२२ वैष्णवाचार-लक्षणम्

अथ वैष्णवाचारलक्षणं नाम द्वाविंशः पटलः

नारदः –

यतिप्रभृतीनां वैष्णवानांस्वरूपप्रश्नः

विश्वास-प्रस्तुतिः

श्रोतुमिच्छामि भगवन्वैष्णवानां च लक्षणम् ।
सर्वेषां यतिपूर्वाणामाचारं च विशेषतः ॥ १ ॥

मूलम्

दानं प्रदानं द्विविधं येषामुक्तं त्वया फलम् ।
तानहं तु कथं नाम वेद्मि वै लक्षणं विना ॥ २ ॥

श्रीभगवान् –

भागवतधर्मैकनिष्ठानां साम्येऽपि भेदे कारणम्

भगवद्धर्मतन्त्राणां पञ्चकालनिषेविणाम् ।
{{२४८}}

अप्रतिग्राहकाणां च कणभिक्षाभिवर्तिनाम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

बाह्याभ्यन्तरतुल्यानां श्रद्धासंयमसेविनाम् ।
नारायणैकनिष्ठानां येऽस्मिन्जाता महाकुले ॥ ४ ॥

ऊनाधिकेन विप्रेन्द्र कर्मणाऽनुष्ठितेन च ।
कालह्रासवशाच्चैव वैषम्यमुपयान्ति च ॥ ५ ॥

यतीनां लक्षणम्

विश्वास-प्रस्तुतिः

संस्कृताश्च निषेकाद्यैः पित्रा वा गुरुणा त्वनु ।
स्वयं विवेकभावस्था ब्रह्मचारिगुणैर्युताः ॥ ६ ॥

सर्वभूतस्थितं विष्णुं पश्यन्त्यमलया धिया ।
सर्वे भूतास्तदन्तस्था भावयन्तीति सर्वदा ॥ ७ ॥

कर्मणा मनसा वाचा यजन्त्येकमधोक्षजम् ।
आद्यद्विजेन्द्रवेश्मभ्यस्तदभावान्महामते ॥ ८ ॥

षट्कर्मरतविप्रेभ्यो नित्यं चायाचितेन तु ।
सिद्धान्नेन च वर्तन्तो मुण्डितश्मश्रुमस्तकाः ॥ ९ ॥

काषायवासोधर्त्तारो दण्डमात्रपरिग्रहाः ।
ते विप्रा यतयः शुद्धाः सत्वस्था वैष्णवाः स्मृताः ॥ १० ॥

एकान्तिलक्षणम्

विश्वास-प्रस्तुतिः

भ्रान्त्वा मिक्षां च षट्कर्मनिरतेभ्यस्तु सत्कृताम् ।
अपरिग्रहवान्यो वै तया सम्पूजयेत्प्रभुम् ॥ ११ ॥

पुमान्गोप्तारमव्यक्तमष्टाङ्गविधिना महत् ।
गुणिना सह शिष्येण वसत्येको विचारधीः ॥ १२ ॥

कुलक्रमेणाधिकारी स एकान्तीह वैष्णवः ।

वैखानसलक्षणम्

यः परिग्रहवान्विप्रः पूजयेत्परमेश्वरम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

याचितेन द्रिजेन्द्राच्च प्राप्तेनायाचितेन तु ।
धनेन क्षत्रियाद्वैश्यात्कुटुम्बमपि पालयन् ॥ १४ ॥

विद्धि वैखानसः सोऽपि जटी छत्री सिताम्बरः ।

कर्मसात्त्वतस्य लक्षणम्

मुख्यत्वेन क्रियार्थं यः कुटुम्बस्य च पालने ॥ १५ ॥

{{२४९}}

विश्वास-प्रस्तुतिः

आत्मनो भरणे चापि इत्यु(उद्यु?)क्तश्चोपसर्पति ।
वृत्त्यर्थमपि राजानं स विप्रः कर्मसात्त्वतः ॥ १६ ॥

शिखिनो लक्षणम्

विश्वास-प्रस्तुतिः

स्फुरत्यविरतं यस्य वैष्णवं यजनं हृदि ।
प्राधान्येनाथ पित्र्यादि तदर्थं कृषिपूर्वकम् ॥ १७ ॥

समाचरति वै कर्म शिखी साक्षाद्विजोत्तमः ।
मय्यपेक्षावशेनैव यद्यप्युत्कृष्टतां गतः ॥ १८ ॥

तथापि चातुराश्रम्यं सर्वेषां विहितं सदा ।

[वैखनसादिभ्यो वैष्णवेभ्यो
भगवत्पूजनशेषभूतवृत्तिप्रदानां फलविशेषः]

