अथ श्राद्धविधानं नाम त्रयोविंशः पटलः
नारदः
विश्वास-प्रस्तुतिः
विधानमादिश विभो निमित्तं श्राद्धकर्मणि ।
दीक्षितैर्भगवद्भत्केः कथं कार्यं क्रियापरैः ॥ १ ॥
मूलम्

श्रीभगवान्
दीक्षितैरपि श्राद्धस्यावश्यं कर्तव्यता
विश्वास-प्रस्तुतिः
कर्मणा मनसा श्राद्धं यत्नात्कार्यं सदैव हि ।
सऋणैरऋणैः सर्वैंर्यावद्देहान्तिमं द्विज ॥ २ ॥

विविक्तं धर्ममेतावत्सिद्धानामपि देहिनाम् ।
सिद्धैरपि लोकसङ्ग्रहार्थं धर्मस्य कर्तव्यता
नाचरेद्योऽपि वै सिद्धो लौकिकं धर्ममग्रतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
उपप्लवमसिद्धास्तु कुर्वन्त्यविरतं महत् ।
उपप्लवाच्च धर्मस्य ग्लानिर्भवति नारद ॥ ४ ॥

विवेकज्ञैरतस्तस्माल्लोकाचारो यथास्थितः ।
आदेहपाताद्यत्नेन रक्षणीयः प्रयत्नतः ॥ ५ ॥

धर्मेषु श्राद्धस्य श्रैष्ठ्यम्
विश्वास-प्रस्तुतिः
आचाराणां हि सर्वेषां धर्माणां मुनिसत्तम ।
श्राद्धं मे रोचते यादृक् तादृक् न परमं तु वै ॥ ६ ॥

{{२५५}}
[श्राद्धनिमित्तभूतकालादिनिरूपणम्]
विश्वास-प्रस्तुतिः
तस्य कालं विधानं च यथा तदवधारय ।
सितासिते च द्वादश्यावमावास्या च पुर्णिमा ॥ ७ ॥

राहुसन्दर्शनं चैव सूर्यसङ्क्रमणं तथा ।
श्राद्धं तत्र प्रयत्नेन काम्यं कुर्याच्च भक्तितः ॥ ८ ॥

अष्टकान्वष्टकाभ्यां च श्राद्धपक्षे विशेषतः ।
पितॄक्षे त्वमावास्यात्रयोदश्योस्तथैव च ॥ ९ ॥

नवान्नप्राशने चैव सुतसंस्कारकर्मणि ।
गुरोर्वा वं(?) प्रवृद्धे तु तद्भ्रातरि गृहागते ॥ १० ॥

शुद्धेऽर्थे पात्रतो लब्धे तीर्थे वाऽयतने हरेः ।
प्राप्ते क्षेत्रेऽथ संसिद्धे प्रतिष्ठायां पवित्रके ॥ ११ ॥

वापीकूपतटाकानां वृक्षाणां परिमोक्षणे ।
गोदानादौ वृषत्यागे व्रतारम्भे तदन्ततः ॥ १२ ॥

शास्त्रश्रवणनिष्पत्तावारम्भे च तहैव हि ।
वत्सरे वत्सरे विप्र मि(पि !)त्रादीनां कुटुम्बिनाम् ॥ १३ ॥

श्राद्धं कार्यं दीक्षितेन लौकिकीषु तिथिष्वपि ।
श्राद्धविधानप्रकारः
पूजयित्वा पुरा देवं तर्पयित्वा हुताशनम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रागुक्तेन विधानेन ततस्त्वाहूय वैष्णवान् ।
प्रक्षालिताङ्घ्रीन्स्वाचान्तान् प्रोक्षितानस्त्रावारिणा ॥ १५ ॥

तत्र आमन्त्रितानां वैष्णवानामासनपरिकल्पनविधानम्
विश्वास-प्रस्तुतिः
सम्मुरवान्मन्त्रनाथस्य उत्तराभिमुखानपि ।
आसनेषु विविक्तेषु परिच्छिन्नेषु नारद ॥ १६ ॥

गायत्र्या भस्मरेखासु शङ्कुनाऽस्त्रान्वितेन वा ।
हृदाऽस्त्रपरिजप्तानि आसनानामथोर्ध्वतः ॥ १७ ॥

सतिलानि च दर्भाणि निक्षिप्याम्बुयुतानि च ।
[गुरुवर्गे पितृवर्गे मातृवर्गे च तेषां स्थापनप्रकारविधानम्
स्थापनीयवैष्णवसङ्ख्याप्रदर्शनं च]
गुरोर्वा गुरुवर्गस्य मूलमन्त्रेण नारद ॥ १८ ॥
{{२५६}}
विश्वास-प्रस्तुतिः
प्रतिष्ठाप्यासने पूर्वमेकमादौ तु वैष्णवम् ।
हृद्युक्तेनाथ तेनैव स्वधा सम्भूषितेन च ॥ १९ ॥

