चिताम् ।
गुरुश्चाभिमुखः स्थित्वा तस्य पूर्णाहुतिं क्षिपेत् ॥ ६० ॥

मूर्ध्नि वा वक्त्रविवरे त्यजेत्तत्रैव स्रुक्स्रुवौ ।

चितापरिभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपविधिः

ततोऽस्त्रकुम्भमादाय वरुणाशादितो द्विज ॥ ६१ ॥

विश्वास-प्रस्तुतिः

विक्षिपन्नौदकीं धारां वामतश्च परिभ्रमेत् ।
दिशि क्षिपेद्दक्षिणस्यां कलशं गगनोपरि ॥ ६२ ॥

{{२७२}}

[अथ स्नानविधानम्]

विश्वास-प्रस्तुतिः

तत्र संरक्षकान्दत्वा गुरुर्यायाज्जलाशयम् ।
सचेलं जलमाविश्य मनसा चोपसंहरेत् ॥ ६३ ॥

पूर्वोक्तं विग्रहन्यासं स्नात्वाऽथ विधिना ततः ।
स्नानमाचमनाद्यं तु कृत्वा दद्याज्जलाञ्जलिम् ॥ ६४ ॥

उत्तीर्य परिधायान्यदम्बरं शुचि निर्मलम् ।

गुर्वादिभिः कर्तव्यो जपविधिः

प्राङ्मुखस्त्वासने स्थित्वा मनसा नृहरिं मुने ॥ ६५ ॥

विश्वास-प्रस्तुतिः

जपेदष्टाधिकं भक्त्या सहस्रं ध्यानसंयुतम् ।
वोढारस्तु तदर्धं च तदर्धं भाण्डवाहकाः ॥ ६६ ॥

नक्तं भगवतो यजनस्य कर्तव्यता

विश्वास-प्रस्तुतिः

प्राप्ते नक्तं जपान्ते वा विशेषादच्युतं यजेत् ।
जपहोमावसाने च समश्नीयात्ततो गुरुः ॥ ६७ ॥

तद्बान्धवैः स्वशिष्यैस्तु संवृतः शोकशान्तये ।

अस्थिसञ्चयनम्

अस्थिसङ्घटनं कुर्यात्तृतीयेऽह्नि समागते ॥ ६८ ॥

विश्वास-प्रस्तुतिः

इष्टा(ष्ट्वा ?)पूर्तीश्वरीं(?)पूर्वं पुष्पार्घ्यबलिधूपकैः ।
विमलाम्भसि निक्षिप्य अगाधे वा नदीजले ॥ ६९ ॥

भूमावथ कृते खाते ह्यधस्ताद्विनिवेशयेत् ।
न दीक्षितानां विप्रेन्द्र क्षिपेदस्थि ततस्ततः ॥ ७० ॥

इत्येष वैष्णवानां च सद्भक्तानां मयोदितः ।

शवसंस्कारस्य सर्वैरवश्यकर्तव्यता

देहपातिकसंस्कारो ह्यपवर्गफलप्रदः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

अनुष्ठेयस्ततस्तस्माच्छिष्याणां गुरुणा सदा ।
सच्छिष्यैर्वा गुरूणां तु स्त्रीणामथ महामते ॥ ७२ ॥

दीक्षितानां महायागे मात्रोपकरणं विना ।
संस्काराश्चाखिला मन्त्राः पित्राऽथ गुरुणाऽथवा ॥ ७३ ॥

आत्मजेनाथ पत्न्या वा कार्यश्चादीक्षितैरपि ।
कृपयाऽघविघातार्थमसन्दिग्धतया धिया ॥ ७४ ॥

{{२७३}}

[यतिधर्राश्रयाणां दाहे विशेषः]

विश्वास-प्रस्तुतिः

यतिधर्माश्रयाणां तु कर्मसन्यासिनां च वै ।
दाहमात्रं तु विहितं मन्त्रपूजाविवर्जितम् ॥ ७५ ॥

परोक्षतो मृतानां संस्कारविधानप्रकारः

विश्वास-प्रस्तुतिः

परोक्षतो विपन्नानां विधानमधुनोच्यते ।
येन याति पदं विष्णोः पदं योऽन्यतरस्थितः ॥ ७६ ॥

यदैव दीक्षितस्तिष्ठेच्छासनेऽस्मिन्मयोदिते ।
तदैवाप्तं मुनिश्रेष्ठ तैः पदं विमलं मम ॥ ७७ ॥

किं तु ये दीक्षिताः पूर्वं न निर्व्यूढास्सदाऽर्चने ।
म्रियन्ते चाकृतार्थाश्च समयज्ञास्तु पुत्रकाः ॥ ७८ ॥

ते स्वकर्मवशं यान्ति किञ्चित्स्थानमशाश्वतम् ।
भूयस्तस्माच्चीरेणैव केनचिद्विग्रहात्मना ॥ ७९ ॥

काले शुभे शुभे देशे उत्पद्यन्तेऽशुभेऽथवा ।
पुण्यं कुर्वन्ति वा पापं देशे काले तयोर्वशात् ॥ ८० ॥

शुभेन कर्मणा स्वर्गमशुभेनाप्नुवन्त्यधः ।
एवमस्थितिमाप्नोति उपसंहृत्य दीक्षितः ॥ ८१ ॥