भगवत्पूजनार्थं तु त्रणायां यः प्रयच्छति ॥ १९ ॥

विश्वास-प्रस्तुतिः

मठं सायतनं कृत्वा वृत्तिपूर्वमकण्टकम् ।
दासीकर्मकरोपेतं शुद्धवेदवरान्वितम् ॥ २० ॥

ते यान्ति भगवत्स्थानं भक्तानां सदनं महत् ।

गृहस्थेभ्यो वैष्णवेभ्यो ग्रामादिदाने फलम्

भगवद्यजनार्थं वा सात्त्विकेन तु चेतसा ॥ २१ ॥

विश्वास-प्रस्तुतिः

मठायतनभिन्नं च ग्रामभूद्रविणं महत् ।
गृहाश्रमरतानां च वैष्णवानां निवेदयेत् ॥ २२ ॥

न्यायोपायविधिप्राप्तं यस्स मोक्षमवाप्नुयात् ।

ब्राह्मणादन्यतो वृत्तिग्रहणप्रतिषेधः

अलाभाच्चैव भिक्षाणामसामर्थ्यात्तथाऽत्मनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

स्वकर्मणि ह्यलोपार्थं पुत्रादेर्भरणाय च ।
अत्यापद्यपि जातायां कुटुम्बी वैष्णवो द्विजः ॥ २४ ॥

ब्राह्मणादेव गृह्णीयाद्वृत्तिं देवमठाश्रिताम् ।
केवलां ग्रामपूर्वां वा याचितायाचितात्तथा ॥ २५ ॥

आप्रभातान्निशान्तेन कर्मणा वैष्णवेन च ।
क्रियमाणेन तदुत तदर्थमघमेति वै ॥ २६ ॥

मूलम्

आप्रभातान्निशान्तेन कर्मणा वैष्णवेन च ।
क्रियमाणेन तदुत तदर्थमघमेति वै ॥ २६ ॥

विश्वास-प्रस्तुतिः

इत्येतद्यतिपूर्वाणां वैष्णवानां च लक्षणम् ।
कथितं मुनिशार्दूल आप्तादीनामथो शृणु ॥ २७ ॥

आप्तलक्षणम्

ये यजन्ति क्रमाद्देवं पञ्चकाल्येन कर्मणा ।
{{२५०}}

द्विजातीनां चतुर्णां तु अधिकारं ददत्यपि ॥ २८ ॥

विश्वास-प्रस्तुतिः

शुद्धे तु भगवन्मार्गे सत्त्वस्थास्सात्त्वताश्च ते ।
असङ्कीर्णा द्विजश्रेष्ठ ब्रह्मरुद्रेन्द्रपूर्वकैः ॥ २९ ॥

विशेषदेवतायागैरमुख्यैर्नातिनिर्मलैः ।
वासुदेवं विना [चातुरात्म्यं त] त्प्रभवादिना ॥ ३० ॥

सन्न्यासकर्म (कर्मसन्न्यास ?) योगेन फलसम्पद्विनैव हि ।
वेदान्तविधि(न्तार्थवि ?)शेषज्ञाश्चतुर्णामुपरि स्थिताः ॥ ३१ ॥

मोक्षार्थमपि विप्रेन्द्र स्थितास्तेऽञ्जलिकारिणः ।
प्रतिभात्यधिकं येषां यत्स्यात्संस्थापने हरेः ॥ ३२ ॥

धनं समार्ज्य यत्नेन प्रतिष्ठामचरन्ति ये ।
वैष्णवीं भक्तियुत्केन चेतसा कीर्तयन्ति च ॥ ३३ ॥

भगवद्भाविनो विप्रा इत्याप्तास्समुदाहृताः ।

अनाप्तलक्षणम्

वर्णधर्ममनुज्झित्य ह्याप्तादिष्टेन कर्मणा ॥ ३४ ॥

यजन्ति श्रद्धया देवमनाप्तास्ते प्रकीर्तिताः ।

आरम्भिलक्षणम्

विना तेनार्थसिध्यर्थं विश्वात्मानं यजन्ति ये ॥ ३५ ॥

आरम्भिणस्ते बोद्धव्या वैष्णवा ब्राह्मणादयः ।

सम्प्रवर्तिलक्षणम्

श्रद्धया ये प्रवर्तन्ते स्वयं सम्पूजने हरेः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अमार्गेण तु विप्रेन्द्र विद्धि तान्सम्प्रवर्तिनः ।
लिङ्गैरेतैस्तु बोद्धव्यास्सदैवाप्तादयो मुने ॥ ३७ ॥

अथातो योगिपूर्वाणां वैष्णवानां समासतः ।
विप्रादिमौद्गलान्तानां लक्षणं चावधारय ॥ ३८ ॥