पितुः पङ्क्यवसाने तु नाम्नाऽन्यमुपवेशयेत् ।
शिरसा संयुतेनाथ गृहीत्वा पाणिना द्विज ॥ २० ॥

नाम्ना पितामहीयेन प्रतिष्ठाप्यासने परम् ।
नेत्रे [ण] स्वावसानेन त्र्यक्षेरेण समूर्त्तिना ॥ २१ ॥

प्रपितामहनाम्ना तु वैष्णवं चापरं न्यसेत् ।
चत्वार एव वै पूर्वं मन्त्रपीठस्य सन्मुखाः ॥ २२ ॥

देवीमन्त्रचतुष्केण मातुर्वास्य कुलस्य वा ।
अस्त्रेण पितृवर्गस्य उत्तराभिमुखं द्वयम् ? ॥ २३ ॥

पित्रादौ जीवति तत्स्थाने पितामहादीनां नियोज्यता
विश्वास-प्रस्तुतिः
विद्यमाने तु पितरि पितुर्योज्यः पितामहः ।
सत्यां मातर्यपि मुने तत्पितर्यपि तेन वै ॥ २४ ॥

मातुः पितामहो योज्यो मातुर्मन्त्रेण सर्वदा ।
वैष्णवानामलाभे सङ्कोचविधानम्
पितृमातृकुलाभ्यां द्वौ वंशकैकमथोभयोः ॥ २५ ॥
पित्रादिस्थाने वृतानां तेपां देहन्यासविधानम्
विश्वास-प्रस्तुतिः
मनसा मुनिशार्दुल द्वादशार्णेन कल्पयेत् ।
देहन्यासं च सर्वेषां न्यस्यो हस्ततलेऽस्त्रराट् ॥ २६ ॥

तेषां ध्यानप्रकारः
विश्वास-प्रस्तुतिः
सर्वे चतुर्भुजा ज्ञेयाः शङ्खचक्रगदाधराः ।
किरीटकौस्तुभधरा वैनतेयासने स्थिताः ॥ २७ ॥

प्रोद्यता इव चोद्धर्तुं प्रेतीभूतस्य नारद ।
पितणां पाद्यार्ध्यदानविधानम्
ततो हृदयमन्त्रेण अर्घ्यपात्रोदकेन तु ॥ २८ ॥
विश्वास-प्रस्तुतिः
सिञ्चेत्क्रमेणाङ्घियुग्ममेकैकस्मिन्महामते ।
मूलमन्त्रेण तदनु पाणिभ्यां तु तिलोदकम् ॥ २९ ॥

अर्घ्यसंस्रावस्य पितृपात्रेण ग्रहणविधानम्
विश्वास-प्रस्तुतिः
दत्वा दत्वा समाहृत्य पात्रे ह्यस्त्राभिमन्त्रिते ।
एकैकस्यापिधायाथ पूज्यत्र्यर्णेन नारद ॥ ३० ॥

{{२५७}}
[तन्मध्ये पितॄणां विष्णुरूपाणां ध्यानम्]
विश्वास-प्रस्तुतिः
संस्थाप्य भगवदग्रे तन्मध्ये मनसा स्मरेत् ।
तान्पितॄन् विष्णुरूपांश्च भासा भास्वरविग्रहान् ॥ ३१ ॥

पितृमन्त्रेण तदनु पितृमातृमयान्पितॄन् ।
त्रिस्सप्तकुलसंस्थापनोक्तानत्रैव भावयेत् ॥ ३२ ॥

अर्थयित्वा ततोऽनुज्ञां गृहीत्वा शिरसा ततः ।
पात्रासनस्थितेभ्यस्तु पित्रर्थं यागमाचरेत् ॥ ३३ ॥

मन्त्रेशसन्निधावभ्यर्थनम्
विश्वास-प्रस्तुतिः
भगवन्पितृयागार्थं यजामि त्वां विशेषतः ।
तेषामनुग्रहार्थं तु यागमाहर मेऽच्युत ॥ ३४ ॥

एवं विज्ञाप्य मन्त्रेशं
चरुसाधनम्
चरुं क्षीरेण साधयेत् ।
संस्कृतेऽग्नौ पुरा यद्यत्सिद्धं तच्चावलोकयेत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
प्रोक्षयेदस्त्रमन्त्रेण भक्तं सव्यञ्जनादिकम् ।
संस्कृतेनाग्निना ताप्य कृत्वा मधुघृताप्लुतम् ॥ ३६ ॥