मृतश्चापि परोक्षे तु यदा वै गुरुणा तदा ।
कृपात्मना समर्थेन कार्यमुद्धरणं महत् ॥ ८२ ॥

शरीरधर्मसंस्थेन यथा तदवधारय ।
विधिवन्मरणं ज्ञात्वा पुरा भक्तस्य कस्यचित् ॥ ८३ ॥

स्वकाह्निकावसाने तु यजेदर्चादिषु प्रभुम् ।
विशेषविहितेनैव कर्मणा होमपश्चिमम् ॥ ८४ ॥

श्वेतां मृदमथालोड्य पञ्चगव्येन चाम्भसा ।
द्वादशाङ्गुलमात्रं तु मूर्तिं कृत्वा तदाकृतिम् ॥ ८५ ॥

आपादाच्चूलिकान्तं च सर्वाङ्गावयवान्विताम् ।
पलाशाश्वत्थवल्कोत्थदारुणा पल्लवेन वा ॥ ८६ ॥

तामग्नेः कुण्डदेशस्थां कृत्वा यन्त्रकृतां पुरा ।
प्रणवेन तु सास्त्रेण प्रोक्षयेत्सप्तधाऽम्बुना ॥ ८७ ॥

अर्घ्यपात्रोद्धृतेनैव त्रिधाऽथ द्वादशात्मना ।
{{२७४}}

फडन्तेन द्विधा ताड्यं त्र्यक्षरेणार्घ्यतण्डुलैः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

कुसुमैरथ पत्रैर्वा दर्भकाण्डयुतेन तु ।
ततोऽवलोकनं कुर्यान्मन्त्रवित् ज्ञानचक्षुषा ॥ ८९ ॥

साधिभूतमथाध्यात्मस्वरूपं तत्त्वसङ्ग्रहम् ।
ततः सृष्टिक्रमेणैव विनिवेश्य यथा पुरा ॥ ९० ॥

स्थानलक्ष्यक्रमेणापि ध्यानमार्गेण देशिकः ।
होमं कृत्वा यथान्यायं त्रिद्व्येकाहुतिभिस्तु वा ॥ ९१ ॥

तत्त्वार्णमभिधायुक्तं मूलसम्पुटयोगतः ।
आयाहिपदसम्मिश्रं ज्ञात्वा देहि(ह्य ?)भिसन्धये ॥ ९२ ॥

तत्त्वं तत्त्वं क्रमेणैव प्रागुक्तविधिना मुने ।
ततो हृत्पुण्डरीकस्थं मन्त्रं ध्यायेच्च सर्वगम् ॥ ९३ ॥

तज्जिवानयने सम्यक् बन्धकक्ष्यसमन्वितम् ।
करुणानन्दसम्पूर्णं महामाणिक्कदीधितिम् ॥ ९४ ॥

विज्ञाप्य मनसा तूर्णं त्रिधा स्मृत्वा पुराऽमलम् ।
महाविभूते षाङ्गुण्यशरीर परमेश्वर ॥ ९५ ॥

तदन्ते मूलमन्त्रस्तु संस्मरेन्मूर्तिसंयुतम् ।
यत्र कुत्रचिदादाय पदञ्चावस्थितं ततः ॥ ९६ ॥

तदन्तेऽमृतबीजं तु व्योमेशे भूषितं स्मरेत् ।
आनयेति द्विधा योज्यं तत्सञ्ज्ञां तदनु द्विज ॥ ९७ ॥

नमस्कारान्वितं मन्त्रमिदं वै रोचयेद्बहिः ।
स्मरेत्सम्पूरितं तेन यदूर्ध्वे यच्च विद्यते ॥ ९८ ॥

तिर्यक् पृष्ठे पुरस्ताच्च आब्रह्मभवनान्तिमम् ।
स्वतेजसा समाकृष्य जीवं दूरस्थितं त्वपि ॥ ९९ ॥

क्षिप्रं द्विज स्वसामर्थ्यात्पतङ्गं पावके यथा ।
ततस्तमात्मसात्कुर्यान्मन्त्रं जीवसमन्वितम् ॥ १०० ॥

मन्त्रमात्मनि संशोध्य जीवं प्रतिकृतौ न्यसेत् ।
प्राग्वत्सन्धानयोगेन प्रतिष्ठोक्तेन नारद ॥ १०१ ॥

ततस्तस्य विधानेन तत्त्वदीक्षां समापयेत् ।
प्रागुक्तेनाथ योगेन योजयेच्छाश्वते पदे ॥ १०२ ॥

पूर्णाहुतिप्रदानेन ततः प्रतिकृतिं दहेत् ।
तस्माच्चैवाग्निकुण्डात्तु मन्त्रे चोत्थापिते सति ॥ १०३ ॥

पश्चात्स्नानादिकं सर्वं पूर्वोक्तं तु समाचरेत् ।
समस्तदोषशान्त्यर्थं प्रायश्चित्तं चरेत्ततः ॥ १०४ ॥

स्वस्थोऽन्यस्मिन्दिने विप्र समर्थो वाऽथ तद्दिने ।

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां संस्काराख्यानं नाम
चतुर्विंशः पटलः ॥ २४ ॥