योगिनां लक्षणम्

विश्वास-प्रस्तुतिः

शय्यासनपथिस्थश्च हृद्गतं संस्मरेत्प्रभुम् ।
निष्कलादिप्रभेदेन अथवायतने हरेः ॥ ३९ ॥

{{२५१}}

विश्वास-प्रस्तुतिः

निमीलिताक्षोपविष्टस्समाधिं चाभ्यसेत्सदा ।
नमो नारायणायेति वासुदेवेति वा वदेत् ॥ ४० ॥

कर्मणा मनसा वाचा नानिष्टं कस्यचित्स्मरेत् ।
लिङ्गैरेतैस्तु बोद्धव्या भगवद्योगसेविनः ॥ ४१ ॥

जपनिष्ठानां लक्षणम्

विश्वास-प्रस्तुतिः

यो नु शुद्धश्शान्तमना दण्डी काषायवस्त्रभृत् ।
भगवद्भाविजन्तूनां साभिलाषं निरीक्षते ॥ ४२ ॥

पौत्रदीपकपद्माक्षस्फाटिकेनामलेन वा ।
गणित्रेण करस्थेन भजमानो जपेद्धरिम् ॥ ४३ ॥

मनसा मुनिशार्दुल विष्णोरर्चापरः स्थितः ।
जपेदुपांशुना मन्त्रमादराद्वा स्तुतिं पठेत् ॥ ४४ ॥

जपनिष्ठं तु तं विद्धि वैष्णवे शासने स्थितम् ।

तापासलक्षणम्

यत्किञ्चिद्व्रतमातिष्ठेत्तत्तद्भगवदाश्रितम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

चान्द्रायणपराकादीनेकादश्यादिकं चरेत् ।
सदैवायतने विष्णोस्तदभावे गृहस्थितः ॥ ४६ ॥

उत्तिष्ठन्संस्मरेद्विष्णुमुपविष्टस्तथैव च ।
मासोपवासी भिक्षाशी विष्ण्वायतनलोलुपः ॥ ४७ ॥

व्रतान्ते पत्रपुष्पाद्यैः पूजयेद्भगवन्मयान् ।
औदकीमाचरेच्छुद्धिमेकद्वित्रिजलाप्लवः ॥ ४८ ॥

क्षालनं वसनाभ्यां वा ताभ्यां वा परिवर्तनम् ।
समीपवर्तिनां(नो ?)नित्यमुद्धोधयति यत्नतः ॥ ४९ ॥

नक्तोपवासपूजायामेकादश्यां प्रयत्नतः ।
यस्त्वेवमादि सततमाचरेत्प्रयतात्मवान् ॥ ५० ॥

वैष्णवस्तापसः प्रोक्तः पयोमूलफलाशनः ।

शास्त्रज्ञलक्षणम्

पुराणं धर्मशास्त्राणि इतिहासांश्च वैष्णवान् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

वेत्ति वेदान्तसिद्धान्तान् शृणुयाद्व्याकरोत्यपि ।
प्रणष्टपाठवाक्यानां कृत्वा वस्तुविचारणम् ॥ ५२ ॥

{{२५२}}

विश्वास-प्रस्तुतिः

तज्ज्ञैस्सह प्रयत्नाद्वै ह्यागमं संस्करोति यः ।
अतन्द्रितः सदा विद्धि तं शास्त्रज्ञं हि वैष्णवम् ॥ ५३ ॥

शास्त्रधारकलक्षणम्

विश्वास-प्रस्तुतिः

श्रद्धया यः समुच्चित्य यत्र कुत्रचिदागमम् ।
ब्रह्म ध्यायंस्तथा पश्चात्सन्धारयति यत्नतः ॥ ५४ ॥

पूजयत्यर्घ्यपुष्पाद्यैश्शास्त्रापीठं क्रमेण तु ।
ददाति वैष्णवानां च गोपयत्यकृतात्मनाम् ॥ ५५ ॥

अन्यदर्शनभत्कानां विद्धि तं शास्त्रधारकम् ।
इत्येतत्कथितं विप्र वैष्णवानां च लक्षणम् ॥ ५६ ॥

उक्तलक्षणलक्षितानां वैष्णवानां यागपूजार्हत्वविधानम्

विश्वास-प्रस्तुतिः

यजस्व पूजयस्वैतान् भक्त्या भावेन नारद ।
समुद्दिश्य निमित्तं यच्छ्राद्धं यजति वैष्णवे ॥ ५७ ॥