तिलदर्भान्वितं पश्चात्प्राग्वदाप्याय्य निर्दहेत् ।
सर्वं यत्साधितं किञ्चित् भक्ष्यपानादिभोजनम् ॥ ३७ ॥

चेतसा कल्पयेत्सर्वं पितॄणां तर्पयेत्तु तत् ।
साधितेन भक्ष्यभोज्यादिना देवस्य यजनम्
ततस्तेन यजेद्देवमर्घ्यपुष्पादिकेन तु ॥ ३८ ॥
विश्वास-प्रस्तुतिः
यथा निवेशिताः पूर्वं मण्डलेष्वथ नारद ।
तेषां तृप्त्यर्थमुद्धृत्य सम्पूर्णं तु फलादिकैः ॥ ३९ ॥

दधिक्षीरान्नपात्रं तु क्रमादस्योद्धृतं च यत् ।
अर्घ्यपुष्पैस्तथा धूपलेपनाञ्जनदीपिकैः ॥ ४० ॥

तद्वीर्यमूष्मणा सार्धं तस्मिन्परिणतं स्मरेत् ।
तेन तं भावयेत्तृप्तमतीव मुनिसत्तम ॥ ४१ ॥

सर्वेषामन्नवीर्यं हि एवं परिणतं नयेत् ।
{{२५८}}
[पितृसन्तर्पणमन्त्रः]
प्रणवेनामृतेनैव व्योमेशेनान्वितेन तु ॥ ४२ ॥
विश्वास-प्रस्तुतिः
स्वनाम्ना च स्वधाऽन्तेन ततो नारायणात्मने ।
तदन्ते तु नमस्कुर्यान्मन्त्रोऽयं पितृतर्पणे ॥ ४३ ॥

अथाग्नौ होमविधानम्
विश्वास-प्रस्तुतिः
ततो नारायणाग्नौ तु यायादग्रं च नारद ।
तभिन्धनेन शुष्केण सम्बोध्याज्ययुतेन च ॥ ४४ ॥

दक्षिणाग्रान् न्यसेत्तत्र दर्भान्भूयः स्तरोपरि ।
पूर्ववत्पूजयित्वाऽग्निं पितॄन् तेन तु तत्स्थितम् ॥ ४५ ॥

मन्त्रमूर्तिं यजेत्पश्चाद्बलिदानेन वै पुनः ।
त्र्यक्षरेण तु मन्त्रेण दद्यादन्नाहुतित्रयम् ॥ ४६ ॥

मध्येऽग्नि मन्त्रनाथस्य मध्याद्बाह्येऽग्निमध्यतः ।
प्रदक्षिणक्रमेणैव द्वादशाप्याहुतीस्ततः ॥ ४७ ॥

मूर्तिमन्त्रात्तु वर्णेन एकैकेन तु नारद ।
ओमादिना स्वधाऽन्तेन ततोऽस्त्रेण तथा बहिः ॥ ४८ ॥

अथ पितृभ्यः पिण्डदानविधानम्
विश्वास-प्रस्तुतिः
प्रदक्षिणे च प्रागादौ स्तरस्योपरि सोदकम् ।
दत्वा बल्य(?)ष्टकं चाथ अग्नावग्रे तिलं क्षिपेत् ॥ ४९ ॥

हृन्मन्त्रेण पुरा विप्र पितृभ्यस्तत्र वै क्रमात् ।
गायत्र्या च स्वनाम्ना वै स्वधायुक्तेन पूर्ववत् ॥ ५० ॥

पाणिना त्वपसव्येन बलिदानं समाचरेत् ।
तद्वीर्यं पूर्ववत्तेषां पितॄणां परिभावयेत् ॥ ५१ ॥

तिलोदकं ततो दद्यादाद्यन्तेन हृदा द्विज ।
स्वधाप्रणवयुक्तेन नाम्ना गोत्रान्वितेन च ॥ ५२ ॥

राजाऽथ(?)सगुणध्यानचेतसा भावितेन वै ।
अग्रतो मन्त्रमूर्तौ तु वह्नावपि ततः क्रमात् ॥ ५३ ॥

अथ पितॄणामन्नसंविभजनविधानम्
विश्वास-प्रस्तुतिः
पूजयेदुपविष्टांश्च पुष्पधूपानुलेपनैः ।
नैवेद्यहुतशेषं च तेषामन्नं विभज्य च ॥ ५४ ॥

{{२५९}}
विश्वास-प्रस्तुतिः
व्यञ्जनादिफलोपेतं यत्किञ्चित्साधितं पुरा ।
स्वधान्वितेन मूलेन मूर्तिना भूषितेन तु ॥ ५५ ॥

पात्रं पूर्णेन्दुवद्ध्यायेत्तन्मध्ये तं तु संस्मरेत् ।
मन्त्रेशममृताकारं तृप्तिसञ्जननं महत् ॥ ५६ ॥

भुञ्जानेषु पितृषु जपध्यानविधानम्
विश्वास-प्रस्तुतिः
भुञ्जानेषु तथैतेषु दश दिक्ष्वस्त्रमास्मरेत् ।
जपेत् ध्यायेच्च मन्त्रेशं नारसिह्मं महामुने ॥ ५७ ॥

भोजनान्ते दक्षिणादानम्
विश्वास-प्रस्तुतिः
भक्त्या सम्प्रीणयद्देवं दद्याच्छक्त्या च दक्षिणाम् ।
नैवेद्यमपि सन्धार्यं तावदेव हि नारद ॥ ५८ ॥

यावद्भुजिक्रियान्तस्तु तदन्ते प्रतिपाद्य च ।
शेषान्नसंविभजनम्
स्वं स्वमेव हि सर्वस्य अन्नस्याभ्यागतस्य च ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तेषु वा संविभज्यादौ एकं तत्रैव वर्जयेत् ।
यत्पिताअमहनाम्ना तु हरेः पूर्वं निवेदितम् ॥ ६० ॥

तद्गृहाश्रमिणो दद्यात् जायायां सुतवृद्धये ।
अथ पूर्णाहुतिं दद्याद्देवदेवं विसृज्य च ॥ ६१ ॥

उपसंहृत्य चैवाग्रे ———————————— ।
नारदः
कव्यं श्राद्धविधानं तु इदं ज्ञातं मया विभो ॥ ६२ ॥
और्ध्वदेहिकसञ्ज्ञं तु ज्ञातुमिच्छामि वै प्रभो ।
श्रीभगवान्
संस्कृत्य वैष्णवं प्रेतं विधिदृष्टेन कर्मणा ॥ ६३ ॥
प्रेतश्राद्धविधानम्
तत्र प्रथमेऽहनि कर्तव्यविधिः
विश्वास-प्रस्तुतिः
ततस्तस्य क्रिया कार्या स्वाश्रमे वा जलाशये ।
दिक् विदिक् सिह्ममन्त्रं तु सास्त्रं न्यस्य पुरा ततः ॥ ६४ ॥

तदन्तरे कुटिं ध्यायेद्वर्ममन्त्रं स्वमुद्रया ।
कृतन्यासं ततोऽस्त्रेण प्रोक्षयेदस्त्रवारिणा ॥ ६५ ॥

{{२६०}}
विश्वास-प्रस्तुतिः
उत्तराभिमुखां चुल्लीं तत्रास्त्रेणानलं क्षिपेत् ।
वर्मणाऽभिनवां स्थालीं क्षालयित्वोपलिप्य च ॥ ६६ ॥

हृदयेनाम्भसाऽपूर्य तेनैव क्षाल्य तण्डुलम् ।
समारोप्य च संसाध्य गायत्र्या तं चरुं द्विज ॥ ६७ ॥

मधुक्षीराज्यसम्मिश्रं सिद्धमुत्तारयेत्ततः ।
आमूलादस्त्रपर्यन्तैस्तन्मन्त्रैरभिमन्त्र्य च ॥ ६८ ॥

वीक्षमाणो दिशं ह्यग्नेस्ततोऽस्त्रेणोपलिप्य च ।
मण्डलं भूतले रम्ये केशकण्टकवर्जिते ॥ ६९ ॥

कृत्वाऽर्घ्यपात्रं तदनु प्रोक्षयेत्तज्जलेन तु ।
तत्रास्त्रेण तिलान् दर्भान्विकिरेन्मध्य(?)मिश्रितान् ॥ ७० ॥

तत्र भद्रासनं चैवावतार्यास्त्राभिमन्त्रितम् ।
तत्रोपर्यथवा भूमौ मन्त्रपीठं प्रकल्पयेत् ॥ ७१ ॥

निष्कलं लययागेन मन्त्रेशं पूजयेत्ततः ।
अर्घ्यपुष्पादिना पूर्वं विना न्यासक्रमेण तु ॥ ७२ ॥

वह्निपूजावसानं च शश्वन्नातीव विस्तरम् ।
हृन्मन्त्रमन्त्रिते पात्रे राजते वाऽथ ताम्रके ॥ ७३ ॥

चरुस्थमुद्धरेदन्नं पात्राभावे च पिण्डवत् ।
संस्थाप्य भगवत्यग्रे हृन्मन्त्रेण तु नारद ॥ ७४ ॥