यत्यादिपञ्चकेवाऽथ ह्यनाप्ते ब्राह्मणे द्विज ।
तस्मिन्नञ्जलिकारे वाऽरम्भिणेऽथ प्रवर्तिने ॥ ५८ ॥

तदक्षयं पितॄणां तु विशेषान्मन्त्रसंस्कृतम् ।
षडेतेऽर्हाश्च विप्रेन्द्र पितृकर्मणि सर्वदा ॥ ५९ ॥

जपहोमव्रतादीनामासत्काः षडिमे त्वपि ।
दानकर्मणि दिव्ये च प्रायः क्षत्रादयः स्मृताः ॥ ६० ॥

भवन्ति यादृशाश्चैव तापसा जपिनस्तु वा ।
दैवे पित्र्ये द्विजश्रेष्ठ योगी चार्हति सर्वदा ॥ ६१ ॥

यद्वयः पूर्णमासीत्तु किं तु योगपरो यदि ।
तस्य ब्रह्ममयो देहो विशेषाद्वैष्णवस्य च ॥ ६२ ॥

तस्मात्स पूजनीयो हि यथाशक्ति च सर्वदा ।
दुर्लभा भगवद्यागा भाविनो भुवि मानवाः ॥ ६३ ॥

तद्दर्शनात्तदालापात्सुलभं शाश्वतं पदम् ।

नारदः –

एको हि श्रूयते देव कालो लोके न चापरः ॥ ६४ ॥

पञ्च कालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः ।

{{२५३}}

श्रीभगवान् –

पञ्चकालभेदः तत्र कर्तव्यकर्मभेदश्च

एकस्यैव हि कालस्य वासरीयस्य नारद ॥ ६५ ॥

विश्वास-प्रस्तुतिः

आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना ।
पृथक्कर्मवशात्कार्या न काला बहवः स्थिताः ॥ ६६ ॥

मूलम्

आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना ।
पृथक्कर्मवशात्कार्या न काला बहवः स्थिताः ॥ ६६ ॥

नारदः –

विश्वास-प्रस्तुतिः

एककालस्थितानां च कर्मणां लक्षणं वद ।
परिज्ञातैस्तु यैस्सम्यक्कृतकृत्यो भवाम्यहम् ॥ ६७ ॥

मूलम्

एककालस्थितानां च कर्मणां लक्षणं वद ।
परिज्ञातैस्तु यैस्सम्यक्कृतकृत्यो भवाम्यहम् ॥ ६७ ॥

श्रीभगवान् –

विश्वास-प्रस्तुतिः

ब्राह्मान्मुहूर्तादारभ्य प्रागंशं विप्र वासरे ।
जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ ६८ ॥

अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् ।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ॥ ६९ ॥

भगवद्यागनिष्पत्तिकारणं प्रहरं परम् ।
तदुपादानसञ्ज्ञं वै कर्मकालपदाश्रितम् ॥ ७० ॥

ततोऽष्टाङ्गेन यागेन पूजयेत्परमेश्वरम् ।
सार्धं तु ? प्रहरं विप्र इज्याकालस्तु स स्मृतः ॥ ७१ ॥

श्रवणं चिन्तनं व्याख्या ततः पाठसमन्विता ।
अध्यायसञ्ज्ञं तं विद्धि कालांशं मुनिसत्तम ॥ ७२ ॥

दिनावसाने सम्प्राप्ते पूजां कृत्वा समभ्यसेत् ।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ ७३ ॥

पञ्चमो योगसञ्ज्ञोऽसौ कालांशो ब्रह्मसिद्धिदः ।

नारदः –

श्रुतो मयाऽखिलः पूर्वं भगवद्याग उत्तमः ॥ ७४ ॥

तस्याङ्गानि विभागेन श्रोतुमिच्छाम्यहं पुनः ।

श्रिभगवान् –

अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ ७५ ॥

तदाद्यमङ्गं यागस्य नाम्नाऽभिमनं महत् ।
{{२५४}}

पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥ ७६ ॥

विश्वास-प्रस्तुतिः

बाह्योपचारैस्तद्विद्धि भोगसञ्ज्ञं तु नारद ।
मध्वाज्याक्तेन दध्ना वै पूजा च पशुनाऽपि वा ॥ ७७ ॥

तत्तृतीयं हि यागाङ्गं तुर्यमन्तेन पूजनम् ।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ ७८ ॥

सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ ७९ ॥

प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् ।
इत्येतत्कथितं सम्यक् यत्त्वया परिचोदितम् ॥ ८० ॥

प्रददात्यचिराद्यद्वै तन्निष्ठानां परं पदम् ।

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां वैष्णवाचारलक्षण नाम
द्वाविंशः पटलः ॥ २२ ॥

यहा तक भेजा गया है