ततो नैवेद्यमध्यस्थं हृद्बीजं प्रणवान्वितम् ।
प्रेतनाम्ना समायुक्तं नमस्कारपदान्वितम् ॥ ७५ ॥

प्रेतरूपानुकारं च ध्यात्वाऽतो देवतात्मना ।
स्वधाऽन्तेन स्वनाम्ना वै पूजयेत्तदनन्तरम् ॥ ७६ ॥

अर्घ्यपुष्पैस्तथा दीपैर्लेपनाभ्यञ्जनाञ्जनैः ।
वाससा मधुपर्केण अन्नेन त्वर्हणादिना ॥ ७७ ॥

तर्पणेनाथ मात्राभिः प्रणम्य परमेशवत् ।
एवं कृत्वा तु मन्त्रेशो निष्कलस्तत्र यः स्थितः ॥ ७८ ॥

लयदेहश्च विप्रेन्द्र तं किञ्चित् खप्लुतं स्मरेत् ।
ततस्तिलेन मधुना दध्नाऽन्नेनोदकेन तु ॥ ७९ ॥

{{२६१}}
विश्वास-प्रस्तुतिः
पूरयित्वाऽञ्जलिं पात्रं राजतं वाऽर्घ्यसंयुतम् ।
नैवेद्यस्यापसव्येन परितः प्रक्षिपेद्बहिः ॥ ८० ॥

नमस्कृत्य यथान्यायं क्षान्त्वा चाथावसज्य च ।
मुद्रया सह मन्त्रेण पूर्वोद्दिष्टेन नारद ॥ ८१ ॥

पूर्णं हृदाऽम्भसा कृत्वा कलशं सतिलं द्विज ।
नैवेद्यान्नसमायुक्तं ब्राह्मणस्य निवेद्य च ॥ ८२ ॥

गोषु वा तदभावाच्च तदभावे जले क्षिपेत् ।
ततस्तिलोदकं दत्वा हृन्नाम्ना तु स्वधां सह ॥ ८३ ॥

प्रक्षाल्य पाणिपादं तु आचम्य तदनन्तरम् ।
संहृत्य पीठन्यासं तु पूजास्थानं द्विजाम्भसा ॥ ८४ ॥

प्लावयित्वोपलिप्याऽथ कृतन्यासो विशेद्गृहान् ।
पूर्ववत्कृतरक्षस्तु भुञ्जीयात् पावनं लघु ॥ ८५ ॥

तदन्ते नृहरिं ध्यायेद्यथाशक्ति तु सञ्जपेत् ।
दिनान्तेऽस्त्रेण सिद्धार्थान् क्षिप्त्वा शयनमाचरेत् ॥ ८६ ॥

विधानमेतदखिलमाचर्तव्यं प्रयत्नतः ।
द्वितीयदिनमारभ्य यावद्दशमदिनं कर्तव्यविधिः
दिनानि दश मेधावी प्रेतानुग्रहकाम्यया ॥ ८७ ॥
विश्वास-प्रस्तुतिः
आरभ्य शिरसो यावदस्त्रमन्त्रैस्तु नारद ।
अथोर्ध्वमनिरुद्धादिवासुदेवावसानकम् ॥ ८८ ॥

दशाहमेवं निर्वर्त्त्य प्राप्ते त्वेकादशे दिने ।
एकादशेऽहनि कर्तव्यश्राद्धविधानम्
श्राद्धकर्म तु वै कुर्यात्सम्पन्ने त्वाह्निके सति ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तदर्थमभ्यर्थ्य गुरुं गुरुपुत्रं तु वा द्विज ।
साधकं तदभावात्तु पुत्रकं सामयं तु वा ॥ ९० ॥

प्रागुक्तं यतिपूर्वं वा वैष्णवं त्वेकमेव हि ।
प्रक्षालिताङ्घ्रि स्वाचान्तं कृत्वा तं सम्प्रवेश्य च ॥ ९१ ॥

दत्वासनं तु संस्थाप्य उत्तराभिमुखं तु तम् ।
पूजयेच्च ततो देवं शक्त्यङ्गावयवान्वितम् ॥ ९२ ॥

आचार्यस्य ततो विप्र कुर्यान्मण्डलकं शुभम् ।
{{२६२}}
तत्रासनवरं दद्यात्पूजितं व्याप्तिभावितम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
विनिवेश्याथ वै तत्र प्रेतनाम्नाऽभिमन्त्रितम् ।
पूर्वोक्तेन विधानेन न्यास आवाहनं भवेत् ॥ ९४ ॥

अर्घ्यपाद्ये ततो दद्यान्नामगोत्रेण नारद ।
पुष्पधूपार्चितं कुर्याद्यथाशक्त्यम्बरादिभिः ॥ ९५ ॥

मृतोपकरणं सर्वं तस्यैव विनिवेद्य च ।
अनुज्ञां पूर्ववल्लब्ध्वा पित्रर्थं (प्रेतार्थं ?) यागमारभेत् ॥ ९६ ॥

पूर्वोक्तेन विधानेन किञ्चित्तत्रापि चोच्यते ।
नैवेद्यपिण्डं गायत्र्या निवेद्यामृतगोलवत् ॥ ९७ ॥

ध्यात्वाह्लादकराकीर्णं स्थितं धामत्रयोपरि ।
तन्मध्ये मूलमन्त्रेण स्वधाशब्दान्वितेन तु ॥ ९८ ॥

मूर्तिं प्रेतमयीं ध्यायेन्नारायणकलोद्भवाम् ।
लक्ष्म्याद्यमखिलं तत्र लयन्यासं प्रकल्पयेत् ॥ ९९ ॥

तमर्घ्याद्यैरथो भोगैर्मूलमन्त्रेण पूजयेत् ।
मुद्रां बध्वा जपित्वा च वह्निस्थे चाग्रतो हरेः ॥ १०० ॥

दक्षिणाग्रेषु दर्भेषु एकमेव समाचरेत् ।
तिलोदकान्तं सकलमाचार्यं भोजयेत्ततः ॥ १०१ ॥

भुञ्जानस्य मुने तस्य अग्रस्थो नृहरिं जपेत् ।
तद्भोजनावसाने नु मन्त्रपीठस्य चाग्रतः ॥ १०२ ॥

अर्घ्यपात्रेण विप्रेन्द्र भूयो दद्यात्तिलोदकम् ।
भुक्तशेषं तु सिद्धान्नं गृहीत्वाऽर्घ्योदकान्वितम् ॥ १०३ ॥

भूतानां तर्पणार्थाय विकिरेत्पूर्ववद्बलिम् ।
सन्तृप्तस्याग्रतश्चैव हृन्मन्त्रेणामृतेन तु ॥ १०४ ॥

परमेश्वरयुक्तेन नमोऽन्तेनामलादिना ।
सम्पन्नमिति सम्पृष्ट्वा दद्यादाचमनं ततः ॥ १०५ ॥

उच्छिष्टमुपसंहृत्य अस्त्रेणाभ्युक्षयेत्क्षितिम् ।
भगवत्प्रीणनं कुर्याद्गृहीत्वा दक्षिणां तु वै ॥ १०६ ॥

वह्निस्थस्य तु मन्त्रस्य दद्यात्पूर्णाहुतिं द्विज ।
हृदयाम्बुजमध्ये तु तेजःपुञ्जप्रभं महत् ॥ १०७ ॥

{{२६३}}
विश्वास-प्रस्तुतिः
मन्त्रेशमुपसंहृत्य पीठपिण्डाग्निमध्यगम् ।
विधिनाऽनेन वै कुर्यान्मासं मासं महामुने ॥ १०८ ॥

अथ प्रेतत्वनिवर्तकमाब्दिकश्राद्धम्
विश्वास-प्रस्तुतिः
वत्सरे चैव निष्पन्ने मासे चैव त्रयोदशे ।
प्रेतत्वस्योपशान्त्यर्थं पितृश्राद्धं समाचरेत् ॥ १०९ ॥

स्नानाद्यं होमपर्यन्तं कुर्यादादौ द्विजाह्निकम् ।
संस्कृतेऽग्नौ तु सिद्धेऽग्नौ घृतक्षीरमधुप्लुते ॥ ११० ॥

आहूय भगवद्भक्तानाचार्यांश्च क्रियापरान् ।
चतुरोदङ्मुखान् न्यस्य पीठन्यासक्रमेण तु ॥ १११ ॥

द्वावन्यौ पूर्ववक्त्रौ च विनिवेश्यासनद्वये ।
चतुर्णामनिरुद्धाद्यैर्मन्त्रैर्न्यासं समाचरेत् ॥ ११२ ॥

मूलीयमङ्गषट्कं तु ह्येकैकस्याथ विन्यसेत् ।
आपादान्मूर्धपर्यन्तं द्वाभ्यामस्त्रं तु देहगम् ॥ ११३ ॥

जातियुक्तं तदेवास्त्रं स्वसञ्ज्ञापरिभूषितम् ।
ताभ्यां षडङ्गन्यासार्थं कृत्वा देहे करे न्यसेत् ॥ ११४ ॥

यदर्थं क्रियते श्राद्धं सञ्ज्ञा तस्यानिरुद्धकी ।
पितुः सञ्ज्ञां च विन्यस्य प्रद्युम्नस्यामितात्मनः ॥ ११५ ॥

सङ्कर्षणं तु मन्त्रेशं कल्पयेच्च पितामहम् ।
प्रपितामहसञ्ज्ञं तु वासुदेवं प्रकल्पयेत् ॥ ११६ ॥

विधिनाथाप्ययाख्येन अर्घ्यपुष्पादिभिर्यजेत् ।
प्रार्थयित्वा ततोऽनुज्ञां मन्त्रेशं प्रतिमागतम् ॥ ११७ ॥

विभवेनार्चयित्वा तु स्नानाद्येन महामते ।
चन्दनाभरणस्रग्भिर्वस्त्रैर्धूपैस्तथाऽञ्जनैः ॥ ११८ ॥

दीपेन मधुपर्केण परमान्नेन मात्रया ।
स्तोत्रमन्त्रनमस्कारैः सुमनोभिरनन्तरम् ॥ ११९ ॥

तमेवानलमध्ये तु सन्निधीकृत्य पूजयेत् ।
ततोऽस्त्रमन्त्रजप्तेषु पात्रेषूद्धृत्य भक्तितः ॥ १२० ॥

पितृसन्धानसिद्ध्यर्थं नैवेद्यान्नचतुष्टयम् ।
व्यञ्जनादिसमायुक्तं मध्वाज्यतिलभावितम् ॥ १२१ ॥

{{२६४}}
विश्वास-प्रस्तुतिः
सम्प्रोक्ष्य चानिरुद्धाद्यैर्मूलमन्त्रेण वै विभोः ।
संहारक्रमयोगेन एकैकं विनिवेद्य च ॥ १२२ ॥

ततोऽन्नपात्रमेकैकमानयेत्संस्कृतं पुरा ।
तथारूपं तु तं ध्यायेच्चतुर्धा भेदभावितम् ॥ १२३ ॥

बहुभिन्नाऽन्नशक्तिभ्य उत्तरोत्तरतां गताः ।
अनिरुद्धादिभेदेन वासुदेवावसानतः ॥ १२४ ॥

रसशक्तिश्च या चासौ साऽनिरुद्धो महामते ।
प्रद्युम्नो वीर्यशक्तिः स्यात् धृतिशक्तिस्ततोऽच्युतः ॥ १२५ ॥

आनन्दशक्तिर्याऽन्नोत्था वासुदेवस्तु स स्मृतः ।
एवं स्मृत्वा ततो ध्यात्वा मन्त्रैः स्वैः स्वैः पृथक् पृथक् ॥ १२६ ॥

न्यासमन्नशरीराणां देवानां विद्धि पूर्ववत् ।
हृदाद्यस्त्रावसानं च एवं मूर्तिमयं द्विज ॥ १२७ ॥

तन्नैवेद्यचतुष्कं तु लोलीभूतं गतं त्वपि ।
मन्त्रमित्यन्नभेदेन अर्घ्यपात्रादिना यजेत् ॥ १२८ ॥

नामगोत्रादिना प्राग्वद्देवेशं प्रीणयेत्ततः ।
ततोऽग्निस्थाच्युतस्याग्रे तृप्तस्याज्यादिना पुरा ॥ १२९ ॥

एवमेव चतुर्धा वै कृत्वा चान्नमयीं क्रियाम् ।
तत्रापि प्रीणनं कृत्वा पितृनाथस्य वै प्रभोः ॥ १३० ॥

त्वदग्रे प्रीतये पीत्वा पितृयागमिदं मया ।
कृतं मन्त्रात्मने हि त्वां — स्वधा ॐ नमोनमः(?) ॥ १३१ ॥

हृन्मन्त्रेण ततो दद्यादेकैकस्य तिलोदकम् ।
अग्रतोऽन्नशरीरस्य मन्त्रमूर्त्यात्मनः पितॄन् ॥ १३२ ॥

अथाप्ययेन विधिना अन्नवीर्यमयान्पितॄन् ।
देवतामन्त्रचैतन्ये शान्तभावं गतान्स्मरेत् ॥ १३३ ॥

कर्मवाङ्मनसाभ्यां च यथा तदवधारय ।
किञ्चिच्च पूर्वं नैवेद्यादादायान्नं तु पाणिना ॥ १३४ ॥

तदूर्ध्वस्थेऽन्नकवले पूर्वमुच्चार्य मेलयेत् ।
नामगोत्रावसानं च पितृमन्त्रं पुरोदितम् ॥ १३५ ॥

अधीशमन्त्रं तदनु स्वधाम्नि व्रज वै पदम् ।
{{२६५}}
नमस्कारान्वितेनैवमुक्त्वैवं भावयेत्ततः ॥ १३६ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नात्मनि संलीनमन्नवीर्यं(र्ये ?) शशिप्रभम्(भे ?) ।
पितरं(?) तारकाकारमनिरुद्धं ज्वलत्प्रभम् ॥ १३७ ॥

चिद्धर्मविभवोपेतमेवं कृत्वा ततो द्विज ।
मेलयेद्विधिनाऽनेन अन्नं प्रद्युम्नभावितम् ॥ १३८ ॥

सङ्कर्षणे महाधाम्नि वासुदेवे च तं पुनः ।
वासुदेवोऽपि भगवान् परस्मिन्नव्यये पदे ॥ १३९ ॥

शान्तेऽनन्ते तु पूर्वोक्ते यत्रस्थो न भवेत्पुनः ।
कृत्वैवं पितृसन्धानं हरेरग्रेऽग्निसन्निधौ ॥ १४० ॥

भोजनं च ततो दद्यात्पूजितानां पुरा द्विज ।
यथाक्रमं ततः पृच्छेत्तृप्तिमन्नपरां तु तान् ॥ १४१ ॥

स्वाचान्तानन्ततो दद्याद्विष्णोरग्रे तु दक्षिणाम् ।
हृन्मन्त्रेण तु तैर्वाच्या प्रीतिर्नारायणी परा ॥ १४२ ॥

ततः पूर्णाहुतिं दद्यात् क्षन्तव्यो द्विज मन्त्रराट् ।
पैतामहान्नशेषस्य जायायै प्रदानम्
प्राग्वन्ममेति(?)नैवेद्यं मूलमन्त्राभिमन्त्रितम् ॥ १४३ ॥
विश्वास-प्रस्तुतिः
प्रयतायां तु जायायां दद्यात् क्षीराज्यभावितम् ।
सुतत्वेन तु संसिद्धिं तत्कुक्षौ चोपयान्ति च ॥ १४४ ॥

अथ तेनोदकेनैव लक्ष्मीसौभाग्यभाजनम् ।
शेषान्नसंविभजनम्
ज्ञानधर्मक्रियासक्तस्सत्यव्रतपरायणः ॥ १४५ ॥
नियोजनादि वै कुर्यान्नैवेद्यस्यैव पूर्ववत् ।
पितॄणां विसर्जनप्रकारः
पादा(द्या ?)र्घ्यपात्रमुत्पाद्य हृन्मन्त्रेण तु वै पुरा ॥ १४६ ॥
स्वमन्त्रेण पितॄन्सर्वांस्तत्रस्थान् खगतान् स्मरेत् ।
नेत्रावमार्जनम्
अथ तेनोदकेनैव नेत्रमन्त्रेण लोचने ॥ १४७ ॥
{{२६६}}
विश्वास-प्रस्तुतिः
अवमार्ज्योदकं तद्वै स्थाने निक्षिप्य पावने ।
इति मन्त्रमयश्राद्धं कुरुते सुगतिप्रदम् ॥ १४८ ॥

गुर्वादिश्राद्धस्य समयज्ञादिभिः कर्तव्यता
विश्वास-प्रस्तुतिः
समयज्ञादिकैः कार्यं गुरूणामात्मसिद्धये ।
पित्रादीनां च स्वसुतैर्गुरुभिश्चानुकम्पया ॥ १४९ ॥

समयव्रतपूर्वाणां शिष्याणां भावितात्मनाम् ।
यद्यप्यनुप्रयोज्यं स्याच्छ्राद्धं सद्दीक्षितस्य च ॥ १५० ॥

क्रियासञ्ज्ञेन तत्रापि कार्यमात्महिताप्तये ।
दीक्षासममिदं श्राद्धं कुगतेः सुगतिप्रदम् ॥ १५१ ॥

सदैव दीक्षितानां च यागे यज्ञे च वैष्णवे ।
तस्मात्सर्वप्रयत्नेन यथालब्धेन केनचित् ॥ १५२ ॥

वस्तुनाऽपि पवित्रेण इदं श्राद्धं समापयेत् ।
श्राद्धानुष्ठानस्य प्रशंसा
कदन्नेन कुदेशे च अपात्रे चापि नारद ॥ १५३ ॥
विश्वास-प्रस्तुतिः
ध्यानविज्ञानमन्त्राद्यैः सम्पाद्यं विद्धि शाश्वतम् ।
देशकाले तथा पात्रे श्रद्धापूतं तु किं पुनः ॥ १५४ ॥

वैष्णवः परमं पात्रं देश आयतनं हरेः ।
द्वादशी सर्वकालानामुत्तमा परिकीर्तिता ॥ १५५ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां श्राद्धविधानं नाम
त्रयोविंशः पटलः ॥ २३ ॥